सामग्री पर जाएँ

वेतस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतसः, पुं, (वे + “वेञस्तुट् च ।” उणा० ३ । ४४८ । इति असच् । तुडागमश्च ।) लताविशेषः । वयसा इति भाषा । इति भरतः ॥ वेति जल- प्लवतां गच्छति इति वेतसः । वील ईलवत् नाम्नीति तसः । इत्यमरटीकायां भरतः ॥ तत्- पर्य्यायः । रथः २ अभ्रपुष्पः ३ विदुलः ४ शीतः ५ वानीरः ६ वञ्जुलः ७ । इत्यमरः ॥ प्रियः ८ । इति रत्नमाला ॥ गन्धपुष्पः ९ रथाभ्रः १० वेतसी ११ । इति शब्दरत्नावली ॥ निचुलः १२ दीर्घ- पत्रकः १३ कलमः १४ मञ्जरीनम्रः १५ सुषेणः १६ गन्धपुष्पकः १७ । (यथा, भागवते । ३ । २ । १७ । “कदम्बवेतसनलनीपवञ्जुलकैर्व्वृतम् ॥”) अस्य गुणाः । स्वादे कटुत्वम् । शीतत्वम् । भूतरक्तपित्तोद्भवरोगकुष्ठदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ अस्य पर्य्यायगुणाः । “वेतसो नम्रकः प्रोक्तो वानीरो रञ्जनस्तथा । अभ्रपुष्पञ्च विदुलो रथः शीतश्च कीर्त्तितः ॥ वेतसः शीतलो दाहशोथार्शोयोनिरुग्व्रणान् । हन्ति वीसर्पकृच्छ्रास्रपित्ताश्मरिकफानिलान् ॥” इति भावप्रकाशः ॥ जलवेतसस्य पर्य्यायगुणाः । अथ जलवेतसः । “निकुञ्चकः परिव्याघो नादेयो जलवेतसः । जलजो वेतसः शीतः संग्राही वातकोपनः ॥” इति भावप्रकाशः ॥ (जलजाताग्निः । यथा, ऋग्वेदे । ४ । ५८ । ५ । “हिरण्ययो वेतसो मध्य आसाम् ॥” “वेतसोऽप्सम्भवोऽग्निः ।” इति तद्भाष्ये सायणः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतस पुं।

वेतसः

समानार्थक:वेतस,रथ,अभ्रपुष्प,शीत,वानीर,वञ्जुल,विदुल

2।4।29।2।5

अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः। पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे॥

 : अम्बुवेतसः, जलवेतसः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतस¦ पु॰ अज--असुन् तुक् च वीभावः। (वेत) वृक्षभेदेअमरः। स्त्रीत्वमपि शब्दच॰ तत्र गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतस¦ mf. (-सः-सी)
1. The ratan, (Calamus rotang.)
2. The citron. E. वेञ् to sew or weave, Una4di aff. असच्, तुक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतसः [vētasḥ], [अज्-असुन् तुक्च वीभावः Uṇ.3.118]

The ratan, reed, cane; यद्वेतसः कुब्जलीलां विडम्बयति स किमात्मनः प्रभावेण ननु नदीवेगस्य Ś.2; अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः Śi.16.53; R.9.75.

The citron.

N. of Agni. -अम्लः Rumex Vesicarius (Mar. चुका).-Comp. -गृहम् an arbour formed of reeds. -पत्रम् a lancet; also वेतसम्; Śuśr. -वृत्ति a. pliant like a reed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतस m. (See. वेतand वेत्र)the ratan (Calamus Rotang) or a similar kind of cane , a reed , rod , stick RV. etc.

वेतस m. the citron (Citrus Medica) MW.

वेतस m. N. of अग्निib.

वेतस n. a lancet shaped like a pointed leaf of the ratan Va1gbh.

वेतस n. N. of a city Katha1s. [ cf. accord. to some , Gk. ? ; Lat. vitis ; Germ. wi7da , Weide ; Eng. withy.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vetasa is the name of the water plant Calamus Rotang, or a similar reed, in the Rigveda[१] and later.[२] It is called ‘golden’ (hiraṇyaya) and ‘water-born’ (apsuja).[३]

^3 Rv. loc. cit.; Av. x. 7, 41.

  1. iv. 58, 5.
  2. Av. x. 7, 41;
    xviii. 3, 5;
    Taittirīya Saṃhitā, v. 3, 12, 2;
    4, 4, 2;
    Vājasaneyi Saṃhitā, xvii. 6;
    Taittirīya Brāhmaṇa, iii. 8, 4, 3, etc.
  3. Taittirīya Saṃhitā, v. 3, 12, 2, etc.

    Cf. Zimmer, Altindisches Leben, 71.
"https://sa.wiktionary.org/w/index.php?title=वेतस&oldid=504614" इत्यस्माद् प्रतिप्राप्तम्