नृपः
सम्स्कृतम्
[सम्पाद्यताम्]नामम्
[सम्पाद्यताम्]अन्यपदानि
[सम्पाद्यताम्]തർജ്ജമകൾ
[सम्पाद्यताम्]- ഇംഗ്ലീഷ്: king(उच्चारण्:किङ्)
- തമിഴ്: அரசன் (उच्चारण्:अरचन्); மன்னன்;(उच्चारण्:मन्नन्) வேந்தன்(उच्चारण्:वॆन्तन्);கோ
- [[मलयालम्:#രാജാവ്(उच्चारण्: राजाव्)അരചൻ(उच्चारण्: अरचन्) നൃപൻ(उच्चारण्: नृपन्) ഭൂപാലൻ(उच्चारण्: भूपालन्)
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृपः, पुं, (नॄन् नरान् पाति रक्षतीति । नृ + पा रक्षणे + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) नरपतिः । इत्यमरः । २ । ८ । १ । तस्य लक्षणं यथा, -- “चतुर्योजनपर्य्यन्तमधिकारी नृपस्य च । यो राजा तच्छतगुणः स एव मण्डलेश्वरः । तत्तद्दशगुणो राजा राजेन्द्रः परिकीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अः ॥ तत्प्रमाणं यथा, -- “अपुत्त्रस्य नृपः पुत्त्रो निर्धनस्य धनं नृपः । अमातुर्जननी राजा अतातस्य पिता नृपः ॥ अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः । अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा ॥ सर्व्वदेवमयो राजा तस्मात्त्वामर्थये नृप ! ॥” इति कालिकापुराणे ५० अध्यायः ॥ नृपदर्शनदिनं यथा । तत्र तिथयः शुभाः । वाराः शनिमङ्गलभिन्नाः । नक्षत्राणि उत्तर- फल्गुन्युत्तराषाढोत्तरभाद्रपद्रोहिणीपुष्याश्विनी- हस्ताचित्रानुराधामृगशिरोरेवतीज्येष्ठाश्रवणाः । लग्नानि मिथुनकन्याधनुर्मीनवृषभसिंहसंज्ञ- कानि । तत्र चन्द्रः शोभनः । इति ज्योतिषम् ॥