नदी
संस्कृतम्
[सम्पाद्यताम्]- नदी, सरत्, सिंधुः, प्रवाहा, तरंगिणी, उदधि, तोयाधारः, सरस्वती।
नामा
[सम्पाद्यताम्]- नदी नाम जलप्रवाहः।
अनुवदाः
[सम्पाद्यताम्]उदाहरणम्
[सम्पाद्यताम्]- विजयवाडा तः राजमंड्री मार्गे गोदावरि नदि अस्ति।
- मैसूरु मार्गे कावेरी नदी अस्ति।
- गंगा, यमुना, सरस्वती, नर्मदा, सिंधूनदी इति अस्मकं भारतदेशे अस्ति।
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नदी, स्त्री, (नदतीति । नद + अच । पचादिगणे नदट् इति निर्द्देशात् टिड्ढेडि ङीप् ।) अष्ट- सहस्रधनुरन्यूनव्याप्ततोया । सा च गङ्गायमुना- सरस्वतीकावेरीगोदावरीप्रभृतिः । तस्या लक्ष- णमाह छन्दोगपरिशिष्टम् । “धनुःसहस्राण्यष्टौ च गतिर्यासां न विद्यते । न ता नदीशब्दवहा गर्त्तास्ताः परिकीर्त्तिताः ॥” इति तिथितत्त्वम् ॥ तत्पर्य्यायः । सरित् २ तरङ्गिणी ३ शैवलिनी ४ तटिनी ५ ह्रदिनी ६ धुनी ७ स्रोतस्वती ८ द्वीपवती ९ स्रवन्ती १० निम्रगा ११ आपगा १२ । इत्यमरः । १ । १० । ३० ॥ ह्रादिनी १३ धुनिः १४ स्रोतस्विनी १५ स्रोतोवहा १६ सागरगामिनी १७ अपगा १८ । इति भरतः ॥ निर्झरिणी १९ सरस्वती २० समुद्रगा २१ कूलङ्कषा २२ कूल- वती २३ शैवालिनी २४ सिन्धुः २५ समुद्र- कान्ता २६ सागरगा २७ कृष्णा २८ रोधो- वती २९ वाहिनी ३० । तज्जलगुणाः । स्वच्छ- त्वम् । लघुत्वम् । दीपनत्वम् । पाचनत्वम् । रुच्यत्वम् । तृष्णापहत्वम् । पथ्यत्वम् । मधु- रत्वम् । ईषदुष्णत्वञ्च ॥ * ॥ “सर्व्वा गुर्व्वी प्राङ्मुखी वाहिनी स्या- ल्लघ्वी पश्चाद्वाहिनी निश्चयेन । देशे देशे तद्गुणा सा विशेषा- न्नैषा धत्ते गौरवं लाघवञ्च ॥ प्रायो मृदुवहा गुर्व्वो लघ्व्यः शीघ्रवहाः स्मृताः । नद्यः पाषाणसिकतावाहिन्यो विमलोदकाः ॥ हिमवत्प्रभवा याश्च जलं तास्वमृतोपमम् ॥ विन्ध्यात् प्राची प्राच्यवाची प्रतीची या चोदीची स्यान्नदी सा क्रमेण । वातारोग्यं श्लेष्मपित्तार्त्तिलोपं पित्तोद्रेकं पथ्यपाकञ्च धत्ते ॥ पारिपात्रभवा याश्च विन्ध्याख्यप्रभवाश्च याः । शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च ॥” इति राजनिर्घण्टः ॥ (यथा च । “तथा प्राच्यां गमाश्चान्याः पश्चिमानुगमास्तथा ।” “ससैकता सपाषाणा द्बिविधा चाम्बुवाहिनी । एवं चतुर्व्विघा नद्यो वातपित्तकफात्मिकाः ॥ सदावहायास्त्वनवद्यमुष्णं मरुत्कफानां शमनञ्च तस्याः । नीरं वसन्ते हितकृद्विशेषात् नदीभवं नैव हिमागमे च ॥ घनविमलशिलानां स्फालनाज्जातफेनं बहुलसजलवीचिच्छन्नसंक्षोभदृप्तम् ।
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नदी स्त्री।
नदी
समानार्थक:नदी,सरित्,तरङ्गिणी,शैवलिनी,तटिनी,ह्रादिनी,धुनी,स्रोतस्विनी,द्वीपवती,स्रवन्ती,निम्नगा,आपगा,कूलङ्कषा,निर्झरिणी,रोधोवक्रा,सरस्वती,भोगवती,सिन्धु,वाहिनी
1।10।29।2।4
खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम्. स्यादालवालमावालमावापोऽथ नदी सरित्.।
: देवगङ्गा, नरकस्थ_नदी, गङ्गा, यमुना, नर्मदा, गौरीविवाहे_कन्यादानोदकाज्जातनदी, कार्तवीर्यावतारित_नदी, शतद्रुः, पापमोचिनी, नदविशेषः, कृत्रिमस्वल्पनदी, शरावती_नदी, वेत्रवती_नदी, चन्द्रभागा_नदी, सरस्वती_नदी, कावेरी_नदी, नदीसङ्गमः, नदीभेदः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नदी¦ स्त्री नद--अच् पचादिगणे नदट् इति निर्देशात् टित्त्वेनङीप्। अष्टसहस्रधनुरन्यूनदेशव्यापिजलायामकृत्रिमायांजलप्रवाहरूपायां गङ्गाप्रभृतौ।
“धनुः सहस्राण्यष्टौ चनतिर्यासां न विद्यते। न ता नदीशब्दवहा गर्त्तास्तेपरिकीर्त्तिताः” छन्दोगप॰ उक्तपरिमाणवतीष्वेवनदीशब्दो रूढः। द्वीपभेदे नदीभेदास्तत्तद्द्वीपशब्देदृश्याः। जम्बूद्वीपस्था नदीभेदाश्च विस्तरेण जम्बू-द्वीपशब्दे
३०
४६ पृ॰ भा॰ भी॰ पर्वोक्ता दर्शिताः। कासा-ञ्चिन्नदीनामुत्पत्तिस्थानादिकं मत्स्यपुराणोक्तं प्रदर्श्यते। (
“प्रागुत्तरेण कैलासाद्दिव्यं सौगन्धिकं गिरिम्। सर्वधातुमयं दिव्यं सुवेलं पर्वतं प्रति। चन्द्रप्रभो नामगिरिः स शुभ्री रत्नसन्निभः। तत्समीपे सरो दिव्य-मच्छोदं नाम विश्रुतम्। तस्मात् प्रभवते दिव्या नदीह्यच्छोदिका शुभा। तस्यास्तीरे वनं दिव्यं महच्चैत्र॰रथं शुभम्”।
“कैलासाद्दक्षिणप्राच्यां शिवं सर्वौषधिंगिरिम्। मनःशिलामयं दिव्यं शवलं पर्वतं प्रति। लोहितो हेमशृङ्गस्तु गिरिः सूर्यप्रभो महान्। तस्यपादे महद्दिव्यं लोहितं सुमहत्सरः। तस्मात् प्रभबतेपुण्यो लौहित्यश्च नदो महान्। दिव्यारण्यं विशो-कञ्च तस्य तीरे महद्वनम्”।
“कैलासात् पश्चिमोदीच्यांककुद्मानौषधीगिरिः। ककुद्मति च रुद्रस्य उत्पत्तिश्चककुद्मिनः। तदञ्जनं त्रैककुदं शैलन्त्रिककुदं प्रति। सर्वधातुमयस्तत्र सुमहान् वैद्युतो गिरिः। तस्य पादेमहद्दिव्यं मानसं सिद्धसेवितम्। तस्मात् प्रभवते पुण्यासरयूर्लोकपावनी। तस्यास्तीरे वनं दिव्यं वैभ्राजं नामविश्रुतम्”
“कैलासात् पश्चिमायां तु दिव्यः सर्वौषधि-र्गिरिः। अरुणः पर्वतश्रेष्ठो रुक्मधातुविभूषितः। भवस्य दयितः श्रीमान् पर्वतो हेमसन्निभः। शातकौम्भ-मयैर्दिव्यैः शिलाजालैः समाचितः। शतसंख्यैस्तापनीयैःशृङ्गैर्दिवमिवोल्लिखन्। शृङ्गवान् सुमहादिव्यो दुर्गःशैलो महाचितः। तस्मिन् गिरौ निवसति गिरिशोधूम्रलोचतः। तस्य पादात् प्रभवति शैलोदं नामतत्सरः। तस्मात् प्रभवते पुण्या नदी शैलोदका शुभा। सा चक्षुःसीतयोर्मध्ये प्रविष्टा पश्चिमोदधिम्। अस्त्यु-[Page3956-a+ 38] त्तरेण कैलासाच्छिवः सर्वौषधिर्गिरिः। गौरन्तु पर्वत-श्रेष्टं हरितालमयं प्रति। हिरण्यशृङ्गः सुमहान्दिव्यौषधिमयो गिरिः। तस्य पादे महद्दिव्यं सरःकाञ्चनबालुकम्। रम्यं विन्दुसरो नाम यत्र राजाभगीरथः। गङ्गार्थे स तु राजर्षिरुवास बहुलाः समाः”
“दृश्यते भासुरा रात्रौ देवी त्रिपथगा तु सा। अन्त-रिक्षं दिवं चैव भावयित्वा भुवङ्गता। भवोत्तमाङ्गेपतिता संरुद्धा योगमायया। तस्या ये विन्दवः केचित्रुद्धायाः पतिता भुवि। कृतन्तु तैर्बहुसरस्ततो विन्दु-सरः स्मृतः”।
“त्रीणि प्राचीमभिमुखं प्रतीचीन्त्रीण्य-थैव तु। स्रोतांसि त्रिपथायास्तु प्रत्यपद्यन्त सप्तधा। नलिनी ह्लादिनी चैव पाबनी चैव प्राच्यगा। सीताचक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः। सप्तमी त्वनुगातासां दक्षिणेन भगीरथम्। तस्मात् भागीरथी सावै प्रविष्टा दक्षिणोदधिम्। सप्त चैताः प्लावयन्ति व-र्षन्तु हिमसाह्वयम्। प्रसूताः सप्त नद्यस्तु शुभा वि-न्दुसरोद्भवाः। तान् देशान् प्लावयन्ति स्म म्लेच्छप्रायांश्चसर्वशः। सशैलान् कुकुरान् रौध्रान् वर्बरान् यवनान्खसान्। पुलिकांश्च कुलत्थांश्च अङ्गलोक्याम्बरांश्च यान्। कृत्वा द्विधा हिमवन्तं प्रविष्टा दक्षिणोदधिम्। अथवीरमरूंश्चैव कालिकांश्चैव शूलिकान्। तुषारान् वर्व-रानङ्गाननुष्णान् पारदान् शकान्। एतान् जनपदां-श्चक्षुः प्लावयित्वोदधिङ्गता। दरदोर्जगुडांश्चैव गान्धा-रानौरसान् कुहून्। शिवपौरानिन्द्रमरून् वसतीन् सम-तेजसा। सैन्धवानुर्वसान् बर्बान् कुपथान् भीमरोमकान्। शुनामुखांश्चोर्द्धमरून् सिन्धुदेशान्निषेवते। गन्धर्वान्किन्नरान् यक्षान् रक्षोविद्याधरोरगान्। कलापग्राम-कांश्चैव तथा किंपुरुषान्नरान्। किरातांश्च पुलिन्दांश्चकुरून् वै भारतानपि। पाञ्चालान् कौशिकान् मत्-स्यात् मागधाङ्गांस्तथैव च। ब्रह्मोत्तरांश्च वङ्गांश्च ताम्र-लिप्तांस्तथैव च। एतान् जनपदानार्यान् गङ्गा भाव-यते शुभा। ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणो-दधिम्। ततस्तु ह्लादिनी पुण्या प्राचीनाभिमुखा ययौ। प्लावयन्त्युपकांश्चैव निषादानपि सर्वशः। धीवरानृषि-कांश्चैव तथा भीलमुखानपि। केकरानेकर्णांश्च किराता-नपि चैव हि। कालिन्दगतिकांश्चैय कुशिकान् स्वर्ग-भीमकान्। सा मण्डले समुद्रस्य तीरे भूत्वा तु सर्वशः। ततस्तु नलिनी चापि प्राचीमेव दिशं ययौ। कुप-[Page3956-b+ 38] थान् प्लावयन्ती सा इन्द्रद्युम्नसरांस्यपि। तथा खर-पथान् देशान् वेत्रशङ्कुपथानपि। मध्येनोज्जानकम-रून् कुथप्रावरणान् ययौ। इन्द्रद्वीपसमीपे तु प्रविष्टालबणोदधिम्। ततस्तु पावनी प्रायात् प्राचीमाशाञ्ज-येन तु। तोमरान् प्लावयन्ती च हंसमार्गान् समूहकान्। पूर्वान्देशांश्च सेवन्ती भित्त्वा सा बहुधा गिरिम्। वर्ण-प्रावरणान् प्राप्य गता साश्वमुखानपि। सिक्त्वा पर्वत-मेरुं सा गत्वा विद्याधरानपि। शैलिमण्डलकोष्ठन्तुसा प्रविष्टा महत्सरः। तासां नद्युपनगद्योऽन्याः शत-शोऽथ सहस्रशः। उपगच्छन्ति ता नद्यो यतो वर्षतिवासवः”
“हेमकूटस्य पृष्ठे तु सर्पाणां तत् सरः स्मृ-तम्। सरस्वती प्रभवति तस्माज्ज्योतिष्मती तु या। अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ। सरो विष्णुपदंनाम निषधे पर्वतोत्तमे। यस्मादग्रे प्रभवति गन्धर्बानु-कूले च ते। मेरोः पार्श्वात् प्रभवति ह्रदश्चन्द्रप्रभोमहान्। जम्बूश्चैव नदी पुण्या यस्यां जाम्बूनदंस्मृतम्। पयोदस्तु ह्रदो नीलः स शुभः पुण्डरीकवान्। पुण्डरीकात् पयोदाच्च तस्माद्द्वे संप्रसूयतः। सरसस्तुसरस्त्वेतत् स्मृतमुत्तरमानसम्। मृग्या च मृगकान्ताच तस्माद्द्वे सम्प्रसूयतः। ह्रदाः कुरुषु विख्याताःपद्ममीनकुलाकुलाः। नाम्ना ते वै जया नाम द्वादशीदधिसन्निभा। तेभ्यः शान्ता च माध्वी च द्वे नद्यौसम्प्रसूयतः। किंपुरुषाद्यानि यान्यष्टौ तेषु देवीन वर्षति। उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः। वलाहकश्च ऋषभो वक्रो मैनाक एव च। विनिविष्टाःप्रतिदिशं निमग्ना लवणाम्बुधिम्”( भारतबर्षे नदीभेदाः वराहपु॰ उक्ता यथा
“गङ्गासिन्धुः सरस्वती शतद्रुः वितस्ता विपाशा चन्द्रभागासरयूः यमुना इरावती देविका कुहूः गोमती धूतपापाबाहुदा दृषद्वती कौशिकी निःक्षीरा गण्डकी चक्षुष्मतीलोहिता च इत्येता हिमवत्पादनिर्गताः। वेद-स्मृती वेदवती सिन्धुः अपर्णा चन्द्रना सदाचरा रोहि-पारा चर्मन्वती विदिशा वेदवती वयन्ती च इत्येताःपारिपात्रोद्भवाः! शोणा ज्योतीरथा नर्मदा सुरसामन्दाकिनी दशार्णा चित्रकूटा तमसा पिप्पला कर-तोया पिशाचिका चित्रोत्पला विशला वञ्जुला बालुका-वाहिनी शुक्तिमती विरजा पङ्किनीरिणी च इत्येतांऋक्षपर्वतप्रसूताः। मणिजाला शुभा तापी पयोष्णी[Page3957-a+ 38] शीघ्रोदा रेवा विपाशा वैतरणी वेदीपाला कुमुद्वती तोयादुर्गा अन्त्यगिरा च एता विन्ध्यपादोद्भवाः। गोदा-वरी भीमरथी कृष्णा वेण्वा वञ्जुला तुङ्गभद्रा मुप्र-योगा व्रह्मकावेरी शतमाला ताम्रपर्णी पुष्यावती उत्प-लावती च इत्येता मलयभबाः। त्रियामा ऋषिकुल्यावङ्क्षुरा त्रिविदा लोकमूलिनी वंशवरा महेन्द्रतनया ऋषिकाऽनुमती मन्दगामिनी पलाशिनी च इत्येताः शुक्तिमत्-प्रभवाः। एताः प्राधान्येन कुलाचलनद्यः। शेषाःक्षुद्रनद्यः” वराहपुराणे मूलं दृश्यम्।
“कैलासपादसम्भूतं पुण्यं शीतजलं शुभम्। मन्दोदकंनाम सरः पयस्तु दधिसन्निभम्। तस्मात् प्रभवते दिव्यानदी मन्दाकिनी शुभा। दिव्यञ्च चन्दनन्तत्र तस्यास्तीरेमहद्वनम्” कालिकापु॰। तत्रैव स्थानान्तरे प्रधानसप्तनदीप्रादुर्भावकथा यथा
“एवं विबाह्य विधिवत् सौवर्णे मानसाचले। अरुन्धतींवशिष्ठस्तु मोदमाप तया सह। तत्र यत् पतितंतोयं मानसाचल कन्दरे। विवाहावभृथार्थाय शान्त्यर्थंबहुधा कृतम्। व्रह्मविष्णुमहादेवपाणिभिः समुदी-रितम्। तत्तोयं सप्तधा भूत्वा पतितं मानसाचलात्। हेमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक्। तत्तोयंपतितं सिप्रे देवभोग्ये सरोवरे। तेन सिप्रा
१ नदीजाता विष्णुना प्रेरिता क्षितिम्। महाकोशीप्रपाते चयद्वारि पतितन्तु तैः। कोशिकी
२ नाम सा जाता विश्वामि-त्रावतारिता। उमाक्षेत्रेयत् पतितं तोयं तेन महानदी। कावेरी
३ नाम सा जाता तदा कौवेरसंसृतत्। महाकालेकरःश्रेष्ठे पतितं तज्जलं गिरेः। हिमाद्रेः पार्श्वभागेतु दक्षिणे शम्भुसन्निधौ। गोमद्भि{??}ंम तैर्जाता नदीगोमत्युदीरिता
४ । मैनाको नाम यः पुत्रः शैलराजस्यच प्रियः। यस्तु तस्मिन् समुतपन्नो मेनकोदरतः पुरा। यत्तत्र पतितं तीयं तस्माज्जाता महानदी। देवि-काख्या
५ महादेवप्रेरिता सागरं प्रति। तत्तोयंसङ्गतं हंसेरितं बण्डवसन्निधौ। तेनाभूत् सरयू-र्नाम्ना नदी पुण्यतमा शुभा। यान्यम्भांसि महापार्श्वे खाण्डवारण्यसन्निधौ। हिमवत्कन्दरे याम्येइरावद्व्यूहमध्यतः। इरावती
७ नाम नदी तैस्तुजाता सरिद्वरा। एताः सर्वाः स्नानपानात् स्मरणै-र्जाह्नवी यथा। फलं ददति मर्त्यानां दक्षिणोदधिगाःलदा। धर्माग्रकाममोक्षाणां वीजभूताः सदा च ताः। [Page3957-b+ 38] महानद्यस्तु सप्तैताः सर्वदा देवभोगदाः। एवं नद्यःसप्त जाताः सदा पुण्यतमोदकाः। अरुन्धत्या वशिष्ठस्यविवाहे देवसन्निधौ” इतिनद्यादीनां रूपद्वयं यथा
“नद्यश्च पर्वताः सर्वे द्विरूपाश्चखभावतः। तोयं नदीनां रूपन्तु शरीरमपरन्तथा। स्थावरं पर्वतानान्तु रूपं कायस्तथाऽपरः। शुक्ती{??}-मथ कम्बूनां तथैवान्तर्गता तनुः। बहिरस्थिस्वरूपन्तुसर्वदैव प्रवर्तते। एवं जलं स्थावरत्वं नदी पर्वतयोस्तथा। अन्तर्वसति कायस्तु सततं नोप{??}भ्यते। आप्याय्यते स्थाव-रेण शरीरं पर्वतस्य तु। तथा नदीनां कायस्तु तोये-नाप्याय्यते सदा। नदीनां कामरूपित्वं पर्वतानां तथैवच। जगत्स्थित्यै पुरा विष्णुः कल्पयामास यत्नतः। तोयहानौ नदीदुःखं जायते सततं द्विजाः!। विशीर्णेस्थावरे दुःखं जायते गिरिकायगम्” कालिकापु॰
२२ अ॰नदीभेदे जलगुणा राजनिघण्टौ उक्ता यथा
“सर्वा गुर्वी प्राङ्मुखी वाहिनी स्याल्लध्वी पश्चाद्वाहिनीनिश्चयेन। देशे देशे तद्गुणा सा विशेषान्नैषाधत्ते गौरवंलाघवञ्च। प्रायो मृदुवहा गुर्व्यो लघ्य्वः शीघ्रवहाःस्मृताः। नद्यः पाषाणसिकतावाहिन्यो विमलोदकाः। हिमवतप्रभवा याश्च जलं तास्वमृतीपमम्। विन्ध्यात्प्राची प्राच्यवाची प्रतोची या चोदीची स्यान्नदी साक्रमेण। वातारोधं श्लेष्मपित्तार्त्तिकोपं पित्तोद्रेकंपथ्यपाकञ्च धत्ते। पारिपात्रभवा याश्च विन्ध्याख्यप्रभ-वाश्च याः। शिरोहृद्रोगकुष्ठानां ता हेतुः ह्लीपदस्य च”।
“वनस्पतीनां सरसां नदीनाम्” मट्टिः।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नदी [nadī], A river, any flowing stream; रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी Ku.4.44; यथा नद्यः स्यन्दमानाः समुद्रे$ स्तं गच्छन्ति नामरूपे विहाय Muṇḍa.
Comp. ईनः, ईशः, कान्तः the ocean; नदीनः पर्यन्ते परमपदवीनः प्रभवति Karpūrastava.
An epithet of Varuṇa; L. D. B.
कान्ता the rose-apple.
a shrub. -कूलम्, -तीरम् the bank of a river. -कूलप्रियः a kind of reed. -ज a. aquatic.
(जः) an epithet of Bhīṣma.
antimony. (-जम्) a lotus. -तर a. crossing a river. -तरस्थानम् a landing-place, ferry. -दोहः freight, river-toll, fare.-धरः an epithet of Śiva. -पङ्कः the marshy bank of a river.
पतिः the ocean.
an epithet of Varuṇa. -पूरः a river which has overflown its banks.-भवम् river-salt. -मातृक a. watered by rivers, irrigated, supplied with the water of rivers, canals &c. (as a country &c.); संग्रामभूमीषु भवत्यरीणामस्रैर्नदीमातृकतां गतासु N.3.38; cf. देवमातृक; देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ Ak. -मार्गः the course of a river.
मुखम् the mouth of a river; नदीमुखेनैव समुद्रमाविशत्; वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः R.
a kind of grain. -रयः the current of a river. -वङ्कः the bend or arm of a river.
ष्णः (स्नः) bathing in rivers; ततो नदीष्णान् पथिकान् गिरिज्ञान् Bk.2.43.
knowing the dangerous spots in rivers, their depth, course &c.; ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् R.16.75; (hence)
experienced, clever. -सर्जः the Arjuna tree.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नदी f. See. नदी.
नदी f. flowing water , a river (commonly personified as a female ; but See. नदabove ) RV. etc. ( ifc. नदिका; See. कु-नदिकाand गिरि-; ind. -नदि; See. उप-नदि[beside -नदम्, fr. नदPa1n2. 5-4 , 110 ])
नदी f. N. of 2 kinds of metre Col.
नदी f. of partic. fem. stems ending in ईor ऊ(as नदीitself) Pa1n2. 1-4 , 3 , etc.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Nadī, ‘stream,’ is mentioned in the Rigveda[१] and later.[२] Reference is made to shallows (gādha)[३] in the river's bed, to the opposite bank (pāra),[४] and to the bathing of horses in streams.[५] Rivers are also mentioned in close connexion with mountains.[६] The title Nadī-pati, ‘lord of rivers,’[७] is once used to express ‘ocean’ or ‘sea-water.’