सामग्री पर जाएँ

वारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारणम्, क्ली, (वृ + णिच् + ल्युट् ।) प्रतिषेधः । इति मेदिनी । णे, ६६ ॥ (यथा, हरिवंशे । १८० । ४५ ॥ “अस्त्राणां वारणार्थाय वासुदेवोऽप्यमुञ्चत ॥”) हस्तवारणम् । इति जटाधरः ॥ * ॥ दानकाले वारणनिषेधो यथा, -- “न देवगुरुविप्राणां दीयमानन्तु वारयेत् । न चात्मानं प्रशंसेद्वा परनिन्दाञ्च वर्ज्जयेत् ॥” इति कौर्म्मे उपविभागे १६ अध्यायः ॥

वारणः, पुं, (वारयति परबलमिति । वृ + ल्युः ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा, कुमारे । ५ । ७० । “इयञ्च तेऽन्या पुरतो षिडम्बना यदूढया वारणराजहार्य्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥”) बाणवारः । इति शब्दरत्नावली ॥ (यथा, महाभारते । ४ । ४० । २ । “वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः ॥ सुपार्श्वं सुग्रहञ्चैव कस्यैतद्धनुरुत्तमम् ॥” वारि जले रणति चरतीति । वार् + रण् + अच् । जलजाते, त्रि । यथा, हरिवंशे । ३१ । ४८ । “ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् । अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥” “वारि जले रणति चरतीति वारणः समुद्रोद्भव इत्यर्थः ।” इति तट्टीकायां नीलकण्ठः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारण पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

2।8।34।2।5

दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारण¦ न॰ चु॰--वृ--ल्युट्। प्रवृत्तिप्रतिरोधे

१ निषेधे मेदि॰

२ हस्तादिवारणे च जटा॰।

३ गजे पुंस्त्री॰ अमरःस्त्रियां ङीष्।

४ वाणवारे कवचे पुंन॰ शब्दच॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारण¦ n. (-णं)
1. Resistance, opposition, prohibition, obstacle or impe- diment.
2. Defence, protecting, guarding.
3. Warding off a blow, guarding, warding. m. (-णः)
1. Armour, a cuirass or mail for the body.
2. An elephant. E. वॄ to cover or screen, to defend, aff. ल्युट् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारण [vāraṇa], a. (-णी f.) [वृ-ल्यु ल्युट् वा] Warding off, resisting, opposing; मत्तवारणताम्राक्षो मत्तवारणवारणः Mb.3.146. 29.

णम् Warding off, restraining, obstructing; न भवति बिसतन्तुर्वारणं वारणानाम् Bh.2.17.

An obstacle, impediment.

Resistance, opposition; अलं युद्धेन राजेन्द्र सुहृदां शृणु वारणम् Mb.5.138.2.

A door, gate (कवाट); बिडालोलूकचरितामालीननरवारणाम् । तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ Rām.2.144.2.

Defending, guarding, protecting.

णः An elephant; न भवति बिसन्ततुर्वारणं वारणानाम् Bh.2.17; Ku.5.7; R.12.93; वारी वारैः सस्मरे वारणानाम् Śi.18.56.

An armour, mail-coat.

The trunk of an elephant; बाहूत्तमैर्वारणवारणाभैर्निवार- यन्तौ परवारणाभौ Rām.6.4.21.

An elephant-hook; निशितेन वारणेन वारणं मुहुर्मुहुरभिघ्नन् Dk.2.4. -Comp. -कृच्छ्रः a penance consisting in drinking only rice-water.-केसरः see नागकेसर. -पुष्पः a species of plant; श्यामान् वारणपुष्पांश्च तथा$ष्टपदिका लताः Mb.13.54.6. -बुषा, -बुसा -वल्लभा the plantain tree. -साह्वयम् N. of Hastināpura.-हस्तः a particular stringed instrument.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारण mf( ई)n. warding off , restraining , resisting , opposing MBh. Ka1v. etc.

वारण mf( ई)n. all-resisting , invincible (said of the सोमand of इन्द्र's elephant) RV. ix , 1 , 9 Hariv. 1700

वारण mf( ई)n. relating to prevention Sus3r.

वारण mf( ई)n. shy , wild RV. AV. (with मृगaccord. to some = elephant RV. viii , 33 , 8 ; x , 40 , 4 )

वारण mf( ई)n. dangerous RV. Shad2vBr.

वारण mf( ई)n. forbidden AitBr.

वारण m. ( ifc. f( आ). )an elephant (from its power of resistance) MBh. Ka1v. etc.

वारण m. an -elelephant-hook Das3.

वारण m. armour , mail L.

वारण m. a kind of ornament on an arch MBh. iv , 1326

वारण m. w.r. for वारुणीHYog.

वारण n. the act of restraining or keeping back or warding off from( abl. )

वारण n. resistance , opposition , obstacle

वारण n. impediment , Ka1tyS3r. MBh. etc.

वारण n. a means of restraining Bhartr2.

वारण n. = हरि-तालL.

वारण n. N. of a place MBh.

वारण mfn. (fr. वरण; for 1. See. col. 1) consisting of or made from the wood of the Crataeva Roxburghii S3Br. Kaus3.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the heavenly animal which came down for Haryanga's help. M. ४८. ९८. [page३-197+ ४०]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀRAṆA : A country in ancient Bhārata. It is mentioned in Mahābhārata, Udyoga Parva, Chapter 19, Stanza 31, that the army of the Kauravas had surrounded this country.


_______________________________
*2nd word in right half of page 827 (+offset) in original book.

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāraṇa in two passages of the Rigveda[१] is taken by Roth[२] as an adjective with Mṛga, meaning ‘wild beast.’ But the sense intended must have been ‘elephant,’ the usual sense of Vāraṇa in the classical literature. Probably the feminine Vāraṇī in the Atharvaveda[३] likewise denotes a ‘female elephant.’

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारण वि.
(वरणस्य विकारः, वरण + अण्) वरण की लकड़ी से निर्मित, का.श्रौ.सू. 1.3.37. वे यज्ञीय उपकरण, जिनका सम्बन्ध होम से नहीं होता, इसी के काष्ठ से निर्मित होते हैं, का.श्रौ.सू. 1.3.37, यदि अन्यथा निर्धारित न हो तो।

  1. viii. 33, 8;
    x. 40, 4.
  2. St. Petersburg Dictionary, s.v. 1c.
  3. v. 14, 11.

    Cf. Pischel and Geldner, Vedische Studien, 1, xv. 100-102;
    Whitney, Translation of the Atharvaveda, 296;
    Muir, Sanskrit Texts, 5, 467;
    Zimmer, Altindisches Leben, 80.
"https://sa.wiktionary.org/w/index.php?title=वारण&oldid=504257" इत्यस्माद् प्रतिप्राप्तम्