प्लिहन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लि(प्ली)हन्¦ पु॰ प्लि--कनिन् पृषो॰ वा दीर्घः। (पिला)

१ वामकुक्षिपार्श्वस्थे मांसखण्डे तद्वृद्धिहेतुके

२ रोगभेदेच तन्निदानादि भावप्र॰ उक्तं यथा
“विदाह्यभिष्यन्दिरसस्य जन्तोः प्रदुष्टमत्यर्थमसृक्कफश्च। प्लोहाभिवृद्धिं कुरुतः प्रवृद्धौ त प्लीहसंज्ञं गदमामनन्ति। वामे स पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरो-ऽत्र। मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीण-बलोऽतिपाण्डु”। विदाहि कुलत्थमाषसर्षपशाकादि। अभिषन्दि माहिषं दध्यादि। कफपित्तलिङ्गैरुपद्रुत इ-त्यर्थः। प्रदुष्टमत्यर्थमसृक्कफश्चेति संप्राप्तिः असृजः पि-त्तस्य च समानधर्मत्वात्। रक्तजमाह
“क्लमो भ्रमोबिदाहश्च वैवश्र्ण्यं गात्रगौरवम्। मोहो रक्तोदरत्वञ्चज्ञेयं रक्तजलक्षणम्”। पैतिकस्य लक्षणमाह
“सज्वरः[Page4544-b+ 38] सपिपासश्च सदाहो मोहसंयुतः। पीतगात्रो विशे-षेण प्लोहा पैत्तिक उच्यते”। श्लैष्मिकलक्षणमाह
“प्लीहा मन्दव्यथास्थूल कठिनो गौरवान्वितः। अरो-चकेन संयुक्तः प्लीहा कफज उच्यते”। वातिकमाह
“नित्यमानद्धकोष्ठः स्या(न्नित्योदावर्त्तपीडितः। वेद-नाभिः परीतश्च प्लीहा वातिक उच्यते”। तमसाध्यमाह
“दोषत्रितयरूपोऽन्यः प्लीहाऽसाध्यो भवत्यपि” भावप्र॰। तत्रैवान्यत्र तत्स्थानमुक्तं यथा
“अथ शरीरावयवविशेषस्थयकृत्प्लीहस्वरूपमाह
“अधो दक्षिणतश्चापि हृदयाद्यकृतःस्थितिः। तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम्”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लिहन्¦ m. (-हा) The spleen: see प्लीहन् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लिहन् m. = प्लीहन्, the spleen Ya1jn5. iii , 94.

"https://sa.wiktionary.org/w/index.php?title=प्लिहन्&oldid=503054" इत्यस्माद् प्रतिप्राप्तम्