मेनका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनका, स्त्री, (मन्यते इति । मन् + “मनेराशिषि च ।” इति वुन् । ततः “नशिमन्योरलिट्येत्वं वक्तव्यम् ।” ६ । ४ । १२० । इत्यत्र काशिकोक्त्या अकारस्य एत्वम् ।) सर्व्वेश्या । इति शब्दरत्ना- वली ॥ तस्याः कन्या शकुन्तला । यथा, -- “विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने । वेदैतद्भगवान् कण्बो वीर ! किं करवाम ते ॥” इति श्रीभागवते । ९ । २० । १३ ॥ (मेनैव । मेना + स्वार्थे कन् ।) उमामाता । यथा, “ततः प्रीतास्तु पितरस्तां ददुस्तनयां निजाम् । मेनां देवाश्च शैलाय हिमयुक्ताय वै ददुः ॥ तां मेनां हिमवा~ल्लब्ध्वा प्रसादाद्दैवतेष्वथ । प्रीतिमानभवच्चासौ रराम च यथेच्छया ॥ ततो हिमाद्रिः पितृकन्यया समं सुखं सिषेवे विषयं यथेप्सितम् । अजीजनत् सा तनयास्तु मेना रूपाभियुक्ताः सुरयोषितोपमाः ॥ पुलस्त्य उवाच । मेनायां कन्यकास्तिस्रो जाता रूपगुणान्विताः । सुनाभ इति विख्यातश्चतुर्थस्तनयोऽभवत् ॥ नीलाञ्जनचयप्रख्या नीलेन्दीवरलोचना । रूपेणानुपमा काली जघन्या मेनकासुता ॥ जातास्ताः कन्यकास्तिस्रः षडब्दात् परतो मुने ! । कर्त्तुं तपः प्रयातास्ता देवास्ता ददृशुः शुभाः ॥ ततो गते कन्यके द्वे ज्ञात्वा मेना तपस्विनी । तपसो वारयामास उमे त्येवाब्रवीच्च सा ॥ तदैव माता नामास्याश्चक्रे पितृसुता शुभा । उमेत्येव हि कन्यायाः सा जगाम तपोवनम् ॥” इति वामने ७४ -- ७५ अध्यायः ॥ * ॥ अपि च । “कथं गिरिसुता काली बभूव जगतां प्रसूः । दाक्षायणी त्यक्ततनुः कथमाप हरं पतिम् ॥” मार्कण्डेय उवाच । यदात्यजत्तनुं देवी पूर्ब्बं दाक्षायणी सती । तदैव मनसागच्छन्मेनकां हिमवद्गिरिम् । त्यक्तप्राणा तदा देवी भूता हिमघतः सुता ॥ शिवाविन्यस्तमनसा सप्तविंशतिवत्सरान् । निनाय मेनका देवी परमामृतिमिच्छती ॥ सप्तविंशतिवर्षन्ते जगन्माता जगन्मयी । सुप्रीता भवदत्यर्थं प्राह प्रत्यक्षतां गता ॥ श्रीदेव्युवाच । यत् प्रार्थितं त्वया देवि ! मत्तस्तत् प्रार्थयाधुना । ततः सा प्रथमं पुत्त्रशतं वव्रे यशस्विनी ॥ पश्चात्तु तनयामेकां स्वरूपगुणशालिनीम् । कुलद्वयानन्दकरीं भुवनत्रयदुर्लभाम् ॥ ततो भगवती प्राह मेनकां मुनिसन्निभाम् ॥ श्रीदेव्युवाच । शतं पुत्त्राः संभवन्तु भवत्या वीर्य्यसंयुताः । सुता च तव देवानां मानुषाणाञ्च रक्षसाम् ॥ हिताय सर्व्वजगतां भविष्याम्यहमेव ते । एवमुक्त्वा जगद्धात्री तत्रैवान्तरधीयत ॥ ततः सा कालिका देवी योगनिद्रा जगन्मयी । पूर्ब्बत्यक्तसतीरूपा जन्मार्थं मेनकां ययौ ॥ समयस्यानुरूपेण मेनकाजठरे शिवा । समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात् ॥ वसन्तसमये देवी नवम्यां मृगयोगतः । अर्द्धरात्रौ समुत्पन्ना गङ्गेव शशिमण्डलात् ॥” इति कालिकापुराणे ४० अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनका स्त्री।

मेनकानामाप्सरा

समानार्थक:मेनका

1।1।52।2।2

स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः। घृताची मेनका रम्भा उर्वशी च तिलोत्तमा। सुकेशीमञ्जुघोषाद्याः कथ्यम्तेऽप्सरसो बुधैः। हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्.।

स्वामी : इन्द्रः

सम्बन्धि1 : देवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनका¦ स्त्री मि--नक।

१ स्वर्वेश्याभेदे शब्दर॰। मेनैव स्वार्थेक।

२ हिनालयप्रत्न्याम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनका¦ f. (-का)
1. One of the courtezans of Swarga.
2. Name of the wife of Hima4laya. E. मे to me, का any one, न not, (equal or com- parable.); or मि-नक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनका [mēnakā], 1 N. of an Apsaras (mother of Śakuntalā).

N. of the wife of Himālaya. -Comp. -आत्मजा N. of Pārvatī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनका f. N. of the daughter of वृषण्-अश्वShad2vBr.

मेनका f. of an अप्सरस्(wife of हिम-वत्) MBh. Ka1v. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the mother of शकुन्तला; she abandoned the child in the forest and went away. भा. IX. २०. १३.
(II)--the Apsaras presiding over the month of शुक्र and शुचि; coupled with सहजन्या; फलकम्:F1:  भा. XII. ११. ३५; Br. II. २३. 6; III. 7. १४; IV. ३३. १८; वा. ६९. ४९; Vi. II. १०. 7.फलकम्:/F with the sun in the summer. फलकम्:F2:  वा. ५२. 7.फलकम्:/F
(III)--one, who was asked to dance along with ऊर्वशी and रम्भा; फलकम्:F1:  M. २४. २८.फलकम्:/F in the सभा of हिरण्यकशिपु. फलकम्:F2:  Ib. १२६. 7; १६१. ७५.फलकम्:/F
(IV)--the Apsaras wife of विन्ध्याश्व (बध्यश्व वा। प्।): gave birth to twins, दिवोदास and अहल्या. M. ५०. 7; वा. ९९. २००.
(V)--a mind-born mother. M. १७९. २०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MENAKĀ : A nymph of extraordinary beauty. Taking instructions from Indra, Menakā used to entice many sages and destroy their power of penance. There are innumerable stories of this kind in Purāṇas. Some important events connected with Menakā are given below:

1) Mother of Pramadvarā. Once Menakā became preg- nant by a Gandharva named Viśvāvasu. On the day she delivered she threw the child on the banks of a river and went to Svarga. A sage named Sthūlakeśa who was doing penance nearby took the babe and brought it up. When she grew up she was named Pramadvarā and Ruru married her. (See under Pramadvarā).

2) Birth of Śakuntalā. When Viśvāmitra was perform- ing penance in the forests, Menakā, under instructions from Indra, went and enticed Viśvāmitra and broke the continuity of his penance. A girl was born to Menakā and became later the celebrated Śakuntalā. (See under Śakuntalā).

3) Again with Viśvāmitra. Once again when Viśvāmitra was performing penance in Puṣkaratīrtha, Menakā appro- ached him and again Viśvāmitra fell in love with her and they lived together for ten years. Then one day Viśvā- mitra realised his folly and leaving her went again to the forests for penance.

4) Maṅkaṇa was enticed See under Maṅkaṇa.

5) Other details.

(i) When once Durvāsas visited Devaloka it was Menakā who presented him with a flower garland. This incident led to the churning of the milk ocean at a later period. (See under Amṛta).

(ii) Menakā was one among the six prominent celestial maidens. Urvaśī, Pūrvacitti, Sahajanyā, Menakā, Ghṛtācī and Viśvācī are the six. (Śloka 68, Chapter 74, Ādi Parva).

(iii) Menakā attended the Janmotsava of Arjuna and sang on the occasion. (Śloka 64, Chapter 122, Ādi Parva).

(iv) Menakā was a dancer in the court of Kubera (Śloka 10, Chapter 10, Sabhā Parva).

(v) Menakā once gave a music performance in the court of Indra in honour of Arjuna. (Śloka 29, Chapter 43, Vana Parva).


_______________________________
*1st word in right half of page 501 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Menakā. See 2. Menā.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=मेनका&oldid=474303" इत्यस्माद् प्रतिप्राप्तम्