रश्मिः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रश्मिः, पुं, (अश्नुते व्याप्नोतीति । अशू व्याप्तौ + “अश्नोते रश्च ।” उणा० ४ । ४६ । इति मिः धातो रशादेशश्च ।) किरणः । (यथा, मनौ । ५ । १३३ । “मक्षिका विप्रुषश्छाया गौरश्वः सूर्य्यरश्मयः । रजो भूर्व्वायुरग्निश्च स्पर्शे मेध्यानि निर्द्दिशेत् ॥”) पक्ष्म । अश्वरज्जुः । इति मेदिनी ॥ * ॥ (यथा, ऋग्वेदे । १ । २८ । ४ । “यत्र मन्थां विबध्नते रश्मीन् यमित वा इव ॥” “रश्मीन् अश्वबन्धनार्थान् प्रग्रहान् ।” इति तद्भाष्ये सायणः ॥) सूर्य्यस्य रश्मिना जलादान- दाने यथा, -- “तेजोभिः सर्व्वलोकेभ्यो ह्यादत्ते रश्मिभिर्ज्जलम् । समुद्राद्बायुसंयोगाद्बहन्त्यापो गभस्तयः ॥ ततस्तु पयसां काले परिवर्त्तन्दिवाकरः । नियच्छत्यपो मेघेभ्यः शुक्लाशुक्लैस्तु रश्मिभिः ॥” इति मात्स्ये १०२ अध्यायः ॥ * ॥ श्वतो वर्षासु वर्णेन पाण्डरः शरदि प्रभुः । हेमन्ते ताम्रवर्णः स्यात् शिशिरे लोहितो रविः ॥ औषधीषु बलं धत्ते स्वधामपि पितृष्वथ । सूर्य्योऽमरत्वममृतत्रयं त्रिषु नियच्छति ॥ अन्ये चाष्टौ ग्रहाः ज्ञेयाः सूर्य्ये चाधिष्ठिता द्विजाः । चन्द्रमाः सोमपुत्त्रश्च शुक्रश्चैव बृहस्पतिः ॥ भौमो भानुस्तथा राहुः केतुमानपि चाष्टमः । सर्व्वे ध्रुवे निरुद्धा ये ग्रहास्ते वातरश्मिभिः । भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम् ॥” इति कौर्म्म्ये ४० अध्यायः ॥ तद्वैदिकपर्य्यायः । खेदयाः १ किरणाः २ गावः ३ रश्मयः ४ अभीशवः ५ दीधितयः ६ गभ- स्तयः ७ वनम् ८ उस्राः ९ वसवः १० मरी- चिपाः ११ मयूखाः १२ सप्तऋषयः १३ साध्याः १४ सुपर्णाः १५ । इति पञ्चदश रश्मि- नामानि । इति वेदनिघण्टौ । १५ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रश्मिः [raśmiḥ], [अश्-मि धातो रुट्, रश्-मि वा; cf. Uṇ.4.46]

A string, cord, rope; अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः Rām.4.17.2.

A bridle, rein; मुक्तेषु रश्मिषु निरायतपूर्व- कायाः Ś.1.8; रश्मिसंयमनात् Ś.1; Ki.7.19.

A goad, whip.

A beam, ray of light; ज्योतीषि वर्तयति च प्रवि- भक्तरश्मिः Ś.7.6; N.22.56; so हिमरश्मि &c.

An eyelash.

A measuring cord; परि यो रश्मिना दिवो Ṛv.8. 25.18.

A finger (Ved.). -Comp. -कलापः a pearlnecklace of 54 threads. -केतुः a particular comet.-ग्राहः a charioteer (सारथि); रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः Mb.8.31.55. -मालिन्, -मुचः the sun; अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः Ki.12.2; चण्डवातोद्धुतान् मेघान् निघ्नन् रश्मिमुचो यथा Mb.7.153.43.

"https://sa.wiktionary.org/w/index.php?title=रश्मिः&oldid=506924" इत्यस्माद् प्रतिप्राप्तम्