सामग्री पर जाएँ

व्याकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकरणम्, क्ली, (व्याक्रियन्ते अर्था येनेति । वि + आ + कृ + ल्युट् ।) वेदाङ्गविशेषः । इति शब्द- रत्नावली ॥ तत्र साध्यसाधनकर्त्तृकर्म्मक्रिया- समासादिनिरूपणम् । तस्य व्युत्पत्तिर्यथा । व्याक्रियन्ते व्युत्पाद्यन्ते साधुशब्दा अस्मिन् अने- नेति वा । इति दुर्गादासः ॥ * ॥ “अथ व्याकरणं वक्ष्ये कात्यायन समासतः । सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे ॥ सुप्तिङक्तं पदं ख्यातं सुपः सप्तबिभक्तयः । स्यौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मके ॥ संबोधने च लिङ्गादावुक्ते कर्म्मणि कर्त्तरि । अर्थवत् प्रातिपदिकं धातुप्रत्ययवर्ज्जितम् ॥ अमौट्शसो द्वितीया स्यात् तत्कर्म्म क्रियते च यत् । द्बितीया कर्म्मणि प्रोक्ता उक्तानुक्तविभेदतः ॥ टा भ्यां भिसस्तृतीया स्यात् करणे कर्त्तरीरिता । येन क्रियते करणं तत् कर्त्ता यः करोति सः ॥ ङेभ्यां भ्यसश्चतुर्थी स्यात् संप्रदाने च कारके । यस्मै दित्सा धारयते रोचते संप्रदानकम् ॥ पञ्चमी स्यात् ङसि भ्यां भ्यो ह्यपादाने च कारके । यतोऽपैति समादत्ते अपादानं भयं यतः ॥ ङसोसामश्च षष्ठी स्यात् स्वामिसम्बन्धमुख्यके । ङ्योस्सुपश्च सप्तमी स्यात् सा चाधिकरणे भवेत् ॥ आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः । ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥ पञ्चमी पर्य्युपाङ्योग इतरर्त्तेऽन्यदिङ्मुखे । एनयोगे द्वितीया स्यात् कर्म्म प्रवचनीयकैः ॥ लक्ष्मणवीप्सेत्थंभूतेऽभिर्भागे च परिप्रती । अन्तरेषु सहार्थे च हीनेऽनूपश्च कथ्यते ॥ द्वितीया च चतुर्थी स्याच्चेष्टायां गतिकर्म्मणि । अप्राणे हि विभक्ती द्बे मन्यकर्म्मण्यनादरे ॥ नमःस्वस्तिस्वधास्वाहालंवषडयोग ईरिता । चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥ तृतीया सहयोगे स्यात् कुत्सितेऽङ्गे विशेषणे । काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि ॥ स्वामीश्वराधिपतिभिः साक्षिदायादसूतकैः । निर्द्धारणे द्वे विभक्ती षष्ठी हेतुप्रयोगके ॥ स्मृत्यर्थकर्म्मणि तथा करोतेः प्रतियत्नके । पद्मनाभदत्तकृतसुपद्मव्याकरणं वोपदेवकृतमुग्ध- बोधव्याकरणं गोस्वामिकृतहरिनामामृतव्या- करणं भट्टोजीदीक्षितकृतसिद्धान्तकौमुदीव्याक- रणं अनुभूतस्वरूपाचार्य्यादिकृतसारस्वतादि- व्याकरणानि च सन्ति ॥ * ॥ (विस्तारः । यथा, महाभारते । १२ । २५१ । ११ । “व्यवसायात्मिका बुद्धिर्म्मनो व्याकरणात्मकम् ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकरण¦ पु॰ व्याक्रियन्ते व्युत्पाद्यन्ते अर्थवत्तया प्रतिपा-द्यन्ते शब्दा येन वि + आ + कृ--करणे ल्युट्! वेदाङ्गे श-ब्दसाधुतावोधके

१ शास्त्रभेदे वेदान्तोक्ते नामरूपाभ्यां

२ जगतोविकाशने च(
“अथ व्याकरणं वक्ष्ये कात्यायन! समासतः। सिद्ध-शब्दविवेकाय बालव्युत्पत्तिहेतवे। सुप्तिङ्न्तं पदंख्यातं सुपः सप्त विभक्तयः। स्वोजसः प्रथमा प्रोक्ता साप्रातिपदिकार्थके। सम्बोधने च लिङ्गादावुक्ते कर्मणि-कर्त्तरि। अर्थवत् प्रातिपदिकं धातुप्रत्ययवर्ज्जितम्। अमौट्शसो द्वितीया स्यात् तत्कर्म क्रियते च यत्। द्वितीया कर्मणि प्रोक्ता उक्तानुक्ताविभेदतः। टाभ्या-भिसस्तृतीया स्यात् करणे कर्त्तरीरिता। येन क्रियतेतत्करणं तत्कर्त्ता यः करोति सः। ङेभ्यांभ्यसश्चतुर्थीस्यात् सम्प्रदाने च कारके। यस्मैदित्सा धारयते रोचतेसम्प्रदानकम्। पञ्चमी स्यात् ङसिभ्यांभ्योह्यपादाने चकारके। यतोऽपैति समादत्ते अपादानं भयं यतः। ङसोसामश्च षष्ठी स्यात् स्वामिसम्बन्ध उख्यते। ङ्योस्सुपश्च सप्तमी स्यात् सा चाधिकरणे भवेत्। आधारश्चा-धिकरणं रक्षार्थानां प्रयोगतः। ईप्सितं चानीप्सितंयत्तदपादानकं स्मृतम्। पञ्चमी पर्य्युपाङ् योग इतर-र्त्तेन्यदिङ्मुखे। एनब्योगे द्वितीया स्यात् कर्मप्रवच-नीयकैः। लक्षणवीप्सेत्थंभूतेऽभिर्भागे च परिप्रती। अनुस्तेषु सहार्थे च हीनेऽनूपौ च कीर्त्ततौ। द्वितीयाच चतुर्थी स्याच्चेष्टायां गतिकर्मणि। अप्राणेहि विमक्तीद्वेमन्यकर्मण्यनादरे। नमःस्वस्तिस्वधास्वाहालंवषट्-योग ईरिता। चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववा-चिनः। तृतीया सहयोगे स्यात् कुत्सितेऽङ्गे विशेषणे। काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि। स्वामीश्वरा-धिपतिभिः साक्षिदायादसूतकैः। निर्द्धारणे द्वे विभक्तीषष्ठी हेतुप्रयोगके। स्मृत्यर्थकर्मणि तथा करोतेः प्रति-यत्नके। हिंसार्थानां प्रयोगे च कृति कर्मणि कर्त्तरि। न कर्त्तृकर्मणोः षष्ठी निष्ठादौ प्रतिपादिता। द्विविधंप्रातिपदिकं प्रातिपदिकमज्झलम्। भुवादिम्यस्तिङो लःस्याल्लकारा दश वै स्मृताः। तिप्तसन्तयः प्रथमो मध्यःसिप्थस्थास उत्तमः। मिब्वस्मसः परस्मै तु पदानाञ्चात्म-नेपदम्। तामातामन्तां प्रथमो मध्यख्यासाथांध्वं तथा। [Page4986-b+ 38] उत्तम इर्वहिमही ङितः कर्त्तरि धातुतः। नाम्निप्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत्। मध्यमो युस्मदिप्रोक्त उत्तमः पुरुषोऽस्मदि। भुवाद्या धातवः प्रोक्ताःसनाद्यन्तास्तु धातवः। लडीरितो वर्तमाने स्मेनातीते चधातुतः। भूतानद्यतने लिट् च लिङाशिषि च धा-तुतः। विध्यादावेवानुमतौ लिङ्विधिर्मन्त्रणे भवेत्। निमन्त्रणाधीष्ट संप्रश्न प्रार्थनेषु तथाशिषि। लिडतीतेपरोक्षे स्याल्लङ्लुङ्, ऌट् ऌङ् भविष्यति। स्यादद्य-तने ऌट् च भविष्यति च धातुतः। धातोरॢङ्क्रिया-तिपत्तौ लिङर्थे लोट् प्रकीर्त्तितः। कृतस्त्रिष्वपि वर्तन्तेभावे कर्मणि कर्त्तरि। शतृ शानच् तव्यण्यद् यदनीयर्क्य तृचादयः” गारुडे

२०

९ अ॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकरण¦ n. (-णं)
1. The science of grammar, considered as one of the six Ve4da4ngas.
2. Explaining, expounding. E. वि and आङ् before कृ to make or do, ल्युट् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकरणम् [vyākaraṇam], 1 Analysis, decomposition.

Grammatical analysis, grammar, one of the six Vedāṅgas q. v.; सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः Pt.2.33.

Explaining, expounding.

Discrimination.

Manifestation.

Prediction.

The sound of a bow-string.-Comp. -प्रक्रिया etymology, derivation (of a word).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकरण/ व्य्-आकरण etc. See. व्य्-आ-कृ.

व्याकरण/ व्य्-आकरण n. separation , distinction , discrimination MBh.

व्याकरण/ व्य्-आकरण n. explanation , detailed description ib. Sus3r.

व्याकरण/ व्य्-आकरण n. manifestation , revelation MBh. Hariv.

व्याकरण/ व्य्-आकरण n. (with Buddhists) prediction , prophecy (one of the nine divisions of scriptures Dharmas. 62 ) SaddhP. etc.

व्याकरण/ व्य्-आकरण n. development , creation S3am2k. BhP.

व्याकरण/ व्य्-आकरण n. grammatical analysis , grammar Mun2d2Up. Pat. MBh. etc.

व्याकरण/ व्य्-आकरण n. grammatical correctness , polished or accurate language Subh.

व्याकरण/ व्य्-आकरण n. the sound of a bow-string L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--पाणिनि's grammar. Br. III. १९. २२; वा. ८३. ५२; Vi. V. 1. ३८. [page३-347+ २८]

"https://sa.wiktionary.org/w/index.php?title=व्याकरण&oldid=504694" इत्यस्माद् प्रतिप्राप्तम्