पीठ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पीठम्, त्रि, (पेठन्त्युपविशन्त्यस्मिन्निति । पिठ + “हलश्च ।” ३ । ३ । १२१ । इति घञ् । बाहु- लकादिकारस्य दीर्घः । यद्वा, पीयतेऽत्रेति । पी ङ् पाने + बाहुलकात् ठक् ।) उपवेश- नाधारः । इत्यमरः । २ । ६ । १३८ ॥ पिडी चौकी इत्त्यादि भाषा । तत्पर्य्यायः । आसनम् २ उपा- सनम् ३ पीठी ४ विष्टरः ५ । इति शब्दरत्ना- वली । व्रतिनामासनम् । तत्तु कुशासनादि । तत्पर्य्यायः । विष्टरः २ । इति त्रिकाण्डशेषः ॥ वृषी ३ । इति हेमचन्द्रः ॥ (यथा, महाभारते । ५ । ३८ । २ । “पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्निज्य पादौ । सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यादन्नमवेक्ष्य धीरः ॥”) अथ पीठोद्देशः । “धातुपाषाणकाष्ठैश्च पीठस्त्रिविध उच्यते । धातवश्च शिलाश्चैव काष्ठानि विविधानि च ॥ तदत्र संप्रवक्ष्यामि यद्येषामुपयुज्यते ॥” अथ मानम् । “हस्तद्वयस्तु दैर्घ्येण तदर्द्धे परिणाहतः । तदर्द्धेनोन्नतः पीठः सुख इत्यभिधीयते ॥ हस्तद्वयद्वयाधिक्यात् पञ्च पीठा भवन्ति हि । सुखं जयः शुभः सिद्धिः सम्पच्चेति यथाक्रमम् ॥ धनभोगसुखैश्वर्य्यवाञ्छितार्थप्रदायकः । यथाशक्तिपुरश्चर्य्यां कुर्य्यान्मन्त्रस्य सत्तमः । मायाबीजेन देवेशीं तत्तत्पीठाधिवासिनीम् ॥ पूजयेदनिशं राजन् ! पुरश्चरणकृद्भवेत् । वित्तशाठ्यं न कुर्व्वीत देवीभक्तिपरो नरः ॥ य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानसः । सहस्रकल्पपर्य्यन्तं ब्रह्मलोके महत्तरे ॥ वसन्ति पितरस्तस्य सोऽपि देवीपुरे तथा । अन्ते लब्ध्ना परं ज्ञानं भवेन्मुक्तो भवाम्बुधेः ॥”) अन्यानि पीठादीनि कालीपुराणे १८ । ५० । ६१ अध्यायेषु द्रष्टव्यानि ॥ * ॥ पीठन्यासस्तु न्यास- शब्दे द्रष्टव्यः । पीठदेवतापूजनं न्यासक्रमेणैव ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पीठ नपुं।
आसनम्
समानार्थक:पीठ,आसन,आस्या,आसना,स्थिति,औशीर
2।6।138।2।5
शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः। गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम्.।
सम्बन्धि1 : मनुष्यः
: व्रतीनामासनम्, राजासनम्, पीठाद्यासनम्
पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पीठ¦ पु॰ न॰ पीयते पिठ्यते वा अत्र पा--ठक् पिठ--क वापृषो॰ दीर्घः। (पीं डे)
१ आसनभेदे अमरः।
२ व्रतिनामा-सने त्रिका॰ तत्रार्थे स्त्री रत्नमाला गौरा॰ ङीष्। पीठलक्षणादिकं युक्तिकल्पतरो दर्शितं यथा
“घातुपाषाणकाष्ठैश्च पीठस्त्रिविध उच्यते। घातवश्चशिलाश्चैव काष्ठानि विविधानि च। तदत्र संप्रवक्ष्यामियद्येषामुपयुज्यते”। तस्य मानम्
“हस्तद्वयञ्च दैर्घ्येणतदर्द्धे परिणाहतः। तदर्द्धेनोन्नतः पीठः सुख इत्य-भिधीयते। हस्तद्वयद्वयाधिक्यात् पञ्च पीठा भवन्ति हि। सुखो जयः शुभः सिद्धिः सम्बच्चेति यथाक्रमम्। धन-भोगमुखैश्वर्य्यवाञ्छितार्थप्रदायकः। समदीर्घे सुखावाप्तिर्विषमे विषमापदः। आया{??}हाभ्यां हस्त-द्वयमितो हि यः। अर्द्धहस्तोन्नतः पीठो जारको नामविश्रुतः। दैर्व्योलतिपरीखाहैश्चतुर्हस्तमितो हि यः। राजपीठ इति ज्ञेयः सकलार्थप्रसाधकः। अत्राभिषेक-मिच्छन्ति क्षितिपस्य पुराविदः। दैर्घ्योन्नतिपरीणाहैःषढस्तसंमितो हि यः। राज्ञां चित्तप्रसादार्थंकेलिपीठाभिधानकः। दैर्घ्योन्नतिपरीणाहैरष्टहस्तमितोहि यः। अङ्गपीठो ह्ययं नाम्ना भवेत् स च सुखप्रदः। कानको राजपीठः स्याज्जयो वा राजतः सुखः। राज्ञा-मेवोपयोक्तव्यो लक्षवश्चोत्तरोत्तरम्। राजपीठे चि-रा{??} स्याज्जये सर्वां महीं जयेत्। जारको जायये-च्छत्रून् सुखे सुखमवाप्नुयात्। राजतः कीर्त्तिजननोधनवृद्धिकरः परः। तामः प्रतापजननो विपक्षक्षय-कारकः। लौहस्तूच्चाटने सार्वः सर्वकर्मसु युज्यते। त्रपुसीसकरङ्गाद्याः शत्रुक्षयफलप्रदाः” इति धातुपीटाः। अथ शिलापीठाः
“वज्रपीठो वज्रप्राणेरेवनान्यस्य दृश्यते। पद्मरागो दिनेशस्य चान्द्रकान्तोविघोरपि। राहोर्मारकतः पीठः शनेर्नीलसमुद्भवः। गोमेदकस्तु सौम्बख स्फाटिकस्तु वृत्तुस्फतेः। शुक्रस्य[Page4340-b+ 38] वैदूर्यमवः प्रायालो भङ्गलस्य हि”। पुराणप्रसिद्धाः।
“यो यस्य हि दशाजातः पीठस्तस्य हि तन्मयः। स्फ-टिकस्तु महीन्द्राणां सर्वेषामेव युज्यते। अभिषेके चयात्रायामुत्सवे जयकर्मणि। अयस्कान्तोपघटितः सं-ग्रामे पीठ इष्यते। गरुडोद्गाररचिते वर्षासु नृपति-र्वसेत्। शुद्धरत्नमयं पीठं भजते घनगर्जिते। सा-मान्यः प्रास्तरः पीटो विलासाय महीभुजाम्। एषांमानं गुणाश्चापि विज्ञेया चातुपीठवत्”। का{??}-पीटानां मानं पूर्ववदेव।
“सम्पत्तिसुखवृद्ध्यर्थं स-म्भारजनितो जयः। जारको रोगनाशाथ सुखःशत्रुविनाशनः। सिद्धिः सर्वार्थसंसिद्ध्यै विजयाय चवैरिणाम्। शुभः स्यादभिषेके च सम्पद्वैरिनिवारिणी। पालाशो जारकः पीठः सुखसम्पत्तिकारकः। जयःस्यादभिषेके च शुभः शत्रुविनाशनः! सुखो रोगवि-नाशाय सिद्धिः सर्वार्थदायिका। सम्पदुच्चाटनविधौविज्ञेया पीठलक्षणम्। चान्दनस्त सुखः पीठो अभि-षेके महीभुजाम्। जयः स्वाद्रोगनाशाय शुभः सौख्यंप्रयच्छति। जारको ग्रहतुष्ट्यर्थमन्ये तु रतिदु-ष्कराः। यत्नतो निर्मितास्ते तु साम्नाज्यफलदा-यकाः। कालेयकी जायको हि भूमुजामभिषेचने। पीठानगुरुकादीनामन्ये चन्दनवद्विदुः। पाकु{??}शुभः पीठो भूमुजाममिषेचने। जयो रोगविनाशायसुखः सम्पत्तिकारकः। सिद्धिः सिद्धिप्रदा सम्पत् लग्रा{??}विजयप्रदा। जारको जरणाय स्यादिति भोजस्य सम्म-तम्। एवं सुगन्धिकुसुमाः ससारा ये च पादपाः। बाकुलेम समः कार्य्य एवं पीठस्य निर्णयः। ये शुष्क-काष्ठा वृक्षास्तु मृदवो लघवोऽथ वा। गाम्भरोसदृशःपीठस्तेषां कार्थ्यस्तथा गुणः। फलिनश्च ससाराश्च रक्त-साराश्च ये नगाः। तेषां पानसवत् पीठस्तथैव गुणमाव-हेत्”। अथ निषिद्धपीठाः
“विज्ञेयो निन्दितः पी{??} चौ-होत्थः सर्वधातुजे। शिलोत्थः शार्करो वर्ज्यः कर्करश्चविशेषतः। काष्ठजेषु च पीठेषु नासारा नातिसारिणःतथा च
“आम्रजम्बुकदम्बानामासनं वशनाशनम्” भोजस्त्वाह
“गुरुः पीठो गौरवाय लमुर्लाघवकारकः” पराशरस्तु
“नाग्रन्थिर्नातिग्रन्थिश्च नागुरुर्नातुमा-कृतिः। पीठः स्यात् सुखसम्पत्त्यै नातिदीर्घो न वामनः। ये चान्ये पीट{??}शा दृश्याः शिल्पिविनिर्मिताः। मुणान्दोषां{??} मानञ्च तेषां पीठवदादिशेत्। वितार्य्यामेन[Page4341-a+ 38] विघिना यः शुद्धं पीठमाचरेत्। तस्य लक्ष्मीः स्वयं वेश्मकदाचिन्न विमुञ्चति। अज्ञानादथ वा मोहाद्योऽन्यथापीठमाचरेत्। एतानि तस्य नश्यन्ति लक्ष्मोरायुर्बलंकुलम्”।
३ कंसामात्ये पु॰ हरिवं॰
१६
१ अ॰।
४ असुरभेदेपु॰ भा॰ द्रो॰
१७ अ॰।
५ देवतामूर्त्तिस्थापनाधारे पि-ण्डिकायां स्त्री ङीप् स्वार्थे क पीडिका तत्रार्थे पि-ण्डिकाशब्दे तृश्यम्।
६ देवतापूजनाङ्गे हृदयरूपे आ-घारे तत्र पूज्यपदार्थाः पूज्यदेवताञ्च तन्त्रसारे उक्तायथा
“पीठपूजां ततः कुर्य्यात् आधारशक्तिपूर्वकम्। प्रकृतिं कमठञ्चैव शेषं पृथ्वीं तथैव च। सुधाम्बुधिंमणिद्वीपं चिन्तामणिगृहं तथा। श्मशानं पारिजातञ्चतन्मूले रत्नवेदिकाम्”। शारदायाम्
“अनन्तं हृदयेपद्मं तस्मिन् सूर्य्येन्दुपावकान्। एषु खखकलां न्यस्यनामाद्यक्षरपूर्वतः। सत्त्वादीन् त्रिगुणान्न्यस्य यथैवात्रगुरूत्तभः। आत्मानमन्तरात्मानं परमात्मानमेव च। ज्ञानात्मार्न प्रविन्यस्य न्यसेत् पीठमनुन्ततः”। पीठशक्तयश्च देवताभेदे इच्छाज्ञानादयस्तत्तत्कल्पोक्ताः{??}रदादो दृश्याः।
७ मन्त्रसिद्ध्यर्थजपस्थानभेदे तत्रापिविष्णुचक्रेण विभक्तस्य सतीदेहस्य तत्तदङ्गभेदपत-नात् तत्तत्स्थानस्य पूज्यता तत्र पीठानि अङ्गप्रत्यङ्गभेद-पतनं च तन्त्रचुडामणावुक्तं यथा
“एकपञ्चाशच्च पीठाः शक्तिर्मैरवदेवताः। अङ्गप्रत्यङ्गपा-तेन विष्णुचक्रक्षतेन च। ममास्य वपुषो देव! हितायत्वयि कथ्यते। ब्रह्मरन्धं हिङ्गलायां भैरवो भीमलो-चनः। कीट्टरीशा महादेव! त्रिगुणा या दिगम्बरी।
१ करवीरे त्रिने{??} मे देवी महिघर्मर्द्दिनी। क्राधीशोभेरवस्तत्र
२ , मुबन्धाया{??} नासिका। देवस्त्र्यम्बकनामा{??} नन्दा तत्र देवता
३ काश्मीरे कण्ठदेशश्च त्रिसन्ध्ये-श्चरभैरवः। अहामाया भगवती गुणातीता वरप्रदा
४ । ज्वालामुख्यां महाजिह्वा देव उन्मत्तभैरवः। अम्बिकासिद्धिदानाम्नी
५ , स्तनो जालान्धरे मम। मीषणो भैर-वस्तत्र दवौ त्रिपुरमालिनौ
६ । हृद्यपीठं वैद्यनाथे यै-द्यनाथस्तु भैरवः। देवता जयदुर्गाख्या
७ , नेपाले जानुम क्षिव!। कपाजी भेरवः श्रीमान् महामाया च दे-वता
८ । मा{??}ने दक्षहस्तो मे देवी दाक्षायणी हर!। अमरो भैरवस्तत्र सर्वसिद्धिप्रदायकः
९ । उत्कले नाभि-देशस्तु विरजाक्षेत्रमुच्यते। विमला सा महादेवी जन-{??} भेरवः। भण्डक्यां गण्डपातश्च तत्र सितिर्न[Page4341-b+ 38] सशयः। तत्र सा गण्डकी चण्डी चक्रपाणिस्तु भै-रवः
११ । बहुलायां नामवाहुर्बहुलाख्या च देवता। भीसको भैरवस्तत्र सर्वसिद्धिप्रदायकः
१२ । उज्जयिन्यांकूर्परञ्च माङ्गल्यकपिलाम्बरः। भैरवः सिद्धिदः सा-क्षाद्देवी मङ्गलचण्डिका
१३ । चट्टले दक्षबाहुर्मे भैरव-श्चन्द्रशेखरः। व्यक्तरूपा भगवतो भवानी तत्र देवता। विशेषतः कलियुगे वसामि चन्द्रशेखरे
१४ । त्रिपुरायांदक्षपादो देवी त्रिपुरसुन्दरी। भैरवस्त्रिपुरेशश्च सर्वा-भीष्टप्रदादयकः
१५ । त्रिस्नोतायां वामपादो भ्रामरोभैरवेश्वरः
१६ । योनिपीठं कामगिरौ कामाख्या तत्रदेवता। यत्रास्ते त्रिगुणातीता रक्तपाषाणरूपिणी। यत्रास्ते माधवः साक्षादुमानन्दोऽथ भैरवः। सर्वदाविहरेद्देवा तत्र मुक्तिर्न संशयः। तत्र श्रीभैरवी देवीतत्र च क्षेत्रदेवता। प्रचण्डचण्डिका तत्र मातङ्गीत्रिपुरात्मिका। वगला कमला तत्र भुवनेशी सभूमिनी। एतानि नवपीठानि शंसन्ति नव भैरवाः
१७ । अङ्गुल्यश्चैवहस्तस्य प्रयागे ललिता भवः
१८ । जयन्त्यां वामजङ्घाच जयन्ती क्रमदीश्वरः
१९ । भूतधात्री महामाया भैरवःक्षीरकण्ठकः। युगाद्या सा महामाया दक्षाङ्गुष्ठः पदोमम
२० । नकुलीशः कालिपीठे दक्षपादाङ्गुली च मे। सर्वसिद्धिकरी देवी कालिका तत्र देवता”
२१ । भुव-नेशी सिद्धिरूपा किरीटस्था किरीटतः। देवता बि-मलानाम्नी संवर्त्तो भैरवस्तथा
२२ । वाराणस्यां विशा-लाक्षी देवता कालभैर{??}ः। मणिकर्णीति विख्याताकुण्डलञ्च मम श्रुतेः
२३ । कन्याश्रमे च मे पृष्ठं निमिषोभैरवस्तथा। सर्वाणी देवता तत्र
२४ , कुरुक्षेत्रे च गु-लफतः। स्थाणुर्गाम्ना च सावित्री
२५ मणिवेदिकदेशतः। मणिबन्धे च गायत्री सर्वानन्दस्तु भैरवः
२६ । श्रीशैले चमम{??}ग्रीवा महालक्ष्मीस्तु देवता। भेरवः संवरानन्दोदेशेदेशे व्यवस्थितः
२७ । काञ्चीदेशे च कङ्कालो भैरवोरुरुनामकः। देवता देवगर्भाख्या
२
८ नितम्बः कालमाधवे। मैरवश्चासिताङ्गश्च देवी काली सुसिद्धिदा
२९ । दृष्ट्वा दृष्ट्वानमस्कृत्य मन्त्रसिद्धिमवाप्नुयात्। शोणाख्ये भद्रसनस्तुनर्मदाख्या नितम्बकम्
३० । रामगिरौ तथा नाला शि-वानी चण्डभैरवः
३१ । वृन्दावन कशजाले उमानाम्नीच दवता। भूतशो भैरवस्तत्र सर्वसिद्धिप्रदायकः
३२ । संहाराख्य उर्द्ध्वदन्ते देवी नारायणी शुचौ
३३ अधो-दन्ते महारुद्रो वाराली प{??}वागरे
३४ । करतोयातटे[Page4342-a+ 38] तल्पं वामे वामनभैरवः। अपर्णा देवता तत्र ब्रह्मरूपाकरोद्भवा
३५ । श्रीपर्वते दक्षगुल्फं तत्र श्रीसुन्दरी परा।{??}र्वसिद्धीश्वरी सर्वा सुनन्दानन्दभैरवः
३६ । कपालिनिभीमरूपा बामगुल्फविभागतः। भैरवश्च महादेव! सर्वा-नन्दः शुभप्रदः
३७ । उदरञ्च प्रभासे मे चन्द्रभागा य-शखिवी। वक्रतुण्डो भैरवश्चो
३८ र्द्धोष्ठो भैरवपर्वते।{??}लवन्त्याञ्च महादेवी लम्बकर्णस्तु भैरवः
३९ । चिबुकेभ्रामरी देवी विकृताख्या जलेस्थले। भैरवः सर्वसिद्धी-शस्तत्र सिद्धिरनुत्तमा
४० । गण्डोगोदावरीतीरे वि-श्वेशी विश्वमातृका। दण्डपाणिर्मेरवस्तु
४१ वामगण्डेतु राकिणी। भैरवो वत्सनागस्तु तत्र सिद्धिर्न संशयः
४२ । रत्नावल्यां दक्षस्कन्धे कुनारी भैरवः शिवः
४३ । मिथि-लायां महादेवी वामस्कन्धे महोदरा
४४ । नलाहाट्यांनलापातो योगीशो मैरवस्तथा। तत्र सा कालिका देवीसर्वसिद्धिपदायिका
४५ । कर्णाटे चैव कर्णोमे त्वभीरुर्नामभैरवः। देवता जयदुर्गाख्या नानाभोगप्रदायिनी
४६ । वक्रेश्वरे मनःपातो वक्रनाथस्तु भैरवः। नदी पापहरातत्र देवी महिपमर्द्दिनी
४७ । यशोरे पाणिपद्मञ्च देवतायशोरेश्वरी। चण्डव भैरवस्तत्र यत्र सिद्धिमवाप्नु-यात्
४८ । अट्टहासे चौष्ठपातो देवी सा फुल्लरा स्मृता। विश्वेशो मैरवस्तत्र सर्वाभीष्टप्रदायकः
४९ । हारपातोनन्दिपुरे मैरवो नन्दिकेश्वरः। नन्दिनी सा महादेवीतत्र सिद्धिर्न मंशयः
५० । लङ्कायां नुपूरञ्चैव भैरवो रा-क्षसेश्वरः। इन्द्राक्षी देवता तत्र इन्द्रेणोपासिता पुरा
५१ विराटदेशमध्ये तु पादाङ्गुलिनिपातनम्। भैरवश्चामृता-ख्यश्च देवी तत्राम्बिका स्मृता
५२ । मागधे दक्षजङ्घामे व्योमकेशस्तु भेरवः। सर्वानन्दकरी देवी सर्वानन्दफलपदा
५३ ”। (पुस्तकान्तरपाठसंवादात् पीठद्वयाधिक्यंलिपिकरप्रमादात् पीठद्वयस्य निर्मूलता तत्र कयार्निर्मू-लता तन्न शक्नुमोविवेचयितुम्)। एतास्ते कथिताः-पुत्र! पीठनाथाधिदेवताः। क्षेत्राधीर्श विना देव। पूज-येच्चान्यदेवताम्। भैरवैर्ह्रियते सर्वं जपपूजादिसाध-नम्। अज्ञात्वा भैरवं पीठे पीठशक्तिञ्च शङ्कर!। प्राणनाथ! न सिध्येत् तु कल्पकोटिजपादिभिः”। अन्यान्यपि सिद्धपीठानि कुन्धिकातन्त्रे
७ पटलोक्तानि यथा
“श्रूयतां सावधानेन सिद्धपीठं पतिव्रते!। यस्मिन् सा-धनमात्रेण सर्वसिद्धीप्वरी भवेतु। मायावती मधुपुरीताशी गोरक्षचारिणी। हिङ्गला च महापीठं तथा[Page4342-b+ 38] जालन्धरं पुनः।{??}लामुखी महापीठं पीठ नगर-सम्भवम्। रामभिरिर्महापीठं तथा गोदावरी प्रिये!। नेपालं कर्णसूत्रञ्च महाकर्णं तथा प्रिये। अयोध्या चकुरुक्षेत्रं सिंहलाख्यं मनोरमम्। मखिपुरं हृशीव शंपयागञ्च तपोवनम्। वदरी च महापीठमम्बिका अर्द्ध-नालकम्। त्रिवेणी च महापीठं गङ्गासागरसङ्गमम। नारिकेलञ्च विरजा उड्दीयानं महेश्वरी।{??}मजाविमला चैव तथा माहेष्मती पुरी। वाराही त्रिपुरा चैववाग्मती नीलवाहिनी। गोवर्द्धनो विन्ध्यगिरिः काम-रूपं कलौ पुगे। घण्टाकर्णोऽक्षयग्रीवो माधवश्च सुरे-श्वरि!। क्षीरग्रामं वैद्यनाथं जानीयाद्वामलोचने!। का-मरूपं महापीठं सर्वकामफलप्रदम्। कलौ शीघ्रफलं देवि!कामरूपे जपः स्न तः”।
“पीठप्रसङ्गाद्देवेशि! पीठानिशृणु भैरवि!। शृणु तानि महाप्राज्ञे। श्रेष्ठस्थानानियानि च। सिद्धिप्रदानि साधूना सहद्भिः सेविनानिच। पुष्करञ्च गयाक्षेत्रं अक्षयाख्यवटस्तथा। वराहपर्षतश्चैव तीर्धञ्चामरकण्टकम्। नर्मदां यमुनां पिङ्गांगङ्गाद्वारं तथा प्रिये!। यङ्गासागरसङ्गञ्च कुशावर्त्तलबिल्वकम्। श्रीनीलपर्वतञ्चैव कलम्बकुब्जिके तथा। भृगु-तुङ्गञ्च केदारं शर्वपियमहाचलम्। ललिता च सु-गन्धा च शाकम्भरीपुरप्रियम्। कर्णतीर्थं लहारङ्गातण्डिकाश्रम एव च। कुमाराख्यप्रभा{??} च तथाधन्या सरस्वती। अगस्त्याश्रममिष्टं मे कन्थाश्रमम{??}-परम्। कौशिकी करयूशोणज्योतिः सरः पुरःसर{??}। कालादकं प्रियं श्रीमत मियमुत्तरमानमम्। मतङ्गवापीसप्तार्चिर्महाविष्णु पदं महत्। वैद्यनार्थं महातीर्थंप्रियः काजञ्जरो गिरिः। रामोद्भेदं गङ्गोद्भेदं हरो-द्भेदं महावनम्। भदेश्चरमहांतीर्थं लक्ष्मणोद्भेदमेवच। जानीहि प्रिय{??} च{??} कपिलोदका। सोमेश्वरं शुक्लतीर्यं कृष्णवेण्वाप्रभेदकम्। पाटला चमहाबोधिर्नगतीर्थं गदन्तिके। पुण्यं रामेश्वरं देवि। तथा मेघवनं हरेः। ऐलेयकवगञ्चैव गोवर्द्धनमजप्रि-यम्। हरिश्चन्द्रं पुरश्चन्द्रं पृथूदकमथ प्रिये। इन्द्र-मीलं महानादं तथैव प्रियमैनकम्।{??}पूसरः पञ्च{??}दीवटी पर्वटिका तथा। गङ्गाविऌपसङ्गश्च प्रियनादिवटंतथा। गङ्गारामाचलञ्चैव तथैव ऋणनोचनम्। गौतमेश्वरतीर्थञ्च यशिष्ठतीर्थमेव च। हारीतञ्च तथा देवि। ब्रह्मावर्त्त शिवप्रियम्। कुशावर्त्तमभिश्रेष्ठं” हंसतीर्थं[Page4343-a+ 38] तथैव च। पिण्डारकवनं ख्यातं हरिद्वारं तथव च। तथैव वदरीतीर्थं रामतीर्थं तथैव च। जयन्तो विज-यन्तञ्च सर्वकल्याणदं प्रिये!। विजया सारदातीर्थं भद्र-कालेश्वरं तथा। अश्वतीर्थं सुविख्यातं तथा देवि! शिव-प्रियम्। ओथवती नदी चैव तीर्थमश्वप्रदं तथा। छाग-लिङ्गमातृगणं करवीरपुरं तथा। सप्तगोदावरं तीर्थंलिङ्गाख्यं सर्वमोहनम्। किरीटमुत्तरे तीर्थं दक्षिणेतीर्थमुत्तमम्। विशालतीर्थं काल्याश्च वनं वृन्दावनंतथा। ज्वालामुखी हिङ्गुला च महातीर्थं गणेश्व-रम्। जानीहि सर्वतीर्थानां हेतुस्थानानि सुन्दरि!। अत्र सन्निहिता नित्यं सर्वदेवा महर्षयः। पितरो योगि-नश्चैव ये ये सिद्धिपरायणाः। आशु सिद्ध्यन्ति कर्माणिश्रद्धाभक्तिमतां प्रिये!। पुण्यकाले पठेद्यस्तु तत्पुण्यम-क्षयं भवेत्। श्राद्धकाले पठेद्यस्तु जुहुयाद्वापि भ-क्तितः। अक्षयं तद्भवेत् सर्वं पितॄणां परमं सुखम्। अस्मिन् स्थाने पठेद्यस्तु सिद्धिर्भवति तत्क्षणात्। अथवक्ष्ये महेशानि! यत्र या देवता शृणु। यत्र ते यानिनामानि कथायष्यामि तत् शृणु। मग्नोऽहं परमानन्देतत्कथामृतवारिधौ। पुष्करे कमलाक्षी च भयायाञ्चगवेश्वरी। अक्षया चाक्षयवटेऽमरेशोऽमरकण्टके। व-राहपर्वते च त्वं वराही घरणीप्रिया। नर्मदा नर्मदा-याञ्च कालिन्दी यमुनाजले। शिवामृता च गङ्गायामश्वा देहलिकाश्रमे। शारदा सरयूतीरे शोणे च कन-केश्वरी। अप्रकाशा सदा देवी ज्योतिर्मय्यब्धिसङ्गमे। श्रोनामा श्रीगिरौ चैव काली कालोदके तथा। महो-दरी महातीर्थे मीला{??}त्तरमानसे। मातङ्गिनीमतङ्गे च गुप्तार्चिर्विष्णुपादके। स्वर्गदा स्वर्गभार्गे चगोदावर्व्यां गवेश्वरी। विमुक्तिश्चैव गोमत्यां विष्टाशायांमहाबला। शतद्र्वां शतरूपा च चन्द्रभागा च तत्र वै। ऐरावत्याञ्च ईर्नाम सिद्धिदः सिद्धितीरके। दक्षा पञ्चनदेचैव दक्षिणा त्व प्रकीर्त्तिता। औजसे वीर्य्यदा च त्वं स-ङ्गमा तीर्थसङ्गमे। बाहुदायामवन्ता त्वं कुरुक्षेत्रेऽरुणे-क्षणा। तपस्विनी पुण्यतमा भारती भारताश्रमे।{??}कथा नैमिषारण्ये पाण्डौ च पाण्डरानना। विशा-लायां विशालाक्षी मुण्डपृष्ठे शिवात्निका। श्रद्धा कन{??}ले तीर्थे शुद्धबुद्धिर्मुनीश्वरी। मुवेशा सुमना गौरीमानसे च सरोवरे। नन्दापुरे सहानन्दा{??}लिता ल-सितापुरे। ब्रह्माणी तह्मशिरणि म हादायककाद्धिनां[Page4343-b+ 38] पूर्णिमा चेन्दुमत्याञ्च सिन्धौरतिप्रिया सदा। जाह्नवी-सङ्गमे वृत्तिः स्वधा च पितृतुष्टिदा। पुण्या बहुसि-तायाञ्च प्रपायां पापनाशिनी। शङ्खसंहरणे चैव थो-ररूपा महोदरी। स्वर्गोद्भेदे महाकाली प्रवला चमहावने। भद्रा च भद्रकाली च भद्रेश्वरी शिवप्रिया। भद्रेश्वरे रमा विष्णुप्रिया विष्णुपदे तथा। दारुणा नर्म-दोद्भेदे कावेर्य्यां कपिलेश्वरी। भेदिनी कृष्णवेण्वायां स-भेद शुभवाविनी। श्रद्धा च शुक्रतीर्थे च प्रभासे श्वे-श्वरी तथा। महाबोधौ महाबुद्धिर्पाटले पाटलेश्वरी। सुबला नागतीर्थे च नागेशी नागवन्दिता। मदन्तौ चमदन्ती च प्रमदा च मदन्तिका। मेघस्वना मेघवासे वि-विद्युत्सौदामनीच्छदा। रामेश्वरे महाबुद्धिर्वीरा चैला-पुरे सती। पियालमार्गके दुर्गा सुवेशा सुरसुन्दरी। काव्यायनी महादेवी गोवर्द्धनेऽखिलात्मिका। शुभेश्वरीहरिश्चन्द्रे, पुरश्चन्द्रे पुरेश्वरी। पृथूदके भहावेगा मैना-केऽखिलवर्द्धिनी। इन्द्रनीले महाकान्ता रत्नवेशा सु-शोभता। माहेश्वरी महानादे, महातेजा महांवने। पञ्चाप्सरसि सारङ्गा पञ्चवट्यां तपस्विनी। वटीशी व-टिकायाञ्च सर्ववर्णे सुरङ्गिर्णा। सङ्गमे विन्ध्यगङ्गाख्या,विन्ध्ये श्रीविन्ध्यवासिनी। महानन्दा नन्दवटे, गङ्गवा-टाचले शिवा। आर्य्यावर्त्ते महार्य्या त्वं, विमुक्तिरृण-मोचने। अट्टहासे च चामुण्डा, तन्त्रे श्रीगौतमेश्वरी। वेदमयी ब्रह्मविद्या वाशिष्ठे त्वमरुन्धती। हारीते हरि-णाक्षी च ब्रह्मावर्त्ते व्रजेश्वरी। गायत्नी चैव साबित्रीकुशावर्त्ते कुशप्रिया। हंसेश्वरी महातीर्थे परहंसेश्वरे-श्वरी। पिण्डारकबने धन्या सुरसा सुखदामिनी। ना-रायणी वैष्णवी च गङ्गाद्वारे विमुक्तिदा। श्रीविद्यावदरीतीर्थे, रामतीर्थे महाधृतिः। जयन्ती च जय-{??} त्वं, विजयन्तेऽपरा{??}ता। विजया च महाशुद्धिःसारदायाञ्च सारदा। सुभद्रे भद्रदा, भव्या भद्रकालेश्वरेतथा। महाभद्रा महाकाली हयतीर्थे गवीश्वरी। वेददा वेदमाता च विदेशे वेदमस्तके। युवत्याञ्च महा-विद्या, महानद्यां महोदया। चण्डा च त्रिपदे चैब छा-गलिङ्गे बलिप्रिया। मातृदेशे जगन्माता, करवीरपुरेसती। मालवे रङ्गिणी रामा परमा परमेश्वरी। सप्तगोदावरे तीर्थे देवर्षावश्चिलेश्वरी। अयोध्यायां भ-वानी च जयदा जयमङ्गला। माधवी मथुरायाञ्च देवकीयाद्रवेश्वरो। वृब्दागोपेश्वरी राधा रासवृन्दावने रमा!। [Page4344-a+ 38] कात्{??ायनी महामाया भद्रकाली कलावती। चन्द्रमालामहायोगा महायोगिन्यधीश्वरी। वज्रेश्वरी यशोदेतिवज्रश्रीगोकुलेश्वरी। काञ्च्यां कगकमाञ्ची स्यादवन्त्या-मतिपावनी। विद्या विद्यापुरे चैव विमला नीलपर्वते। रामेश्वरी सेतुबन्धे, विमला पुरुषोत्तमे। विरजा नाग-पूर्थ्याञ्च भद्राश्वे भद्रकर्णिका। तमोलिप्ते तसोघ्नी चस्वाहा सागरसङ्गमे। कुलश्रीर्वंशवृद्धिश्च माधवी मा-धवप्रिया। मङ्गला मङ्गले कोटे, राढे मङ्गलचण्डिका। ज्वालामुखी शिवापीठे मन्दरे भुवनश्वरी। कालीघाटेगुह्यकाली, किरीटे च महेश्वरी। किरीटेश्वरी महा-देवी लिङ्गाख्ये लिङ्गवाहिनी। साक्षात् सर्वत्र भक्तानामभक्ताना कुतोऽपि न। अथान्यत्संप्रवक्ष्यामि सिद्धस्था-नानि सुन्दरि!। सर्वपापविनाशार्थं सर्वसिद्धिप्रदं नृ-णाम्। निर्मितानि शिवेनेह सिद्धस्थानानि यानि च। श्रुत्वा मनसि भाव्यानि प्रकाश्यान्यधिकारिषु। अमरेशमहापीठे कुशतुङ्गारसंज्ञकः। तत्र दुर्गाद्वयं नाम च-ण्डिका च महेश्वरी। प्रभासे सोमनाथोऽसौ देवी चपुष्करक्षणा। देवदेवाधिष शम्भुर्नैमिषे च महेश्वरः। तत्र प्रज्ञा च देवी च शिवानी लिङ्गधारिणी। पुष्करे चराजगन्धिः पुरहूता महेश्वरी। श्रीपर्वते श्रिया नाम्नाशङ्करस्त्रिपुरान्तकः। मायावी शङ्करी तत्र मक्तानाम-खिलार्थदा। जप्येश्वरे महास्थाने शङ्करी च त्रिशू-लिनी। त्रिशूली शङ्करस्तत्र सर्वपापविमोचकः। आ-म्रातकेश्वरे सूक्ष्मः सूक्ष्माख्या परमेश्वरी। गखक्षेत्रे म-ङ्गलाख्या शिवो यः प्रपितामहः। कुरुक्षेत्रे शिवःस्थाणुःशिवा स्थाणुप्रिया परा। इष्टनाभे स्वयम्भूश्च देवी स्या-यम्भुवा मता। उग्रः कनखले प्रोक्तः शिवोऽग्रे शिवव-ल्लभा। विमलेश्वरे विश्वशम्भुरिष्टा विश्वप्रिया सदा। अ-ट्टहावे महानन्दो महानन्दा महेश्वरी। महान्तकोमहेन्द्रे च पार्वती च महान्तका। भीमेश्वरो भीमपीठेशिवा भीमेश्वरी तथा। वस्त्रपादे भवो नाम भवानीमवनेश्वरी! अद्रिकूटे महायोगी रुद्राणी परमेश्वरी। अविमुक्ते महादेवो विशालाक्षी शिवा परा। महामायेहरोरुद्रो महाभागा शिवा तथा। महाबलश्च गोकर्णेशिवमद्रा च चण्डिका। भद्रकर्णे मडादेवो भद्रा चकर्णिका तथा। सुपर्णाख्ये सहस्राक्षः{??}त्पला परमे-श्वरी। स्थाणुसंज्ञे शिवः स्थाणुरीशस्था श्रीघरा शिवा। कलासये महास्थाने कमलाख्यो महेश्वरः। कमलाक्षी[Page4344-b+ 38] मांशानी सकलार्थप्रदायिनी। छागला तु कपर्दी चप्रसमा च महेश्वरी। जर्द्ध्वरेता अरण्ये च सन्ध्याख्यापरमेश्वरी। साकोटे च महाकोटः शिवा च मुण्डके-श्वरी। मातुलेश्वरपीठे च करवीरार्च्य शेखरा। श्रीम-द्व्याघ्रपुरे साक्षाद्धरनामा सभापतिः। शिवः सभापति-र्नाम यत्र नृत्यति शङ्खरः। आत्मानन्दमहानाद पूर्णा-नन्दमहार्खवम्। नृत्यन्तं यत्र देवेशं देवेशी परि-पश्यति। तत्र चाशु महादेवो भक्तानां वरदो भवेत्। नृत्यन्तं यत्र सर्वेशं वीक्ष्य लोको विमुच्यते। पुण्यख्यानेषुसर्वेषु स्थानमेतन्मनोरमम्। यद्यत्कर्माणि सर्वाणिअक्षयाणि भवन्ति वै। तस्मिन् महोत्तमे स्थाने शिव-गङ्गाख्यनद्भुतम्। तडागमस्ति तत्तीरे दक्षिणे नृत्यती-श्वरः। तटाकेऽस्विन् वलन् खात्वा समानाथं समीक्ष्य च। अष्टोत्तरसहस्रन्तु जपेच्छुद्धोमुदान्वितः। यानि ते क-थितान्यत्र सदा तिष्ठन्ति देवताः। पिवतः सिद्धगन्धर्वासिद्धयः सर्वसिद्धिदाः। अत्र दत्तं हुतं जप्तं स्नानमक्षय-पुण्यदम्। यद्वत् प्रकीर्त्तित नाम तैरेव परिपूज्य च। प्रणवादिहृदन्तेन लमतेऽभीष्टमुत्तमग्। पोजयेद्ब्रा-ह्मणान् योऽत्र अक्षयं फलमश्नुते। इह नानासुखंभुक्ता हरगौरीपुरं व्रजेत्। शीकदुःखविनाशोऽयं क-रु{??}निधिरीश्वरः। निर्ममे सर्वसग्यत्त्यै पुण्यक्षेत्राणिभूतले। अकाले पुण्यशुद्धानामनेकपुण्यसाधनैः। आस्तिकानां भवेदत्र निवासः साधनं प्रति। तस्काद्यत्नेनकर्त्तव्यमत्र साधनमुत्तमैः”। कालिकापु॰
१९ अ॰ एकपञ्चाशत्पीठोत्पत्तिर्द्वश्या।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पीठ¦ mfn. (-ठः-ठी-ठं)
1. A stool, a seat, a chair.
2. The seat of the reli- gious student, made properly of Kus4a grass.
3. A place where some limb of PA4RVATI4 is supposed to have fallen, as after Daks- ha's sacrifice, her dead body was carried about by S4IVA, and cut in pieces by the discus of VISHN4U: there are fifty-one such places.
4. Complement of a segment, (in Geometry.)
5. A pedestal.
6. A particular posture in sitting. E. पिठ् to be weary, to feel pain, aff. घञ्; deriv. irr. or पा-ठक् पिठ-क वा पृषो० दीर्घः |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पीठम् [pīṭham], 1 A seat (a stool, chair, bench, sofa &c.); जवेन पीठादुदतिष्ठदच्युतः Śi.1.12; R,4.84;6.15.
The seat of a religious student made of Kuśa grass.
The seat of a deity, an altar.
A pedestal in general, basis.
A particular posture in sitting.
(In geometry) The complement of a segment.
N. of various temples; पीठं जालंधरं नाम तिष्ठत्यत्र चतुर्मुख Yoga- śikhopaniṣad, 5.11.
A royal seat, throne.
A district, province. -Comp. -अधिकारः appointment to an office. -केलिः a male confidant, a parasite. -ग a.
lame, crippled.
seated in one's seat (not a warrior); यो$पि स्यात् पठिगः कश्चित् किं पुनः समरे स्थितः Mb.3.22.24 (com. पीठगः स्वासनस्थः अयुद्धमानो$पीत्यर्थः ।). -गर्भः the cavity in the pedestal of an idol. -चक्रम् a carriage. -नायिका a girl of fourteen (before menstruation) who represents Durgā at the festival of that goddess. -भूः f. basis, basement. -मर्द a. very impudent.
र्दः a companion, parasite, one who assists the hero of a drama in great undertakings, e. g. in securing his mistress; Dk.2.2; so पीठमर्दिका 'a lady who assists the heroine in securing her lover'; उपस्थिता पीठमर्दिकां पण्डितकौशिकीं पुरस्कृत्य देवी M.1.13/14.
a dancing master who instructs courtezans in the art of dancing. -सर्प a. lame, crippled; Ms.8.394; कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् Mb.3.35.22.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पीठ n. (rarely f( ई). ; possibly corrupted fr. पि-सद्, to sit upon) a stool , seat , chair , bench , Gr2S3. MBh. etc.
पीठ n. a religious student's seat (made properly of कुशgrass) W.
पीठ n. case , pedestal ( esp. of an idol) Ra1jat. Var. Sch.
पीठ n. royal seat , throne Ra1matUp.
पीठ n. place , office(See. पीठा-धिकार)
पीठ n. N. of various temples (erected on the 5 1 spots where the limbs of पार्वतीfell after she had been cut to pieces by the discus of विष्णु) L.
पीठ n. a district , province Pan5c.
पीठ n. a partic. posture in sitting Cat.
पीठ n. (in geom. ) the complement of a segment Col.
पीठ m. a kind of fish L.
पीठ m. the sun Gal.
पीठ m. N. of an असुरMBh.
पीठ m. of a minister of कंसHariv.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the commander of Mura's forces; killed by कृष्ण. भा. X. ५९. १२-14.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
PĪṬHA : A demon. He was killed by Śrī Kṛṣṇa. (Śloka 5, Chapter 11, Droṇa Parva).
_______________________________
*6th word in right half of page 590 (+offset) in original book.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Pīṭha, ‘stool,’ does not occur as an uncompounded word before the Sūtras, but the compound pīṭha-sarpin (‘moving about in a little cart’) is found as the designation of a ‘cripple’ in the Vājasaneyi Saṃhitā (xxx. 21) and the Taittirīya Brāhmaṇa (iii. 4, 17, 1) in the list of victims at the Puruṣamedha (‘human sacrifice’).
==Foot Notes==
- यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
- यन्त्रोपारोपितकोशांशः-अमरकोशः
- यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्
- यन्त्रोपारोपितकोशांशः-शब्दसागरः
- यन्त्रोपारोपितकोशांशः-Apte
- यन्त्रोपारोपितकोशांशः-Monier-Williams
- यन्त्रोपारोपितकोशांशः-Purana index
- संस्कतशब्दाः
- यन्त्रोपारोपितकोशांशः-Purana Encyclopedia
- यन्त्रोपारोपितकोशांशः-Vedic Index of Names and Subjects