विधु
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विधुः, पुं, (विध्यति विरहिणं विध्यते राहुणेति वा । व्यध ताडे + “पॄभिदिव्यधीति ।” उणा० १ । २४ । इति कुः ।) चन्द्रः । (यथा, -- सोमो दैवतसंयोगात् छायायोगाच्च पार्थिवात् । राहोश्च वरलब्धाद्वै प्रक्षरेदमृतं शशी ॥ स्वदोहकाले संप्राप्ते वत्सं दृष्ट्वा च गौर्यथा । स्वाङ्गादेव क्षरेत् क्षीरं तथेन्दुः क्षरतेऽमृतम् । पितेव सूर्य्यो देवानां सोमो मातेव लक्ष्यते ॥ यथा मातुः स्तनं पीत्वा जीवन्ते सर्व्वजन्तवः । पीत्वामृतं तथा सोमात् तृप्यन्ते सर्व्वदेवताः ॥ सम्भृ तं सर्व्वयोगेषु तथायं क्षरते शशी । तं क्षरन्तं यथाभागमुपजीवन्ति देवताः ॥ तस्मिन् काले समभ्येति राहुरप्यवकर्षति । सर्व्वमर्हन्ति भागञ्च पादं पादार्द्धमेव च ॥ आक्रम्य पार्थिवी छाया यावती चन्द्रमण्डलम् । स्मृतः स भागो राहोस्तु देवभागास्तु शेषकाः ॥ तृप्तिं विधाय देवानां राहोः पर्व्वगतस्य च । चन्द्रो न क्षयमायाति तेजसा नैव मुच्यते ॥ तिथिभागाश्च यावन्तः पुनन्त्यर्कं प्रमाणतः । सर्व्वच्छायास्थितः कालस्तावानेव प्रकीर्त्तितः ॥ अतो राहुभुजः सोमः सोमाद्वृद्धिं दिवाकरः । पर्व्वकाले स्थितिस्त्वेवं विपरीताः पुनः पुनः ॥ अतश्छादयते राहुरभ्रवच्छशिभास्करौ । राहुरभ्रकसंस्थानः सोममाच्छाद्य तिष्ठति ॥ उद्धृत्य पार्थिवीं छायां धूममेघ इवोत्थितः । चन्द्रस्य यदवस्तब्धं राहुणा भास्करस्य च ॥ नाम्नावखण्डितं तस्य कैवल्यं व्यामलीकृतम् । कर्द्दमेन यथा वस्त्रं शुक्लमप्युपहन्यते ॥ एकोद्देशेऽथ सर्व्वद्या राहुणा चन्द्रमास्तथा । प्रक्षालितं तदेवेह पुनः शुक्लतरं भवेत् ॥ राहुयुक्तं भवेत्तद्वन्निर्म्मलं चन्द्रमण्डलम् । राहुणा छादितौ वापि दृष्ट्वा चन्द्रदिवाकरौ ॥ विप्राः शान्तिपरा भूत्वा पुनराप्याययन्ति तम् । एवं न गृह्यते सूर्य्यश्चन्द्रमास्तत्र गृह्यते ॥ अबुधास्तं न पश्यन्ति मानुषा मांसचक्षुषः । जगत्सम्मोहनं चैतत् ग्रहणं चन्द्रसूर्य्ययोः ॥” इत्याद्ये देवीपुराणे ग्रहणविकल्पः ॥ * ॥ विधोर्देवपित्राद्यन्नकारणत्वं राजयक्ष्मादिकार- णत्वञ्च कालिकापुराणे २० । २१ अध्याययोर्द्रष्ट- व्यम् ॥ * ॥ (कर्त्तरि, त्रि । यथा, ऋग्वेदे । १० । ५५ । ५ । “विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार ॥” “विधुं विधातारं सर्व्वस्य युद्धादेः कर्त्तारं विपूर्ब्बो दधातिः करोत्यर्थे ।” इति तद्भाष्ये सायणः ॥)
अमरकोशः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विधु पुं।
विष्णुः
समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्
1।1।22।1।3
विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः। पुराणपुरुषो यज्ञपुरुषो नरकान्तकः। जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः। वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः॥
पत्नी : लक्ष्मी
जनक : वसुदेवः
सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः
वैशिष्ट्यवत् : विष्णुलाञ्छनम्
जन्य : कामदेवः
सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः
पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः
विधु पुं।
वायव्यदिशायाः_ग्रहः
समानार्थक:विधु
1।3।3।2।6
कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्. रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥
स्वामी : वायव्यदिशायाः_स्वामी
पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः
विधु पुं।
चन्द्रः
समानार्थक:हिमांशु,चन्द्रमस्,चन्द्र,इन्दु,कुमुदबान्धव,विधु,सुधांशु,शुभ्रांशु,ओषधीश,निशापति,अब्ज,जैवातृक,सोम,ग्लौ,मृगाङ्क,कलानिधि,द्विजराज,शशधर,नक्षत्रेश,क्षपाकर,तमोनुद्,विरोचन,राजन्,हरि,तमोपह
1।3।14।1।1
विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः। अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः॥
अवयव : चन्द्रस्य_षोडशांशः,खण्डमात्रम्,समाम्शः,ज्योत्स्ना,चिह्नम्
वैशिष्ट्यवत् : ज्योत्स्ना,नैर्मल्यम्
पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः
वाचस्पत्यम्[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विधु¦ पु॰ व्यध--क।
१ चन्द्रे
२ कर्पूरे
३ विष्णौ मेदि॰।
४ ब्रह्मणिशब्दर॰।
५ शङ्करे
६ राक्षसे विश्वः।
७ वायौ
८ युधि चसंक्षिप्नसा॰।
शब्दसागरः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विधु¦ m. (-धुः)
1. The moon.
2. VISHN4U.
3. Camphor.
4. A name of BRAHMA
4.
5. A Ra4kshasa, a goblin.
6. An expiatory oblation. E. व्यध् to pain or hurt, Una4di, aff. कु, and the semivowel changed.
Apte[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विधुः [vidhuḥ], [व्यध्-कुः Uṇ.1.23]
The moon; सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्यः K.P.1.
Comphor.
A demon, fiend.
An expiatory oblation.
N. of Viṣṇu.
N. of Brahman.
N. of Śiva.
Wind.
War, battle. -Comp. -क्षयः waning of the moon, the period of the dark fortnight of a month; प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये Ms.3.127. -दिनम् a lunar day. -पञ्जरः (also -पिञ्जरः) a scimitar, sabre. -परिध्वंसः eclipse of the moon. -प्रिया a Nakṣatra or lunar mansion. -मण्डलम् the moon's disc. -मासः a lunar month.
Monier-Williams[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विधु See. p. 968 , col. 2.
विधु mfn. (prob. fr. 2. विध्; for 2. वि-धुSee. वि-धू, col. 3) lonely , solitary RV. x , 55 , 5 (applied to the moon ; accord. to Sa1y. = वि-धातृ, वि-धारयितृ)
विधु m. the moon Mn. Bhartr2. Gi1t.
विधु m. ( L. also , " camphor ; N. of ब्रह्माand of विष्णु; a राक्षस; wind ; an expiatory oblation ; time ; = आयुध")
विधु m. N. of a prince VP. ( v.l. विप्र).
विधु/ वि-धु m. (for 1. See. col. 2) palpitation , throbbing (of the heart) AV. ix , 8 , 22.
Purana index[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a name of the moon; shone in ten directions having got the over-lordship of the seven worlds by तपस्। M. २३. २८-31.
Vedic Index of Names and Subjects[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Vidhu seems clearly to mean (as it does in the post-Vedic language) the ‘moon’ in a passage of the Rigveda,[१] where it is alluded to as ‘wandering solitary in the midst of many’ (vidhuṃ dadrāṇaṃ samane bahūnām).
Vedic Rituals Hindi[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विधु पु.
छिद्र, भा.श्रौ.सू. 9.4 (भाष्य - ‘छिद्रं वा’); (प्रवर्ग्य में महावीर)।
- यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
- यन्त्रोपारोपितकोशांशः-अमरकोशः
- यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्
- यन्त्रोपारोपितकोशांशः-शब्दसागरः
- यन्त्रोपारोपितकोशांशः-Apte
- यन्त्रोपारोपितकोशांशः-Monier-Williams
- यन्त्रोपारोपितकोशांशः-Purana index
- संस्कतशब्दाः
- यन्त्रोपारोपितकोशांशः-Vedic Index of Names and Subjects
- यन्त्रोपारोपितकोशांशः-Vedic Rituals Hindi