रश्मि

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रश्मिः, पुं, (अश्नुते व्याप्नोतीति । अशू व्याप्तौ + “अश्नोते रश्च ।” उणा० ४ । ४६ । इति मिः धातो रशादेशश्च ।) किरणः । (यथा, मनौ । ५ । १३३ । “मक्षिका विप्रुषश्छाया गौरश्वः सूर्य्यरश्मयः । रजो भूर्व्वायुरग्निश्च स्पर्शे मेध्यानि निर्द्दिशेत् ॥”) पक्ष्म । अश्वरज्जुः । इति मेदिनी ॥ * ॥ (यथा, ऋग्वेदे । १ । २८ । ४ । “यत्र मन्थां विबध्नते रश्मीन् यमित वा इव ॥” “रश्मीन् अश्वबन्धनार्थान् प्रग्रहान् ।” इति तद्भाष्ये सायणः ॥) सूर्य्यस्य रश्मिना जलादान- दाने यथा, -- “तेजोभिः सर्व्वलोकेभ्यो ह्यादत्ते रश्मिभिर्ज्जलम् । समुद्राद्बायुसंयोगाद्बहन्त्यापो गभस्तयः ॥ ततस्तु पयसां काले परिवर्त्तन्दिवाकरः । नियच्छत्यपो मेघेभ्यः शुक्लाशुक्लैस्तु रश्मिभिः ॥” इति मात्स्ये १०२ अध्यायः ॥ * ॥ श्वतो वर्षासु वर्णेन पाण्डरः शरदि प्रभुः । हेमन्ते ताम्रवर्णः स्यात् शिशिरे लोहितो रविः ॥ औषधीषु बलं धत्ते स्वधामपि पितृष्वथ । सूर्य्योऽमरत्वममृतत्रयं त्रिषु नियच्छति ॥ अन्ये चाष्टौ ग्रहाः ज्ञेयाः सूर्य्ये चाधिष्ठिता द्विजाः । चन्द्रमाः सोमपुत्त्रश्च शुक्रश्चैव बृहस्पतिः ॥ भौमो भानुस्तथा राहुः केतुमानपि चाष्टमः । सर्व्वे ध्रुवे निरुद्धा ये ग्रहास्ते वातरश्मिभिः । भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम् ॥” इति कौर्म्म्ये ४० अध्यायः ॥ तद्वैदिकपर्य्यायः । खेदयाः १ किरणाः २ गावः ३ रश्मयः ४ अभीशवः ५ दीधितयः ६ गभ- स्तयः ७ वनम् ८ उस्राः ९ वसवः १० मरी- चिपाः ११ मयूखाः १२ सप्तऋषयः १३ साध्याः १४ सुपर्णाः १५ । इति पञ्चदश रश्मि- नामानि । इति वेदनिघण्टौ । १५ ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रश्मि पुं।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

1।3।33।1।7

किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः। भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्.।

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

रश्मि पुं।

प्रग्रहः

समानार्थक:रश्मि,अभीषु,प्रग्राह,प्रग्रह

3।3।138।1।1

किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ। इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रश्मि¦ पु॰ अश--मि धातोरुट् रश--मि वा।

१ किरणे

२ अश्वादिदामनि

३ पद्मे न॰ मेदि॰। रवेः रश्मिमेदादिकार्य्यं मत्स्यपु॰

१०

३ अ॰ उक्तं यथा
“तेजोभिः सर्वलोकेभ्यो ह्यादत्ते रश्मिभिर्जलम्। समु-द्राद्वायुसंयोगाद् वहन्त्यापो गभस्तयः। ततस्तु पयसांकाले परिवर्त्तन् दिवाकरः। नियच्छत्यपो मेघेभ्यःशुक्लाशुक्लैस्तु रश्मिभिः”। कूर्मपु॰

४ अ॰ विस्तरेणोक्तं यथा
“एवमेष महादेवो देवदेवः पितामहः। करोतिनियतं कालं कालात्मा{??}श्वरी तनुः। तस्य ये रश्मयोविप्राः सर्वलोकप्रदीपकाः। तषां श्रेष्ठाः पुनः सप्त-रश्मयो ग्रहयोनयः। सुषुम्णोहरिकेशश्च विश्वकर्मातथैव च। विश्वव्यचाः पुनश्चान्यः सम्पद्दसुरतः प्ररः। अर्वाग्वसुरिति ख्यातः स्वराडन्यः प्रकीर्त्तितः। सुषुम्णःसूर्य्यरश्मिस्तु पुष्णाति शिशिरद्युसिम्। तिर्य्यगूर्द्ध्वप्रचा-रोऽसौ सुषुम्णःः परिगीयते। हरिकेशस्तु यः प्रोक्तोरश्मिर्नक्षत्रपोषकः। विश्वकर्मा तथा रश्मिर्बुधं पुष्णातिसर्वदा। विश्वव्यचास्तु यो रश्मिः शुक्रं पुष्णांतिनित्यदा। सम्पद्वसुरिति ख्यातं स पुष्णाति च लो-हितम्। वृहस्पतिं प्रपुष्णाति रश्मिरर्वाग्वसुः प्रभोः। शनैश्चरं प्रपुष्णाति सप्तसश्च स्वराट् तथा। एवंसूर्य्यप्रभावेन सर्वा नक्षत्रतारकाः। वर्द्धन्ते वर्द्धिता[Page4794-a+ 38] नित्यं नित्यमाप्यायवन्ति च। दिव्यानां पार्थिवानाञ्चनैशानाञ्चैव सर्वशः। आदानान्नित्यमादित्यस्तेजसातमसां प्रभुः। आदत्ते स तु नाडीनां सहस्रेण सम-न्ततः। नादेयांश्चैव सामुद्रान् कूपांश्चैव सहस्रकम्। स्थावरान् जङ्गर्माश्चैव यच्च कुल्यादिकं पयः। तस्यरश्मिसहस्रन्तु शीतवर्षोष्णनिस्रवम्। तासां चतुः-शतं नाद्ध्यो वर्षन्ते चित्रमूर्त्तयः। छन्दनाश्चैव वाह्याश्चकोतनाभृकणास्तथा। अमृता नामतः सर्वा रश्मयो वृष्टि-सर्जनाः। हिमोद्वहाश्च तामस्यो रश्मयस्त्रिशतं पुनः। वश्यो मेष्यश्च पैष्यश्च ह्रादिन्यो हिमसर्जनाः। चन्द्रास्तानामतः सर्वाः पीताभाः स्युर्गभस्तयः। शुक्राश्च ककुभश्चैवगावो विश्वभृतस्तथा। शुक्रास्ता नामतः सर्वास्त्रिविधाधर्मसर्जनाः। समं विभर्त्ति ताभिः स मनुष्यपितृ-देवताः। मनुष्यानौषधेनेह स्वधया च पितॄनपि। अमृतेन सुरान् सर्वान् त्विषा त्रीस्तर्पयत्यसौ। वसन्तेग्रीष्मके चैव शतैः सन्तर्पति त्रिभिः। शरद्यपि च वर्षासुचतुर्भिः स प्रवर्षति। हेमन्ते शिशिरे चैव हिममुत्-सृजति त्रिभिः। वरुणो

१ माथमासे तु सूर्य्यः पूषा

२ तुफाल्गुने। चैत्रे

३ मासि भवेदीशो धाता

४ वैशास्यतापनः। ज्यैष्ठमासे भवेदिन्द्र

५ आषाढे सविता

६ रविः। विव

७ स्वान्श्रावणे मासि प्रौष्ठपद्यां भगः

८ स्मृतः। पर्जन्यो

९ -ऽश्वयुजि त्वष्टा

१० कार्त्तिके मासि भास्करः। मार्गशीर्षेभवेन्मित्रः

११ पौषे विष्णुः सनातनः। पञ्चरश्मिसहस्राणिवरुणस्यार्ककर्मणि। षड्भिः सहस्रैः पूषा तु देवेशः सप्त-भिस्तथा। धाता ष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः। विवस्वान् दशभिः पाति पात्येकादशभिर्भगः। सप्तभि-स्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत्। अर्य्यमा दशभिःवाति पर्जन्यो नवभिस्तपेत्। षड्भीरश्मिसहस्रैस्तुविष्णुस्तपति विश्वधृक्। वसन्ते कपिलः सूर्य्यो ग्रीष्मेकाञ्चनसंप्रभः। श्वेतो वर्षासु वर्णेन पाण्डरः शरदिप्रभुः। हेमन्ते ताम्रवर्णः स्यात् शिशिरे लोहितोरविः। ओषधीषु बलं धत्ते स्वधामपि पितृष्वथ। सूर्य्योऽमरत्वममृतत्रयं त्रिषु नियच्छति। अन्ये चाष्टौग्रहाः ज्ञेयाः सूर्य्येणाधिष्ठिता द्विजाः!। चन्द्रमाःसोमपुत्रश्च शुक्रश्चैव वृहस्पतिः। भौमो भानुसुतोराहुः केतुमानपि चाष्टमः। सर्वे ध्रुवे निबद्धा ये ग्र-हास्ते वातरश्मिभिः। भ्राम्यमाणा यथायोगं भ्रम-न्त्यनुदिवाकरम्”। [Page4794-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रश्मि¦ m. (-श्मिः)
1. A ray of light.
2. A rein, a bridle.
3. An eye-lash. E. अश् to pervade, Una4di aff. मि, रश substituted for the radical.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रश्मिः [raśmiḥ], [अश्-मि धातो रुट्, रश्-मि वा; cf. Uṇ.4.46]

A string, cord, rope; अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः Rām.4.17.2.

A bridle, rein; मुक्तेषु रश्मिषु निरायतपूर्व- कायाः Ś.1.8; रश्मिसंयमनात् Ś.1; Ki.7.19.

A goad, whip.

A beam, ray of light; ज्योतीषि वर्तयति च प्रवि- भक्तरश्मिः Ś.7.6; N.22.56; so हिमरश्मि &c.

An eyelash.

A measuring cord; परि यो रश्मिना दिवो Ṛv.8. 25.18.

A finger (Ved.). -Comp. -कलापः a pearlnecklace of 54 threads. -केतुः a particular comet.-ग्राहः a charioteer (सारथि); रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः Mb.8.31.55. -मालिन्, -मुचः the sun; अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः Ki.12.2; चण्डवातोद्धुतान् मेघान् निघ्नन् रश्मिमुचो यथा Mb.7.153.43.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रश्मि m. (exceptionally f. ; See. रशनाand Un2. iv , 46 )a string , rope , cord , trace , rein , bridle , leash , goad , whip (also fig. applied to the fingers) RV. etc.

रश्मि m. a measuring cord RV. viii , 25 , 18

रश्मि m. a ray of light , beam , splendour RV. etc.

रश्मि m. = अन्न, food VS. xv , 16

रश्मि m. = पक्ष, or पक्ष्मन्L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the २० Sutapa गणस्. वा. १००. १५.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Raśmi is not rarely found in the sense of ‘rope’[१] generally; but more usually it denotes either the ‘reins’ or the ‘traces’[२] of a chariot, either sense being equally good in most passages.

2. Raśmi in the Rigveda[३] and later[४] regularly denotes a ‘ray’ of the sun.

  1. Rv. i. 28, 4;
    iv. 22, 8;
    viii. 25, 18, etc.;
    Aitareya Brāhmaṇa, iv. 19, 3, etc.
  2. Rv. viii. 7, 8;
    x. 130, 7, etc.;
    Taittirīya Saṃhitā, i. 6, 4, 3;
    Vājasaneyi Saṃhitā, xxiii. 14;
    Taittirīya Brāhmaṇa, i. 2, 4, 2, etc. In Aitareya Brāhmaṇa, ii. 37, 1, the two inner (antarau) reins or traces of the chariot are mentioned.

    Cf. Zimmer, Altindisches Leben, 249.
  3. i. 35, 7;
    iv. 52, 7;
    vii. 36, 1;
    77, 3, etc.
  4. Av. ii. 32, 1;
    xii. 1, 15;
    Taittirīya Brāhmaṇa, iii. 1, 1, 1;
    Śatapatha Brāhmaṇa, ix. 2, 3, 14, etc.
"https://sa.wiktionary.org/w/index.php?title=रश्मि&oldid=503777" इत्यस्माद् पुनः प्राप्तिः