लेखनी

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखनी, स्त्री, लिख्यतेऽनया । (लिख + ल्युट् । ङीष् ।) लेखनसाधनवस्तु । तत्पर्य्यायः । वर्ण- तूलिका २ । इति हारावली ॥ वर्णतूली ३ कलमः ४ अक्षरतूलिका ५ । इति जटाधरः ॥ कराश्रयः ६ चित्रकः ७ । इति शब्दरत्ना- वली ॥ * ॥ (यथा, महाभारते । १ । १ । ७८ । “श्रुत्वैतत् प्राह विघ्नेशो यदि मे लेखनी क्षणम् । लिखतो नावतिष्ठेत तदास्यां लेखको ह्यहम् ॥”) लेखनीकरणशुभाशुभं यथा, -- “वंशसूच्या लिखेद्बर्णं तस्य हानिर्भवेद्ध्रुवम् । ताम्रसूच्या तु विभवो भवेन्न तत्क्षयो भवेत् ॥ महालक्ष्मीर्भवेन्नित्यं सुवर्णस्य शलाकया । बृहन्नलस्य सूच्या वै मतिवृद्धिः प्रजायते ॥ तथा अग्निमयैर्द्देवि पुत्त्रपौत्त्रधनागमः ।” अग्निमयैश्चित्रकाष्ठमयैः । “रैत्येन विपुला लक्ष्मीः कांस्येन मरणं भवेत् ॥ अष्टाङ्गुलप्रमाणेन दशाङ्गुलेन वाथवा । चतुरङ्गुलसूच्या वा यो लिखेत् पुस्तकं शुभे । तत्तदक्षरसंख्ये तु स्वल्पायुर्याति वै दिने ॥” यथा रैत्येनेत्यादिवचने एकत्रैव विधिनिषेधौ तथात्राप्यष्टाङ्गुलदशाङ्गुलयोर्विधिः निषेधश्चतु- रङ्गुले । इति योगिनीतन्त्रे तृतीयभागे ७ पटलः ॥ (खटिका । तत्पर्य्यायो यथा, -- “खटिका कठिनी चापि लेखनी च निगद्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखनी f. id. L.

"https://sa.wiktionary.org/w/index.php?title=लेखनी&oldid=504018" इत्यस्माद् प्रतिप्राप्तम्