रत्न
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रत्नम्, क्ली, (रमयति हर्षयतीति । रम् + णिच् + “रमेस्त च ।” उणा० ३ । १४ । इति नः तकारश्चान्तादेशः ।) अश्मजातिः । मुक्तादि । तत्पर्य्यायः । मणिः २ । इत्यमरः ॥ (यथा, कुमारे । ५ । ४५ । “न रत्नमन्विष्यति मृग्यते हि तत् ॥”) स्वजातिश्रेष्ठः । इति मेदिनी ॥ (यथा, मार्कण्डेये । ८५ । ४५ । “स्त्रीरत्नमतिचार्व्वङ्गी द्योतयन्ती दिशस्त्विषा ॥”) माणिक्यम् । वज्रम् । इति राजनिर्घण्टः ॥ * ॥ अथ रत्नोत्पत्तिकारणम् । यथा, -- सूत उवाच । “वच्मि परीक्षां रत्नानां वलो नामासुरोऽभवत् । इन्द्राद्या निर्ज्जितास्तेन निर्जेतुं तैर्न शक्यते ॥ वरव्याजेन पशुतां याचितः स सुरैर्मखे । बलो ददौ स्वपशुतामतिसत्त्वो मखे हतः ॥ पशुवत्स विशेत् स्तम्भे स्ववाक्याशनियन्त्रितः । बलो लोकोपकाराय देवानां हितकाल्यया ॥ तस्य सत्त्वविशुद्धस्य सुविशुद्धेन कर्म्मणा । कायस्यावयवाः सर्व्वे रत्नबीजत्वमाययुः ॥ देवानामथ यक्षाणां सिद्धानां पवनाशिनाम् । रत्नबीजमयं ग्राहः सुमहानभवत्तदा ॥” * ॥ अथ तस्याकरस्थानानि यथा, -- “तेषान्तु पततां वेगाद्बिमानेन विहायसा । यद्यत् पपात रत्नानां बीजं क्वचन किञ्चन ॥ महोदधौ सरिति वा पर्व्वते काननेऽपि वा । तत्तदाकरतां यातं स्थानमाधेयगौरवात् ॥ तेषु रक्षोविषव्यालव्याधिघ्नान्यघहानि च । प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥ वज्रमुक्ताश्ममणयः सपद्मरागाः समरकताः प्रोक्ताः । अपि चेन्द्रनीलमणिवरवैदूर्य्याश्च पुष्परागाश्च । कर्केतनं सपुलकं रुधिराक्षसमन्वितं तथा स्फटिकम् । विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः ॥ * ॥ आकारवर्णौ प्रथमं गुणदोषौ तत्फलं परीक्षा च । मूल्यञ्च रत्नकुशलैर्व्विज्ञेयं सर्व्वशास्त्राणाम् ॥ कुलग्नेषूपजायन्ते यानि चोपहतेऽहनि । दोषैस्तानुपयुज्यन्ते हीयन्ते गुणसम्पदा ॥ परीक्षापरिशुद्धानां रत्नानां पृथिवीभुजा । धारणं संग्रहो वापि कार्य्यः श्रियमभीप्सता ॥ शास्त्रज्ञाः कुशलाश्चापि रत्नभाजः परीक्षकाः । त एव मूल्यमात्राया वेत्तारः परिकीर्त्तिताः ॥” इति गारुडे ६८ अध्यायः ॥ विशेषरत्नपरीक्षा तत्तच्छब्दे द्रष्टव्या ॥ * ॥ चतु- र्द्दश महारत्नानि यथा । रुशंङ्कोश्चित्ररथः तत्तनयः शशबिन्दुश्चतुर्द्दशमहारत्नश्चक्रवर्त्त्य- भवत् । चतुर्द्दश महान्ति रत्नानि यस्य सः । रत्नानि तु स्वजातिश्रेष्ठानि धर्म्मसंहितोक्तानि । “चक्रं रथो मणिः खड्गश्चर्म्म रत्नञ्च पञ्चमम् । केतुर्निधिश्च सप्तैवमप्राणानि प्रचक्ष्यते ॥ भार्य्या पुरोहितश्चैव सेनानी रथकृच्च यः । पत्त्यश्वौ कलभश्चेति प्राणिनः सप्त कीर्त्तिताः ॥ चतुर्द्दशैतानि रत्नानि लर्व्वेषां चक्रवर्त्तिना- मिति । इति विष्णुपुराणे ४ अंशे १२ अध्यायः तट्टीका च ॥ (अथ रत्नस्य निरुक्तिः । “धनार्थिनो जनाः सर्व्वे रमन्तेऽस्मिन्नतीव यत् । ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥” अथ रत्नस्य नामानि स्वरूपनिरूपणञ्च । यथा, -- “रत्नं क्लीवे मणिः पुंसि स्त्रियामपि निगद्यते । तत्तु पांषाणभेदोऽस्ति मुक्तादि च तदुच्यते ॥” अथ रत्नानां निरूपणम् । “रत्नं गारुत्मतं पुष्परागो माणिक्यमेव च । इन्द्रनीलश्च गोमेदस्तथा वैदूर्य्यमित्यपि ॥ मौक्तिक विद्रुमश्चेति रत्नान्युक्तानि वै नव । रत्नं हीरा । गारुत्मतं पान्ना । माणिक्यं पद्म- रागः । इन्द्रनीलः लीला । विष्णुधर्म्मोत्तरेऽपि नवरत्ननिरूपणम् । मुक्ताफलं हीरकञ्च वैदूर्य्यं पद्मरागकम् । पुष्परागञ्च गोमेदं नीलं गारुत्मतन्तथा । प्रवालयुक्तान्येतानि महारत्नानि वै नव ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रत्न नपुं।
रत्नम्
समानार्थक:रत्न,मणि,वसु
2।9।93।2।1
मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम्. रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च॥
: विष्णोः_मणिः, हारमध्यगमणिः, मरतकमणिः, पद्मरागमणिः, प्रवालमणिः, मध्यरत्नम्, हीरकः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
रत्न नपुं।
स्वजातिश्रेष्ठः
समानार्थक:रत्न
3।3।126।2।1
अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि। रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रत्न¦ न॰ रमतेऽत्र रम--न तान्तादेशः।
१ माणिक्यादिप्रस्तरेअमरः।
२ स्वस्वजातिषु श्रेष्ठे मेदि॰
३ माणिक्ये
४ ही-रके च राजनि॰। तद्भेदादिकं वृ॰ स॰
८० अ॰ उक्तं यथा
“रत्येन शुभेन शुभं भवति नृपाणामनिष्टमशुभेन। यस्मादतः परीक्ष्यं दैवं रत्नाश्रितं तज्ज्ञैः। द्विपहय-बनितादीनां स्वगुणविशेषेण रत्नशब्दोऽस्ति। इह तू-[Page4791-a+ 38] पुलरत्नानामधिकारो वज्रपूर्वाणाम। रत्नानि बलाद्दै-त्याद् दधीचितोऽन्ये वदन्ति जातानि। केचिद्भुवःस्वभावाद् वैचित्र्यं प्राहुरुपलानाम्। वज्रेन्द्रनील-मरकतकर्केतनपद्मरागरुधिराख्याः। वैदूर्य्यपुलकवि-मलकरराजमणिस्फटिकशशिकान्ताः। सौगन्धिकगोमेद-कशङ्खमहानीलपुष्परागाख्याः। ब्रह्ममणिज्योतीरसशस्य-कमुक्ता प्रवालानि”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रत्न¦ n. (-त्नं)
1. A jewel, a gem.
2. Any thing the best of its kind, or figuratively, the jewel of the species. E. रम् to sport, Una4di aff. न, and त substituted for the radical final.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रत्नम् [ratnam], [रमते$त्र रम्-न तान्तादेशः Uṇ.3.14]
A gem, jewel, a precious stone; किं रत्नमच्छा मतिः Bv.1.86; न रत्नमन्विष्यति मृग्यते हि तत् Ku.5.45. (The ratnas are said to be either five, nine or fourteen; see the words पञ्चरत्न, नवरत्न, and चतुर्दशरत्न respectively.)
Anything valuable or precious, any dear treasure.
Anything best or excellent of its kind; (mostly at the end of comp.); जातौ जातौ यदुत्कृष्टं तद् रत्नमभिधीयते Malli; कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनः Mv.1.3; अग्रेसरीभवतु काञ्चनचक्ररत्नम् Nāg.5.37; so पुत्र˚, स्त्री˚ V.4.25; अपत्य˚ &c.
A magnet.
Water. -Comp. -अङ्कः N. of Viṣṇu's car. -अङ्गः coral. -अचलः, -रोहणः legendary mountain located in Ceylon and supposed to produce jewels at the rumbling of clouds for the benefit of all comers; श्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः N.12.67. -अधिपतिः a superintendent of precious stones. -अतुविद्ध a. set or studded with jewels.
आकरः a mine of jewels.
the ocean; रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः Vikr. 1.12; रत्नाकरं वीक्ष्य R.13.1. -आभरणम् an ornament of jewels. -आलोकः the lustre of a gem.
आवली a necklace of jewels.
N. of a Nāṭikā attributed to Śrīharṣa. -कन्दलः coral. -करः N. of Kubera.-कर्णिका an ear-ring with jewels. -कुम्भः a jar set with jewels. -कूटः N. of a mountain. -खचित a. set or studded with gems.
गर्भः Kubera.
the sea. (-र्भा) the earth. -च्छाया splendour of jewels.
त्रयम् (with Buddhists) बुद्ध, धर्म and संघ.
(with Jainas) सम्यग् दर्शन, सम्यग् ज्ञान and सम्यक् चारित्र. -दर्पणः a mirror studded with jewels.
दीपः, प्रदीपः a jewel-lamp.
a gem serving as a lamp; अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् Me.7. -धेनुः a cow symbolically represented by jewels. -नखः a poniard with its hilt set with jewels; कटितटनिविष्टरत्ननखः Dk.2.1. -नाभः N. of Viṣṇu. -नायकः a ruby.
निधिः the ocean.
N. of Viṣṇu.
of Meru.
a wag-tail. -पञ्चकम् the 5 jewels (viz. gold, silver, pearls, the राजावर्त diamond and coral). -पारायणम् the sheet-anchor of all jewels; रत्नपारायणं नाम्ना लङ्केति मम मैथिलि Bk.5.89. -प्रभा the earth. -माला a jewel-necklace. -मुख्यम् a diamond.-राज् m. a ruby.
राशिः a heap of gems.
the ocean. -वरम् gold. -वर्षुकम् the Puṣpaka car. -षष्ठी a vow or fast to be observed on the 6th day of a particular fortnight; it is a ग्रीष्मव्रत; अहं खलु रत्नषष्ठीमुपोवितासम् Mk.3.-सानुः N. of the mountain Meru. -स् a. producing jewels; न मामवति सद्वीपा रत्नसूरपि मेदिनी R.1.65. -सूः, -सूतिः f. the earth.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रत्न n. (1. रा)a gift , present , goods , wealth , riches RV. AV. S3Br.
रत्न n. a jewel , gem , treasure , precious stone (the nine -jjewel are pearl , ruby , topaz , diamond , emerald , lapis lazuli , coral , sapphire , गोमेद; hence रत्नis a N. for the number 9 ; but accord. to some 14) Mn. MBh. etc.
रत्न n. anything valuable or best of its kind (e. g. पुत्र-र्, an excellent son)
रत्न n. a magnet , loadstone Kap. Sch. (See. मणि)
रत्न n. water L.
रत्न n. = रत्न-हविस्S3Br.
रत्न m. (with भट्ट)N. of a man Cat.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Ratna in the Rigveda[१] and later[२] denotes a precious object, not specifically a ‘jewel,’ as in post-Vedic literature.