बाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालम्, क्ली, पुं, (बलतीति । बल + णः ।) गग्धद्रव्यविशेषः । बाला इति ख्यातम् । इति मेदिनी ॥ तत्पर्य्यायः । ह्रीवेरम् २ बर्हिष्ठम् ३ उदीच्यम् ४ केशनामकम् ५ अम्बुनामकम् ६ । इत्यमरः । २ । ४ । १२२ ॥ ह्रिवेरम् ७ वर्हि- ष्ठम् ८ । इति भरतः ॥ बालकम् ९ बारिदम् १० इति शब्दरत्नावली ॥ वरम् ११ ह्रीवेरकम् १२ केश्यम् १३ वज्रम् १४ पिङ्गम् १५ ललना- प्रियम् १६ कुन्तलोशीरम् १७ कचामोदम् १८ । अस्य गुणाः । शीतलत्वम् । तिक्तत्वम् । पित्त- वान्तितृषाज्वरकुष्ठातिसारश्वासव्रणनाशित्वम् । केशहितत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “बाला वाट्यालिका वाट्या सैव वाद्यालिका- पि च । महाबला पीतपुष्पा सहदेवी च सा स्मृता ॥ ततोऽन्यातिबला ऋष्यप्रोक्ता कङ्कतिकासह । गाङ्गेरुकी नागबला झसा ह्रस्वा गवेधुका ॥ अस्य गुणाः । बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत् । स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम् ॥ बालाचतुष्टयविशेषगुणाः । बलामूलत्वचश्चूर्णं पीतं सक्षीरशर्करम् । मूत्रातिसारं हरति दुष्टमेतन्न संशयः ॥ हरेन्महाबला कृच्छ्रं भवेद्वातानुलोमनी । हन्यादतिबला मोहं पयसा सितया सह ॥” इति भावप्रकाशः ॥

बालः, त्रि, (बलतीति । बल प्राणने + “ज्वलि- तिकसन्तेभ्यो णः ।” ३ । २ । १४० । इति णः ।) मूर्खः ॥ (यथा, मनुः । २ । १५३ । “अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥” “वैशब्दोऽवधारणे अज्ञ एव बालो भवति नत्वल्पवयाः ।” इति तट्टीकायां कुल्लूकभट्टः ॥) अर्भकः । इति मेदिनी । ले, ४० ॥ द्बितीयस्य पर्य्यायः । माणवकः २ । इत्यमरः । २ । ६ । ४२ ॥ बालकः ३ माणवः ४ किशोरः ५ बटुः ६ मुष्टि- न्धयः ७ बटुकः ८ किशोरकः ९ । इति शब्द- रत्नावली ॥ पाकः १० गर्भः ११ हितकः १२ पृथुकः १३ शिशुः १४ शावः १५ अर्भः १६ डिम्भकः १७ डिम्बः १८ । इति राजनिर्घण्टः ॥ स तु षोडशवर्षपर्य्यन्तः प्रथमवयस्कः । यथा, -- “आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते । वृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम् ॥” इति स्मृतिः । इति भरतः ॥ तस्य रक्षकाः सर्व्वदेवताः । यथा, -- “अनाथबालवृद्धानां रक्षकाः सर्व्वदेवताः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अध्यायः ॥ अथ बालस्य परिचर्य्याविधिः । “बालमङ्के सुखं दध्यान्न चैनं तर्ज्जयेत् क्वचित् । शूद्रायाः कन्यापुत्त्रजनने त्रयोदशाहोत्तरं लौकिककर्म्माधिकारः वैदिककर्म्मणि तु मासो- त्तरस्नानात् शुद्धिः । एतत् सर्व्वं कन्यापुत्त्रयो- र्विद्यमानत्वे बोध्यम् ॥ जननाशौचोत्तरं षण्मासाभ्यन्तरमजातदन्त- मरणे मातापित्रोरेकाहः । सपिण्डानान्तु सद्यः शौचम् ॥ षण्मासाभ्यन्तरेऽपि जातदन्तस्य मरणे मातापित्रोस्त्र्यहः । सपिण्डानामेकाहः । षण्मासोपरिद्विवर्षपर्य्यन्तं पित्रोस्त्य्रहः । सपिण्डा- नामकृतचूडे एकाहः कृतचूडे त्र्यहः । द्बिवर्षो- परिमासत्रयाधिकषड्वर्षपर्य्यन्तमनुपनीतबाल- कस्य मरणे मातापित्रादिसपिण्डानां त्र्यहः ॥ तन्मध्येऽप्युपनीतस्य मरणे दशाहः । मासत्रया- धिकषड्वर्षोपरि मरणे पित्रादिसपिण्डानां दशाहः ॥ शूद्रस्य षण्मासाभ्यन्तरे अनुत्पन्नदन्तस्य मरणे त्रिरात्रम् । उत्पन्नदन्तस्य पञ्चाहः । षण्मा- सोपरिद्बिवर्षाभ्यन्तरे अकृतचूडमरणे पञ्चाहः । तत्रापि कृतचूडमरणे द्बादशाहः । द्विवर्षोपरि षड्वर्षाभ्यन्तरे मरणे द्बादशाहः । अत्रापि कृतोद्वाहेऽपि मासो व्यवह्रियते षड्वर्षोपरि- मासः ॥ * ॥ “बालकजननान्तरकर्त्तव्यमाह वैद्यके । यथा,--“अथबालं क्षौमपरिवृतं क्षौमवस्त्रास्तृतायां शय्यायां शाययेत् । पीलु- बदरीनिम्बपरूषकशाखाभिश्चैनं वीजयेत् । मूर्द्ध्नि चास्याहरहस्तैलपिचुमवचारयेत् । धूपयेच्चैनं रक्षोघ्नैधूपैः । रक्षोघ्नानि चास्य पाणिपादशिरोग्रीवास्ववसृजेत् तिलातसी- सर्षपकणांश्चात्र प्रकिरेत् । अघिष्ठाने चाग्निं प्रज्वालयेत् । व्रणितोपासनीयञ्चावेक्षेत ॥ ततो दशमेऽहनि मातापितरौ कृतमङ्गल- कौतुकौ स्वस्तिवाचनं कृत्वा नाम कुर्य्यातां यदभिप्रेतं नक्षत्रनाम वा ॥ ततो यथावर्णं धात्रीमुपेयान्मध्यमप्रमाणां मध्यमवयसमरोगां शीलवतीमचपलामलोलु- पामकृपामस्थूलां प्रसन्नक्षीरामलम्बौष्ठीमल- म्बोर्द्धस्तनीमव्यङ्गामव्यसनिनीं जीवद्बत्सां दोग्ध्रीं वत्मलामक्षुद्रकर्म्मिणीं कुले जातामतो भूयि- ष्ठैश्च गुणैरन्वितां श्यामामारोग्यब्रलवृद्धये बालस्य । तत्रोर्द्धस्तनी करालं कुर्य्यात् । लम्ब- स्तनीं नासिकामुखं छादयित्वा मरणमापा- दयेत् । ततः प्रशस्तायां तिथौ शिरःस्नात- महतवाससमुदङ्मुखं शिशुमुपवेश्य धात्रीं प्राङ्मुखीमुपवेश्य दक्षिणं स्तनं धौतमीषत्परि- स्रुतमभिमन्त्र्य मन्त्रेणानेन पाययेत् । चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिणः । भवन्तु सुभगे नित्यं बालस्य बलवृद्धये ॥ पयोऽमृतरसं पीत्वा कुमारस्ते शुभानने । दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल नपुं।

ह्रीबेरम्

समानार्थक:बाल,ह्रीबेर,बर्हिष्ठ,उदीच्य,केशाम्बुनाम

2।4।122।1।1

बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च। कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

बाल पुं।

बालः

समानार्थक:बाल,माणवक,दारक

2।6।42।1।1

बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा। प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि॥

वैशिष्ट्यवत् : बाल्यत्वम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

बाल पुं।

केशः

समानार्थक:चिकुर,कुन्तल,बाल,कच,केश,शिरोरुह,वृजिन,अस्र

2।6।95।2।3

उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्. चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥

अवयव : कचोच्चयः

 : कुटिलकेशाः, ललाडगतकेशाः, शिखा, शिरोमध्यस्थचूडा, तपस्विजटा, रचितकेशः, निर्मलकेशः, केशात्कलापार्थः

पदार्थ-विभागः : अवयवः

बाल पुं।

अश्वबालः

समानार्थक:बाल,किशोर

2।8।46।2।1

पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः। बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥

जनक : अश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

बाल पुं।

मूर्खः

समानार्थक:अज्ञ,मूढ,यथाजात,मूर्ख,वैधेय,बालिश,मूर्छित,मन्द,पृथग्जन,डिम्भ,बाल

3।3।206।1।1

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

बाल पुं।

शिशुः

समानार्थक:पोत,पाक,अर्भक,डिम्भ,पृथुक,शावक,शिशु,भ्रूण,अनुबन्ध,गर्भ,बाल,बालिश

3।3।206।1।1

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल¦ पु॰ न॰ बालाख्ये

१ गन्धद्रव्यभेदे।

२ मूर्खे

३ शिशौ मेदि॰।
“बाल आषोडशात् बर्षात्” स्मृतिपरिभाषित

४ षोडश-वर्षावधिकवंयस्के च त्रि॰।

५ केशे पु॰ अमरः। अर्शआदित्वादस्त्यर्थे अच्।

६ अश्वशिशौ अमरः

७ अश्वबालधौ

८ हस्तिबालधौ

९ नारिकेले मेदि॰

१० पशुपुच्छे च पु॰हेमच॰। मत्स्यभेदे शब्दच॰।
“पञ्चवर्षो गता कालः” हेम॰ उक्ते पञ्चवयस्कपदे।
“बालाचतुष्टयं शीतं मधुरं बलकास्न्तिकृत्। क्षिग्तंग्राहि समीरास्रपित्तास्रक्षयनाशनम्”।
“बलामूलत्वच-श्रूर्णं पीतं सक्षीरशर्करम्। मूत्रातिसारं हरति दुष्टमे-तन्न संशयः। हरेश्महाबला कृच्छ्रं भवेद्वातानुलोमनी। हन्यादिति वलामोहं पयसा सितया सह” मावप्र॰। यालादेरवधिमाह सुश्रुतः
“वयस्तु त्रिविधं बाख्यं मध्यमंबार्द्धकं तथा। ऊनषोडशवर्षस्तु नरो बालो निगद्यते। त्रिबिगः सोऽपि दुग्धाशी दुग्धान्नाशी तथान्नभुक्। दुग्धाशी वर्षपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम्। तदुत्तरंस्यादन्नाशी एवं बालस्त्रिधामतः”।
“यथोक्त बिधिना बालं मासि षष्टेऽष्टमेऽपि च। अन्नंसम्प्राशयेत्किञ्चित् ततस्तद्वर्द्धयन् क्रमात्” अथ बालस्यपरिचय्यानिधिः।
“बालमङ्के सुखन्दध्या{??}क्वचित्। सहस्म बोधयेन्नैव नायोग्यं मुपद्वेशयेत्” अयोन्यंउपवेशनासमर्थम्।
“नाकृष्य स्थापयेत् क्रोडे नक्षिप्रं शयने क्षिपेत्। रोदयेन्न क्वचित् कार्य्ये विधि-माबश्यकं विना” आवश्यको विधिः भेषज दान तैला-भ्यङ्गोद्वर्त्तनादिः।
“तच्चित्तमनुवर्त्तेत तं सदैवासु-मोदयेत्। निम्नीञ्चेरवानतश्चापि रक्षेद् बालं प्रयत्रतः” तालस्य स्वभावहितान्याह।
“तभ्यङ्कोद्वर्त्तनं धानंनेत्रयोरञ्जनन्तया। बलनं सद् यत् तच्च तत्रा गृहद्धत्वेप-नम्। जन्मप्रभृतिपथानि थाणस्येतानि सर्कवा” [Page4571-a+ 38] बालस्य कवलादेः समयमाह।
“कवलः पञ्चमाद्वर्षादष्ट-मान्तस्य कर्म च। विरेकः षोडशाद्वर्षाद्विंशतेश्चैव नैथु-नम्”। ततः पृथ्वा॰ इमनिच् वालिमन् बालभावे पु॰पक्षे ष्यञ् बाल्य तत्रार्थे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल¦ mfn. (-लः-ला-लं)
1. Ignorant, unwise, uninstructed.
2. Young, in- fantine, a child. mf. (-लः-ला)
1. An infant, a child; it usually means the young child, under five years old, but is equally appli- cable till sixteen years of age.
2. A colt.
3. An elephant of five years old.
4. An elephant's tail.
5. A horse's tail.
6. Any tail.
7. Hair.
8. A sort of fish, (Cyprinus Rohita, HAM.) mn. (-लः-लं) A perfume perhaps a sort of fragrant grass, (Andropogon schænanthus.) f. (-ला)
1. Small cardamoms.
2. A woman, a female.
3. Aloes.
4. An- other plant, commonly A4kana4di.
5. The cocoa-nut.
6. Turmeric.
7. A sort of jasmine.
8. A flower, (Hibiscus tortuosus, Rox.)
9. Pure, (applied specially to a female animal, as a heifer, &c. fit for an oblation.) f. (-ली) A sort of ear-ring. E. बल् to live, aff. घञ्, it sometimes occurs, but less accurately perhaps, with a palatial initial.

बाल (लि) खिल्य¦ m. (-ल्यः) A divine personage, of the size of the thumb, sixty thousand of whom were produced from the hair of BRAH- MA4'S body.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल [bāla], a.

Young, infantine, not full-grown or developed (of persons or things); बालेन स्थविरेण वा Ms. 8.7; बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति V.2.7; so बालमन्दारवृक्षः Me.77; R.2.45;13.24.

Newly risen, young (as the sun or its rays); बालार्कप्रतिमे- वाप्सु वीचिभिन्ना पतिष्यतः R.12.1.

New, waxing (as the moon); पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बाल- चन्द्रमाः R.3.22; Ku.3.29.

Puerile.

Ignorant, unwise; अनर्थकुशला ह्येते बालाः पण्डितमानिनः Rām.2.1.38.

Pure (as an animal fit for sacrifice).

लः A child, an infant; बालादपि सुभाषितम् (ग्राह्यम्); Ms.2.239.

A boy, youth, young person.

A minor (under 16 years of age); बाल आषोडशाद्वर्षात् Nārada.

A colt, foal.

A fool, simpleton; नीरसायां रसं बालो बालिकायां विकल्पयेत् Pt.4.91.

(a) A tail. (b) An elephant's or a horse's tail.

Hair; तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः Ku.1.48.

An elephant five years old; 'पञ्चवर्षो गजो बालः पोतस्तु दशवार्षिकः' Vaijayantī. According to Mātaṅga L. (5.2.) however it means an elephant in the first year.

A kind of perfume.

The cocoa-nut.

Comp. अग्रम् the point of a hair.

A dove-cot; प्रासादबालाग्रकपोतपालिकायामुपविष्टः शृणोमि Mk.1.51/ 52. -अध्यापकः a tutor of youths or children. -अपत्यम् youthful progeny. -अभ्यासः study during childhood, early application (to study). -अरुण a. red like early dawn. (-णः) early dawn; morning sun. -अर्कः the newly-risen sun; R.12.1. -अवबोधः, -नम् instruction of the young; Pt.1. -अवस्थ a. juvenile, young; भुवमधिपतिर्बालाबस्थो$प्यलं परिरक्षितुम् V.5.18. -अवस्था childhood. -आतपः morning sunshine. -आमयः a child's disease. -इन्दुः the new or waxing moon; बालेन्दुवक्राप्य- विकाशभावाद् बभुः पलाशान्यतिलोहितानि Ku.3.29. -इष्टः the jujube tree. -उपचारः, -चरणम् (medical) treatment of children.

उपवीतम् a piece of cloth used to cover the privities.

The sacrificial cord. -कदली a young plantain tree. -काण्डम् the first book of the Rāmāyaṇa.-कुन्दः, -दम् a kind of young jasmine. (-दम्) a young jasmine blossom; अलके बालकुन्दानुविद्धम् Me.67.-कृमिः a louse. -कृष्णः Kṛiṣṇa as a boy. -केलिः, -ली f. child's play or amusement. -क्रीडनम् a child's play or toy. -क्रीडनकम् a child's toy.

कः a ball.

an epithet of Śiva. -क्रीडा a child's play, childish or juvenile sport. -खिल्यः a class of divine personages of the size of a thumb and produced from the creator's body and said to precede the sun's chariot (their number is said to be sixty thousand); cf. R.15.1; क्रतोश्च सन्ततिर्भार्या बालखिल्यानसूयत । षष्टिर्यानि सहस्राणि ऋषिणामूर्ध्व- रेतसाम् ॥ Mārk. P. -गर्भिणी a cow with calf for the first time. -गोपालः 'the youthful cowherd', an epithet of Kṛiṣṇa, as the boycowherd. -ग्रहः any demon (or planetary influence) teasing or injuring children; बालग्रहस्तत्र विचिन्वती शिशून् Bhāg.1.6.7. -घ्नः a childslayer, infanticide; Ms.11.19. -चन्द्रः -चन्द्रमस् m.

the young or waxing moon; इह जगति महोत्सवस्य हेतुर्नयनवतामुदियाय बालचन्द्रः Māl.2.1.

a cavity of a particular shape; Mk.3.13.

चरितम् juvenile sports.

early life or actions; U.6. -चर्यः N. of Kārtikeya. (-र्या) the bahaviour of a child. -चुम्बालः a fish; Nigh. Ratn. -चतः a young mango-tree; धत्तेचक्षुर्मुकुलिनि रणत्कोकिले बालचूते Māl.3.12. -ज a. produced from hair.-जातीय a. childish, foolish, simple. -तनयः the Khadira tree. -तन्त्रम् midwifery. -तृणम् young grass.-दलकः the Khadira. -धनम् the property of a minor; Ms.8.149. -धिः (also बालधिः) a hairy tail; तुरंगमैरा- यतकीर्णवालधिः Śi.12.73; Ki.12.47. -नेत्र a. guided or steered by a fool. -पत्रः, -पत्रकः the Khadira tree.

पाश्या an ornament worn in the hair when parted.

a string of pearls binding or intertwining the braid of hair. -पुष्टिका, -पुष्टी, -पुष्पी a kind of jasmine.

बोधः instructing the young.

any work adapted to the capacities of the young or inexperienced. -भद्रकः a kind of poison. -भारः a large bushy tail; बाधेतोल्का- क्षपितचमरीबालभारो दवाग्निः Me.55.

भावः child-hood, infancy.

a hairy growth; एतद्भ्रुवौ जन्म तदाप युग्मं लीलाचलत्वोचितबालभावम् N.7.26.

inattention; Ms. 8.118. (Kull.)

children (collectively).

recent rise (of a planet). -भृत्यः a servant from childhood.-भैषज्यम् a kind of collyrium. -भोज्यः pease. -मनो- रमा N. of several grammars. -मरणम् (with Jainas) a fool's manner of dying (12 in number). -मित्रः a friend from boyhood. -मृगः a fawn. -मूलम् a young radish. -मूषिका a small mouse. -मृणालः a tender filament or fibre (of lotus); व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्म्भते Bh.2.6. -यज्ञोपवीतकम् the sacred thread worn across the breast. -राजम् lapis lazuli. -रोगः a child's disease; अथ बालरोगाणां निदानानि लक्षणानि चाह । धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा ...... Bhāva. P. -लता a young creeper; अवाकिरन् बाललताः प्रसूनैः R.2.1. -लीला child's play, juvenile pastime.

वत्सः a young calf.

a pigeon. -वायजम् lapis lazuli. -वासस् n. a woollen garment. -वाह्यः a young or wild goat.-विधवा a child-widow. -वैधव्यम् child-widowhood.-व्यजनम् a chowrie or fly-flapper (usually made of the tail of the yāk or Bos Grunniens and used as one of the royal insignia); यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति बाल- व्यजनैश्चमर्यः Ku.1.13; R.9.66;14.11;16.33,57. -व्रतः an epithet of a Buddha saint Mañjughoṣa. -सखिm. a friend from childhood. -संध्या early twilight.-सात्म्यम् milk. -सुहृद् m. a friend of one's youth.-सूर्यः, -सूर्यकः lapis lazuli.

स्थानम् childhood.

youth.

inexperience. -हत्या infanticide. -हस्तः a hairy tail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल mf( आ)n. (See. वाल)young , childish , infantine , not full-grown or developed (of per. sons and things) Gr2S. Up. Mn. MBh. etc.

बाल mf( आ)n. newly risen , early (as the sun or its rays) Ragh.

बाल mf( आ)n. new or waxing (as the moon) ib. Kum.

बाल mf( आ)n. puerile , ignorant , simple , foolish Mn. Hariv. Ka1v.

बाल mf( आ)n. pure (as an animal fit for sacrifice) L.

बाल m. a child , boy ( esp. one under 5 years) Mn. MBh. etc.

बाल m. (in law) a minor (minors are classified as कुनार, or boys under 5 years of age , शिशुunder 8 , पोगण्डfrom the 5th to the end of the 9th or till the 16th year , and किशोरfrom the 10th to the 16th year)

बाल m. a fool , simpleton Mn. Pan5cat.

बाल m. any young animal L.

बाल m. a colt , foal L.

बाल m. a five years old elephant L.

बाल m. Cyprinus Denticulatus or Rohita L.

बाल m. N. of a रक्षस्VP.

बाल m. of a prince Ra1jat.

बाल m. a one year old cow L.

बाल m. small cardamoms L.

बाल m. Aloe Indica L.

बाल m. a kind of metre L.

बाल m. a partic. mystical prayer Cat.

बाल m. N. of the mother of वालिन्and सु-ग्रीव(said to have been formed by प्रजा-पतिout of some dust which had fallen into his eyes) R.

बाल n. Andropogon Muricatus L.

बाल n. heat L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Gargya, put to trouble by Janame- jaya. Br. III. ६८. २२.
(II)--a son of विश्वेशा; a sage. M. १७१. ५०; २००. १४.
(III)--a son of मणिवर. वा. ६९. १६०.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bāla denotes ‘boy,’ ‘young child,’ in the Upaniṣads.[१] The later definition[२] makes childhood extend to the sixteenth year.

  1. Chāndogya Upaniṣad, v. 1, 11;
    24, 5;
    Kāṭhaka Upaniṣad, ii. 6.
  2. St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=बाल&oldid=503108" इत्यस्माद् प्रतिप्राप्तम्