मयूखः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूखः, पुं, (मापयन् गगनं प्रमाणयन् ओखति गच्छतीति । पृषोदरादिः । इत्यमरटीकायां रधुनाथः । यद्वा, माति परिमातीव । मा + “माङ ऊखो मय च ।” उणा० ५ । २५ । इति ऊखः । मयादेशश्च ।) किरणः । (यथा, महाभारते । ३ । ३९ । ४३ । “व्यसृजच्छतधा राजन् ! मयूखानिव भास्करः ॥”) दीप्तिः । ज्वाला । इत्यमरः । १ । ४ । ३३ ॥ (यथा, रघौ । २ । ४६ । “अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्व्वन् । भूयः स भूतेश्वरपार्श्ववर्त्ती किञ्चिद्विहस्यार्थपतिं बभाषे ॥”) शोभा । इति मेदिनी । खे, ११ ॥ कीलः । इत्यजयः ॥ (पर्व्वतः । यथा, ऋग्वेदे । ७ । ९९ । ३ । “दाधर्थ पृथिवीमभितो मयूखैः ॥” “मयूखैः पर्व्वतैः ।” इति तद्भाष्ये सायनः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूखः [mayūkhḥ], [मा ऊख मयादेशः Uṇ.5.25]

A ray of light, beam, ray, lustre, brightness; विसृजति हिमगर्भैरग्निमिन्दु- र्मयूखैः Ś.3..4; R.2.46; Śi.4.56; Ki.5.5,8.

Beauty.

A flame.

The pin of a sun-dial. -Comp. -ईशः, -मालिन् the sun.

"https://sa.wiktionary.org/w/index.php?title=मयूखः&oldid=506884" इत्यस्माद् प्रतिप्राप्तम्