सामग्री पर जाएँ

रजः

विकिशब्दकोशः तः

सम्स्कृतम्

[सम्पाद्यताम्]

रजः


अनुवादाः

[सम्पाद्यताम्]
  1. आम्गलम्- dust ,powder
  2. मलयाळम्- പൊടി, ധൂളി

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजः, पुं, (रञ्जयतीति । रन्ज् + अच् । निपातना- न्नलोपः ।) परागः । (यथा, गो० रामायणे । ३ । ७९ । २९ । “पद्मपुष्परजोन्मिश्रो वृक्षान्तरविनिःसृतः । निश्वास इव सीताया वायुर्वाति मनोरमः ॥”) रेणुः । (“अर्थाः पादरजोपमाः ॥” इति उज्ज्वलदत्तः । ४ । २१६ ॥) गुणभेदः । आर्त्तवम् । इति जान्तवर्गे शब्दरत्नावली ॥ (स्कन्दस्य सेनाविशेषः । यथा, महाभारते । ९ । ४५ । ७१ । “दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ॥” विरजपुत्त्रः । यथा, विष्णुपुराणे । २ । १ । ४० । “त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत्सुतः ॥” वशिष्ठपुत्त्रः ऋषिभेदः । यथा, विष्णुपुराणे । १ । १० । १३ । “ऊर्ज्जायान्तु वशिष्ठस्य सप्ताजायन्त वै सुताः । रजो गात्रोर्द्ध्वबाहुश्च वसनश्चानघस्तथा ॥”)

रजः [स्] क्ली, (रज्यते रजतीति । रन्ज् + “भू- रञ्जिभ्यां कित् ।” उणा० ४ । २१६ । इत्यसुन् ।) स्त्रीणां मासि मासि योनिनिःसृतरक्तम् । तत्- पर्य्यायः । पुष्पम् २ आर्त्तवम् ३ । इत्यमरः । २ । ६ । २१ ॥ ऋतुः ४ कुसुमम् ५ रजम् ६ । इति शब्दरत्नावली ॥ (यथा, मनौ । ५ । १०८ । “रजसा स्त्री मनोदुष्टा सन्न्यासेन द्बिजोत्तमः ॥” अस्य लक्षणं यथा, -- “रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् । अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ॥ रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्त्तते । तद्बर्षाद्बादशादूर्द्ध्वं याति पञ्चाशतः क्षयम् ॥” “नारीणां रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिवृद्धिर्भवति ।” इति सुश्रुते सूत्रस्थाने १४ अध्यायः ॥ “मासि मासि रजःस्त्रीणां रसजं स्रवति त्र्यहम् । वत्सराद्द्वादशादूर्द्धं याति पञ्चाशतः क्षयम् ॥” इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥) प्रकृतेर्गुणविशेषः । तत्तु रागद्वेषात्मकं दुःख- हेतुः । रजोऽदन्तः पुंलिङ्गोऽपि । यथा, -- “रजोऽयं रजसा सार्द्धं स्त्रीपुष्पगुणधूलिषु ।” इत्यमरदत्तः । इति भरतः ॥ महाभारतमते दुःखजनकगुणः । तस्य धर्म्मः कामः क्रोधः लोभः मानः दर्पश्च । इति मोक्ष- धर्म्मः ॥ “तृष्णा क्रोधोऽभिसंरम्भो राजसास्ते गुणाः स्मृताः ॥” अभिसंरम्भो द्बेषाभिनिवेशः । इत्याश्वमेधिक- पर्व्व ॥ अपि च । “काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥” इति श्रीभगवद्गीतायाम् । २ अध्यायः ॥ अपि च । “सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥” “रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय ! कर्म्मसङ्गेन देहिनम् ॥” “सत्त्वं सुखे सञ्जयति रजः कर्म्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजः [rajḥ], See रजस्.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजः in comp. for रजस्.

"https://sa.wiktionary.org/w/index.php?title=रजः&oldid=506919" इत्यस्माद् प्रतिप्राप्तम्