वर्ष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्षम्, पुं, क्ली, (वृष्यते इति । वृषु सेचने + अज्विधौ भयादीनामुपसंख्यानमित्यच् । यद्वा, व्रियते प्रार्थ्यते इति । वृ + “वृवॄवदिहनिकमिक- षिभ्यः सः ।” उणा० ३ । ६२ । इति सः ।) वृष्टिः । (यथा, मनुः । ४ । १०३ । “विद्युत्स्तनितवर्षेषु महोल्कानाञ्च संप्लवे । आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥” जम्बुद्वीपांशः । वत्सरः । इत्यमरः ॥ (यथा, मनुः । ५ । ५३ । “वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद् यस्तयोः पुण्यफलं समम् ॥”) जम्बुद्बीपः । इति मेदिनी । षे, २४ ॥ (वर्ष- तीति । वृष् + पचाद्यच् ।) मेघः । इति हेम- चन्द्रः । २ । ७९ ॥ * ॥ अथ सप्तद्बीपानां वर्ष- वर्णनम् । तत्र जम्बुद्वीपस्य नववर्षविभागो यथा । यत एव कृताः सप्त भुवो द्वीपा जम्बुप्लक्ष- शाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञाः । तेषां परिमाणं पूर्ब्बस्मात् पूर्ब्बस्मादुत्तरोत्तरो यथा- संख्यं द्विगुणमानेन बहिः समन्तत उप- कॢप्ताः । क्षारादेक्षुरसोदसुरोदघृतोदक्षीरोद- दधिमण्डोदशुद्धोदाः सप्त जलधयः । सप्तद्बीप- परिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येन यथानुपूर्व्वं सप्तस्वपि बहिर्द्वीपेषु पृथक् परित उपकल्पिताः । तेषु पुनर्ज्जम्ब्वाह्वादिषु वर्हिष्मती- पतिरनुवृत्तानात्मजानग्नीध्रेध्मजिह्वयज्ञबाहु- हिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान् उत्पातक्षोभनिर्घातविकृतानां शमाय च । कथयामि महाप्राज्ञ शृणुष्वैकमनाधुना ॥ * ॥ मङ्गला विजया भद्रा शिवा शान्तिर्धृतिः क्षमा । ऋद्धिर्वृद्ध्युन्नतिः सिद्धिस्तुष्टिः पुष्टिः श्रिया उमा ॥ दीप्तिः कान्तिर्यशो लक्ष्मीरीश्वरीति प्रकीर्त्तिता । विंशताश्चोत्तमा देव्यः सत्त्वभावव्यवस्थिताः ॥ प्रथमं संस्थिता वत्स ! सर्व्वसिद्धिप्रदायिकाः । २० ब्राह्मी जयावती शाक्री अजिता चापरा- जिता ॥ जरन्ती मानसी माया दितिः श्वेता विमो- हनी । शरण्या कौशिकी गौरी विमला ललितालसा ॥ अरुन्धती क्रिया दुर्गा राजसा इति वायुना । मध्यभागे स्थिता देव्यो युगानामशुभापहा ॥ २० ॥ काली रौद्री कपाली च घण्टाकर्णा मयूरिकी । बहुरूपा सुरूपा च त्रिनेत्रा रिपुहाम्बिका ॥ माहेश्वरी कुमारी च वैष्णवी सुरपूजिताः । वैवस्वती तथा घोरा कराली विकटादिभिः ॥ चर्च्चिका चेति धातुस्था देव्यस्त्रैलोक्यविश्रुताः । पूजितव्या मुनिश्रेष्ठ ! सर्व्वकामप्रसाधिकाः ॥ २० ॥ त्रिदशामुरगन्धर्व्वयक्षरक्षोगणैर्नुताः । भावकालाश्रयाः कार्य्यद्रव्यरूपफलप्रदाः ॥ प्रत्येकशः समस्ता वा कर्त्तव्या मुनिसत्तम ! । अथवा युगभेदेन पञ्च पञ्च प्रपूजिताः ॥” इति देवीपुराणे संवत्सरदेवताविंशतिविधि- नामाध्यायः ॥ (वर्षके, त्रि । यथा, भागवते । ३ । २१ । २० । “नमाम्यभीक्ष्णं नमनीयपादं सरोजमल्पीयसि कामवर्षम् ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्ष नपुं।
वर्षम्
समानार्थक:वृष्टि,वर्ष,हायन,वत्स
1।3।11।1।2
वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ। धारासम्पात आसारः शीकरोऽम्बुकणाः स्मृताः॥
अवयव : वातप्रक्षिप्तजलकणः,जलकणः
सम्बन्धि2 : वृष्टिविघातः,वर्षोपलः
वैशिष्ट्यवत् : वर्षोपलः
: महावृष्टिः
पदार्थ-विभागः : , द्रव्यम्, जलम्
वर्ष पुं-नपुं।
लोकधात्वंशः
समानार्थक:वर्ष
3।3।225।1।1
स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्. प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी
वर्ष पुं-नपुं।
वत्सरः
समानार्थक:अब्द,शरद्,वर्ष
3।3।225।1।1
स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्. प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः॥
पदार्थ-विभागः : , द्रव्यम्, कालः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्ष¦ पु॰ वृष--भावे घञ् कर्त्तरि अच् वा।
१ वृष्टौ
२ जम्बु-द्वीपांशभेदे पुंन॰ अमरः।
“लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽथ तस्मात् तस्माच्चान्योनिषध इति ते सिन्धुपर्यन्तदैर्घ्या। एवं सिद्धादुदगपिपुराच्छृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरेद्रोणिदेशान्। भारतवर्षमिदं ह्युदगस्मात किन्नरवर्षमतोहरिवर्षम्। सिद्धपुराच्च तथा कुरु तस्म द्विद्धि हिरण्मयरम्यकवर्षे। माल्यवांश्च यमकोटिपत्तनाद्रोमकाच्च किलनन्धमादनः। नीलशैलनिषधावधो च तावन्तरालमनयोरिलावृतम्। माल्यवज्जलधिमध्यवर्ति यत् तत् तुभद्रतुरगं जगुर्बुधाः। गन्धशैलजलराशिमध्यगं केतु-मालकमिलाकलाविदः। निषधनीलसुगन्धसुमाल्यकैरल-मिलावृतमावृतमावभौ। अमरकेलिकुलायसमाकुलं रुचि-रकाञ्चनचित्रमहीतलम्” सि॰ शि॰।
“अत्र भूगोलस्थार्धमुत्तरंजम्बूद्दीपम्। तस्य क्षाराब्धेश्च सन्धिर्निरक्षदेशः। तत्रलङ्का रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं मूप-रिधिचतुर्थाशान्तरे किल कथितम्। तेभ्यः पुरेभ्यो यस्यां[Page4856-b+ 38] दिशि मेरुः सोत्तरा। अतो लङ्काया उत्तरतो हिमवान्नाम गिरिः पूर्वापरसिन्धुपर्यन्तदैर्घ्योऽस्ति। तस्यात्तरेहेभकूटः। सोऽपि समुद्रपर्यन्तदैर्घ्यः। तथा तदुत्तरेनिषधः। तेषामन्तरे द्रोणिदेशा वर्षसंज्ञाः। तत्रादौभारतवर्षम्। तदुत्तरं किन्नरवर्षम्। ततो हरिवर्षमिति। एवं सिद्धपुरादुत्तरतः शृङ्गवान् नाम गिरिः। ततःश्वेतगिरिः। ततो नीलगिरिरिति। तेऽपि सिन्धु-पर्यन्तदैर्घ्याः। तेषामन्तरे च वर्षाणि। तत्रादौ कुरुवर्षम्। तदुत्तरे हिरण्मयम्। ततो रम्यकमिति। अथ यम-कोटेरुत्तरतौ माल्यबान् नाम गिरिः। स तु निषधनी-लपर्यन्तदैर्घ्यः। तस्य जलधेश्च मध्ये भद्राश्वं वर्षम। एवं रोमकादुत्तरतो गन्धमादनः। तस्य जलधेश्च मध्येकेतुमालवर्षम्। एवं निषधनीलमाल्यवद्गन्धमादनैरावृत-मिलावृतं नाम नवमं वर्षम्। सा स्वर्गभूमिः। अतस्तत्रदेवक्रोडागृहाणि”।
३ द्वादशमासात्मके काले
४ जम्बुद्वीपेच पु॰ मेदि॰। कर्त्तरि अच्।
५ मेष्ठे पु॰ हेमच॰
६ प्रभ-वादिषु षष्टिवतसरेषु पु॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्ष¦ r. 1st cl. (वर्षति) To be wet.
वर्ष¦ mn. (-र्षः-र्षं)
1. Rain, raining.
2. Sprinkling, effusion.
3. Seminal effusion.
4. A year.
5. A Varsha, or division of the known con- tinent; nine such are reckoned; viz:--KURU, HIRANMAYA, RAMYAKA, ILA4VRITA, HARI, KE4TUMA4LA4, BHADRA4S4HWA, KIN- NARA, and BHA4RATA.
5. JAMBU-DWIPA, or India.
6. A cloud. m. plu. (-र्षाः) The rains or rainy season, containing two months, according to the Hindu classification of the seasons, which some systems consider to be S4hra4van4a and Bha4dra, and others, Bha4dra and A4s4hwin; the duration of the monsoon is however longer, being reckoned from A sa4rha to Ka4rtika, or from the middle of June to the beginning of October. f. Sing. (-र्षा) A sort of gramineous plant: see पृक्का। E. वृष् to sprinkle, aff. अच् or घञ्; or वॄ to screen, &c., Una4di aff. स |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्षः [varṣḥ] र्षम् [rṣam], र्षम् [वृष् भावे घञ् कर्तरि अच् वा]
Raining, rain, a shower of rain; तपाम्यहमहं वर्षं निगृह्णाभ्युत्सृजामि च Bg.9.19; विद्युत्स्तनितवर्षेषु Ms.4.13; Me.37.
Sprinkling, effusion, throwing down, a shower of anything; सुरभि सुरविमुक्तं पुष्पवर्षं पपात R.12.12; so शरवर्षः, शिलावर्षः, लाजवर्षः &c.
Seminal effusion.
A year (usually only n.); इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् R.13.67; न ववर्ष वर्षाणि द्वादश दशशताक्षः Dk.; वर्षभोग्येण शापेन Me.1.
A division of the world, a continent; (nine such divisions are usually enumerated: 1 कुरु; 2 हिर- ण्मय; 3 रम्यक; 4 इलावृत; 5 हरि; 6 केतुमाला; 7 भद्राश्व; 8 किंनर; and 9 भारत); यस्मिन् नव वर्षाणि Bhāg.5.16.6. एतदूढगुरुभारभारतं वर्षमद्य मम वर्तते वशे Śi.14.5.
India (= भारतवर्ष).
A cloud (only m. according to Hemachandra).
A day; अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् Rām.7.73.5. (com. वर्षशब्दो$त्र दिनपरः).
A place of residence; वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् Mb.3. 13.12. -Comp. -अंशः, -अंशकः, -अङ्गः a month.-अम्बु n. rain-water. -अयुतम् ten thousand years.-अर्चिस् m. the planet Mars. -अवसानम् the autumn or Śarat season. -आघोषः a frog. -आमदः a peacock.
उपलः hail stone
a kind of sweetmeat ball; घनैरमीषां परिवेषकैर्जनैरवर्षि वर्षोपलगोलकावली N.16.1. -करः a cloud. (-री) a cricket. -कालः the rainy season.-केतुः a red-flowering Punar-navā.
कोशः, षः a month.
an astrologer. -गणः (pl.) a long series of years; बहून् वर्षगणान् घोरान् Ms.12.54. -गिरिः, -पर्वतः 'a Varṣa mountain', i. e. one of the mountain-ranges supposed to separate the different divisions of the world from one another; (they are seven: हिमवान् हेमकूटश्च निषधो मेरुरेव च । चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः). -घ्न a. protecting from rain. -ज a. (वर्षेज also)
produced in the rainy season.
one year old. -त्रम् an umbrella; छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् Rām. 2.17.18.
धरः a cloud.
a eunuch, an attendant on the women's apartments; (वर्षधर्ष in the same sense). See वर्षवर.
the ruler of a Varṣa; वर्षधराभिवादिताभि- वन्दितचरणः Bhāg.5.3.16; also वर्षप-पति.
a mountain bounding a Varṣa. -पदम् a calender. -पाकिन् m. the hog-plum. -पूगः a series or collection of years. -प्रति- बन्धः a drought. -प्रवेगः a heavy shower of rain; वर्ष- प्रवेगा विपुलाः पतन्ति Rām.4.28.45. -प्रियः the Chātaka bird. -रात्रः the rainy season; वर्षरात्रे स्थितो रामः Rām. 4.3.1. -वरः a eunuch, an attendant on the women's apartments; वर्षवराभ्यागारिकैः Kau. A.1.21; ये स्वल्पसत्त्वाः प्रथममात्मीयाः स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः ॥ Ak.; M.4.4/5; Rām.2.65.7; Mb.9.62.5.-वृद्धिः f. birth-day. -शतम् a century, one hundred years. -सहस्रम् a thousand years.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्ष mf( आ)n. (fr. वृष्)raining( ifc. e.g. काम-व्, raining according to one's wish) BhP.
वर्ष m. and (older) n. ( ifc. f( आ). )rain , raining , a shower (either " of rain " , or fig. " of flowers , arrows , dust etc. " ; also applied to seminal effusion) RV. etc.
वर्ष m. ( pl. )the rains AV. (See. वर्षाf. )
वर्ष m. a cloud L.
वर्ष m. a year (commonly applied to age) Br. etc. ( आ वर्षात्, for a whole year ; वर्षात्, after a year ; वर्षेणwithin a year ; वर्षेevery year)
वर्ष m. a day (?) R. vii , 73 , 5 ( Sch. )
वर्ष m. a division of the earth as separated off by certain mountain ranges (9 such divisions are enumerated , viz. कुरु, हिरण्मय, रम्यक, इला-वृत, हरि; केतु- माला, भद्राश्व, किंनर, and भारत; sometimes the number given is 7) MBh. Pur. (See. IW. 420 )
वर्ष m. India(= भारतवर्षand जम्बु-द्वीप) L.
वर्ष m. N. of a grammarian Katha1s.
वर्ष See. p.926etc.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a god of सुतार group. Br. IV. 1. ८९.
(II)--the mind-born son of ब्रह्मा in the १६थ् kalpa. वा. २१. ३५.
(III)--one of the ten branches of सुपार devas. वा. १००. ९४.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
VARṢA I : The teacher of Vararuci. (For details see under Vararuci).
_______________________________
*4th word in left half of page 832 (+offset) in original book.
VARṢA II : See under Kālamāna.
_______________________________
*5th word in left half of page 832 (+offset) in original book.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Varṣa denotes primarily ‘rain,’[१] then ‘rainy season’[२] and ‘year.’[३]
- यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
- यन्त्रोपारोपितकोशांशः-अमरकोशः
- यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्
- यन्त्रोपारोपितकोशांशः-शब्दसागरः
- यन्त्रोपारोपितकोशांशः-Apte
- यन्त्रोपारोपितकोशांशः-Monier-Williams
- यन्त्रोपारोपितकोशांशः-Purana index
- संस्कतशब्दाः
- यन्त्रोपारोपितकोशांशः-Purana Encyclopedia
- यन्त्रोपारोपितकोशांशः-Vedic Index of Names and Subjects