लोह

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहम्, क्ली, अगुरु । इत्यमरः ॥ (अथास्य पर्य्यायः । “अगुरुप्रवरं लोहं राजार्हं योगजन्तथा । वंशिकं क्रिमिजं वापि क्रिमिजग्धमनार्यकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

लोहः, पुं, क्ली, (लूयतेऽनेनेति । लू + बाहुलकात् हः ।) लौहम् । जोङ्गकम् । सर्व्वतैजसम् । इति मेदिनी । हे, ८ ॥ रुधिरम् । इति राजनिर्घण्टः ॥ अथ मुण्डलोहस्य पर्य्यायः । मुण्डम् २ मुण्डा- यसम् ३ दृषत्सारम् ४ शिलात्मजम् ५ अश्म- जम् ६ कृषिलोहम् ७ आरम् ८ कृष्णायसम् ९ ॥ अथ तीक्ष्णलोहस्य पर्य्यायः । तीक्ष्णम् २ शस्त्रायसम् ३ शस्त्रम् ४ पिण्डम् ५ पिण्डा- यसम् ६ शठम् ७ आयसम् ८ निशितम् ९ तीव्रम् १० खड्गम् ११ मुण्डजम् १२ अयः १३ चित्रायसम् १४ चीनजम् १५ । अस्य गुणाः । रूक्षत्वम् । उष्णत्वम् । तिक्तत्वम् । वातपित्त- कफप्रमेहपाण्डुशूलनाशित्वम् । तीक्ष्णत्वम् । मुण्डाधिकगुणत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अथ लोहस्योत्पत्तिनामलक्षणगुणाः । “पुरा लोमिलदैत्यानां निहतानां सुरैर्युधि । उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च ॥ लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालाय- सायसी । गुरुता दृढतोत्क्लेदकफदाहस्य कारिता । अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्य तु ॥ लोहं तिक्तरसं शीतं मधुरं तुवरं गुरु । रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् ॥ कफं पित्तं गरं शूलं शोथार्शःप्लीहपाण्डुताः । मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्बदेव हि ॥ षण्डत्वकुष्ठामयमृत्युदं भवेत् हृद्रोगशूलौ कुरुतेऽश्मरीञ्च । नानारुजाञ्चापि तथा प्रकोपं करोति हृल्लासमशुद्धलोहम् ॥ जीवहारि मदकारि चायसं चेदशुद्धिमदसंस्कृतं ध्रुवम् । पाटवं न तनुते शरीरके दारुणां हृदि रुजाञ्च यच्छति ॥” * ॥ तत्र सारलोहस्य लक्षणं गुणाश्च । “क्षमाभृच्छिखराकाराण्यङ्गान्यम्लेन लेपिते । लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते ॥ लोहं साराह्वयं हन्याद्ग्रहणीमतिसारकम् । अर्द्धसर्व्वाङ्गजं वातं शूलञ्च परिणामजम् । छर्द्दिञ्च पीनसं पित्तं श्वासमाशु व्यपोहति ॥” अथ कान्तलोहस्य लक्षणं गुणाश्च । पत्पात्रे न प्रसरति जले तैलबिन्दुः प्रतप्ते हिङ्गुर्गन्धं त्यजति चनिजं तिक्ततां निम्बकन्दः । तप्तं दुग्धं भवति शिखराकारकं नैति भूमिं कृष्णाङ्गः स्यात् सजलचणकः कान्तलोहं तदुक्तम् ॥ गुल्मोदरार्शःशूलाममामवातं भगन्दरम् । कामलाशोथकुष्ठानि क्षयं कान्तमयो जयेत् ॥ स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते ॥” इति मत्स्यसूक्ततन्त्रम् ॥ अपि च । “अयःपात्रे पयःपानं गव्यं सिद्धान्नमेव च । भृष्टादिकं मधु गुडं नारिकेलोदकन्तथा ॥ फलं मूलञ्च यत्किञ्चिदभक्ष्यं मुनिरब्रवीत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ (अश्मन एवास्य उत्पत्तिः श्रूयते । यथा, मनुः । ९ । ३२१ । “अद्भ्योऽग्निर्ब्रह्मतः क्षत्त्रमश्मनो लोहमुत्थितम् । तेषां सर्व्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥” पुं, छागः । स तु लक्षणान्वितः कृष्णवर्णो रक्त- वर्णो वा । यथा, मनुः । ३ । २७२ । “कालशाकं महाशल्काः खड्गलोहामिषं मधु । आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्व्वशः ॥” पार्व्वत्यजातिविशेषः । यथा, महाभारते । २ । २७ । २५ । “लोहान् परमकाम्बोजानृषिकानुत्तरानपि । सहितांस्तान् महाराज व्यजयत् पाक- शासनिः ॥” रक्तवर्णे, त्रि । यथा, महाभारते । १ । १३६ । २३ । “भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् । पञ्चबाणान् सुसंयुक्तान् स मुमोचैकबाणवत् ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोह नपुं।

अगरु

समानार्थक:समार्थक,वंशका,अगुरु,राजार्ह,लोह,कृमिज,जोङ्गक

2।6।126।2।4

कालीयकं च कालानुसार्यं चाथ समार्थकम्. वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम्.।

 : कालागुरु

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

लोह पुं-नपुं।

लोहः

समानार्थक:लोह,शस्त्रक,तीक्ष्ण,पिण्ड,कालायस,अयस्,अश्मसार,शस्त्र

2।9।98।1।1

लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी। अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले॥

अवयव : लोहमलम्,अयोविकारः

वृत्तिवान् : लोहकारकः

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

लोह नपुं।

सर्वधातवः

समानार्थक:तैजस,लोह

2।9।99।1।2

सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी। क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोह¦ पुंन॰ लू--विच् लौस्तं जहाति हा--क।

१ धातुभेदेअमरः।

२ धातुमात्रे मेदि॰

३ रुधिरे राजनि॰

४ अगुरु-चन्दने न॰ अमरः। धातुभेदस्वरूपादि भावप्र॰ उक्तंयथा
“अथ लोहस्योत्पत्तिनामलक्षणगुणाः
“पुरा लोमि-लदैत्यानां निहतानां सुरेर्युधि। उत्पन्नानि शरीरेभ्योलोहानि विविधानि च। लोहोऽस्त्री शस्त्रकं तीक्ष्णंपिण्डं कालायसायसी। गुरुतादृढतोत्क्लेदकफ-दाहस्य कारिता। अश्मदोषः सुदुगन्धो दोषाः सप्ताय-सस्य तु। लोहं तिक्तरसं शीतं मधुरं तुवरं गुरु।{??}क्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत्। कफं पित्तंपरं शूलं शोथार्शःप्लीहपाण्डुताः। मेदोमेहकृमीन्कुष्ठं तत्किट्टं तद्वदेव हि। पाण्डुत्वकुष्ठामयमृत्युदं भ-{??} हृद्रोगशूलौ कुरुतेऽश्मरीञ्च। नानारुजाञ्चापि तथाप्रकोपं करोति हृल्लासमशुद्धलोहम्। जीपहारि मद-कारि चायर्स चेदशुद्धिमदसंस्कृतं ध्रुवम्। पाटवं नतनुते शरीरके दारुणां हृदि रुजाञ्च यच्छति। कुद्माण्डं तिलतैलञ्च माषान्नं राजिकां तथा। मद्य-मम्लरसञ्चापि त्यजेल्लोहस्य सेवकः”। तत्र सारलोहस्यलक्षणं गुणाश्च
“क्षमामृच्छिखराकाराण्यङ्गान्यम्लेनलेपयेत्। लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते। लोहसारो ह्ययं हन्याद्ग्रहणीमतिसारकम्। अर्द्ध-सर्वाङ्गजं वातं शूलञ्च परिणामजम्। छर्दिञ्च पीनसंपित्तं श्वासं कासं व्यपोहति”। अथ कान्तलोहस्यलक्षणं गुणाश्च।
“यत् पात्रेण प्रसरति जले तैल-विन्दुः प्रतप्ते हिङ्गुर्गन्धं त्यजति च निजं तिक्ततांनिम्बवल्कः। तप्तं दुग्धं भवति शिखराकारकंनैति भूमिं कृष्णाङ्गः स्यात् सजलचणकः कान्तलोहंतदुक्तम्। गुल्मोदरार्शःशूलाममामवातं भगन्दरम्। कामलाशोथकुष्ठानि क्षयं कान्तमयो हरेत्। प्लोहान-[Page4835-a+ 38]{??}म्लिपित्तञ्च यकृच्चापि शिरोरुजम्। सर्वान् रोगान्विजयते कान्तलोहं न संशयः। तलं वीर्य्यं वपःपष्टिंकुरुतेऽग्निं विवर्द्धयेत्। अथ किदम्य
“ध्मायमानस्यलोहस्य मलं मण्डूरमुच्यते। लोहसिंहानिका किट्टंसिंहानञ्च निगद्यते। यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम्”। अथ लोहस्य दोषशान्तये शोधनमभि-धीयते
“पत्तलीकृतपत्राणि लोहस्याग्नौ प्रतापयेत्। निषिञ्चेत् तप्ततप्तानि तैले तक्रे च काञ्जिके। गोमूत्रेच कुलत्थानां कषाये च त्रिधात्रिधा। एवं लोहस्यपत्राणां विशुद्धिः संप्रजायते”। अथ लोहस्य मारण-विधिः
“शुद्धलोहभवं चूर्णं पातालगरुडीरसैः। मर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटद्वयम्। पुटत्रयंकु{??}र्य्याश्च कुठारच्छिल्लिकारसैः। पुटषट्कं ततो दद्यादेवंतीक्ष्णा मृतिर्भवेत्”। अन्यच्च।
“क्षिपेद्द्वादशर्माशेन दरदंतीक्ष्णचूर्णतः। मर्दयेत् कन्यकाद्रावैर्यामयुग्मं ततःपुटेत्। एवं सप्तपुटैर्मृत्युं लोहचूर्णमवाप्नुयात्। सत्याऽनुभूतो योगीन्द्रैः क्रमोऽन्यो लोहमारुणे। कथ्यतेरामराजेन कौतूहलधियाऽधुना। सूतकद्द्विगुणगन्धं दत्त्वा कुर्य्याच्च कज्जलीम्। द्वयोः सर्म लोहचूर्णंमर्द्दयेत् कन्यकाद्रवैः। यामयुग्मं ततः पिण्डं कृत्वाताम्रस्य पात्रके। घर्मे धृत्वा रूचकस्य पत्रैराच्छादवेद्-वुधः। यामद्वयाद्भवेदुष्णं धान्यराशो न्यसेत्ततः। दत्त्वोपरि शरावञ्च त्रिदिनान्ते समुद्धरेत्। पिष्ट्वा चगालयेद्वस्त्रादेवं वारितरं भवेत्। दाडिमस्य दलं पिष्ट्वातच्चतुर्गुणवारिणा। तद्रसेनायसश्चूर्णं सन्नीयात्प्लावयेदपि। आतपे शोधयेत्तच्च पुटेदेवं पुनः पुनः। एकविशतिवारैस्तन्म्रियते नात्र संशयः। एव सर्वाणिलोहानि स्वर्णादीन्यपि मारयेत्”। एवं मारितलोहस्यगुणाः
“लोहं तिक्तं सरं शीतं कषायं मधुरं गुरु। रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत्। कफं पित्तंगरं शूलं शोफार्शःप्लीहपाण्डुताः। मेदोमेहक्रमीन्कुष्ठं तत्किट्टं तद्वदेव हि। गुञ्जामेकां समारभ्य यावत्स्युर्नव रत्तिकाः। तावल्लोहं समश्नीयाद्यथादोषानलंपरः। कुष्माण्डं तिलतैलञ्च माषान्नं राजिकान्तथा। मद्यमम्लरसञ्चव वर्जयेल्लोहसेवकः” भावप्र॰।
“यदा तु आ-यसे पात्रे पक्वमश्नाति वै द्विजः। स पापिष्ठोऽपि भुङ्-क्तेऽन्नं रौरवे परिपच्यते” मत्स्यपु॰।
“अयःपात्रेपयःपानं गव्यं सिद्धान्नमेव च। भृष्टादिकं मधु गुडं[Page4835-b+ 38] नारिकेलोदकं तथा। फलं मूलञ्च यत् किञ्चिदभक्ष्यमनुरब्रवीत्
“ब्रह्मवै॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोह¦ mn. (-हः-हं)
1. Iron, either crude or wrought.
2. Steel.
3. Any metal.
4. A weapon.
5. Aloe-wood or Agallochum.
6. Blood. m. (-हः) A red coloured goat. f. (-हा)
1. Red, redish.
2. Made of cop- per or iron. E. लू to cut, aff. ह |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोह [lōha], a.

Red, reddish.

Made of copper, coppery.

Made of iron; भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् Mb.1. 135.23.

हः, हम् Copper.

Iron.

Steel.

Any metal; वस्तून्योषधयः स्नेहा रसलोहमृदो जलम् Bhāg.2. 6.24.

Gold; यथा सौम्यैकेन लोहमणिना Ch. Up.6.1.5.

Blood.

A weapon; अद्भ्यो$ग्निर्त्रह्मतः क्षत्रमश्मनो लोह- मुत्थितम् Ms.9.321.

A fish-hook. -हः The red goat; कालशाकं महाशल्काः खड्गलोहामिषं मधु Ms.3.272. -हम् Aloewood. -Comp. -अग्रम् the iron point (फल) of an arrow; सितलोहाग्रनखः खमाससाद Ki.13.25. -अजः the red goat. -अभिसारः, -अभिहारः N. of a military ceremony resembling नीराजन q. v.; लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् Mb.5.16.93. -आख्यम् agallochum. -आमिषः the flesh of the red-haired goat. -उच्छिष्टम्, -उत्थम्, -किट्टम्, -निर्यासम्, -मलम् rust of iron (मण्डूर).-उत्तमम् gold. -कान्तः a loadstone, magnet. -कारः a blacksmith. -कुम्भी an iron boiler; लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः Mb.18.2.24. -घातकः a blacksmith.-चर्मवत् a. covered with plates of iron or metal; लोह- चर्मवती चापि साग्निः सगुडशृङ्गिका Mb.3.15.8. -चारकः, -दारकः N. of a hell; असिपत्रवनं चैव लोहदारकमेव च Ms.4. 9. -चूर्णम् iron-filings, rust of iron.

जम् bell-metal.

iron-filings. -जालम् a coat of mail. -जित् m. a diamond. -द्राविन् m. borax. -नालः an iron arrow.-पृष्ठः a heron.

प्रतिमा an anvil.

an iron image.-बद्ध a. tipped or studded with iron. -मणिः an ingot of gold; यथा सोम्यैकेन लोहमणिना Ch. Up.6.1.5. -मात्रः a spear. -मारक a. calcining a metal. -मुक्तिका red pearl. -रजस् n. rust of iron. -राजकम् silver. -लिङ्गम् a boil filled with blood. -वरम् gold. -वर्मन् n. ironarmour, mail.

शङ्कुः an iron spike.

N. of a hell; लोहशङ्कुमृजीषं च पन्थानं शाल्मलीं नदीम् Ms.4.9.-शुद्धिकरः, -श्लेषणः borax. -संकरम् blue steel.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोह mfn. (prob. fr. a रुह्for a lost रुध्, " to be red " ; See. रोहि, रोहिणetc. ) red , reddish , copper-coloured S3rS. MBh.

लोह mfn. made of copper S3Br. ( Sch. )

लोह mfn. made of iron Kaus3.

लोह m. n. red metal , copper VS. etc.

लोह m. (in later language) iron (either crude or wrought) or steel or gold or any metal

लोह m. a weapon L.

लोह m. a fish-hook L.

लोह m. blood L.

लोह m. the red goat(See. लोहा-ज) Gaut. Mn. Ya1jn5.

लोह m. (prob.) a kind of bird Ma1rkP.

लोह m. N. of a man g. नडा-दि

लोह m. ( pl. )N. of a people MBh.

लोह n. any object or vessel made of iron Ka1v.

लोह n. aloe wood , Agallochum L.

"https://sa.wiktionary.org/w/index.php?title=लोह&oldid=231966" इत्यस्माद् पुनः प्राप्तिः