वह्नि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वह्निः, पुं, (वहति धरति हव्यं देवार्थमिति । वह + “वहिश्रिश्रुय्विति ।” उणा० ४ । ५१ । इति निः ।) चित्रकः । भल्लातकः । (यथा, सुश्रुते चिकित्सितस्थाने ९ अध्याये । “मञ्जिष्ठाक्षौ वासको देवदारु पथ्यावह्नी व्योषधात्री विडङ्गम् ॥”) निम्बूकः । इति राजनिर्घण्टः ॥ रेफः । इति तन्त्रम् ॥ अग्निः । इत्यमरः ॥ * ॥ तस्य नामानि यथा, -- “ते जातवेदसः सर्व्वे कल्माषः कुसुमस्तथा । दहनः शोषणश्चैव तर्पणश्च महाबलः । पिटरः पतगः स्वर्णस्त्वगाधो भ्राज एव च ॥” अन्यत्र तु नामान्तराण्युक्तानि यथा, -- “जृम्भकोद्दीपकश्चैव विभ्रमभ्रमशोभनाः । अवसथ्याहवनीयौ दक्षिणाग्निस्तथै व च । अन्वाहार्य्यो गार्हपत्य इत्येते दश वह्नयः ॥” अन्यैरन्यथोक्तानि यथा, -- “भ्राजको रञ्जकश्चैव क्लेदकः स्नेहकस्तथा । धारको बन्धकश्चैव द्रावकाख्यश्च सप्तधा । व्यापकः पावकश्चैव श्लेष्मको दशमः स्मृतः ॥” शरीरस्थवह्नेः स्थानानि यथा, -- “वह्नयो दोषदूष्येषु संलीना दश देहिनः ॥” दोषदूष्यौ यथा, -- “वातपित्तकफा दोषा दूष्याः स्युः सप्त धातवः ॥” इति सारदातिलकः ॥ तत्र निषिद्धकर्म्माणि यथा, -- “नाशुद्धोऽग्निं परिचरेत् न देवान् कीर्त्तयेदृषीन् । न चाग्निं लङ्घयेद्धीमान् नोपदध्यादधः क्वचित् ॥ न चैनं पादतः कुर्य्यात् मुखेन न धमेद्बुधः । अग्नौ न निःक्षिपेदग्निं नाद्भिः प्रशमयेत्तथा ॥ न वह्निं मुखनिश्वासैर्ज्वालयेन्नाशुचिर्ब्बुधः । गोरोचना भृङ्गराजं चूर्णं कृत्वा घृतं समम् । दिव्यस्तम्भश्च पीत्वा स्यान्मन्त्रेणानेन वै तथा ॥” ओ~ अग्निस्तम्भनं कुरु । इति गारुडे १८६ अध्यायः ॥ (दैत्यविशेषः । यथा, महाभारते । १२ । २२७ । ५० । “वाणः कार्त्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैरृतिः ॥” मित्रविन्दागर्भजातः कृष्णस्य पुत्त्रविशेषः । यथा, भागवते । १० । ६१ । १६ । “महांशः पावनो वह्निर्मित्रविन्दात्मजाः क्षुधिः ॥” तुर्व्वसुपुत्त्रः । यथा, हरिवंशे । ३२ । ११७ । “तुर्व्वसोस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः ॥” कुकुरपुत्त्रः । यथा, भागवते । ९ । २४ । १९ । “कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वह्नि पुं।
अग्निः
समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह
1।1।53।1।3
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः। कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्.।
अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला
पत्नी : अग्नेः_प्रिया
सम्बन्धि2 : अरणिः
: बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः
पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता
वह्नि पुं।
आग्नेयदिशायाः_स्वामी
समानार्थक:वह्नि
1।3।2।4।2
उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे। अवाग्भवमवाचीनमुदीचीनमुदग्भवम्. प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु। इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्.
सेवक : आग्नेयदिशायाः_ग्रहः,आग्नेयदिग्गजः
पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वह्नि¦ पु॰ वह--नि।
१ अग्नौ
२ चित्रकवृक्षे अमरः
३ भल्ला-तके
४ निम्बूके राजनि॰। तन्त्रोक्ते
५ रकारे च।
“वर्गाद्यं वह्निसंस्थम्” इति श्यामास्तोत्रम्। वह्निभेदादिकं यथा(
“जृम्भको दापकश्चैव विभ्रमभ्रमशोभनाः। आव-सथ्याहवनीयो दक्षिणाग्निस्तथैव च। अन्वाहार्य्योगार्हपत्य इत्येते दश वह्नयः”। अन्यैरन्यथोक्तानि यथा
“म्राजको रञ्जकश्चैव क्लेदकः स्नेहकस्तथा। धारकाबन्धकश्चैव द्रावकाख्यश्च सप्तमः। व्यापकः पावकश्चैवश्लेष्मको दशमः स्मृतः”। शरीरस्थवह्नेः नामानियथा
“वह्नयो दोषदुष्येषु संलीना दश देहिनः”। दोष-दुष्याश्च यथा
“वातपित्तकफा दोषाः दुष्या स्युः सप्त-{??}तवः” शा॰ ति॰।
“मुख्याग्नयो यथा
“गार्हपत्यो[Page4867-b+ 38] दक्षिणाग्निस्तथैवाहवनीयकः। एतेऽग्नयस्त्रयो मुख्याःशेषाश्चोपसदस्त्रयः” वह्नि॰ पु॰। तत्र निषिद्धकर्माणियथा
“नाशुद्धोऽग्निं परिचरेत् न देवान् कीर्त्तयेदृषीन्। न चाग्निं लङ्घयेद्धीमान् नोपदध्यादधः क्वचित्। न चैनंपादतः कुर्य्यात् मुखेन न धमेद्वुधः। अग्नौ न निःक्षि-पेदग्निं नाद्भिः प्रशमयेत्तथा। न वह्निं मुखनिश्वासै-र्ज्वालयेन्नाशुचिर्बुधः। स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सुचिरं वसेत्। नापक्षिपेन्नोपधमेत् न सूर्पेण चपाणिना। मुखेनाग्निं समुन्नीतं मुखादग्निरजायत” कूर्मपु॰
१५ अ॰। अग्निवैकृत्यं तस्य शान्तिश्च यथा
“अनग्निर्दीप्यते यत्र राष्ट्रे यस्य निरिन्धनः। न दीप्यतेचेन्धनवान् स राष्ट्रः पीड्यते नृपैः। प्रज्वलेदप्सुमासं वा तथार्द्धञ्चापि किञ्चन। प्रासाद तोरणद्वारंनृपवेश्म सुरालयम्। एतानि यत्र दह्यन्ते तत्र राज-भयं भवेत्। विद्युता वा प्रदह्यन्ते तत्रापि नृपते-र्मयम्। धूमश्चानग्निजो यत्र तत्र विद्यान्महद्भवम्। विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कुत्रचित्। त्रिरात्रोपोषितश्चात्र पुरोधाः सुसमाहितः। समिद्भिःक्षीरवृक्षष्णां सर्षपैस्तु घृतेन च। दद्यात् सुवर्णञ्च तथाद्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवञ्च। एवं कृते पाप-मुपैति नाशं यदग्निवैकृत्यभवं द्विजेन्द्र” ! वह्निपु॰
१०
५ अ॰।
६ तद्देवताके कृत्तिकानक्षत्रे ज्योतिपम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वह्नि¦ m. (-ह्निः)
1. Fire, or its deity Agni.
2. Lead-wort, (Plumbago zey- lanica.)
3. Marking-nut plant.
4. Appetite, digestion, the meta- phorical fire of the stomach. E. वह to bear, (the oblations pre- sented to the gods,) and नि Una4di aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वह्निः [vahniḥ], [वह्-निः &Uṇ.4.53]
Fire; अतृणे पतितो वह्निः स्वयमेवोपशाम्यति Subhāṣ.
The digestive faculty, gastric fluid.
Digestion, appetite.
A vehicle.
The marking-nut plant.
Lead-wort.
A sacrificer, priest.
A god in general.
An epithet of the Maruts.
Of Soma.
A horse.
A draught animal.
The number 'three'.
The mystical N. of the letter र्; रकार. -Comp. -उत्पातः an igneous meteor. -कर a.
igniting.
stimulating digestion, stomachic. -करी Grislea Tomentosa (Mar. धायटी).-काष्ठम् a kind of agallochum. -कोणः the south-east quarter. -कोपः a conflagration.
गन्धः incense.
resin.
गर्भः a bamboo.
the Śamī tree; cf. अग्नि- गर्भ. -दीपकः safflower. (-का) = अजमोदा q. v. -धौत a. pure like fire. -नामन् m.
the marking nut plant.
lead-wort. -पतनम् self-immolation. -बीजम्
gold.
a citron tree.
N. of the mystical syllable रम्.-भोग्यम् clarified butter. -मन्थः, -मन्थनः Premna Spinosa (Mar. नरवेल). -मारकम् water. -मित्रः air, wind. -रेतस् m.
an epithet of Śiva.
gold. -लोह, -लोहक copper. -वधू f.
Svāhā, the wife of Agni.
The Svāhā Mantra. -वर्णम् the red water-lilly. -वल्लभः resin.
वीजम् gold.
the common lime. -शिखम्
saffron.
saffower; स्यात् कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि Bhāva P. -शेखरम् saffron. -संस्कारः the religious rite of cremation. -सखः the wind. -संझकः the Chitraka tree. -साक्षिकम् ind. fire being the witness. -सुतः chyle.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वह्नि m. any animal that draws or bears along , a draught animal , horse , team RV. AV. VS. TBr.
वह्नि m. any one who conveys or is borne along (applied to a charioteer or rider , or to various gods , esp. to अग्नि, इन्द्र, सवितृ, the मरुत्s etc. ) RV. AV.
वह्नि m. N. of सोम(as " the flowing or streaming one ") RV. ix , 9 , 6 etc.
वह्नि m. the conveyer or bearer of oblations to the gods ( esp. said of अग्नि, " fire " , or of the three sacrificial fires See. अग्नि) RV.
वह्नि m. partic. fire Gr2ihya1s.
वह्नि m. fire (in general or " the god of fire ") Mn. MBh. etc. ( वह्निना सं-स्कृ, to hallow by fire , burn solemnly)
वह्नि m. the fire of digestion VarBr2S.
वह्नि m. N. of the number " three " (fr. the three sacred fires) L.
वह्नि m. N. of various plants( accord. to L. Plumbago Ceylanica ; Semecarpus Anacardium ; Poa Cynosuroides ; and the citron tree) Sus3r.
वह्नि m. a mystical N. of the letter र्Up.
वह्नि m. N. of the 8th कल्प(See. ) Cat.
वह्नि m. of a दैत्यMBh.
वह्नि m. of a son of कृष्णBhP.
वह्नि m. of a son of तुर्वसुib.
वह्नि m. of a son of कुकुरib.
वह्नि etc. See. p. 933 , col. 3.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
VAHNI I : An asura. It is mentioned in Mahābhārata, Śānti Parva, Chapter 227, Stanza 52 that this asura had been a lokapāla (Indra, Agni, Yama and Varuṇa were called lokapālas) in olden days.
_______________________________
*10th word in right half of page 818 (+offset) in original book.
VAHNI II : The son of the King Turvasu. Vahni had a son named Bharga who became very famous. (Bhāga- vata, Skandha 9; Brahmāṇḍa Purāṇa, 3: 74. 1).
_______________________________
*11th word in right half of page 818 (+offset) in original book.
VAHNI III : One of the sons born to Kṛṣṇa by Mitra- vindā. (Bhāgavata, Skandha 10).
_______________________________
*12th word in right half of page 818 (+offset) in original book.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Vahni, ‘carrier,’ denotes any draught animal--e.g., a ‘horse,’[१] a ‘goat,’[२] or an ‘ox.’[३]
- ↑ Rv. ii. 24, 13;
37, 3;
iii. 6, 2, etc. - ↑ Rv. vi. 57, 3.
- ↑ Taittirīya Brāhmaṇa, i. 8, 2, 5, etc.