मञ्जिष्ठा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जिष्ठा, स्त्री, (अतिशयेनेयं मञ्जिमती । मञ्जि- मती + इष्ठः । मतुपो लोपः स्त्रियां टाप् ।) स्वनामख्यातरक्तवर्णलताविशेषः । मजीठ इति हिन्दी भाषा । तत्पर्य्यायः । विकसा २ जिङ्गी ३ समङ्गा ४ कालमेषिका ५ मण्डूक- पर्णी ६ भण्डीरी ७ भण्डी ८ योजनवल्ली ९ । इत्यमरः । २ । ४ । ९० ॥ कालमेषी १० काला ११ जिङ्गिः १२ भण्डिरी १३ भण्डिका १४ भण्डिः १५ । इति शब्दरत्नावली ॥ हरिणी १६ रक्ता १७ गौरी १८ योजनवल्लिका १९ वप्रा २० रोहिणी २१ चित्रलता २२ चित्रा २३ चित्राङ्गी २४ जननी २५ विजया २६ मञ्जूषा २७ रक्तयष्टिका २८ क्षत्त्रिणी २९ रागाढ्या ३० कालभाण्डिका ३१ अरुणा ३२ ज्वरहन्त्री ३३ छत्रा ३४ नागकुमारिका ३५ भण्डीरलतिका ३६ रागाङ्गी ३७ वस्त्रभूषणा ३८ । (पर्य्या- यान्तरं यथा, -- “मञ्जिष्ठा विकसा जिङ्गी काला योजनपर्ण्यीप । ताम्रवल्ली चित्रपर्णी कान्तारी रक्तयष्टिका ॥” इति रत्नमाला ॥) अस्या गुणाः । मधुरत्वम् । कषायत्वम् । उष्ण- त्वम् । गुरुत्वम् । व्रणमेहज्वरश्लेष्मविषनेत्रामय- नाशित्वञ्च । सा चतुर्व्विधा । चोलः १ योजनी २ कौन्ती ३ सिंहली च ४ । इति राजनिर्घण्टः ॥ कुष्ठस्वरभङ्गशोथनाशित्वम् । वर्णाग्निकारित्वञ्च । इति राजवल्लभः ॥ अपि च । “मञ्जिष्ठा मधुरा तिक्ता कषाया स्वर्णवर्णकृत् । गुरूष्णा विषश्लेष्मघ्नी शोथयोन्यक्षिकर्णरुक् । रक्तातिसारकुष्ठास्राविसर्पव्रणमेहनुत् ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जिष्ठा¦ स्त्री अतिशयेन मञ्जीमती इष्ठन् मतुपो लोपः। स्वनामख्यातायां लतायाम् अमरः।
“मञ्जिष्ठा मधुरातिक्ता कषाया स्वर्णवर्णकृत्। गुरूष्णा विषश्लेष्मघ्नीशोथयोन्यक्षिकर्णरुक्। रक्तातीसारकुष्ठास्रविसर्पव्रण-मेहनुत्” भावप्र॰। मञ्जिष्ठया रक्तम् अण। माञ्जिष्ठतत्क्वाथेन रक्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जिष्ठा¦ f. (-ष्ठा) Bengal madder, a plant used in medicine, and in dy- ing, (Rubia Manjith, Rox.) E. मञ्जु beautiful, स्था to stay or be, क aff., deriv. irr.; or मञ्जि a compound pedicle, and स्थ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जिष्ठा [mañjiṣṭhā], [अतिशयेन मञ्जिमती इष्ठम् मतुपो लोपः Tv.] Bengal or Indian madder; मञ्जिष्ठां नागसंभवम् Śiva B.3.19.-Comp. -मेहः a kind of urinary disease.

रागः the colour of the Indian madder.

(fig.) attachment as charming and durable as the colour of the madder,i. e. durable or permanent attachment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जिष्ठा f. See. next.

मञ्जिष्ठा f. Indian madder , Rubia Munjista Kaus3. Sus3r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mañjiṣṭhā, ‘madder,’ is mentioned in the Aitareya (iii. 2, 4) and Śāṅkhāyana (viii. 7) Āraṇyakas.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=मञ्जिष्ठा&oldid=503330" इत्यस्माद् प्रतिप्राप्तम्