व्रत

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रतम्, क्ली पुं, भक्षणम् । इत्युणादिकोषः ॥ (व्रियते इति । वृञ् वरणे + बाहुलकात् अतच् । सच कित् ।) पुण्यजनकोपवासादि । तत्पर्य्यायः । नियमः २ पुण्यकम् ३ । इत्यमरः ॥ नियामः ४ संयमः ५ । इति शब्दरत्नावली ॥ अथ व्रत- विधिः । तदारम्भप्रतिष्ठयोर्व्वर्ज्यकालमाह ज्योतिषे । गुरोर्भृगोरस्तबाल्ये वार्द्धके सिंहगे गुरौ इति । वृद्धो बालो दिनत्रयमित्यन्तम् । मठप्रतिष्ठातत्त्वादावनुसन्धेयम् ॥ * ॥ बुधाष्टमी- व्रते विशेषो राजमार्त्तण्डोक्तो यथा, -- “द्विजेन्द्रसुतसंयुक्ता पूर्णा या च सिताष्टमी । तस्यां नियमकर्त्तारो न स्युः खण्डितसम्पदः ॥ पतङ्गे मकरे याते देवे जाग्रति माधवे । बुधाष्टमीं प्रकुर्वीत वर्जयित्वा तु चैत्रकीम् ॥ प्रसुप्ते च जगन्नाथे सन्ध्याकाले मधौ तथा । बुधाष्टमीं न कुर्वीत कृता हन्ति पुराकृतम् ॥” अथ व्रतानुष्ठानम् । तत्र देवलः । “अभुक्त्वा प्रातराहारं स्नात्वा चैव समाहितः । सूर्य्यादिदेवताभ्यश्च निवेद्य व्रतमाचरेत् ॥ ब्रह्मचर्य्यं तथा शौचं सत्यमामिषवर्ज्जनम् । व्रतेष्वेतानि चत्वारि वरिष्ठानीति निश्चयः ॥” अत्र प्रातरित्यस्याभुक्त्वेत्यत्र नान्वयः । किन्तु व्रतमित्यनेनान्वयोऽभ्यर्हितत्वात् । “प्रातः सङ्कल्पयेद्बिद्बानुपवासव्रतादिकम् । नापराह्णे न मध्याह्रे पित्रकालौ हि तौ स्मृतौ ॥” इति वराहपुराणैकवाक्यत्वाच्च । वतश्चाभुक्त्वा प्रातराहारमिति । “मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम् । अहनि च तथा तमस्विन्यां सार्द्धप्रहरया- मान्तः ॥” उपपातकयुक्तानामनादिष्टेषु चैव हि ॥ प्रकाशे च रहस्ये च अभिसन्ध्याद्यपेक्षया । जातिशक्तिगुणान् दृष्ट्वा सकृद्बुद्धिकृतं तथा । अनुबन्धादिकं दृष्ट्वा सर्व्वं कार्य्यं यथाक्रमम् ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥ द्बादशवार्षिकादिव्रतं प्रायञ्चित्तविवेकादौ द्रष्ट- व्यम् ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रत पुं-नपुं।

व्रतम्

समानार्थक:नियम,व्रत

2।7।37।2।2

पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः। नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम्.।

 : उपवासः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रत¦ न॰ व्रज--घ जस्य तः।

१ भक्षणभेदे उणादि॰

२ पुण्य-साधने

३ उपवासादिनियमभेदे च( व्रतञ्च सभ्यक्सङ्कल्पजनितानुष्ठेयक्रियाचिशेयरूपं तच्चप्रवृत्तिनिवृत्त्युभयरूपं तत्र दूष्यविशेषभोजनपूजादिकं प्र-वृत्तिरूपम् उपवासादिकञ्च निवृत्तिरूपं तच्च नित्यं नैमि-त्तिकं काम्यञ्च। नित्यमेकादश्यादिव्रतम् नैमित्तिकंचान्द्रायणादिव्रतं काम्यं तत्तत्तिथ्युपवासादिरूपं
“सत्त्वकेससाधनं कर्म कर्त्तव्यमधिकारिणा। निष्कामेण स{??}-वीर! काम्यं कामान्वितेन च” भविष्यपु॰। सम्यक् प्रवमकल्पादिना संसाधनं यथाविहितं साधनं यस्य। अधिकारिणा अर्थिना समर्थेण विदूषा चेत्यर्थः। तत्र व्रता-रम्भकालः हेमा॰ व्र॰ दर्शितो यथाअथ व्रतारम्भकालः। तत्र सत्यब्रतः
“उदयस्था तिथिर्य्याहि न भवेद्दिनमध्यभाक्। सा खण्डा न व्रतानांस्यादारम्भे च समापने” इति। एतद्व्यतिरिक्ताया-मखण्डायां प्रारम्ममाह वृद्धवशिष्ठः
“अखण्डव्यापि-मार्त्तण्डा यद्यखण्डा भवेत्तिथिः। व्रतप्रारम्भणन्तस्या-मनष्टगुरुशुक्रयुगिति”। तिथिर्यद्यनष्टगुरुशुक्रयुक् अन-स्तमितगुरुशुक्रयुक्ता तस्यां व्रतमारम्भणीयमित्यर्थः, इद-मुपलक्षणम्। गुरुशुक्रयोर्बाल्ये वार्द्धक्येऽपि व्रतन्नार-म्भणीयमित्यर्थः। तथा च वृद्धमनुवृहम्मती
“अग्न्या-धानं प्रतिष्ठाञ्च यज्ञदानव्रतानि च। वेदव्रतवृषोत्सर्ग-चूडाकरणमेखलाः। माङ्गल्यमभिषेकञ्च मलमासे विव-र्जयेत्। वाले वा यदि वा वृद्धे शुक्रं वास्तङ्गते गुरौ। मलमास इवैतानि वर्जयेद् देवदर्शनम्” इति। गार्ग्यो-ऽपि
“नामान्नप्राशनञ्चौडं विवाहं मौञ्जिवन्धनम्। निष-क्रमं जातकर्मापि काम्यं वृषविसर्जनम्। अस्तगे चगुरौ शुक्रे बाले वृद्धे मलिम्लुचे। उद्यापनमुपारम्भंव्रतानां नैव कारयेद्” इति। लल्लः
“नीचस्थे वक्र-संस्थे व्यतिचरणगते बालवृद्धास्तगे वा संन्यासो देवयात्राव्रतचरणविधिः कर्णवेधस्तु दीक्षा। मौञ्जीबन्धोऽथचूडा परिणयनविधिर्वास्तुदेवप्रतिष्ठा वर्ज्याः सद्भिः प्रय-त्नात् त्रिदशपतिगुरौ सिंहराशिस्थिते च” इति। नी-चलक्षणन्तु ज्योतिःशास्त्रे
“सूर्य्यादिषूच्चमजगोमुकराःकृमात् स्युः। स्त्रीकर्किमीनवणिजोस्तगमञ्च नीचम्”{??}ति। उच्चस्थानात् सप्तमं नीचमित्यर्थः। तथा{??}[Page4996-a+ 38] नीच{??} गुरौ मकरगते इत्यर्थः। शौनकः
“पूर्त्तागार-विवाहयागगमनं क्षौराद्यकर्णव्यधं विद्यादेववि{??}ओ-कनोपवयवं दीक्षापरीक्षा व्रतम्। स्नानं तीर्थगमं रणंपुरमहादानप्रतिष्ठापनम्। सिंहस्थे विबुधार्चिते नशुभदं कर्त्तुस्तथा सूर्य्यगे”। अस्तलक्षणन्तु ब्रह्मसि-सिद्धान्ते
“रविणासत्तिरन्येषां ग्रहाणामस्त उच्यते। ततोऽर्वाक् बार्द्धकं विद्यादूर्द्ध्वं बाल्यं प्रकीर्त्तितम्” इति। एतयोरवधिः ज्योतिःशास्त्रेऽनेकविधोदर्शितः
“बालःशुक्रो दिवसदशकं पञ्चकञ्चैव वृद्धः पश्चादह्नस्त्रितय-मुदितः पक्षमौढ्यः क्रमेण। जोवो वृद्धः शिशुरपिलदा पक्षमन्यैः शिशू तौ वृद्धौ प्रोक्तौ दिवसदशकञ्चा-परैः सप्तरात्रम्” इति। एतेषां पक्षाणां व्यवस्था देशा-न्तरविषया आपद्विषया वा। तथा च गार्ग्यः
“शुक्रोगुरुः प्राक्पराक् चैव वालो बिन्ध्ये दशावन्तिषु सप्त-रात्रम्। वङ्गेषु हूणेषु च षट् च पञ्च शेषे च देशेत्रिदिनं वदन्ति” इति। वराहमिहिरोऽपि
“वहवोदर्शिताः काला ये बाल्ये वार्द्धकेऽपि च। ग्राह्यास्तत्रा-धिकाः शेषा देशभेदादुतापदि” इति। व्रतानां मानसादिभेदस्तत्र दर्शितो यथावराहपुराणे
“अहिंसा सत्यसस्तेयं ब्रह्वचर्य्यमकल्-मषम्। एतानि मानसान्याहुर्व्रतानि व्रतधारिणाम्। एकभक्तं तथानक्तमुपवासादिकञ्च यत्। तत्सर्वं का-यिकं पुंसां व्रतं भवति नान्यथा”। उपवासोऽत्राहो-रात्राभोजनम्, आदिशब्दादियाचितादि। तथा
“कि-ञ्चिद् व्रत वा क्रियते पूज्यते यत् त्रिलोचन!। विप्रे-भ्योदीयते सर्वमेतज्जन्मतरोः फलम्”। व्रतभेदफलादिकं तत्रोक्तं यथा गरुडपुराणे
“तपोगतिर्हि भूतानां तप एव परायणम्। तपसाविजिता लोकास्तपसा निर्वृतिः सताम्। तपसा धूत॰पाप्मानो निर्वाणं परसङ्गताः। तपसा परमायुश्चशान्तिं वापि तथाप्नुयात्। तपसा विन्दते लोकानखि-लानपि पूरुषः। तपसा परमृच्छन्ति निर्वाणमपि शा-श्वतम्। तपसा चैहिकीं सिद्धिं विपुलासपि विन्दति। लभन्ते च सुतादींस्तु तपसा मर्त्यजातयः। अक्षयञ्च धन-ञ्चापुस्तपन्तश्च नरा भुवि। व्रतीपवासूनियमैः शरीरोत्ता-पनन्तपः। उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि।
“एतद्वीरासनं प्रोक्तं महापातकनाशनम्। एकभक्तेन{??}क्तेन तथैवासाचिचेन च। उपवासेन चैकेन पादकृच्छः[Page4996-b+ 38] प्रकीर्त्तितः”। कूर्मपुराणे
“व्रतोपवासनियमैर्होमब्राह्म-णतर्पणैः। आराधय महायोर्गर्योगिनां ह्वदि{??}स्थि-तम्”। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तम!अर्च्चयन्ति महादेवं यज्ञदानसमाधिभिः। व्रतीपवास-नियमैर्होमैः स्वाध्यायतर्पणैः। तेषां वै रुद्रसायुज्यसामीप्यञ्चातिदुर्लभम्। सलोकता च सारूप्यं जायतेतत्प्रसादतः”। गरुडपुराणे
“धुन्धुमारस्तु राजर्षिर्लेभेपुत्रशतं पुरा। दानेन नियमेनैव तपसा च व्रतेन च। सगरो नाम राजर्षिर्दिक्षु सर्वासु विश्रुतः। पुत्राणाञ्चशत प्राप्तं तेन राज्ञा महात्मना। तथा दशरथो राजा{??}तेषु निरतः सदा। यज्ञदानतपीयोगैः सन्तुष्टः पुरु-षोत्तमः। स्वयं पुत्रत्वमापेदे तस्य राज्ञो महात्मनः। ज-नको नाम राजर्षिस्तपीव्रतनिधिः स्वयम्। ऐश्वर्य्यम-तुलं प्राप्य योगिनां गतिमाप्तवान्। एवमेव महाराज!राजानो ब्राह्मणास्तथा। ऐश्वर्य्यलक्षणं प्रापुर्गतिं वैव्रतविभवात्। अतः कुरुष्व सततं तपःसञ्चयमात्मवान्। व्रतोपवासनिरतस्त्रीर्थानि नृपसत्तम!”। तथा
“विनि-ग्रहञ्चेन्द्रियाणां कुर्वीत नियमात्मवा{??}। उपवासजप,ध्यानतीर्थस्नानादिकैरपि। व्रतैर्यज्ञेन दानेन तपसातीर्थसेवया। अनेकजन्मसंसिद्धिमेनःक्षपयति द्विजः”। व्रतादीनां चातुर्वर्णसाधारणत्वाभिधानात् द्विजग्रहण-सत्र वर्णमात्रोपलक्षणार्थम्। न चैवं सति शूद्रस्य य-ज्ञेऽनधिकाराद्यज्ञशब्दविरोध इति वाच्यम्। यजेरने-कार्थत्वेन देवतापूजाद्यर्थसम्भवात्।
“कायिकं मानसञ्चैववाचिकञ्च त्रिधा मतम्। यज्ञोदानं तपश्चैव वैदतस्तच्छृ-णुष्व मे। अहिंसा व्रतचर्य्या च तपः कायिकमुच्यत। वाचिकं सत्यवचनं भूतद्रोहविवर्जितम। मानसं मनसःशान्तिः सर्ववैराग्यलक्षणम्”। आदित्यपुराणे
“व्रतोपवा-सान् खलु यो विधत्ते दारिद्य्रपाशं स भिनत्ति चाशु। व्रतोपवासेषु रतस्य पुंसश्चैवापदः शान्तिमुशन्ति तज्ज्ञाः” ब्रतसामान्यधर्मास्तदधिकारिणश्च तत्र दर्शिता यथास्कन्दपुराणे
“निजवर्णाश्रमाचारनिरतः शुद्धमानसः। व्रतेष्वधिकृतो राजन्नन्यथा विफलः श्रमः। अलुब्धः स्म-त्यवादी च सर्वभूतहिते रतः। व्रतेष्वधिकृतो राजन्न-न्यथा विफलः श्रमः। श्रद्वावान्न्यायभीरुश्च मददम्भवि-वर्जितः। व्रतेष्वधिकृतो राजन्नन्यथा विफलः श्रमः। समः सर्वेषु भूतेषु शिवभक्तो जितेन्द्रियः। व्रतेष्वधिकृतो{??}जन्नन्यथा विफलः श्रमः।{??}[Page4997-a+ 38]( यथावत् कर्मकारकः। अवेदनिन्दको धीमानधिकारीव्रतादिषु”। महाभारते
“श्राद्धकर्म तपश्चेव सत्यमक्रोधएव च। स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता। आत्मज्ञानं तितिक्षा च धर्मः साधारणो नृप!” देवलोऽपि
“व्रतोपवासनियमैः शरीरोत्तापनैस्तथा। वणाः सर्वेऽपिमुच्यन्ते पातकेभ्यो न संशयः” इति। तदेवं वचनसन्द-र्भेणोक्तनियमवतां चतुर्णामपि वर्णानां स्त्रीपुंसाधारण्येनव्रतेष्वधिकार इति प्रतिपाद्यते। तथा च भारते(गीता)
“मामुपाश्रित्य कौन्तेय! येऽपि स्युः पापयोनयः। स्त्रियो वैश्याश्च शूद्राश्च तेऽपि यान्ति पराङ्गतिम्” इति। तत्रायं परोविशेषो यत् स्त्रीणां भर्त्तुराज्ञां विना न खा-तन्त्र्येण व्रतादिष्वधिकार इति। तथा च मार्कण्डेय-पुराणे
“नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्युपो-पणम्। भर्तृशुश्रूषयैवैता लोकानिष्टान् व्रजन्ति हि। यद्देवेभ्यो यत्र पित्रादिकेभ्यः कुर्य्याद्भर्त्ताभ्यर्चनं सत्क्रि-याञ्च। तस्यार्द्धं वै सा फलं नान्याचत्ता नारी भुङ्क्तेभर्तृशुश्रूषयैव। धर्मार्थकामसंसिद्धौ भवेद्भर्तुः सहायिनी”। आदित्यपुराणे
“नास्ति स्त्रीणा पृथग्यज्ञो न व्रतं मा-स्युपोषणम्। पतिं शुश्रूपते यत्तु तेन स्वर्गे महीयते। पत्युरभ्यधिकं नारी नोपवासव्रतञ्चरेत्। अनायुष्यं द्विजश्रेष्ठ! प्रत्युस्तस्यास्तदुच्यते। देवताराधनं कुर्य्यात् कामंवा ब्राह्मणोत्तमः। नारी पतिव्रता नाम प्राप्यानुज्ञान्तुभर्तृतः। नारी खल्वननुज्ञाता पित्रा भर्त्त्रा सुतेन वा। विफलं तद्भवेत्तस्या यत्करोत्यौर्द्धदेहिकम्”। पित्रेतिकन्यात्वे। भर्त्रेति सौभाम्यदशायाम्। सुतेनेति वैघ-व्यदशायाम्। और्द्धदेहिकं व्रतादि।
“अथ वा सर्वसु॰वसृज्य पतिपूजनतत्परा। केशवाराधनं कुर्य्यात् साध्वीस्त्री पुरुषर्षभ!। तेनैव स्वर्गमाप्नोति यत् किञ्चिन्मनसे-च्छति। अफल सर्वमेव स्यात् भर्त्त्रनुज्ञां विना कृतम्। केशवाराधनं यच्च तथापि सफलं स्त्रियः”। हरिवंशे
“ब्रतीत्वधर्मचरणं यस्या नित्यमखण्डितम्। पुण्यकानांविधिस्तस्याः पुराणे परिकीर्त्तितः। दानोपवासपुण्यानिसुकृतान्यप्यरुन्धति!। निःफलान्यसतीना हि पुण्यकानितथा शुभे”। पुण्यकानि व्रतानि।
“या नार्चयन्ति भ-र्त्तारं योनिदुष्टाश्च याः स्त्रियः। योनिदोषात् पुण्य-फलं नाश्नान्त निरयङ्गताः। साध्व्यो जगद्धारयन्ति सु-शालाः पतिदेवताः। अनन्यधर्मनित्याश्च सतां पन्थानमा-{??}ताः। अवा{??} दुष्ठाः शौचयुक्ताः धृतिमत्यः शुचि-[Page4997-b+ 38] व्रताः। सततं साधुवादिन्यो धारयन्ति जगत् श्वलु। व्याधितः पतितो वापि निर्द्धनो वा कथञ्चन। न वक्तव्यःस्त्रिया भर्त्ता धर्म एष सनातनः। अकार्य्यकारिणं वापिनिर्गुणं स्त्री पतिं तथा। तारयत्येव साध्वी सा तथा-त्मानं शुभानने!। योनिदुष्टस्त्रियो नास्ति प्रायश्चित्तंहतैय सा। वागदष्टे विहितं सद्भिः प्रायश्चित्तं पुरा-तनैः।{??}त्तुश्छन्देन कर्त्तव्यं व्रतकं सर्वदा स्त्रिया। उपवासोऽपि वा सत्ये! काङ्क्षन्त्या तु शुभां गतिम्। कल्पान्तरसहस्रेषु न स्त्री सा लभते गतिम्। तिर्य्य-ग्योनिसहस्रेषु पच्यते योनिविभ्रमात्। यदि स्यान्नाममानुष्यं स्त्री लभेदसती सती। चण्डालयोनौ दुर्मेधाजायते कुक्कुरानना। भर्त्ता देवः सदा स्त्रीणां स्त्रीभि-र्दृष्टः सनातने। यस्या हि तुष्यते भर्त्ता सा सतीधर्मचारिणी। कोतूहलहतानान्तु स्त्रीणां लोको नशोभनः। भर्त्तर्य्येव मनो यासां सद्भावेन व्यवस्थितम्। कर्मणा मनसा वाचा पतिं नातिचरन्ति याः। ताषांपुण्यफलं सौम्ये! पुण्यकैः समुदाहृतम्। पुण्यकानाविधिं कृत्स्नं स्वर्लोकं प्रति शोभने!। निबोध सहि सर्वो हि दृष्टोऽयं तपसा मया। स्नात्वा स्त्री प्रात-रुत्थाय पतिं विज्ञापयेत् सती। उपवासार्थमथ वा व्रत-कार्य्ये धृतव्रते!। स्पृष्ट्वा कराभ्यां चरणौ सततं सत्त-मस्य च। गृहीत्वौदुम्बरं पात्रं सकुशं साक्षतं तथा। गोशृङ्गं दक्षिणासिच्य प्रतिगृह्णीत तज्जलम्। ततोभर्त्तुः सती दद्यात् स्नातस्यप्रयतस्य च। आत्मनाऽथनिसेक्तव्यं ततः शिरसि तज्जलम्। त्रैलोक्ये सर्वती-र्थेषु स्नानमेतदुदाहृतम्। उपवासेषु कर्त्तव्यमेयद्धिव्रतकेषु च। स्वानमेतद्धि सामान्यं स्त्रीणां पुंसाञ्च भा-मिनि!। अरुन्धति! मया दृष्टं तपसा हरतोषकम्। अशून्यं विद्धि शयनमासनञ्च तथाविघम्। स्वयं प्र-क्षालनं चापि पादयोरनुशब्दितम्”। अनशब्दितं व्रतो-पयोगितया कथितम्।
“अश्रुप्रपातो रोषश्च सलहस्यकृतिः सति!। उपवासात् व्रताद्वापि सद्योभ्रंशयतिस्त्रियम्। शुक्लमेव सदा वासः पशस्तं चन्द्रसम्भवे!। अन्तर्वासोऽपरञ्चैव उपवासव्रते तथा। पादुकार्थस्तृणैःकार्य्यः सर्वदा व्रतके सति!। उपवासेऽपि च विधिरेषएव प्रकीर्त्तितः। अञ्जनं रोचनञ्चापि गन्धान् सुम-नसस्तथा। व्रतके चोपवासे च नित्यमेव विवर्जयेत्”।
“रोचनं कुङ्क मादिना, मुच्चोज्वलीकरणम्।
“दन्तकाठ[Page4998-a+ 38] शिरः स्नानमुद्वर्त्तनमथापि वा। विवर्जितां मृदं सर्वांशौचार्थन्तु विधीयते। तिलामलफलैर्नित्यं श्रीफलैश्चसमाचरेत्। प्रक्षालनञ्च शिरसः सदा मृण्मिश्रितैर्जलैः। शिरसाऽभ्यञ्जनं सौम्ये! नैवमेतत् प्रशस्यते। न पादयोर्नमात्रस्य स्नेहेनेति स्थितिः स्मृता। गोयानमुष्ट्रयानञ्चकथञ्चिदपि नाचरेत्। खरयानञ्च सततं व्रते चाप्युप-वासके। नदीजलं प्रस्ववजं शस्तं वै सोमनन्दिनि!। शुभे तडागे वाप्यादौ विस्तीर्णे जलजाप्लुते। गत्वास्नानं प्रशस्तन्तु सदैव खलु सर्वथा। अलाभे त्ववरुद्धास्त्री घटस्नानं समाचरेत्। नवैश्च कुम्मैः स्नातव्यं विधि-रेष सनातनः। स्नानञ्च कार्य्यं शिरसा तपःफलमवा-प्नुयात्”। भविष्यत्पुराणे
“क्षमा सत्यं दया दानं शौच-मिन्द्रियनिग्रहः। देवपूजाग्निहवनं सन्तोषः स्तेयवर्ज-नम्। सर्वव्रतेष्वयं धर्मः सामान्यो दशकः स्थितः”। अत्र क्षमादीनां स्वतन्त्रतया चतुर्वर्गसाधनत्वेन विहि-तानां व्रताङ्गतयाऽभिधानं खादिरं वीर्य्यकामस्येत्यादि-वत् संयोगपृथक्त्वन्यायादुपपन्नम्। मत्स्यपुराणे
“त-स्मात् कृतोपवासेन स्नानमभ्यङ्गपूर्वकम्। वर्जनीयं प्रय-त्नेन रूपघ्नं तत्परं नृप!”। यत्तूक्तं गरुडपुराणे-
“गन्धालङ्कारवस्त्राणि पुष्पमालानुलेपनम्। उपवासे नदुष्यन्ति दन्तधावनमञ्जनम्” इति यच्च व्यासोक्तम्
“दन्तधावनपुष्पाणि व्रतेऽपि स्युर्न्न दुष्यति”। तदेतत्स-भर्तृकोपवासविषयम्। भविष्यत्पुराणे
“अञ्जनञ्च सता-म्बूलं सिन्दूरं रक्तबाससी। बिभृयात्सोपवासापि अवैध-व्यकरं परम्। विधवा यतिमार्गेण कुमारी वा यदृ-च्छया” पद्मपुराणे
“गर्भिणी सूतिकादिश्च कुमारी वाथरोगिणी। यदा शुद्धा तदान्येन कारयेत् प्रयता स्व-यम्”। गर्भिण्यादिरुपवासे कर्त्तव्ये नक्तं कुर्य्यात्। सूतकादिभिरशुद्धा अन्येन व्रतं कारयेत्। प्रयता शुद्धा,स्वयं कुर्य्यात्, पूंसोऽप्येष विधिः लिङ्गस्याविवक्षितत्वात्तदेवं स्त्रीणां कन्यादशायां पित्रादेराज्ञया, विन्नानां भ-र्तूराज्ञया, विधवानां पुत्राद्याज्ञयैव व्रताधिकारोनान्य-येति सिद्धम्। अग्निपुराणे
“व्रीहिषष्टिकमुद्गाश्च क-लायाः सलिलं पयः। श्यामाकाश्चैव नीवारा गोघू-माद्या व्रते हिताः। कूष्माण्डालाबुवार्त्ताकीपालङ्क्यज्योत्स्नकाख्यजेत्। चरुर्मैक्ष्यं शक्तुकणाः शाकन्दधिघृतं मधु”। श्यामाकाः शालिनीवारा शाकं मूलपत्रादि-कम्।
“हविष्यव्रतनक्तादावग्निकार्य्यादिकं हितम्। [Page4998-b+ 38] मधु मांसं विहायान्यद् व्रते च हितमीरितम्”। व्र॰ ख॰दयादीनामुपवासगुणतयातदङ्गत्वम् एका॰ त॰ दर्शित यथाव्रते गुणानाह गोतमः
“दया सर्वभूतेषु क्षान्तिरनसूयाशौचमनायासो मङ्गलमकार्पण्यमस्पृहा चेति”। दया-दिलक्षणान्याह वृहस्पतिः
“परे वा बन्धुवर्गे वा मित्रेद्वेष्टरि वा सदा। आत्मवद्वर्त्तितव्य हि दयैवैषा प्रकी-र्त्तिता”। परे उदासीने। आपत्सु रक्षितव्यन्त्वितिकल्पतरौ पाठः। आत्मवदितिव्यक्तमाह दक्षः
“यथै-वात्मा परस्तद्वद्द्रष्टव्यः सुखमिच्छता। सुखदुःखानितुल्यानि यथात्मनि तथा परे”। वृहस्पतिः
“बाह्ये चा-ध्यात्मिके चैव दुःखे चोत्पादिते कचित्। न कुप्यतिन वा हन्ति सा क्षमा परिकीर्त्तिता। न गुणान् गु-णिनो हन्ति स्तौति मन्दगुणानपि। नान्यदोषेषु रमतेसाऽनसूया प्रकीर्त्तिता। अभक्ष्यपरिहारस्तु संसर्गश्चाप्य-निन्दितैः। स्वधर्मे च व्यवस्थानं शौचमेतत् प्रकीर्त्ति-तम्। शरीरं पीड्यते येन सुशुभेनापि कर्मणां। अत्यन्तंतन्न कुर्वीत अनायासः स उच्यते। प्रशस्ताचरणं नित्य-मप्रशस्तविवर्जनम्। एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वद-र्शिभिः। स्तोकादपि च दातव्यमदीनेनैव चात्मना। अहन्यहनि यत् किञ्चिदकार्पण्यं हि तत् स्मृतम्। यथोत्पन्नेन सन्तोषः कर्त्तव्योऽप्यल्पवस्तुना। परस्यचिन्तयित्वार्थं साऽस्पृहा परिकीर्त्तिता”। देवीपुरा-णम्।
“तद्ध्यानं तज्जषः स्नानं तत्कथाश्रवणादिकम्। उपवासकृतो ह्येते गुणा प्रोक्ता मनीषिभिः”। व्रतकालविवेकेऽत्र विशेष उक्तो यथा
“दीर्घकालानुपा-लनीयतत्तदितिकर्त्तव्यताकलापोपहितनियतसङ्कल्पविषयोव्रतमिति व्रतलक्षणम्। व्रतानां सङ्कल्पसम्भवत्वमाह मनुः
“सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः। व्रता-(पुंस्त्वमार्षम्) नियमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः”। व्र-तारम्भप्रतिष्ठाकालमाह ज्योतिषम्
“गुरोर्भृगोरस्तबाल्येबार्द्धक्ये सिंहगे गुरौ। गुर्वादित्ये दशाहे तु वक्रिजीवा-ष्टविंशके। दिने, प्राग्राश्यनायातातिचारिगुरुवत्सरेप्राग्राशिगन्तृजीवस्य चातिचारे त्रिपक्षके। कल्पाद्यद्भुत सप्ताहे नीचस्थेज्ये मलिम्लुचे। मानुतलङ्घितवेमासि क्षये राहुयुते गुरौ। पौषादिकचतुर्मासे चरणा-ङ्कितवर्षणे। एकेनाह्ना चैकदिने द्वितीयेन दिनत्रये। तृतीयेन तु सप्ताहे माङ्गल्यानि जिजीविषुः। विद्यारमकर्णवेधौ चूडापनयनोद्वहान्। तीर्थयानमनावृत्तं तथा[Page4999-a+ 38] नादिसुरेक्षणम्। परीक्षारामयज्ञांश्च पुरसरणदीक्षणे। व्रतारम्भप्रतिष्ठे च गृहारम्भप्रवेशने। प्रतिष्ठारम्भणेदेवकूपादेर्वर्जयन्ति च। द्वात्रिंशद्दिवसश्चास्ते जीवस्यभार्गवस्य च। द्वासप्ततिर्महत्यस्ते पादास्ते द्वादश क्र-मात्। अस्तात् प्राक् परयोः पक्षं गुरोर्बार्द्धकबालते। पक्षं वृद्धो महास्ते तु भृगुर्बालो दशाहिकः। पादास्तेतु दशाहानि वृद्धो बालो दिनत्रयम्”। सिंहस्थ गुरौ( विशेषस्तु ज्योतिःकौमुद्याम्
“गण्डक्या उत्तरे तीरेगिरिराजस्य दक्षिणे। सिंहस्थं मकरस्थञ्च गुरुं यत्नेनवर्जयेत्” इति। अथ व्रतानुष्ठानं तत्र देवलः
“अभुक्त्वाप्रातराहारं{??}त्वाचम्य समाहितः। सूर्य्यादिदेवताभ्यश्चनिवेद्य व्रतमाचरेत्”। अत्र प्रातर्व्रतमचारेदित्यन्वयःततश्चाहारमभुक्त्वा इति पूर्वदिने एकभक्त कृत्वा इत्य-र्थकम् दिवारात्रिभोजनद्वयस्यैकतरनिवृत्त्यैकतरत्याव-सीयमानत्वात्। गृहोतवताकरणे छागलेयः
“यो गृ-हीत्वा व्रतं मोहात् माचरेत् काममोहितः जीवन्भवति चाण्डालो मृतः श्वा चैव जायते”। अत्र प्राय-श्चित्तणाह शान्तपुराणम्
“लोभान्लोहात् प्रमादाद्वाव्रतभङ्गो भवेद्यदि। उपवासत्रयं कुर्य्यात् कुर्य्याद्वा केश-मुण्डनम्। प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत्”।{??}ब्दः समुच्चये तेन मुण्डनञ्च कुर्य्यादित्यर्थः। प्रमादात्सकृदकरणे प्रतिप्रसवमाह देवलः
“सर्वभूतभयं व्याधिःप्रमादो गुरुशासनम्। अव्रतघ्नानि कथ्यन्ते सकृदेतानिशास्त्रतः”। आरम्भानन्तरमशौचं न प्रतिबन्धकम्
“व्रतय-ज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे। आरब्धे सूतकं नस्यादनारम्भे तु सूतकम्” विष्णूक्ते। व्रतारम्भः सङ्कल्पएव तत्रैवोक्तः। आरब्धव्रतस्य समापनं विना मरणे तत्-फलप्राप्तिरपीत्याहाङ्गराः
“योयदर्थं चरे{??}र्ममसमाप्य-मृतो यदि। स तत्पुण्यफलं प्रेत्य प्राप्नोति मनुरव्रवात्”। प्रेत्य परलोके। अशक्तौ जलादिपाने दोषाभावमाहबोधायनः
“अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः। हविर्व्राह्मणकाम्या च गुरोर्वचनमौषधम्”। गर्भिण्यादौविशेषमाह शाम्बपुराणम्
“गर्भिणी सूतिकः नक्तं कु-मारी च रज{??}ला। यदा शुद्धा तदान्येन कारयेत् क्रि-यते तदा”। अशुद्धा पूजादिकं कारयेत् कायिकमुपवा-सादिकं सदा अशुद्धाशु{??} वा स्वयं कुर्य्यात्। उपवासा-शक्तौ नक्तं कुर्वीत। उपवासेष्वशक्तानां नक्तं भोज-नमिव्यते” इति वचनात्। व्रतदिने वज्यान्याह हा-[Page4999-b+ 38] रीतः
“पतितपाषण्डनास्तिकसम्भाषानृताभिधानादिकसुपवासदिने वर्जयेत्”। तथा कूर्मपुराणम्
“बहिर्ग्रामा-न्यजं सूतिं पतितञ्च रजस्वलाम्। न स्पृशेन्नाभिभाषेतनेक्षेत हरिवासरे”। व्रतानुष्ठानकालश्च तत्तत्तिथि-विहितपूजाप्रधानकालपूर्वाह्णे प्राप्ततिथिर्ग्राह्या यथानरसिंहपुराणम्
“दै{??}कृत्यन्तु पूर्वाह्णे मनुष्याणाञ्च म-ध्यमे। अपराह्णे पितॄणाञ्च कार्य्याण्येतानि यत्नत” इतितथा श्रुतिरपि पूर्वाह्णो वै देवानां मध्यन्दिनं मनुष्याणा-विति”। उभयदिने पूर्वाह्णलाभे विशेषवचर्न विना युन्मा-दिवचनाद्व्यवस्था”। संक्रान्तिनिमित्तं तत्तत्संक्रान्तिपुण्य-काल एव कार्व्यम्। त्रुटेः सहस्रभागो यः स कालोरविसंक्रमः” इत्युक्तेः संक्रान्तिकालस्यातिसूक्ष्मत्वेन कर्मा-नर्हतया संक्रान्तिपदस्य लक्षणया तत्परत्वात्। अत्र तु
“वृश्चिकस्य तु संक्रान्त्यां पुत्रकामा व्रतं चरेत्” इतिमविष्यपुराणीयेन कार्त्तिकेयव्रतस्य संक्रान्तिविहितत्वे-ऽपि
“सायंकाले समारोम्ब प्रातःकाले विसर्जयेत्” इतिभविष्यपुराणीयेन पूजाया रात्रिमात्रकर्त्तव्यत्वाभिघा-नात् तदङ्गोपवासस्य चाहोरात्रसाध्यतया पुण्यकालेतदसम्भवात् तद्युक्ताहोरात्र एव कर्त्तव्यत्वम्। ततश्चसंपूर्णार्द्धरात्रात् परं वृश्चिकसंक्रान्तौ परदिने पूर्वयाम-द्वयस्य पुण्यकालत्वेन तद्युक्ताहोरात्र एव कार्त्तिकेयव्रतंकर्तव्यम् दिवा तदङ्गस्नानादेः व्रतत्वेन प्रातरोरम्भार्ह-त्वात् तदङ्गोपवासस्य प्रातरारम्भार्हत्वाच्च। उक्तान्यव्रतेषुयुम्मवचनेन शुक्लपक्षकृष्णपक्षादिभेदेन वा तिथिविवेकोक्ताव्यवस्थाऽनुसरणीया। व्रतप्रतिष्ठाकालश्च पूर्वोक्तेन
“गुरोर्भृगोरस्तवाल्ये वार्द्धक्येसिंहगे गुरौ” इत्यादिवचनोनोक्तगुरुशुक्रास्तमयादिभिन्नःशुद्धसमय एव कालः। तत्र
“सर्वेषूक्तेषु कर्तव्या प्रतिष्ठाविधिना बुधैः। फलार्थिभिस्त्वप्रतिष्ठं यस्मान्नि{??}फल-मुच्यते” इति हयशीर्षपञ्चरात्रीयवचनेऽकरणे निष्-फलत्वश्रुतेः प्रतिष्ठा नित्या सा च न व्रताङ्गं किन्तुकर्मान्तरम्।
“समाप्ते तु वते तत्र प्रतिष्ठा तदन-न्तरम्” ब्रह्मपुराणात्। इत्थञ्च तद्दिनेऽशौचादौ यथान आर्त्तानुष्ठानं तथा समयाशुद्धावपि नानुष्ठानम्। यत्तु
“समाप्ते तु व्रते तत्र प्रतिष्ठा तदनन्तरम्। न कालनि-यमस्तत्र तत्र विघ्ने पराव्दिके” इति तत्सम्पूर्णदिवसेसमयाशुद्धावपि प्रतिष्ठाविधायकं सचनं तत कामधेनु-कल्पतरुकारादिभिरलिखितत्वादनाकरम्। यदव व्रत[Page5000-a+ 38] मासवर्षादिकालविशेषनियन्त्रितं काम्यं तस्यैव प्रतिष्ठा यत्पुनर्नित्यं कालविशेषानियन्त्रितञ्च न तस्य प्रतिष्ठा पूर्वोक्तहयशीर्षीये काम्यफलार्थिभिरित्यनेन काम्यस्यैव प्रतिष्ठा-विधानात् कालविशेषानियन्त्रिते तदसम्भवात्”। व्रतभेदाश्च नानापुराणोक्तास्तत्र हेमा॰ व्र॰ स्वण्डोक्ताअकारादिवर्णाद्यक्षरपूर्वकशब्दानुसारेणात्र कर्त्तव्यकाल-सहिताः प्रदर्श्यन्ते तेषामितिकर्त्तव्यता तु तत्र दृश्याअक्षयतृतीयाव्रतं भविष्योत्तरोक्तम्।
“वैशाखस्य सितामेकांतृतीयामक्षयां शृणु। तस्यां स्नानं जपो होमः स्वा-ध्यायः पितृतर्पणम्। दानञ्च क्रियते किञ्चित् तत् सर्वंस्यादिहाक्षयम्। आदिः कृतयुनस्येयं युगादिस्तेनकथ्यते। सर्पपापप्रशमनी सर्वसौख्यप्रदायिनी”। अक्षयफलावाप्तिफलकाख्यतृतीयाव्रतं विष्णुधर्मोत्तरोक्तम्।
“वैशाखशुक्लपक्षे तु तृतीयायामुपोषितः। अक्षयं फल-माप्नोति सर्वस्य सुकृतस्य तु। सा तथा कृत्तिकोपेताविशेषेण च पूजिता। तत्र दत्तञ्च जप्तञ्च सर्वमक्षयमुच्यते। अक्षया सा तिथिस्तस्मात्तस्यां सुकृतमक्षयम्। अक्षतैःपूजितोविष्णुस्तेन सा चाक्षया स्मृता। अक्षतैस्तु नरःस्नातो विष्णोर्दत्त्वा तथाऽक्षतान्। सक्तून् सुसंस्कृतांश्चैवहुत्वा चैव तथाक्षतान्। विप्रेषु दत्त्वा तानेव तथासक्तून् सुसंस्कृतान्। पक्वान्नन्तु महाभाग! फलमक्ष-यमश्नुते। एकामप्युक्तां कृत्वा च तृतीयां भृगुनन्दन!। एतावत्तु तृतीयानां सर्वासान्तु फलं लभेत्”। अखण्डैकादशीव्रतं वामनपु॰ उक्तम्।
“मासि चाश्वयुजेब्रह्मन्! यदा पद्मजसन्निधिः। नाभ्यां निर्य्याति जगता-मीशितुश्चक्रधारिणः। तस्मिन् रम्ये शुभे काले या शु-क्लैकादशी भवेत्। तस्यां सम्यग्यजेद्विष्णुं येन खण्डंप्रपूर्य्यते”। येन विष्णुप्रपुजनेन खण्डमसम्पूर्णं धर्मा-दिभिः परिपूर्णम्भवतीत्यर्थः”। अग्निचतुर्थीव्रतं विष्णुधर्मोत्तरोक्तम्।
“इदमन्यत् प्रवक्ष्यामिचतुर्मूर्त्तिव्रतं तव। । चतुरात्मा हरिः प्रोक्तसत्वारश्चहुताशनाः। आहिताग्निर्द्विजो यस्य विद्यतेऽग्निचतु-ष्टयम्। सोपवासश्चतुर्थ्यान्तु शुक्लपक्षस्य फाल्गुने। अ-भ्यर्च्य चतुरात्मानं वासुदेवमतन्द्रितम्। तणै दद्याद्द्विजेन्द्राय तिलप्रस्था{??} षोडश। सुवर्णञ्च सुवर्णञ्चवस्त्रं घृततुलामपि”। सुवर्णं कर्षान्थूनम्
“एवं संवत्सरंकृत्वा व्रतमेतदतन्द्रित। सर्वकामसमृद्धस्य यज्ञस्यलफ-मश्नते”। [Page5000-b+ 38] अघोराख्यचतुर्दशीव्रतं भविष्योत्तरे
“भाद्रे मास्यसिते पक्षेअघोराख्याचतुर्दशी। तामुपोष्य नरोयाति शिवलोकम-यत्नतः” ति॰ त॰। अङ्गारकचतुर्थीव्रतं मत्स्यपु॰ उक्तम्।
“चतुर्थ्यङ्गारकदिनेयदा भवति भारत!। मृदा स्नान तदा कुर्य्यात् पद्मरा-गविभूषितः। अग्निर्मूर्ध्ना दिवो मन्त्रं जपंस्तिष्ठेदुदङ्-मुखः। शूद्रस्तुष्णींजपन् जोपमास्ते भोगविवर्जितः”। अचलासप्तमीकृत भविष्योत्तरोक्तम्।
“माघस्य सितसप्तम्यांसर्वकामफलप्रदम्। रूपसौभाग्यजननं स्नानं कुरु वरा-नने!। कृत्वा षष्ठ्यामेकभक्तं सप्तम्यां निश्चलं जलम्। रात्र्यन्ते चालयेथास्त्वं दत्त्वा शिरशि दीपकम्। मा-घस्य सितसप्तग्यामचलञ्चालितञ्च यत्। एकभक्तेन स-न्तिष्ठेत् षष्ठ्यां सम्पूज्य भास्करम्। सप्तम्यां तु व्रजेत्प्रातः सुगम्भीरजलाशयम्”। अदारिद्र्यषष्ठीव्रतं स्कन्दपु॰ उक्तम्।
“षष्ठी नाम तिथिर्याज्यासामान्या दैवतैरपि। एकभक्तेन नक्तेन तथैवायाचितेनच। उपबासेन दानेन तैलक्षारविवर्जितः। अयं हिभगवान् देवो भास्करश्च परद्युतिः। येन शीघ्रेण दृ-श्येत तदगुह्यं कथताम्यहम्। मोपनीयं व्रतं दिव्यमि हलाके फलप्रदम्। यस्मिन् कृते व्रते चैव दरिद्रो न भ-येत् कुले। षष्ठीतिथिं समुद्दिश्य ब्राह्मणस्य च भोजनम्। शाल्योदनञ्च पयसि कृत्वा च शर्करायुतम्। बाहुल्य-घृतसंयुक्तं वर्षमेकं प्रदापयेत्। कुले तस्यैव ये जाताये भविष्यन्ति मानवाः। इह तणैव ये सन्ति तान् दा-रिद्र्यं न गच्छति”। अनघाष्टमीव्रत भविष्योत्तरोक्तम्।
“कृष्णाष्ठम्यां मार्गशीर्षेदाम्पत्यं दर्भनिर्मितम्। अनघं चानघीञ्चैव बहुपुत्रैःसमन्वितम्। स्थापयित्वा शुभे देशे गोमयेनानुलेपिते। स्नात्वा समर्चयेत् पुष्पैः सुगन्धैश्चानुलेपनैः। ऋग्वेदेनोक्त-मन्त्रैश्च दण्डकं मनसा स्मरन्। अनघं वासुदेवन्तु पत्नोतस्यास्थिसम्भवा। प्रद्युम्नादिपुत्रवर्गं हरिवंशे यथो-दितम्। वर्षमेकं ततः कृत्वा इदं तदनघ स्मृतम्”। अनङ्गत्रयोदशीव्रतं भविष्योत्तरोक्तम्।
“अनङ्गो भगवान्शम्भुस्तेजोमूर्त्तिरगोचरः। स एव देवोयेनास्यां तेनानङ्ग-त्रयोदशी। प्रसिद्धा समनुप्राप्ता नित्या सर्वफलप्रदा। मार्गशीर्षेऽमले पक्षे त्रयोदश्यां समाहितः। स्नानं नद्यांतडागे वा गृहे वा कूपतोऽपि वा। कृत्वाभ्यर्च्य महा-देवं विधानाच्छशिभूषणम्।{??}ङ्कं स्वायम्भुवं भूतमभावे[Page5001-a+ 38] यत्प्रतिष्ठितम्। तदनङ्गमिति प्रोक्तं पूजयेद्भक्तितोव्रती”। एतत् व्रतं तदवधि वर्षसाध्यम्। अनङ्गत्रयोदशीव्रतं कालोत्तरोक्तम्।
“चैत्रशुक्लत्रयोदश्याम-नङ्गं तु पटे लिस्वेत्। नीलदूर्वाङ्कुरश्यामं हस्तमात्रंप्रमाणतः। रतिप्रीत्युभयोपेतं पौष्पसायकचापधृक्। पटेषु सुस्थितः कार्य्यः सर्वैश्चाप्सरसां गणैः”। अनन्तचतुर्द्दशीव्रतं भविष्योक्तम्
“अनन्तव्रतमप्यन्यत्तिथाव-स्यामनुत्तमम्। सर्वपापहरं नृणां स्त्रीणां चैव युधि-ष्ठिर!। शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे भवेत्। तस्या-नुष्टानमात्रेण सर्वपापाद्व्यपोहति”। अनन्ततृतीयाव्रतं पद्मपु॰ उक्तम्।
“शृणुष्वावहिता देवि!तथैवानन्तपुण्यकृत्। नराणामथ नारीणामाराधनमनु-त्तमम्। नभस्ये वाथ वैशाखे मार्गशीर्षेऽथ वा पुनः। शुक्लपक्षे तृतीयायां स्रातः सन् गौरसर्षपैः। गोरोच-नाऽथ गोमूत्रं मुस्तागोशकृतं दधि। चन्दनेन चसंसिश्र्य ललाटे तिलकं न्यसेत्। सौभाग्यारोग्यकृद्-यस्मात् सदा च ललिताप्रियम्। प्रतिपक्षतृतीयायांपुमान् वाथ सुवासिनी। धारयेद्रक्तवस्त्राणि कुसुमानिसितानि च”। अनन्तद्वादशीव्रतं विष्णुरहस्योक्तम्।
“द्वादश्यां शुक्लपक्षे चमासि भाद्रपदे नरः। नैवेद्यगन्घपुष्पाद्यैरर्चयेज्जलशा-यिनम्। न चालपेद्विकर्मस्थान् पाषण्डान् पतितान्न-रान्। स्नात्वा जपन्ननन्तेति शतमष्टोत्तरं बुधः। व्रजं-स्तिष्ठन् स्वपन् भुञ्जन् बुध्यन् प्रस्खलिते क्षुते। वेदनार्त्तःअरेन्नित्यमनन्तं मनसा गिरा। व्रतमेतद्विधानेन कुर्य्यात्संवत्सरं नरः”। अनन्तपञ्चमीव्रतं स्कन्दप्रभासोक्तम्।
“यो नरः पूजयेद् नागंपञ्चम्यां फाल्गुने सिते। पञ्चोपचारविधिना मिताहारोजितेन्द्रियः। न तं दशन्ति फणिनो दश वर्षाणि पञ्चच। विषं न क्रमते तस्य कुले मातृकूलेऽपि च। त-स्मात् तं पूजयेद् यत्नात् पञ्चम्याञ्च विशेषतः”। अनन्तफलसप्तमीव्रतं भविष्योक्तम्।
“शुक्लपक्षे तु सप्तम्यांमासि भाद्रपदेऽच्युत!। प्रणम्य शिरसा देवं पूजयेत्सप्तवाहनम्। पुष्पधूपादिभिर्वीरः कुतप्रानाञ्च तर्पणैः”। कुतपानां ब्राह्मणादीनाम्।
“पाषण्डादिभिरालापम-कुर्वन्नियतात्मवान्। विप्राय दक्षिणां दत्त्वा नक्तं भुञ्जीतवाग्यतः। तिष्ठन् ब्रवन् प्रस्थितश्च क्षुतप्रस्खलिता-दिषु। आदित्यनामस्मरणं कुर्य्यादुच्चारणं तथा। अने-[Page5001-b+ 38] नव विधानेन मासान् द्वादश वै क्रमात्। उपोष्य पा-रणे पूर्णे समभ्यर्व्य जगद्गुरुम्। पुण्येन श्रवणेनेहप्रणमेत् पुष्टिमाप्तुयात्। एवं यः पुरुषः कुर्य्यादादित्या-राधनं शुचिः नारी वा स्वर्गमभ्येत्य सानन्त्यं फल-मश्नुते”। अनोदनसप्तमीव्रतं भविष्योक्तम्।
“शुक्लपक्षे तु वैशाखेषष्ट्यां सम्यपुपोषितः। पूजयेद् भास्करं भक्त्या पुष्प-धूपादिलेपनैः। येन तत् पूजयेद्देवं स विधिः कथ्यतेतव। तदा वैश्रवणो येन विधिनाऽपूजयन्नृप। दन्तखाद्यंभवेद् यद्धि तदोदनमिति स्मृतम्। भक्ष्वं चूष्यं तथा लेह्य-मोदनन्त्रिः प्रकीर्त्तितम्। तोयं चाऽनोदनै प्रोक्तं त-स्मात् तत्परिवर्ज्जंयेत्। तत् परिवर्जयेदिति तच्छब्देनचोदनः परामृगते तस्मादोदनमेव वर्जयेन्न तु पेयमपितस्यातोदनत्वात्”।
“इत्येषानोदना नाम सप्तमी मर-तर्षभ। । यामुपोष्प नरी भक्त्या धनधान्यमवाप्नुयात्”। अपराजितासप्तमीव्रतं भविष्यपु॰
“मासि भाद्रपदे शुक्ला स-प्तमी या गणाधिप!। अपराजितेति विख्याता महा-पातकनाशिनी। चतुर्थ्यामेकभक्तन्तु पञ्चम्यां नक्तमादि-शेत्। उपवासस्तथा षष्ठ्यां सप्तम्यां पारणं भवेत्। प्रा-रणान्यत्र चत्वारि कथितानि मनीषिभिः। पुष्पाणि क-रवीराणि तथा रक्तञ्च चन्दनम्। धूपक्रिया गुग्गुलुनानैवेद्यं गुडपूपकाः। नभस्यादिषु मासेषु विधिरेष प्रकी-र्त्तितः”। इदं व्रतं वर्षसाध्यम्। अमावस्याव्रतं कूर्मपु॰ उक्तम्।
“अमावस्यामनुप्राप्य ब्राह्म-णाय कुटुम्बिने। यत् किञ्चित् वेदविदुषे दद्यादुद्दिश्यशङ्करम्। प्रीयतामीश्वरः सोमो महादेवः सनातनः। सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति”। अभीष्टसप्तमीव्रतं विष्णुधर्मोत्तरोक्तम्। सप्तम्याम् इत्युपक्रमे
“पूजयित्वा समुद्रांश्च द्वीपान्नव तदा नरः। पातालांश्चमहाभाग! भुवमाप्नोत्यभीप्सिताम्”। अमुक्तभरणसप्तमीव्रतं भविष्याक्तम्।
“भद्रे! भाद्रषदे मासिसप्तम्यां सलिलाशये। स्नात्वा शिवं मण्डलके लेखयित्वातथाम्बिकाम्। भक्त्या सम्पूज्य समयं कुर्य्याद्बद्ध्वा करेगुणम्। यावज्जीवं मयात्मा तु शिवस्य विनिवेदितः”। अरुन्घतीव्रतं स्कन्दपु॰ उक्तम्।
“अरुन्धतीव्रतं वक्ष्ये सदासौभाग्यदायकम्। येन चीर्णेन वै सम्यक् नारी सौभा-ग्यभाजनम्। जायते रूपसम्पन्ना पुत्रपौत्रसमन्विता। वलन्तर्त्तुं समासाद्य तृतीयायां सुरर्षभ!। ञ्चानं कृत्वा[Page5002-a+ 38] तु विधिवत्त्रिरात्रापोषिता सती। मिथुनानि च च-त्वारि समाहूय यतव्रता। पूजवेत् पुष्पताम्बूलैश्चन्दनैश्चतथाक्षतैः”। अर्कव्रतं भविष्योक्तम्।
“सप्तम्यां च तथा षष्ठ्यां पक्षयोरुभ-योरपि। योऽव्दमेकं नक्तभोजी नियतात्मा जिते-न्द्रियः। यत्पुण्यं परमं प्रोक्तं सततं सत्रयाजिनाम्। सत्यवादिषु यत् पुण्यं यत् पुण्टमृतुगामिनाम्। तत्फलंसकलं प्राप्य मम लोकमुपैति सः”। अर्कसप्तमीव्रतं ब्रह्मपु॰ उक्तम्।
“अर्कसंपुटसंयुक्तमुदकप्रभृतिंपिवेत्। क्रमाद् वृद्या चतुर्षिंशमेकैकं क्षियते पुनः। द्वाभ्यां संवत्सराभ्यां तु समाप्य नियषोभवेत्। सर्व-कामप्रदा{??}षा प्रसीदत्यर्कसप्तमी”। अर्कसम्पुटसप्तमीव्रतं भविष्य पु॰
“काल्गुनामलपक्षस्य षष्ठ्यांसम्यगुपोषितः। पूजवेद्भास्करं स्नात्वा पुष्पगन्धानुलेपनैः। अर्कपुष्पैर्भषहावाहो! गुग्गुलेन सुगन्धिना। सितेनभूषयन् देवं चन्दनेम दिवाकरम्। गुडोदनञ्च नैवेद्यंपलानां त्रितयं रयेः। एवं पूज्य दिवा भानुं रात्रौतस्याग्रतः स्वपेत्”। अर्काष्टमीव्रतं लविष्योत्तरोक्तम्।
“यदाष्टम्यां शुक्लपक्षे र-विवारोऽभिजायते। उपोष्या सा प्रयत्नेन तेनैव वि-धिना नृप!। अर्चयेद्देवदेवेशं सह देव्या महेश्वरम्। विशेष एव एवात्र शिवस्य नयनेस्मितम्। भानुं सम्पू-जयेद् मक्त्या गन्धपुष्पाक्षतैः शुभैः। शिवञ्च सितपुष्पैस्तुरक्तपुष्पैस्तथाम्बिकाम्। रत्नैरक्तसितैर्दिव्यैर्भक्तिमानर्चयेद्-विभुम्। कुङ्कुमेनालभेद्देवी चन्द्रनेन महेश्वरम्”। अर्द्धश्रावणिकव्रतं ब्रह्माण्डपु॰ उक्तम्।
“प्राप्ते तु श्रावणेमासि शुक्लपक्षे मनोहरे। संस्याप्य पार्वतीं देवीं पूज-वेद्भक्तिशक्तितः। मासं यावन्नियमतः संस्मरन् पार्वतींहृदि। श्वेतार्घ्यैः श्वेतकुसुमैः श्वेतचन्दनकेन च। गन्धै-र्धूपैश्च नैवेद्यैर्यथाकालोद्भवैः फलैः। अर्घ्यं दद्यात्फलेनैव कुसुमाक्षतचन्दनैः। नमोऽर्द्धश्रावणि! देवि!सर्वषापक्षयङ्करि!। गृहाणार्व्यं हि देवेशि! शङ्करेणसलं मम्”। अर्द्धीदयव्रतं स्कन्दपु॰ उक्तम्।
“माघामायां व्यतीपात आ-दित्ये विष्णुदैवते। अर्द्धोदयं तमित्याहुः सहस्रार्कग्रहैःसमम्। पुराकृतं षसिष्ठेन जामदग्नेन सुव्रत!। सनका-द्यैमेनुषयैश्च बहुभिर्बाहुजैरश्रुतैः। अन्यैः शतसहस्रैश्च{??}ष्टं भवति कुम्भज!। दानानां यज्ञतीर्थाना फलं येन[Page5002-b+ 38] कृतं भवेत्। माघमासे कृष्णपक्षे पञ्चदश्यां रवेर्दिने। वैष्णवेन च ऋक्षेण व्यतीपाते सुदुर्लभे”। वैष्णवर्क्षं श्र-वणम्
“पूर्वाह्णे सङ्गमे स्नात्वा शुचिर्मूत्वा समाहितः। सर्वपापविशुध्यर्थं नियमस्थो भवेन्नरः। त्रिदैवत्यं व्रतंदेवाः करिष्ये भुक्तिमुक्तिदम्। भवन्तु सन्निधौ मेऽद्य-त्रयोदेवास्त्रयोऽग्नयः”। अलवणतृतीयाव्रतं भविष्योक्तम्।
“छवंविधा प्रिययुक्ताशुचिसम्भोजना सती। सोपबासा तृतीयायां लवणं प-रिवर्जयेत्”। सोपवासेति व्रतारम्भे द्वितीयायां कृतो-पवासा तृतीयायां लवणं परिवर्जयेत्
“सा संगृह्णीतवै भक्त्या व्रतमामरणान्तिकम्। गौरी ददाति स-न्तुष्टा रूपसौभाम्यमेव च। लावण्यलवणं हृद्यं श्लाघ्यंपुंसां मनोऽनुगम्। पतिं मनोरमं नारी भत्तां भार्य्यांमनोरमाम्। गौरीव्रतेन लभते राजन्! लवणवर्जनात्” अविघ्नविनायकचतुथीव्रतं वराहपु॰
“अथ विघ्नहरं रा-जन्! कथयामि तवानघ!। येन सम्यक् कृतेनेह नविघ्नमुपजायते। चतुर्य्या फाल्गुने मासि ग्रहीतव्यंव्रतन्त्रिदम्। नक्ताहारेण राजेन्द्र! तिलान्नं पारणंस्मृतम्”। पारणं नक्तभोजनम्
“तदेव वह्नौ होतव्यंब्राह्मणाय च तद्भवेत्। चतुर्मासघ्रतञ्चैव कृत्वेत्यं पञ्चमेतथा। सौवर्णं राजतं वापि कृत्वा विप्राय दापयेत्”। अवियोगतृतीयाव्रतं कालिकापु॰ उक्तम्।
“अवैधव्यप्रदंस्त्रीणामवियोगव्रतन्त्विदम्। मार्गशीर्षे सिते पक्षे स्राताशुक्लान्धरान्विता। दृष्ट्वा चन्द्रं द्वितीबायां नक्तं भुञ्जीतपायसम्। आचम्य च शुचिर्भूत्वा दण्डवच्छङ्करन्नमेत्। मुदान्विता समस्कृत्य विज्ञाप्य परमेश्वरम्”। अवियोगद्वादशीव्रतं मविष्यपु॰
“शुक्ले प्रौष्ठपदे मासि द्वा-दश्यां समुपोषितः। म्नात्वा जलाशये स्वच्छे शुक्लाम्ब-रधरः शुचिः। जलान्ते मण्डलं कृत्वा गोमयेनातिशो-भनम्। गोधूमचूर्णैस्तनृध्ये सलक्ष्मीकं जनार्दनम्। लेखयित्वा हरं गौरीं सावित्रीं ब्रह्मणा सह। राज्ञा(चन्द्रेण) सह रविं राजंस्त्रैलोक्योद्द्योतकारकम्। गन्धपुष्पैस्तथाधूपैर्नैवेद्यैर्भक्तितोऽर्चयेत्। अवियोगव्रतंपार्थ!{??}त्रेणानेन तद्गतः। अवियोगाद् दृढमनाशिरस्याधाय केशवम्”। अध्यङ्गसप्तमीव्रतं भविष्यपु॰
“शुद्धपक्षे तु सप्तम्यां मासिभाद्रपदेऽष्युत!। प्रणम्य शिरसा देवं पूजयेत् सप्तवा-हनम्। पुष्पधूपादिभिर्वीर! कुतपनिञ्चि तर्मणैः। [Page5003-a+ 38] पाषण्डादिभिरालापमकुर्वन्नियतात्मवान्। विप्राय द-क्षिणां दत्त्वा नक्तं भुञ्जीत वाग्ययतः। तिष्ठन् ब्रुवन्प्रस्थितश्च क्षुतप्रस्खलितादिषु। आदित्यनामस्मरणं कुर्य्या-दुच्चारणं तथा। अनेनैव विधानेन मासान् द्वादश वैक्रमात्। उपोष्य पारणे पूर्णे समभ्यर्च्य जगद्गुरुम्। पुण्येन श्रवणेनेह प्रणमेत् पुष्टिमाप्नुयात्। एवं यःपुरुषः कुर्य्यादादित्याराधनं शुचिः। नारी वा स्वर्गम-भ्येत्य सानन्त्यं फलमश्नुते”। शुक्लपक्षे समभ्यर्च्य पुष्प-धूपादिभिः शुचिः। श्रावणे मासि सप्तम्यां देवाग्रं सप्त-वाहनम्। प्राप्येह विपुलं देवं धर्मानन्तरमक्षयम्। अमूत्र लोकमायाति दिव्यं खगपतेः शुभम्”। इत्यादिअशून्यशयनद्वितीयाव्रतं भविष्यपु॰
“चातुर्मास्ये भवेद्राजन्!वर्षायां व्रतसुत्तमम्। श्रावणस्य द्वितीयायां कृष्णपक्षेनराधिप!। श्रावणादिकार्त्तिकान्तं कुर्य्यात् तत् व्रतमुत्त-मम्। पुष्पं धूपञ्चनैवेद्यं दीपमालां विशेषतः”।
“ततोभाद्रपदे मासे यवदानं ददाति च। ततश्चाश्विद्वितीयायांशय्यादानं विशेषतः। न तस्य शून्यं शयनमपुत्रो नभवेन्नरः। ततश्च कार्त्तिके मासि द्वितीयायां नराधिप!। शर्करास्वण्डस्वाद्यानि दधिक्षीरघृतानि च। उपहारंभगवते दद्यात् सर्वं प्रयत्रतः” इत्यादि। अशोकत्रिरात्रवूतं भविष्योत्तरोक्तम्।
“तच्छृणु त्वमशो-काख्यं त्रिरात्रव्रतमुत्तमम्। मासि मार्गशिरे चैव ज्यैष्ठेभाद्रपदे तथा। शुक्लपक्षे पञ्चदश्यामेकभक्तन्तु कार-येत्। ततः प्रातःसमुत्थाय स्नानं कुर्य्यात् ततो व्रती”। अशोकपूर्णिमाव्रतं विष्णुधर्मोत्तरोक्तम्।
“अशोकपूर्णिमा-मेतां शृणुष्व गदतो मम। उपाष्यास्यां नरः शोकंनाप्नोति स्त्री तथापि वा। फाल्गुनामलपक्षस्य पौर्ण-मास्यां भृपोत्तम!। मृज्जलेन नरः स्नात्वा दत्त्वा शि-रसि वै मृदम्। मृत्प्राशनं ततः कृत्वा कृत्वा च स्थ-ण्डिलं मृदा। पुष्पैर्गन्धैः समभ्यर्च्य भूधरं नाम ना-मतः। घरणोञ्च तथा देवीमशोकेति च कीर्त्तयेत्। यथाविशोका घरणिः कृतकृत्या जनार्दनात्। तथा मांसर्वशोकेभ्यो मोचयाशेषधारिणि!”। अशोकप्रतिपद्व्रतं भविष्योत्तरोक्तम्
“अश्वयुक्शुक्लपक्षस्यप्रथमेऽह्नि दिनोदये। णशोकं पूजयेत् वृक्षं प्ररूढशुभ-पल्लवम्। प्ररूढैः सप्तधान्यैश्च गुणकैर्मोदकैः शुभैः। फलैः कालोद्भवैर्दिव्यैर्नारिकेलैः सदाडिमैः। घूपदीपा-दिना तत्र पूजयेत्तरुमुत्तमम्। अशोकं पाण्डवश्रेष्ठ![Page5003-b+ 38] शोकं नाप्नोति कुत्रचित्। पितृभ्रातृपतिश्वश्रूसुतजामातृणां तथा”। अशोकाष्टमीव्रतं लिङ्गपुराणोक्तम्
“अकोककलिकाश्चाष्टौ येपिबन्ति पुनर्वसौ। चैत्रे मासि तथाष्टम्यां न ते शोक-मवाप्नयुः”। अत्र पुनर्बसुयोशः प्राशस्त्यार्थः। कूर्मपुरा-णेऽपि
“अशोकस्याष्टकलिका मन्त्रेणोक्तेन भक्षयेत्। शोकं नैवाप्नुयान्मर्त्त्यो रूपवानपि जायते”।
“शुक्ला-ष्टम्यां तु संप्राप्ते मासि भाद्रपदे तथा। दूर्वाप्रतानंसुश्वेतमुत्तराशाभिगामिनम्। पूजयेद्गृहमानीय गन्धमाल्यानुलेपनैः। फलमूलैस्तथा चैव दीपं धूपैर्विसर्ज-येत्। अग्निपक्वं तथा सर्वं निवेद्य च कथञ्चन। भोक्त-व्यञ्च तथा ब्रह्मन्! वह्निपक्वविवर्जितम्। दूर्वाङ्कुरस्थांसम्पूज्य विधिना यौवने प्रियम्। यौवनं स्थिरमाप्नोतियत्र यत्राभिजायते। अष्टमीषु च सर्वासु पूजनीयाप्य-शोकिका। गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा। त-स्मिन्नहनि या भुङ्क्ते नक्तमिन्दुविवर्जिते। भवत्यथोविशोका सा यत्र यत्राभिजायते। अष्टमीषु च सर्वासुनचेच्छुक्लेति वै मुने। प्रोष्ठपद्यामतीतायां या स्यात् कृ-ष्णाष्टमी द्विज!। तस्यामवश्यं कर्त्तव्यं देवीं पूज्ययथाविधि”। इदं व्रतान्तरम्। अहिंसाव्रतं पद्मपु॰
“वर्जयित्वा पुमान्मांसमव्दान्ते गोप्रदोभवेत्। तद्वद्धेममृगं दत्त्वा सोऽश्वमेधफलं लभेत्। अ-हिंसाव्रतमित्युक्तं कल्पान्ते भूपतिर्भवेत्”। आग्नेयव्रतं भविष्योत्तरोक्तम्।
“सकृन्नवम्यां भक्तेन पूजयेद्बिन्ध्यबासिनीम्। पुष्पैर्धूपैस्तथा दीपैर्नैवेद्यैर्विविधैरपि। पूजयित्वा ततो विद्यात् पञ्जरं सुकसंयुतम। हेमं वि-प्राय दद्याद् यः स वाग्मी जायते नरः। सकृद्भक्तेननक्तेन अग्निलोकप्रदायकम्”। आज्ञासंक्रान्तिव्रतं स्कन्दपु॰
“सङ्क्रान्तिदिवसे पुण्ये प्रार-भेन्नियमं व्रते। पद्ममष्टदलं कृत्वा कुङ्कुमेन तु भा-स्करम्। पूजयन्मन्त्रमुच्चार्य्य विधिवद् गुरुसन्निधौ। आज्ञा तेजस्करी यत्ते प्रमादीप्तियशस्करी। आज्ञां स-र्वत्रगां देव! भम देहि नामोऽस्तु ते। पूज्यैवं कुङ्कु-मेनाथ दद्याद् विप्राय भोजनम्। उद्यापने तु च-ण्डांशुं सौवर्णं सरथं तथा। एकचक्रञ्च सप्ताश्वमरुणेनसमन्वितम्। यः कुर्य्याद्विधिनानेन आज्ञासंक्रान्तिभुत्त-माम्। अथाज्ञाऽस्खलिता लोके सूर्य्यतस्तस्य जायते”। आदित्यव्रतं भविष्यपुराणोक्तम्
“योऽव्दमेकं प्रकुर्वीत नक्त[Page5004-a+ 38] हि मद्दिने नरः। ब्रह्मचारी जितक्रोधो ममार्चन-परः खग!। संवत्सरान्तमासाद्य मद्भक्तांश्च द्विजो-त्तमान्। भोजयित्वा व्रती ब्रूयात् प्रीयतां मे दि-वाकरः। यश्च भक्तिसमायुक्तो मम लोकं स गच्छति। स च भानुकृतं लोकं ध्रुवं सम्प्राप्नुयान्नरः। ये त्वादित्य-दिने प्राप्ते श्राद्धं कुर्वन्ति मानवाः। सप्तजन्मानि तेप्राप्ताः सम्भवन्ति विरोगताम्। वैराग्यमिह वै प्राप्यमम लोकं व्रजन्ति ते। उपवासन्तु कुर्वन्ति ये त्वादित्य-व्रते सदा। जपन्ति तु महाश्वेतामीप्सितं लभते फ-लम्। विशेषादादित्यदिने जपमानो गणाधिपान्। षडक्षरं महाश्वेतं जपन् वैरोचनं पदम्”। आदित्यशयनव्रतं आदित्यपु॰
“आदित्यशयनं नाम यथावच्छ-ङ्करार्चनम्। येषु नक्षत्रयोगोऽत्र पुराणज्ञाः प्रचक्षते। यदा हस्तेन सप्तम्यामादित्यस्य दिनं भवेत्। सूर्य्यस्य वाथसंक्रान्तौ ला तिथिः सर्वकामिको। उमामहेश्वरस्या-र्च्चामर्चयेत् सूर्य्यनामभिः। सूर्य्यार्चां शिवलिङ्गञ्च उभवंपूजयेत्ततः। उमापते रवेर्वापि न भेदः क्वचिदिष्यते। यस्मात् तस्मान्नृपश्रेष्ठ! गृहे शम्भुं समर्चयेत्” इत्यादि। आदित्यनन्दादिव्रतं भविष्यपु॰
“द्वादश्यां हस्तभे वारो आ-दित्यस्य महात्मनः। नन्दो भदूस्तथा सौम्यः कामदःपुत्रदस्तथा। जयो जयन्तो विजय आदित्यानामुपास्थितः। हृदयो रोगहा चैव महारोगविनाशनम्। मालती-कुसुमानीह श्वेतचन्दनमुत्तमम्। धूपं गुग्गुलुश्रेष्ठेननैवेद्यं पूपमेव तु। दत्त्वा पूपांस्तु विप्राय ततो भुञ्जीतवाग्यतः”। आनन्दव्रतं मत्स्य पु॰
“चैत्रादिचतुरो मासान् जले कुर्य्याद-याचितम्। व्रतान्ते मणिकन्दद्यान्नववस्त्रसमन्वितम्। तिलपात्रं हिरण्यञ्च ब्रह्वलोके महीयते। कल्पान्तेभपतिर्नाम्ना ह्यानन्दव्रतमुच्यते”। आनन्दपञ्चमीव्रत भविष्यपु॰
“पञ्चमी दयिता राजन्!नागानां नन्दवर्द्धिनी। पञ्चम्याः किल नागानां भवती-त्युत्सवो महान्। वासुकिस्तक्षकश्चैव कालियो मणिभ-द्रकः। धृतराष्ट्रश्चैरावतः कर्कोटकधनञ्जयौ। एते प्रय-च्छन्त्यभयं प्राणिनां प्राणदाः सदा। पञ्चम्यां स्नापय-न्तीह नागान् क्षीरेण ये नराः। तेषां कुले प्रयच्छन्तिअभयं प्राणदक्षिणाम्”। आनन्दानवमीव्रतं भविष्यपु॰
“आनन्दा नन्दिनी नन्दामहानन्दा महीपते!। तथाद्या नवमी पुण्या पञ्चसी[Page5004-b+ 38] महती स्मृता। फाल्गुनामलपक्षस्य नवमी या मही-पते!। आनन्दा सा महापुण्या सर्बपापहरा शुभा। कृत्वैकभक्तं पञ्चम्यां षष्ठ्यान्नक्तं तथा नृप!। अयाचि-तन्तु सप्तम्यामुपवासः परेऽहनि। य एवं पूजयेद्भक्त्यानबम्यां विधिवन्नृप!। सोपवासोऽर्चयेद् देवीं धूपं दद्यात्तथागुरुम्। मासैश्चतुर्भिरादीयं द्वितीयं पारणं शृणु!”। आदीयम् आद्यम्
“भोजयेद् विप्रकन्याश्च नवम्यां ब्रह्म-णस्त्रियः। मासि मासि महाबाहो! यथा शक्त्या य-थाविधि। आषाढे श्रावणे मासि मासि भाद्रपदे तथा। तथाचाश्वयुजे मासि पूज्या भगवती विभो!। कृत्वैकभक्तंपञ्चम्यां षष्ठ्यां नक्तं तथा नृप!। अयावितं तु सप्तम्या-मुपवासः परेऽहनि। सोपवासो नवम्यां तु पूजयेदविधि-वच्छिवाम्। सोऽश्वमेधफलं प्राप्य विष्णुलोके महीयते”। आयुधव्रतं विष्णुधर्मोत्तरोक्तम्।
“इदमन्यत् प्रवक्ष्यामिचतुर्मूर्त्तिव्रतन्तव। शङ्खचक्रगदापद्मचतुरात्मा प्रकी-र्त्तितः। वासुदेवः स्मृतः शङ्खः चक्रं सङ्कर्षणस्तथा। प्रद्युम्नश्च गदा पद्ममनिरुद्धो जगद्गुरुः। श्रावणादिषुमासेषु वहिःस्नातस्तु नक्तभुक्। तेषान्तु पूजनं कुर्य्यात्प्रतिमासमनुक्रमात्। गन्धमाल्यनमस्कारदीपधूपान्न-सम्पदा। ततस्तु कार्त्तिकस्यान्ते समाप्ते तु तथा व्रते। ब्राह्मणान् भोजयेद्भक्त्या दद्याच्छ्रक्त्या च दक्षिणाम्। कांस्यपात्रञ्च सघृतं ससुवर्णं तथैव च। कृत्वा व्रतं मास-चतुष्टयञ्च प्राप्नोति लोकं त्रिदशेश्वरस्य। मानुष्यमा-साद्य तथैव पश्चात् वसुन्धरेशो भवतीह वीरः”। आरोग्यव्रतं विष्णुधर्मोत्तरोक्तम्।
“प्रोष्ठपद्यामतीतायां प्रति-पत्प्रभृति क्रमात्। यादवञ्च दिवाऽर्च्चायामनिरुद्धं प्र-पूजयेत्। पूर्वोक्तेन विधानेन यावदाश्वयुजी भवेत्”। पूर्वोक्तेन रूपावाप्तिव्रतोक्तेन
“सारसैरर्चयेद् देवं जातो-पुष्पैदिंने दिने”। सारसैः कमलैः
“घृतेन जुहुहाद् वह्निंघृतं दद्याद् द्विजातये। भोजनं गोरसप्रायं तथा विप्रांश्चभाजयेत्। त्रिरात्रोपोषितः सम्यगाश्वयुज्यान्ततो नरः”। अपरं वराहपु॰
“अथापरं महाराज व्रतमारग्यसंज्ञि-तम्। कथयामि परं पुण्यं सर्वपापप्रणाशनम्। तस्यैवमाघमासस्य सप्तम्यां समुपोषितः। पूजयेद्भास्करं देवंविश्वरूपं सनातनम्। आदित्य! भास्कर! रवे! भानो!सूर्य्य! दिवाकर!। प्रभाकरेति संपूज्यो देवः सर्वेश्वरो-विभुः। षष्ठ्यां चैव कृताहारः सप्तम्यामुपवासकृत्। अष्ट-म्याञ्चैव मुञ्जीत एष एव विधिः क्रमः। अनेन वत्सरं[Page5005-a+ 38] पूर्णं विधिना योऽर्चयेद्रविम्। तस्यारोग्यं धनं धान्यमिहजन्मनि जायते। परत्र च सुखं स्थानं यद्गत्वा न निवर्त्तते”। आरोग्यदशमीव्रतं गरुडपु॰
“व्रतमेतन्महाबुद्धे! कार्य्यमा-रोग्यमिच्छता। सर्वकार्य्यार्थमेतद्धि लिप्सुना जीवितंचिरम्। उपवासश्च कर्त्तव्यो नवम्यामिह{??}व्रत। दशम्यां तु कृतस्नानो मङ्गलायतनं हरिम्। देवत्तिन्दि-रया सार्द्धं ध्यात्वा च जगतां पतिम्। शङ्कचक्रगदापद्मशार्ङ्गासिधरमुत्तमम्”। इन्दिरया लक्ष्म्या
“फ-लैर्धूपैश्च पुष्पैश्च पायसेन समर्चयेत्”। आयुर्व्रतं मरुडपु॰
“अतस्तच्छान्तिजननमायुःप्रदमनाकुलम्। सर्वसौख्यप्रदं भद्रं तादृग्ब्रतमिहोच्यते। चतुर्दश्यांशुचिः स्नात्वा दन्तधावनपूर्वकम्। पौर्णमास्यान्तथा कृत्वादेवपूजां समाचरेत्। मण्डलं चतुरस्रन्तु कारयेत् कुसुमा-क्षतैः। तस्मिन् श्रीशं श्रियं देवीमर्चयेत् सुसमाहितः”। आयुःसंक्रान्तिव्रतं स्कन्दपु॰
“अथान्यां सम्प्रवक्ष्यामि आयुः-संक्रान्तिमुत्तमाम्। संक्रान्तिदिवसे पूज्य पूर्ववच्च दिवाक-रम्। कांस्यं क्षीरघृतं दद्यात् सहिरण्यं स्वशक्तितः। मन्त्र एष पृथग्दाने पूजा सैव प्रकीर्त्तिता। सक्षीरंसुरभोजातं पीयूषसमरूपघृक्। आयुरारोग्यमैश्वर्य्यंमम देहि द्विजार्पितम्। अनेन विधिना सम्यक् सर्वंदद्यादतन्द्रितः”। आशादित्यव्रतं स्कन्दपु॰
“त्रासमाश्वयुजं प्राप्य यटादित्य-दिनं भवेत्। तदा व्रतमिदं ग्राह्यं नरैस्त्रोभिर्विशेषतः। यावत् र्सवत्सरं तावद्विधिनानेन पुत्रक!। गोमयेन क्षितौकुर्य्यात् मण्डलं वर्त्तुलं पुनः। रक्तपुष्पैरक्षताद्यैरर्घ्यंतत्र प्रदापयेत्। यथाशा विमलाः सर्वाः सूर्य्य! भास्कर-भानुभिः। तथाशां सफलां मह्यं कुरु नित्यं मया-र्चितः। एवं यः कुरुते सम्यक व्रतमेतनुत्तमम्। आ-शादित्येति विख्यातं तस्य पुण्यफलं महत्। इत्यादिआश्रमव्रतं विष्णुधर्मोत्तरोक्तम्।
“इदमन्यत् प्रवक्ष्यामि च-तुर्मूर्त्तिव्रतं तदा। चैत्रस्यामलपक्षे तु सोपवासो जि-तेन्द्रियः। चतुर्थ्यां वासुदेवस्य कृंत्वा संपूजनं शुभम्। काञ्चनं दक्षिणां दद्यात् द्विजाय ब्रह्मचारिणे। तथासङ्कर्षणं देवं पूजयित्वा जगद्गुरुम्” आषाढव्रतानि महाभारते
“आषाढमेकभक्तेन स्यित्वा मा-समतन्द्रितः। बहुधान्यो बहुधनो बहुपुत्रश्च जायते। आषाढमेकभक्तेन पूजयेद्विष्णुतत्परः”। इन्द्रपौर्णमासाव्रतं भविष्योत्तरोक्तम्।
“त्रिंशत्संपूज्य दम्पत्या-[Page5005-b+ 38] न्युपवासी विभूषणैः। पौर्णमास्यामवाप्नोति मोक्षमिन्द्रःब्रतादिह”। ईशानव्रतं कालिकापु॰
“अथोपोष्य चतुर्देश्यां गुरोर्दिने। पूजयेद्विधिनानेन लिङ्गं सार्वं निबोघ मे। ब्रह्माणःपश्चिमे भागे वामे लिङ्गस्य वै हरिम्। खखोल्कं द-क्षिणे रौद्रमीश्वरं प्राग्दिशि स्थितम्”। खखोल्कमर्थक्ईश्वरव्रतं भविष्यपु॰
“ईश्वरस्य चतुर्दश्यां सर्वैश्वर्य्यसमन्वि-तः। बहुपुत्रो बहुधनस्तथा स्यान्नात्र संशयः। मूलम-न्त्रस्वसंज्ञाभिरङ्गमन्त्राश्च कीर्तिताः। पूर्ववत्पद्मपत्रस्थःकर्त्तव्यश्च तिथीश्वरः। गन्धपुष्पोपहारैश्च यथाशक्ति वि-धोयते। पूजाऽशाद्येन शाद्येन कृतापि तु फलप्रदा। आज्यधारासमिद्भिश्च दधिक्षीरान्नमाक्षिकैः। पूर्वोक्तफ-लदो होमः कृतः शान्तेन चेतसा”। एतद्व्रतं वैश्वानरप्रतिपद्व्रतवद्व्याख्येयम्”। उदकसप्तमीब्रतं भविष्यपु॰
“उदकप्रभृतिं पीत्वा क्रियतेया तु सप्तमो! सा ज्ञेया सुखदा वीर! सदेवोदकस-प्तमी”। उभयद्वादशीव्रतं भविष्योत्तरोक्तम्।
“श्रेष्ठं व्रतानां सर्वेषा-मुभयद्वादशीब्रतम्। तत्तेऽह संप्रवक्ष्यामि समाहित-मनाः शृणु!। ततोऽपराह्णे सन्तर्प्य कृतमन्ध्यादिकःशुचिः। प्राप्याज्ञां वेदविदुषः पुराणज्ञात् जितेन्दियात्। संपूज्य देवदेवेशन्दन्तधावनपूर्बकम्। कुर्य्याच्च नियमं पार्थगुरुदेवाग्निसन्निधौ। एकादश्यां निराहारः स्थित्वाहमपरेऽहनि। भीक्ष्यामि पुण्डरीकाक्ष! शरणं मे भ-वाच्युत!। इत्युक्त्वाथ गुरुं नत्वा पूजयित्वा जनार्दनम। मूमौ स्वपेज्जितक्रोधः शब्दादिविषयोज्झितः। अनेनविधिना मासि तस्मिन् कृष्णामुपोषयेत्। द्वादशीं पुरुष-व्याघ्र! ध्यायन् सङ्कुर्षणं विभुम्। प्राग्वत्सर्वं ततः कृत्वाब्राह्मणाय निवेदयेत्”। इदञ्च ब्रतं मार्गशीर्षादिकार्त्ति-कान्तद्वादशमाससाध्यं तच्च उभयपक्षयोः कार्य्यम्। उभयनवमीव्रतं भविष्यपु॰
“योऽव्दमेकं प्रकुर्वीत नवम्यांनक्तमादरात्। इह भोगानवाप्याग्र्यान् परत्र च दिवंव्रजेत्। पौषे मासे च सम्प्राप्ते यः कुर्य्यान्नक्तभोजनम्। जितेन्द्रियः सत्यवादी कामक्रोधविवर्जितः। पक्षयार्न-वमीं यत्नादुपवासेन पालयेत्”। इदं व्रतं वर्षसाध्यम्। उभयसप्तमीव्रतं भविष्यपु॰
“पौषे मासे च सप्तम्यां यःकुर्य्यान्नक्तभोजनम्। जितेन्द्रियः सत्यवादी स्नातो गोमूत्रगोरसैः। पक्षयोः सप्तमीं यत्नादुपवासेन यो नयेत्। [Page5006-a+ 38] त्रिसन्ध्यमर्च्चयेद्भानुं शाण्डिलेयञ्च सुव्रत!”। तदवधिवर्ष-साध्यम्। व्रतान्तरं विष्णुधर्मोत्तरोक्तम्
“अनेनैव विधानेनप्रतिमासन्तु यो नरः। सप्तमीद्वितयं कुर्य्याद्यावत् सं-वत्सरं रवेः। सोऽश्वमेधमवाप्नोति सूर्य्यलोकं च ग-च्छति। कुलमुद्धरते राजन्! सर्वान् कामानुपाश्नुते”। उमामाहेश्वरतृतीयाव्रतं भविष्योत्तरोक्तम्।
“लोके हि-तार्थं पार्वत्या उभामाहेश्वरव्रतम्। समाख्यातं पुरापार्थ! नाद्यापि प्राथतं भुवि। मार्गशीर्षे सिते पक्षेतृतीयायां समाहिता। कृतोपवासा राजेन्द्र! सर्वभो-गविवर्जिता। संवेष्ट्य श्वेतवस्त्रेण शिवं रक्तेन चा-म्बिकाम्। पश्चाद्धं दहेन्नारी भक्तिभावेन भाविता। भोजयेच्छिवभक्तांश्च ब्रह्मणान् वेदपारगान्। भक्तेभ्योदक्षिणां दद्याद्भक्त्या शाठ्यविनाकृताम्”। कृतोपवासासङ्कल्पितोपवासा
“हैमीमुमां रजतपिण्डमयं महेशम्रोप्ये सुरूपवृषभे समुपस्थितौ तौ। संपूज्य रक्तसित-वस्त्रयुगोपगूढौ नारी भवत्यविधवा सुतसौख्ययुक्ता। पौर्णमास्याममावास्यां चतुर्दष्याष्टमीषु च। नक्तमव्दन्तुकुर्वीत हविष्यैर्ब्रह्मचारिणी। उमामहेशप्रतिमां हेम्नाकृत्वा सुशोभनाम्। राजतीं वापि कर्षार्द्धे स्नापयित्वाघृतादिभिः। गन्धपुष्पैरलङ्कृत्य वस्त्रयुग्मैश्च शोमनैः। भक्षभोज्यैरशेषैश्च वितानध्वक्षचामरैः। भोजयेच्छिवभक्तांश्चदीनानाथान् प्रतर्पयेत्”। व्रतान्तरं शिवधर्मोत्तरोक्तम्।
“अष्टम्याञ्च चतुर्दश्यां नियतब्रह्मचारिणी। वर्षमेकंन भुञ्जीत महीभीगजिगीषया। वर्षान्ते प्रतिमां कृत्वापूर्ववद्विधिमाचरेत्। स्नानार्घ्यैस्तद्व्रतं प्राप्य पूर्वोक्तांस्तुगुणान् लभेत्”। अत्राप्यु मामहेश्वर प्रतिमा कर्त्तव्या। पूर्बवदिति पूर्बव्रतोक्तवदित्यर्थः। देवीपु॰ व्रतान्तरं
“यदीच्छसिसुभर्त्तारमिह जन्मन्यथापरे। कन्या कुर्य्यान्नृपश्रेष्ठ! वि-ष्णुना कथितं व्रतम्। सर्वपापहरं पुण्यं सर्वकामफल-प्रदम्। उमामहेश्वरं नाम कर्त्तव्यं विधिना यथा। प्रोठाश्विने तथा मासे गृगे भाग्ये

१२ ऽथ वा मुने!। मैत्रे

१७ शाक्रे

१८ ऽथ वा कार्य्य मष्टम्याञ्चाथ शाङ्करे”

६ । व्रतान्तरं भृगुसंहितोक्तम्।
“उमामाहेश्वरं नाम याच स्त्री कुरुते व्रतम्” इति पक्रमे
“उमामाहेश्वरी कार्य्याप्रतिमा काञ्चनीद्भवा। त्रिकर्षस्य तदर्द्धस्य कर्षस्यापि मि-तस्य च। द्रव्यशाठ्यं न कर्त्तव्यं सर्वथा फलकाम्यया।{??}पयेत् श्वेतवस्त्राक्षे राजते वृषभे शुभे। व्याघ्राजिनेसुविस्तीर्णे संस्थाप्याभ्यर्च्य यत्नतः। सोपवासा च कुर्य्यात्तु[Page5006-b+ 38] चतुर्दश्यां समाहिता। शैवं साहस्रकं होमं गौर्य्याहोमञ्च यत्नतः। प्राप्ते प्रभातसमये स्नात्वा संपूज्य पूर्ब-वत्। आहूय वेदविद्वांसं ब्राह्मणं पूज्य भक्तितः!। अर्च-येत् प्रतिमां शम्मोः कर्मदोषापशान्तये। वाक्येन ब्रा-ह्मणं तोष्य ततः पारणमाचरेत्”। उलकानवमीव्रतं भविष्योत्तरोक्तम्।
“उल्काख्या नवमीराजन्! कथयामि निबोध ताम्। या काश्यपेन क-थिता तारकस्यार्त्ति नाशिनी। अश्वयुक्शुक्लपक्षे या न-वमी लोकविश्रुता। नद्यां स्नात्वा समभ्यर्च्य पितृदेवान्यथाविधि। पश्चात् संपूजयेद्दवीं चामुण्डां भैरव-प्रियाम्। पुष्पैर्धूपैः सनैवेद्यैः मांसमत्स्यसुरासवैः। पूज-यित्वा स्तवं कुर्य्यान्मन्त्रेणानेन मानवः”। सौरपु॰
“व्रतेनयेन देवेन्द्र! प्रसीदत्याशु पार्वती। तच्चोल्कानवभीसंज्ञंशृणु! सर्वफलप्रदम्। तस्यां नवम्यां सर्वाणी महिषा-दीन् महासुरान्। जघान समरे शत्रून् तेन सा न-वमी प्रिया। अश्वयुक्शुक्लस्य नवम्यां प्रयतात्मवान्। स्नात्वाभ्यर्च्य पितॄन् देवान् मनुष्यांश्च यथाक्रमम्। जपेत्पश्चान्महादेवीं महिषासुरघातिनीम्। पुष्पैर्धूपैः सनै-वेद्यैः पयादधिफलादिभिः। भक्त्या संपूजयित्वैवं देवींसम्प्रार्थयेत्ततः”। ऋतुव्रतं विष्णुधर्मोत्तरोक्तम्।
“अथातः संप्रवक्ष्यामि षण्-मूर्त्तेरर्च्चनं परम्। वसन्ते पूजयेन्नित्यं द्वौ मासौ मुनि-पुङ्गव!। फलैः पुष्पैः कषायैस्तु ग्रीष्मे ग्रैष्मैश्च पूजयेत्। मधुरेण महाराज! प्रावृट्काले ऋतुं यजेत्। अनेन पूज-येन्नित्यं शरदं लवणेन च। कट्वम्लेन च हेमन्तं तिक्तेनशिशिरं तथा। नक्ताशनस्तथा तिष्ठेत् पञ्चकं वर्जयेद्र-सम्। ब्राह्मणान् भोजयेच्चापि प्रभूतवसनादिमिः। संवत्-सरमिदं कृत्वा व्रतं परमपावनम्। अश्वमेधमवाप्नोतिराजसूयञ्च विन्दति। चैत्रे समारभ्य सिते तु षष्ठींसम्पूजयेद्यस्त्वृतुषटकमेवम्। कृतोपवासः स नरो यथोक्तंलभेत् फलं शाश्वतमेव शीघ्रम्”। ऋषिपञ्चमीव्रतं ब्रह्माण्डपु॰
“शृणु राजन्! प्रवक्ष्यामिव्रतानामुत्तमं व्रतम्। ऋषिपञ्चमीति विख्यातं सर्वपाप-हरं परम्। नभस्ये शुक्लपक्षे त यदा भवति पञ्चमी। नद्यादिषु तदा स्नानं कृत्वा नियममेव च। विधायनित्यकर्मादि गत्वा द्वारवतीमृषीन्। म्नापयेद्विधिवद्भक्त्यापञ्चामृतरसैः शुभैः”। द्वारवतीं, अग्निहोत्रशालां धूम-निर्गमद्वारैर्बहुभिर्युतत्वात्”। ऋषयोऽत्र सप्तर्षयः। [Page5007-a+ 38] एकभक्तव्रतं विष्णु धर्भोक्तम्।
“चैत्रं विष्णुपरो मासमेक-भक्तेन यः क्षिपेत्। सुवर्णमणिमुक्ताढ्यं गार्हस्थ्यं सम-वाप्नुयात्। अहिंस्रः सर्वभूतेषु वासुदेवपरायणः। नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत्। अतिरात्रस्ययज्ञस्य ततः फलमवाप्नुयात्। यस्तु संवत्सरं पूर्णमेक-भक्तो भवेन्नरः। अहिंसः सर्वभूतेषु वासुदेवपरायणः। नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत्। पौण्डरी-कस्य यज्ञस्य ततः फलमाप्नुयात्। दश वर्षसहस्राणिस्वर्गलोके महीयते। तत्क्षयादिह चागत्य माहात्म्यंप्रतिप्रद्यते”। ऐश्वर्य्यतृतीयाव्रतं विष्णुधर्मोक्तम्।
“तृतीयायां तथाभ्यर्च्यब्रह्मविष्णुमहेश्वरान्। पृथक् पृथक् नाममन्त्रैर्नैवेद्यादिनिवेटयेत्। त्रीन् लोकांश्च तदा नाम सम्यक् संपूजये-न्नरः। ऐश्वर्य्यं महदाप्नोति गतिमग्र्याञ्च विन्दति”। कदलीव्वतं भविष्योत्तरोक्तम्।
“शुक्ले पक्षे चतुर्दश्यां मासिभाद्रपदे नृप!। देयमर्घ्यं वरस्त्रीभिः फलैर्नानाविधै-स्तथा। विरूढैः सप्तधान्यैश्च दीपालक्तकचन्दनैः। द-धिदूर्वाक्षतैर्वस्त्रैर्नैवेद्यैर्घृतपाचितैः। जातीफलैः पूग-फलैर्लवङ्गकदलीफलैः। तस्मिन्नहनि दातव्यं स्त्रीभी-रम्याभिरप्यलम्। मन्त्रेणानेन चैवार्घ्यं तच्छृणुष्वनराधिप!। चित्तस्था कदली नित्यं कदली कामदा-यिनी। शरीरारोग्यालावण्यं देहि देवि! नमोऽस्तुते”। कन्दुचतुर्थीव्रतं देवीपु॰
“माघभासे तु सम्प्राप्ते चतुर्थी क-न्दुसंज्ञिता। सोपोष्या तु सुरश्रेष्ठ! ततो राज्यं भवि-ष्यति। सर्वोपहारसम्पन्नं सर्वोपस्करमाहरेत्। कन्दु-पक्वं फलं शाकं लबणं गुडशर्वरा। खण्ड कुस्तुम्बरीजीरं धान्यानि विविधानि च। दातव्यानि रघुश्रेष्ट!कन्यकानान्तु भक्तितः”। कपिलाषष्ठीव्रतं स्कन्दपु॰
“प्रौष्ठपदोऽसिते पक्षे षष्ठी भौमेनसंयुता। व्यतीपातेन रोहिण्या सा षष्ठी कपिलास्मृता”। प्रोष्ठपदो, भादूपदस्य स चात्र दर्शान्तोग्राह्यः,रोहिणीयोगस्य तत्रैव सम्भवात्”। (
“द्वितीया (अन्या) तु महापुण्या दुर्लभा व्रतिनः क्व-चित्। षष्ठी संवत्सरस्यान्ते सा पुनस्तेन संयुता। चैत्रवैशास्वयोर्मध्ये सिते पक्षे शुभोदया। वैशाखे-ऽपि च राजेन्द्र! द्वारवत्यां परा स्मृता। यदि हस्तेसहस्रांशुस्तदा कार्य्यं व्रतं ब्रधैः। अस्वां चैव हुतंदत्तं यत्किञ्चित् प्रतिपादितम्। तस्य सर्वस्य पुण्यस्य[Page5007-b+ 38] संख्यां वक्तुं न शक्यते। यस्मिन् काले भवेदेतैर्गुणैःषष्ठो युता तदा। पंञ्चम्यामेकभक्तन्तु कुर्य्यात्तत्र विच-क्षणः। षष्ठ्यां प्रातः समुत्थाय कृत्वादौ दन्तधावनम्” इत्यादि। करणव्रतं ब्रह्माण्डपु॰
“शृणु राजन्! प्रवक्ष्यामि करण-व्रतमुत्तसम्। ववाख्यं बालवञ्चैव कौलवन्तैतिलङ्गरम्। बणिजं विष्टिरित्याहुः करणानि पुराविदः। माघमासेतु सम्प्राप्ते शुक्लपक्षे यदा भवेत्। ववाभिधानकरणमुप-वासस्तदा मवेत्। एवं सप्त विधेयानि बवाख्यान्यथसप्तमे। बवे तु करणे प्राप्ते पूर्वं पूर्वं समाचरेत्। ब्राह्मणान् भोजयेच्चात्र सप्तसंख्यान् सदक्षिणम्। अथैवंबालवादीनि विष्ठ्यन्तानि यथाक्रमम्। उषित्वा सप्त स-प्तैव पूर्वोक्तविधिना नृप!। समापयेद्व्रतं भूरिगोभूहेमा-दिदानतः। एवंकृते व्रते राजन्! राजसूयाश्वमेधयोः। समस्तं फलमाप्तोति सुखं कीर्त्तिं महाश्रियम्”। कमलसप्तमीव्रतं पद्मपु॰
“अतःपरं प्रवक्ष्यामि व्रतं कमल-सप्तमीम्। यस्य संकीर्त्तनादेव तुष्यतीह दिवाकरः। वसन्तामलसप्तम्यां स्नातः सन् गौरसर्षपैः। तिलपात्रे तुसौवर्णं निधाय कमले रविम्। वस्त्रोपवीताभरणगन्ध-पुष्पैरथार्चयेत्”। कल्किद्वादशीव्रतं धरणिव्रतोक्तम्
“तद्वद्भाद्रपदे मासि शुक्ल-पक्षे तु द्वादशीम्। सङ्कल्प्य विघिना देवमर्चयेत् पर-मेश्वरम्। नमोऽस्तु कल्किने पादौ हृषीकेशाय वैकटिम्। म्लेच्छप्रध्वंसनायोरू जगन्मूर्त्तिस्तथोदरम्। श्रीकण्ठायेति कण्ठन्तु खड्पाणीति वै भुजौ। स्व-नाम्ना शङ्खचक्रे तु विश्वमूर्त्तेस्तथा शिरः। एवमभ्यर्च्य-मेधावी प्राग्वत्तस्याग्रतो घटम्। विन्यस्य कल्किनंदेवं सौवर्णं तत्र धारयेत्”। कल्पवृक्षव्रतं पद्मपु॰
“त्र्यहं पयोव्रते स्थित्वा काञ्चनं कल्प-पादपम्। पलादूर्द्धं यथाशक्त्या तण्डुलं सूर्पसंस्थितम्”। सूर्पं द्रोणद्वयम्
“दत्त्वा ब्रह्मपदं याति कल्पवृक्षव्रतीस्मृतम्”। कल्याणसप्तमीव्रतं पद्मपु॰
“सौरधर्मं प्रवक्ष्यामि पार्थ! क-ल्याणसप्तमीम्। तस्या विधानं वक्ष्यामि यथावदनुपू-र्बशः। यदा तु शुक्लसप्तम्यामादित्यस्य दिनं भवेत्। सातु कल्याणिनी नाम विजया च निगद्यते। प्रातर्गव्येनपयसा स्ना{??}मस्यां समाचरेत्। शुक्लाम्बरघरः पद्मम-क्षतैः परिकल्पयेत्। प्राङ्मुखोऽष्टदलं मध्ये तद्वृत्तञ्च[Page5008-a+ 38] सकर्णिकम्। सर्वेष्वपि दलेष्वीशं विन्यसेत् पूर्वतः क्र-मात्” इत्यादि। काञ्चनपुरीव्रतं गरुडपु॰
“काञ्चनाख्या पुरी नाम व्रतं त्रैलो-क्यपावनम्। शुक्लतृतीया कृष्णा च एकादश्यऽथ पू-र्णिमा। संक्रान्तिर्वा महाभागे कुहूर्वा चाष्टमी तिथिः। पर्वस्वेतेषु दातघ्या काञ्चनाख्या पुरी शुभा”। कामव्रतं भविष्यपु॰
“पुष्पादितस्त्रयोदश्यां कृत्वा नक्तं मधौमधौ। अशोककाञ्चनं दद्यादिक्षुयुक्तं दशाङ्गुलम्। विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति। कल्पं विष्णुपुरे स्थित्वा विशोकः स्यात् पुमान् नृप!। एतत् का-मव्रतं नाम सदा शोकविनाशनम्”। कामदासप्तमीव्रतं भविष्यात्तरोक्तम्।
“फाल्गुनामलपक्षस्यसप्तम्यां च घनाघन!। उपोसितो नरो नारी समभ्यर्च्यतमोपहम्। सूर्य्यनाम जपन् भक्त्या भावयुक्तो जिते-न्द्रियः। तिष्ठन्नुपविशंश्चैव सूर्य्यमेवानुकीर्त्तयेत्। ततोऽन्यदिवसे प्राप्ते अष्टभ्यां नियतो रविम्। स्नात्वासम्यक् समभ्यर्च्य दद्याद्विप्राय दक्षिणाम्”। कामदेवव्रतं विष्णुधर्मोक्तम्।
“शुक्लपक्षे महाराज! त्रयो-दश्यामुपोषितः। पूजयेत् कामदेवन्तु वैशाखात् प्र-भृति प्रभो!। गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा। दद्याद् ब्रतान्ते विप्राय गन्धवस्त्रयुगं तथा”।
“कृत्वाव्रतं वत्सरमेतदिष्टमासाद्य नाकं सुचिरं मनुष्यः। भानुष्यमासाद्य भवत्यरोगः सुखान्वितोरूपसमन्वितश्च”। कामधेनुव्रतं वह्निपु॰
“कार्त्तिकः खलु मासो वै सर्वदेवमयोमहान्। कृष्णपक्षे विशेषेण तत्र पञ्च दिनानि तु। पुण्यानि तेषु यद्दत्तमक्षयं सर्वकामिकम्” इत्युपक्रमेअमावस्यादिषु तत्र विशेषमुक्त्वा
“नन्दा सुनन्दा सु-रभी सुशीला सुमनास्तथा। निर्गता मथ्यमानाब्धौऊषः स्नानं शुभप्रदम्”। कामधेनोराविर्भावभावित-स्वदेहात् ऊषः प्रशस्तमित्यर्थः
“तत्र स्नात्वा समभ्यर्च्यधेनुं पूज्य प्रयत्नतः। गोदानफलमाप्तोति नरो विगत-कलमषः। एकादश्यामुपोष्याथ नरो दिनचतुष्टयम्। वृवन स्नापयेद्विष्णुं गव्येन पयसापि वा। नक्ताशीनोरसैर्हव्यैः पूजयेन्मधुसूदनम्। गन्धपुष्पैः सनैवेद्यैर्ब-स्त्रालङ्कारकुण्डलैः। तस्मात्त्वमत्रैव च कामधेनुं तद्याःममुद्दिश्य तु केशवन्तु। विप्राय वै सर्बगुणाय यत्रकत्वा व्रतं कृत्स्नमतो हरेस्तु”। कामव्रतं पद्मपु॰
“कामं पूज्य त्रयोदश्यां सुरूपो जा-[Page5008-b+ 38] यते ध्रुवम्। इष्टां रूपवतीं भार्य्यां लभेत् कामांश्चपुष्कलान्। मूलमन्त्राः स्वसंज्ञाभिरङ्गमन्त्राश्च कीर्त्तिताः”। कामषष्ठीव्रतं वराहपु॰
“कामव्रतं महाराज! शृणु मे ग-दतोऽधुना। येन कामाः समृध्यन्ते मनसा चिन्तिताअपि। षष्ठ्यां फलाशनो यस्तु वर्षमेकं व्रतं चरेत्। माथमासे सिते पक्षे पञ्चम्यां नक्तभोजनः। षष्ठ्यान्तुप्राशयेद्धीमान्! फलमेकन्तु पार्थिव!। ततो भुञ्जोतयत्नेन वाग्यतः शुद्धमोदनम्। ब्राह्मणैः सह राजेन्द्र!अथ वा केवलं फलम्। तमेकं दिवसं स्थित्वा सप्तम्यांपारणं नृप!। अग्निकार्य्यं च कुर्वीत गुहरूपेण केश-वम्। पूजयित्वा विधानेन वर्षमेकं व्रतं चरेत्”। कामावाप्तिव्रतं विष्णुधर्मोत्तरोक्तम्।
“कृष्णपक्षे चतुर्दश्यांमहाकालमथार्च्चयेत्। तस्मात्काममवाप्नोति यथेष्टं नात्रसंशयः”। कार्त्तिकमासव्रतं नारदोक्तम्।
“माहात्म्यमभिधास्यामि मासस्यास्य वरानने!। येन ते जायते भक्तिर्भक्त्या येनार्च्यतेहरिः। कार्त्तिके कृच्छ्रसेवी यः प्राजापत्यरतोऽपि वा। षडद्वादशाहं पक्ष वा मासं वा वरवर्णिनि!। क्षपयित्वानरो याति तद्विष्णोः परमं षदम्। एकभक्तोऽथ वानक्ते तथा सुभ्रु! अयाचिते। कृते नरैद्धैराप्राप्तिर्भवेद्वै दीपमालया। तस्मिन् हरिदिनं पुण्यं तथा वैभीष्मपञ्चकम्। प्रवोधनीं नरः कृत्वा जागरेण सम-न्विताम्। न मातुर्जठरे याति अपि पापान्वितो नरः”। कार्तिकेयषष्ठीव्रतं भविष्योत्तरम्
“मार्गशीर्षे सिते पक्षे षष्ठीभरतसत्तम!। पुण्या पापहरा ज्ञेया शिवगीता गुह-प्रिया। निहत्य तारकं षष्ठ्यां गुहस्तारकराजवत्। रराज तेन दयिता कार्त्तिकेयस्य सा तिथिः। स्नानदा-नादिकं कर्म तस्यामक्षयमुच्यते। येऽस्यां पश्यन्ति गा-ङ्गेयं दक्षिणाशां समाश्रितम्। ब्रह्महत्यादिपापैर्{??}मुच्यन्ते नात्र संशयः। तस्मादस्यां सोपवासः कुमारंपर्णसम्भवम्। राजतञ्च महाराज मृण्मयञ्चाथ दारु-जम्। कारयित्वार्थसारेण कामामर्षविवर्जितः। अप-राह्णे ततः स्नात्वा सम्यगाचम्य बुद्धिमान्। पद्मासनस्थंगाङ्गेयं ध्यायंस्तिष्ठेच्च शक्तितः”। कालरात्रिव्रतं कालिकापु॰
“साधु भक्तोऽसि धर्मज्ञ!कालरात्रिव्रतं मम। शृणु! वक्ष्याम्यहन्तेऽद्य क-र्त्तर्व्यं विधिवद्यथा। मासि चाश्वयुजेऽष्टम्यां शुक्ल-पक्षे जितेन्द्रियः। सत्यवाक् स्थिरचित्तात्मा नियमस्थो[Page5009-a+ 38] भवेत्सुधीः। कालीव्रतमिदं ख्यातं कर्त्तव्यं सत्कुलो-द्भवैः”। कालरात्रि काली। कालाष्टमीव्रतं वामनपु॰
“नभस्ये मासि च तथा या स्यात्कृष्णाष्टमी शुभा। युक्ता मृगशिरैणैव सा तु कालाष्टमीस्मृता। तस्यां सर्वैकलिङ्गेषु तिथौ स्वपिति शङ्करः। वसन्तसन्निधाने तु तत्र पूजाऽक्षया स्मृता”। इदं व्रतंभाद्रादिवर्षसाध्यम्। कीर्त्तिव्रतं पद्मपु॰
“अश्वत्थं भास्करं गङ्गां प्रणम्यैकत्र वा-ग्यतः। एकभक्तं नरः कुर्य्यादष्टम्यां वै विमत्सरः। व्र-तान्ते विप्रमिथुनं पूज्य धेनुत्रयान्वितम्। वृक्षं हि-रण्मयं दद्यात् सोऽश्वमेधफलं लभेत्। दिवि देवविमा-नस्थो गीयतेऽप्सरसाङ्गणैः। एतत्कीर्त्तिव्रतं नामभूमिकीर्त्तिप्रदायकम्”। कुक्कुटीव्रतं भविष्योक्तं

२०

६३ पृ॰ ति॰ त॰ दृश्यम्। कुबेरतृतीयाव्रतं भविष्यपु॰
“तृतीयायान्तु वित्तेशं वित्ताद्योजायते ध्रुवम्”। पूजयित्वेति शेषः
“क्रयादिव्यवहारेच लाभो दिव्यगुणो भवेत्”। कुमारषष्ठीव्रतं कालोत्तरोक्तम्।
“चैत्रशुकलात् समारभ्य व्र-तार्थमधुनोच्यते। उपोष्य विधिना षष्ठीं विशेषात् षण्-मुखं यजेत्”। कुम्भीव्रतं स्कन्दपु॰
“एकादश्यां कार्त्तिकस्य शुकौपक्षे तुकारयेत्। कुम्भ्यादिनरकेभ्यस्तु उद्धरेत् स्वमशेषतः। प्र-यत्नात् कार्त्तिके मासि बिष्णारग्रे तु जागरम्। सुशु-कलैकादशीं रात्रौ विशेषादर्चयन्ति च। चतुरस्रं चतु-र्द्धारं गोमयेनोपलिप्य च। चतुर्भिः शालिगोधूमवर्णकै-रुपशोभितम्। स्नात्वा नारायणं पूज्य स्थण्डिले प्रति-मासु च। हुत्वा दिशां वलिं दत्त्वा विधानमवधारयेत्। दीपमालान्वितं गन्धपुष्पाद्यैः पूजयेत्ततः। कुम्भीं देवमयीं ध्यात्वा मुच्यते सर्वकिल्विषै”। कूर्मद्वादशीव्रतं धरणीव्रतोक्तम्
“पौषमासस्य या पुण्या द्वादशीशुक्लपक्षतः। तस्यां प्रागिव सङ्कल्पं कुर्य्यात् स्नानादिकाःक्रियाः। निर्वर्त्याराधयेद्रात्रावेकादश्यां जनार्दनम्। पृथङमन्त्रैर्द्विजश्रेष्ठ! देवदेवं जनार्दनम्। कूर्म्मायपादौ प्रथमन्तु पूज्य नारायणायेति कटिं हरेस्तु। मङ्कर्षणायेत्युदरं हरेस्तु उरो विशोकाय भवाय क-ण्ठम। सुवाहवे चैव भुजौ शिरश्च नमो विशालायरथाङ्गशङ्खौ। खनाममन्त्रैश्च सधूपगन्धैर्नानानिवेद्यै-र्विविधै फलैश्च। अभ्यर्च्य देव कलश तदग्रे संस्थाप्य[Page5009-b+ 38] माल्यास्तृतदामकण्ठम्। तं रत्नगर्भन्तु पुरेव कृत्वा स्व-शक्तितो हेममयञ्च देवम्। समन्दरं कूर्मरूपेण कृत्वासंस्थापयेत्ताम्रपात्रे घृतस्य। पूर्णे घटे पर्य्यथ सन्निवे-श्याथो ब्राह्मणायैव सर्वं तु दद्यात्”। घृतस्य पूर्णे ता-म्रपात्रे समन्दरं कूर्मरूपं निधाय घटोपरि निवेश्यप्रभाते दद्यादित्यर्थः”। कृच्छ्रव्रतानि विष्णुरहस्ये
“सुपुण्ये कार्त्तिके मासि देवर्षि-पितृसेविते। क्रियमाणे व्रते नॄणां स्वल्पेऽपि स्यान्महा-फलम्। कृत्स्नः सवत्सरः पुण्यस्तस्माद्वर्षासु पूजितः। वर्षायाः कार्त्तिकः पुण्यः कार्त्तिकाद्भोष्मपञ्चकम्। नैवेद्यं पुष्पधूपञ्च अर्चनं सुविलेपनम्। दत्त्वैकका-र्त्तिके विष्णोः फलं सांवत्सरं लभेत्। अतः कार्त्ति-कमासाद्य सदैव शुभकाङ्क्षिभिः। हरिमुद्दिश्य कर्त्तव्य” सुशक्त्या सुकरं व्रतम्। कार्त्तिकस्यासिते पक्षे वायु-भक्षश्चतुर्दशीम्। समुपोष्य नरो भक्त्या पूजयेद् गरु-डध्वजम्। उपवासस्तु कर्त्तव्यो वारिमध्ये स्थितेन च। जलकृच्छ्रमिदं कृत्वा विष्णुलोकं व्रजेन्नरः। दशम्यां प॰ञ्चगव्याशी एकादश्यमुपाषितः। अर्चयेच्चाच्युतं देवंनियतश्च व्रतञ्चरेत्। कार्त्तिकस्यासिते कृत्वा नरो देव-व्रतञ्चरेत्। दामोदरं समभ्यर्व्य देवो वैमानिको भचेत्। अपः क्षीरं दधि घृतं सप्तम्यादिचतुर्दिनम्। कार्त्तिक-स्यासिते पीत्वा एकादश्यामुपोषितः। कृच्छ्रं पैतामहंनाम कुर्वन् संपूजयेद्धरिम्। प्राप्नोति परमं विष्णोःस्थानं त्रैलोक्यपूजितम्। त्रिरात्रं षयसः पानमुपवास-परस्य च। षष्ट्यादौ कार्त्तिके शुक्ले कृच्छ्रो माहेन्द्रउच्यते” इत्यादि। कृच्छ्रचतुर्थीव्रतं स्कन्दपु॰
“मार्गशीर्षे शुभे मासि सितेपक्षे तु षण्मुखम्। चतुर्थ्यां नियमं गृह्य विघ्नेशंपूज्य भक्तितः। पुष्पेर्गन्धैश्च नैवेद्यैः लड्डुकैश्च सुसं-स्कृतैः। पललैस्तिलपिष्टैश्च तथ सोहानकैः प्रभुम्। पूजयित्वा विधानेन प्रार्थयेत्तत्र मानवः”। कृत्तिकाव्रतं भविष्योत्तरोक्तम्।
“कार्त्तिक्यां पौर्णमास्यान्तुगृह्णीयात् कृत्तिकाव्रतम्। षट् मासांस्तु व्रतं याव-दिदं सञ्चिन्त्य चेतसि। पारणे पारणे चापि पुराणज्ञेद्विजोत्तमे। उद्यापनं प्रयच्छत यथा विभवसारतः। कृत्तिकासु स्वयं सोमः कृत्तिकासु वृहस्पतिः। यदा स्यात्सोमयारेण सा महाकात्तिकी स्मृता। ईदृशी बहुभि-र्वर्षैर्बहुपुण्यंन लभ्यते। लब्धापि न वृथा नेया य-[Page5010-a+ 38] दीच्छेच्छेय आत्मनः। अन्यापि कार्त्तिकी पार्थ!समुपोष्या विधानतः। तस्या विधानं राजेन्द्र! शृणु-ष्वैकाग्रमानसः। कार्त्तिके शुक्लपक्षस्य पौर्णमास्यां दि-नोदये। नक्तेन नियमं कुर्य्याद् दन्तधावनपूर्वकम्। उपवासेन वा शक्त्या ततः स्नात्वा जलाशये” इत्यादि। कृष्णचतुर्दशीव्रतं भविष्यपु॰
“बालवृद्धातुराणाञ्च भोगिनांस्त्रीषु वालिशे। विधानन्तेषु वक्ष्यामि मुच्यते ते यथासुत!। भूतायां फाल्गुने कुर्य्यात् कृष्णपक्षेऽतिभक्तितः। दरिद्राणामनाथानामक्षमाणां विशेषतः। सर्वकामप्रदंकृष्णचतुर्दश्यां शिवव्रतम्। रात्रौ विशेषपूजा तु महा-स्रपनसंयुता। महादीपद्वयं देयं शतमष्टोत्तरं पुनः। सघृतं गुग्गुलं धूपं शिवं प्रशुपतिं यजेत्। खण्डखा-द्यान्यनेकानि भक्ष्याणि विविधानि च। यथा समर्प्ययेत्भक्त्या वित्तशाद्यं विना सुत! रात्रौ जागरणं कार्य्यंशिवस्याग्रे शिवं जपेत्”। शिवधर्भोक्तम्
“नारी चोप-वसेदब्दं वृष्णामेकाञ्चतुर्दशीम्। वर्षान्ते प्रतिमां कृत्वाशालिपिष्टमयीं शुभाम्। गीतानुलेपनैर्माल्यैः पीतवस्त्रैस्तुपूजयेत्। पूर्वोक्तमखिलं कृत्वा शिवाय विनिवेदयेत्”। कृष्णद्वादशीव्रतं वराहपु॰
“एकभक्तेन नक्तेन तथैवायाचितेनच। उपवासेन दानेन न निर्द्वादशिको भवेत्। मा-र्गशीर्षस्य मासस्य श्रुतं सर्वं त्वया ब्रुध!। अश्रीयान्मा-सिमास्येवं कुर्य्यात्संवत्सरं व्रती। नामानि देबदेवस्यकेशवस्य पृथक् पृथक्। कृष्णोऽनन्तोऽच्युतश्चक्री वैकुण्ठो-ऽथ जनार्दनः। उपेन्द्रो यज्ञपुरुषो वासुदेवस्तथा हरिः। योगेशः पुण्डरीकाक्षोमासनामान्यनुक्तमात्”। विष्णुध-र्मोत्तरोक्तम्
“माघ्यान्तु समतीतायां द्वादशी या भवेन्-नृप!। ततः प्रभृति कर्तव्यं व्रतमेतदुपोषिता। द्वाद-शीषु च कृष्णासु नाम कृष्णस्य कीर्त्तयेत्। तेनैव नाम्ना-कर्त्तव्यौ जपहोमौ तथैव च। तिलैर्निवेदनं कार्य्यंहोमः कार्य्यस्तथा तिलैः। पौष्यान्तु समतीतायां कृष्णाया द्वादशो भवेत्। तस्यां व्रतावसाने तु तिलान् दद्याद्द्विजातिपु। सुवर्णञ्च महीपाल! रक्तवस्त्रं तथैव च। संवत्सरमिदं कृत्वा व्रतं मनुजपुङ्गव!। तिर्य्यग्योनिंन चाप्तोति म्यर्गलोकञ्च गच्छति। यावज्जीवं व्रतमिदंयः करोति समाहितः। न स दुःखमवाप्नोति नारकंमनुजोत्तम!। यत्र वैतरणी दुर्गा क्षुरधारा सपर्वता। पायानां यातना यत्र तत्रासौ न गमिष्यति”। कृष्णव्रत प्रध्मपु॰
“एकादश्यां तु नक्ताशी मञ्चकं विनिवे द[Page5010-b+ 38] येत्”। विप्रायेति शेषः
“कृत्वा मर्त्ये च सौवर्णं सविष्णोः पदमाप्नुयात्। एतत् कृष्णव्रतं नाम कल्पान्तेसुखलाभकृत्”। कृष्णषष्ठीव्रतं भविष्योत्तरोक्तम्।
“कृष्णषष्ठ्यां प्रयत्नेन कृत्वानक्तं विधानतः। मासो मार्गशिरस्यादावंशुमानितिपूजयेत्। विधिवत् प्राश्य गोम्त्रमनाहारो निशि स्व-पेत्। अतिरात्रस्य यज्ञस्य फलं प्राप्तोति मानवः”। इत्यादि तदवधिवर्षसाध्यमिदम्। कृष्णाष्टमीव्रतं देवीपु॰
“कृष्णाष्टम्यां विधानं वै निखिलं क्रि-यते यथा। क्रमेण मे तथा ब्रूहि तत् कर्त्तव्यं सुरे-श्वर”। ईश्वर उवाच
“हेमन्ते त्वथ सम्प्राप्ते मासिमार्गशिरे तथा। नक्तं कृत्वा शुचिर्भूत्वा गोमूत्रं प्रा-शयेन्निशि”। नक्तं कृत्वा नक्तमनुकल्पम्
“आहरेद्वाशनंयत्र यथान्नञ्च तथाशयेत्। तेन नक्तं समुद्दिष्टं प्राशिताप्राशितेन च” इति। तेन नक्तं समुद्दिष्टं प्राशितेन-चेति क्वचित्प्राशितेन क्वचिदप्राशितेनेत्यर्थः।
“कृ-ष्णाष्टम्यां विधानं वै शङ्करं पूज्य भक्तितः। अतिरात्रस्ययज्ञस्य फलमष्टगुणं भवेत्। स्मरेच्च शाङ्करं नाम सायंरात्रौ दिवा यथा” इत्यादि। तदवधि वर्षसाध्यम्
“कृष्णा-ष्टम्यां चैत्रमासे स्नातो नियतमानसः। कृष्णमभ्यर्च्य पू-जाञ्च देवक्यां कुरुतेतुयः। निराहारो जपन्नाम कृष्णस्यजगतः पतेः। उपविश्य जपन् स्नातः क्षुतप्रस्खलिता-दिषु। पूजायाञ्चापि कृष्णस्य सप्तवारान् प्रकोर्त्तयेत्। पाषण्डिनो विकर्मस्थान् नालपेन्नैव नास्तिकान्। प्रभातेवाम्बुना स्नातो दद्याद्विप्राय दक्षिणाम्। भुञ्जीत कृत-पूजश्च कृष्णस्यैव जगत्पतेः” इत्यादि। इदं तदवधि वर्ष-साध्यम्। भविष्योत्तरोक्तम्।
“कृष्णाष्टमीव्रतं पार्थ!शृणु पापहरं परम्। धर्मस्य जननं लोके रुद्रप्रीति-करं परम्। मार्गशीर्षेऽथ वै मासि दन्तधावनपूर्ब-कम्। उपवासस्य नियमं कुर्वन्नक्तस्य च व्रती”। सम-र्थासमर्थभेदेन व्यवस्थितो विकल्पः। इत्यादि तदवधिवर्षसाध्यमिदम्। व्रतान्तरं कृष्णाष्टमीशब्दे दृश्यम्। कृष्णैकादशीव्रतं विष्णुधर्मोत्तरोक्तम्।
“एकादशी तथाकृष्णा फाल्गुने मासि भार्गव!। छन्दोदेवस्य कर्त्तव्यापूजा धमंभृताम्बर। पूजनाच्छन्ददेवस्य येनायं गुणवर्जि-तम्। न प्राप्नोति तथा प्रीतिं गुणवन्तं न संशयम्”। कोकिलाव्रतं भविष्योत्तरोक्तम्।
“आषाढपौर्णमास्यान्तुसन्ध्याकाले ह्युपस्थिते। सङ्कल्पयेन्मासमेकं श्रावणीप्रभृति[Page5011-a+ 38] ह्यहम्। स्नानं करिष्ये नियता ब्रह्मचर्य्ये स्थितासती। भोक्ष्यामि नक्तं भूशय्याङ्करिष्ये प्राणिनान्द-याम्। इति सङ्कल्प्य पुरुषो नारी वा ब्राह्मणान्तिके। प्राप्यानुज्ञान्ततः प्राह्णे सर्वसामग्रिसंयुतः” इत्यादि। कोटीश्वरीतृतीयाव्रतं स्कन्दपु॰
“शृणु भद्रे! परं गुह्यंसर्बकामफलप्रदम्। दुर्भगाणाञ्च नारीणां सौभाग्यकरणंपरम्। लक्षेश्वरीति विख्यातं ततः कोटीश्वरीव्रतम्। तृतीया शुक्लपक्षे तु मासि भाद्रपदे भवेत्। तस्यां ब्रतंतु संग्राह्यं यावद्वर्षचतुष्टयम्। उपवासेन कर्त्तव्यंवर्षे वर्षे तु सुन्दरि!। अखण्डानां तण्डुलानां तिलानांवा सुलोचने!। लक्षमेकं विरच्याथ क्षिपेत् पयसि शो-भने। क्षीरसंमिश्रितैः कार्य्या देव्यामूर्त्तिः सुलोचना। कृत्वा तु पुष्पप्राकारं पुष्पमालाभिमण्डितम्। संस्थाप्यपार्वतीं देवीं पूजयेद्भक्तिशक्तितः” इत्यादि। कौमुदीव्रतं विष्णुरहस्योक्तम्।
“मासि चाश्चयुजे शुक्ल एका-दश्यामुपोषितः। गृह्णीयात् तु व्रतं श्रेष्ठं कौमुदाख्यंमहाफलम्। अहिंसकः शुचिर्भूत्वा धौतवासा जिते-न्द्रियः। द्वादश्यामर्चयेत् स्नात्वा वासुदेवं जगद्गुरुम्”। क्षेमव्रतं विष्णुधर्मोत्तरोक्तम्।
“यक्षाणां राक्षसानाञ्च च-तुर्दश्याञ्च पूजनम्। कृत्वा क्षेममवाप्नोति क्रियासा-फल्पमेव च”। गणपतिचतुर्थीव्रतं भविष्यपु॰
“चतुर्थ्यान्तु महाराज!निराहारो व्रतान्वितः। दत्त्वा तिलान्नं भुङ्क्ते यःखयं भुङ्क्ते तिलोदकम्”। दिवा निराहारो रात्रौभूङ्क्ते इति विरोधपरिहारः। वर्षद्वये समासिद्धि-र्व्रतस्य तु यदा भवेत्। विनायकस्तस्य तुष्टो ददातिफलमीप्सितम्”। गन्धव्रतं शिवधर्मोक्तम्
“पौर्णमास्यामुपवसेद्वदमेकं सुय-न्त्रितः। वर्षान्ते सर्वगन्धाढ्यां प्रतिमां विनिवेदयेत्। सुविचित्रैर्महायानैर्दिव्यगन्धविभूषितैः। युगकोटिशतंसाग्रं शिवलोके महीयते”। गलन्तिकाव्रतं शिवरहस्योक्तम्
“पवित्रतोययुक्तैर्यः कुम्भैःग्रीष्मे शिवोपरि गालयेद् यः पयोधारां स ब्राह्मपद-मश्नुते”। गायत्रीव्रतं गरुडपु॰
“अथोत्तमं परं ब्रह्मन्नपरं शृणु!भद्रदम्। चतुर्दश्यां महाभाग! सर्वरोगार्त्तिशान्तये। ज्वरगुल्मप्लीहशूलकुष्ठातिसारसंयुतः। मर्त्ये नित्यमिदंकार्य्यं तदार्त्तिव्यप्रनुत्तये। स्नात्वा तु धृतसङ्कल्पः सर्व-[Page5011-b+ 38] कामविवर्जितः। आदित्यमुपतिष्*ठेत गायत्रीञ्च॰ जष-न्मुहुः। उदयात् पूर्वमारभ्य यावदस्तं गतो रविः। निराहारो जितक्रोधो तावत्तिष्ठेत् समाहितः। रवा-वस्तङ्गते देवमर्चयेत् पुरुषोत्तमम्। उपोष्य विधिवत्। स्नात्वा तथा पर्वणि सुव्रतः”। पर्वणि, पौर्णमास्याम्। एतच्च शुक्लचतुर्दशीव्रतं, पुराणे शुक्लपक्षस्य व्रतप्रकरणेपठितत्वात्। गुडतृतीयाव्रतं भविष्यपु॰
“गुडपूपास्तु दातव्या मासि भाद्र-पदे तु या। तृतीया पायसेनापि वामदेवस्य प्रीतये”। गुणावाप्तिव्रतं विष्णुपु॰
“अतःपरं प्रवक्ष्यामि चतुर्मूर्त्ति-व्रतं तव। द्विधा तु देवदेवस्य मूर्त्तिर्भवति यादव। थोरा सौम्या शिवा चान्या घोरा भवति पावका। शिवा चाग्निपतिर्यस्मादग्नीषोमात्मकं जगत्। द्विधाघोरा विनिर्दिष्टा द्विधा सौम्या ततः पुनः। घोरा व-ह्निश्च सूर्य्यश्च सौम्या सोमजलाधिपौ। तेषां च पूजनंकार्य्यं प्रतिपत्प्रभृति क्रमात्। शुक्लपक्षात् तथारभ्यफाल्गुनस्य द्विजोत्तम!। आदित्यं पूजयेद्राजन्! प्रथमे-ऽह्नि परः शुचिः। द्वितीयेऽह्नि तथा वह्निं तृतीयेऽह्निजलाधिपम्। चतुर्थेऽह्नि शशाङ्कञ्च यथावन्मानवोत्तमः”। गुरुव्रतं भविष्योक्तम्
“अनुराधास्वथाचार्य्यं देवानां पूज्यभक्तितः। पूर्वोक्तक्रमयोगेन सप्त नक्तान्यथाचरेत्। हैर्म हेममये पात्रे स्थापयेच्च वृहस्पतिम्। पीताम्बर-यु गच्छन्नं पीतयज्ञोपवीतकम्। पादुकाच्छत्रसहितं सु-दण्डं सकमण्डलुम्। संपूज्य पुष्पनिकरैर्धूपैर्दीपा-क्षतादिभिः। खण्डखाद्योपहारञ्च द्विजाय प्रतिपादयेत्”। गुर्वष्टमीव्रतं भविष्यपु॰
“मासि भाद्रपदे राजन्! शुक्लपक्षेयदाष्टमी। गुरुवारेण संयुक्ता सा तिथिर्द्धर्मवर्द्धिनी। सम्पूर्णा सर्वपापर्घ्नी प्रेतयोनिविनाशनी। गृह्णीया-न्नियमं सम्यक् दन्तधावनपूर्वकम्। एकभक्तेन राजेन्द्र!तस्यां देवी वृहस्पतिः। स्नानं नद्यां तडागे वा गृहे वानियमात्मना। सौवर्णं कारयेज्जीवं राजतं वा नरो-त्तम! तस्याभावे यथाशक्त्या श्रीखण्डेनापि कारयेत्”। गुह्यकद्वादशीव्रतं भविष्योत्तरे
“द्वादश्यां गुह्यकानर्च्य पल-लाक्षतसंयुतैः। हैमं विप्राय वै दद्यादुपवासपरायणः। एतद्वै गुह्यकं प्रोक्तं व्रतं पापहरं शुभम्”। गृहपञ्चमोव्रतं भविष्योत्तरे
“सर्वौषध्युदकस्नातः पञ्चम्यांपूज्य पद्मजम्। सर्वोपस्करदानञ्च यः करोति गृहा-श्रमे। गृहाटोदूखलं शूर्पं शिलां स्थालीञ्च पञ्चभीम्”। [Page5012-a+ 38] गृहाटः पेषणयन्त्रमुदूखलं धान्यकण्डकम्।
“उदकुम्भञ्चपूर्णञ्च एतेषामनुगञ्च यत्। एतानि गृहिणां गेहेप्रस्थाप्य पुरुषोत्तम!। उपस्करकृते नारी न सीदतिकदाचन। एतद्गृहव्रतं नाम मर्वसौख्यप्रदायकम्”। गोपदत्रिरात्रव्रतं भविष्योक्तम्
“पार्थ! भाद्रपदे माभि शुक्ल-पक्षे दिनोदये। तृतोयायां चतुर्थ्याञ्च श्रद्धया परिवत्-सरम्। उपवासेन गृह्लीयात् व्रत नाम्ना तु गोपदम्। स्नात्वा नरोऽथ नारी वा पुष्पधूपविलेपनैः। दध्ना चघृतमिश्रेण पिष्टकैर्वनमालया। अभ्यञ्जयेद्गवां शृङ्गेसपुच्छे चैव भारत!। दद्याद्गवाह्निकं भक्त्या वासः पूर्वा-पराहयोः। अनग्निपक्वं भुञ्जीयात् तैलक्षारविवर्जितम्”। गोपालनवमीव्रतं गरुडपु॰
“तथा समुद्रगामिन्यां नवम्यांस्नानमाचरेत्। शुचौ तत्पुलिने तीरे सिकताभिर-लङ्कृते। वसुदेषसुतं विष्णुं गोपीगणनिषेवितम्। व-नमालाचितोरस्कं वन्यपुष्पैरलङ्कृतम्। बर्हिबर्हकृता-पीडं पीतकौषेयवाससम्। समानवेषैरतुलैः क्रीडद्भिरि-तरेतरम्। वृतं गोपकुमारैश्च नीलाकुञ्चितमूर्द्धजम्। ध्यात्वा देवं परं विष्णुं सर्वलोकेश्वरेश्वरम्। वन्यपुष्पैश्चगन्धाद्यैः शुचिभिश्च यथाविधि”। गोमयादिसप्तमीव्रतं भविष्यपु॰
“यः क्षिपेद्गोमयाहारः द्वा-दश सप्तमोः क्रमात्। राजेन्द्र! यावकाहारः शीर्णप-र्णाशनोऽपि वा। क्षीराशीवैकभक्तो वा भिक्षाहारोऽथवा पुनः। जलाहारोऽथ वा भूत्वा पूजयित्वा दिवाकरम्। पुष्पापहारैर्विविधैः पद्मसौगन्धिकोत्पलैः। नानाप्रकारै-र्गन्धैस्तु धूपैर्गुग्गुलचन्दनैः। शर्करापायसाद्यैश्च विचि-त्रैश्च विभूषणैः। अर्च्चयित्वा नरश्रेष्ठ! हिरण्यान्ना-दिभिर्नरः। यथोक्तफलमाप्नाति क्रतुभिर्मूरिदक्षिणैः। तदत्र प्राप्यते वीर! सप्तम्यां केवलं रवेः”। गौरीचतुर्थीव्रतं पद्मपु॰
“उमाचतुर्थ्यां माघे तु शुक्लायांयोगिनीगणैः। प्राग्भक्षयित्वा सृष्ट्वा च भूयः स्वाङ्गात्स्वकैर्गुणैः। तस्मात् सा तत्र सपूज्या नरैः स्त्रीभि-र्विशेषतः। कुन्दपुष्पैः ग्रयत्नेन सम्यग्भक्त्या समा-हितैः। कुङ्कुमालक्तकाभ्याञ्च रक्तसूत्रैः सकङ्कणैः। अर्घैः पुष्पैस्तथाधूपैर्दीपैर्वलिमिरव च। गुडार्द्रकाभ्यांपनसलवलीभ्याञ्च घालकेश। पूज्या स्त्रियश्च विधवा-स्तग्रा विप्राश्च घाभनाः। सौमाग्यवृद्धये पश्चात् मोक्तव्यं{??} सहति। गौरीव्रतं कारीनरोक्तम
“गौरीघतमथो वक्ष्ये स्त्रीणां[Page5012-b+ 38] सौभाग्यवर्द्धनम्। चैत्रशुक्लतृतीयायां गौरीव्रतं समा-चरेत्। जपोष्य तु प्रयत्नेन विधानमिदमाचरेत्”। गोवत्सद्वादशीव्रतं भविष्योत्तरे
“संप्राप्ते कार्त्तिके मासिशुक्लपक्षे नृपोत्तम!। द्वादश्यां कृतसङ्कल्पः स्नात्वा शुद्धेजलाशये। नरो वा यदि वा नारी नक्तं सङ्कल्प्यचेतसि। ततो मध्याह्नसमये कृत्वा देवाचनादिकम्। प्रतीक्षेतागमं भक्त्या गवां गोध्यानतत्परः। सवत्सांतुल्यवर्णाञ्च शीलिनीं गां पयस्विनीम्। चन्दनादिभि-रालिप्य पुष्पमालाभिरर्चयेत्”। गोविन्दद्वादशीव्रतं विष्णुरहस्ये
“द्वादश्यां भोजयेद्विप्रान् तेभ्यो दद्याच्च दक्षिणाम। प्रतिमासं तिथौ तस्या ङ्गोभ्या दद्याद्गवाह्निकम्। गवांक्षीरेण संयुक्तं दध्ना वाऽथ घृतन वा। मृत्पात्रे चसमश्नीयादक्षारलवणं व्रती। संवत्सरमुपोष्यैव गोविन्द-द्वादशीं नरः। पुनर्गोभ्यो यथा शक्त्या भूयो दद्या-द्गवाह्निकम्। गोविन्दद्वादशी या तु उपोष्य विधिवन्नरः। प्राप्नोति विधिवद्दत्त्वा गोसहस्रस्य यत् फलम्”। चण्डिकाव्रतं मविष्योत्तरोक्तम्
“अष्टम्यःञ्च चतुर्दश्यां पक्ष-योरुभयोरपि। योऽब्दमेकं न भुञ्जीत चण्डिकाराधनेरतः। स याति परमं स्थानं यत्र सा चण्डिका स्थिता”। चतुर्दशीजागरणव्रतं कालिकापु॰
“कार्त्तिके शुद्धभूतायांहरं स्नाप्य घृतादिभिः”। शुद्धभूतायां शुक्ल चतु-र्दश्याम्
“समालभ्य न्यसेद्भूयः सौवर्णं वा प्रप्रञ्चकम्। सुरभिभिस्ततः पुष्पैरभ्यर्च्य गुग्गुलं दहेत्। नैवेद्यञ्च पु-नर्दत्त्वा वलिं वाह्ये विनिःक्षिपेत्। वितानं दोपमादर्शंवस्त्रयुग्मं ध्वजास्तथा। धूपोत्क्षेपञ्च घण्टाञ्च दत्त्वा देवायशम्भवे। प्रदक्षिणं ततः कुर्य्याद्दण्डवद्भैरवस्य हि। ततस्तस्योपविष्टाच्च जागरं परिकल्पयेत्”। चतुर्दशीव्रतं भविष्योत्तरे
“चतुर्दश्यां निराहारः सम-भ्यर्च्य त्रिलाचनम्। पुष्पधूपादिनैवेद्यै रात्रौ जा-गरणेन च। पञ्चगव्यं निशि प्राश्य स्वपेद्भूमौ विमत्सरः”। चतुर्दश्यष्टमीनक्तव्रतं भविष्योत्तरे
“शृणु! नक्तोपवासस्यपिधानं पाण्डुनन्दन!। येन विज्ञानमात्रेण नरोमोक्षमवाप्नुयात्। येषु केषु च मासेषु शुक्लपक्षे चतु-र्दशीन। ब्राह्मणं भोलयित्वा तु पारभेत् श्रुतितो व्रतम्। मापि मासि भवन्ति द्वे अष्ठमी च चतुर्दशी। शिवार्चनरतो भूत्वा शिवध्यानैकमानसः। वसुधां भाजनं{??}त्वा भञ्जीयान्नक्तमोजनम्। उपवासात्परं भौक्ष्यं भैक्ष्या[Page5013-a+ 38] तृपरप्रयाचिवम्। अयाचितात् परं नक्तं तस्मान्नक्तेनभाजयेत्। देवैश्च भुक्त पूर्वाह्ल मध्याह्ने मुनिभिस्तथा। अपराह्णे च पितृभिः सन्ध्यायां गुह्यकादिभिः। सर्व-वेलामतिक्रम्य नक्तभीजी सदा भवेत्। हविष्यभोजनंम्नानं सत्यमाहारलाघवम्। अग्निकार्य्यमधःशर्य्यां नक्त-भोजी सदा भवेत्”। चतुर्मासी(चातुर्मास्य) व्रतं भविष्योत्तरे
“शृणु पार्थ! प्रव-क्ष्यामि गोविन्दशयनव्रतम्। कटिदानं समुत्थानं चतुमांसीव्रतक्रमम्। मिथुनस्थे सहस्रांशौ स्वापयन्मधुसू-दनम्। तुलां प्राप्ते महाराज! पुनरुत्थापयेच्च तम्। अधिशयिते च देवे एष एव विधिक्रमः। नान्थथा स्वाप-वेत् कृष्णं नान्यथोत्थापयेत्तथा। आषाढस्य सिते पक्षेएकादश्यामुपाषितः। स्वापयेत् प्रतिमां विष्णोः शङ्ख-चक्रमदाधराम्। काञ्चनीं राजतीं ताम्रमयीं पित्तलजांतथा। पीताम्बरधरां सौम्यां पर्य्यङ्के चाश्रिते शुभे। शुक्लवस्त्रपटच्छन्ने सोपधान सुपूजिते। प्रभाषेच्च ग्रतोविष्णाः कृताञ्ज{??}पुटस्तथा। चतुरो वार्षिकान् मासान्देवस्योत्थापनावधि। इमं करिष्ये नियमं निर्विघ्नंकुरु मेऽच्युत!। स्त्री वा नरो वा मद्भक्तो धर्मार्थं सुदृ-ढव्रतः। गृह्णायान्नियमानेतान् द्न्तधावनपूर्बकान्। तेषां फलानि वक्ष्यामि तत्कर्तृणां पृथक् पृथक। मधु-स्वरो भवेद्राजा! पुरुषो गुडवर्जनात्। तैलस्य वर्जनादेवसुन्दराङ्गः प्रजायते। कटुतैलपरित्यागाच्छत्रुनाशमवायात्। मधूकतैतत्यागेन सौभाग्यमतुल लभेत्। योगा-भ्यसी भवेद्यस्तु स ब्रह्मपदमाप्नुयात्। कटुकाम्लतिक्त-मधुक्षारकषायसञ्चयम्। यो वर्जयेत् स वैरूप्यं दौर्गन्ध्यंनाप्नुयात् क्वचित्। ताम्बूलं वर्जयेत् भोगी रक्तकण्ठश्चजायते। घृतत्यामाच्च लाबण्यं सर्वस्निग्धतनुर्भवेत्। फलत्यागाच्च मतिमान् बहुपुत्रश्च जायते। शाकपत्राश-नाद्भोगी अपक्वादमलो भवेत्। पादाभ्यङ्गपरित्यागाच्छि-रोऽभ्यङ्गं विवर्जयेत्। दाप्तिमान् दीप्तकायेन सोऽपिक्षोद्रपतिर्भवेत्। दधिदुग्धैकनियमी गोभक्ती गोपति-र्भवेत्। इन्द्रातिथित्वमाप्नोति स्थालीपाकस्य वर्जनात्। लभते सङ्गतिं दीर्घां तैलपक्वस्य वर्जनात्। भूमौ प्रस्त-रशायी च बिप्रो मुनिवरो भवेत्। सदा मुनिः सदायोगो म{??}मांसस्य वर्जनात्। निर्व्याधिर्नीरुगोजस्वी सू-रामद्यं विवर्जयन्। एवमादिपरित्यागात् धर्मः स्यात्{??}न्दन!। एकान्तरोपवासेन ब्रह्मलोके महीयते। [Page5013-b+ 38] धारणान्नखरोम्नाञ्च गङ्गास्रातफलं लभेत्। मौनव्रतीभवेद्यस्तु तस्याज्ञाऽस्खलिता भवेत्। अयं चातुर्मास्य-व्रतारम्भो गुर्वस्तमयादावपि कार्य्यः। यदाह वृद्ध-गर्गः
“न शैशवन्न मौद्यञ्च शुक्रगुर्वोर्न बालते”।
“खण्डत्वं चिन्तयेच्चादौ चातुर्मास्यविधौ नरः। पादा-भिवन्दनाद्विष्णोर्लभेद्गोदानजं फलम्। भूमो भुङ्क्तेसदा यस्तु स पृथिव्याः पतिर्भवेत्। नमोनारायणा-येति जपन्यज्ञफलं लभेत्। विष्णुपादाब्जसंस्पर्शाद्दिन-पापात् प्रमुच्यते। पादोदकाभिषेकाद् वै गङ्गास्नानंदिने दिने। पर्णेषु च नरो भुङ्क्ते कुरुक्षेत्रफलं लभेत्। नित्यं शास्त्रसमाख्यानाल्लाकान् यस्तु प्रबोधयेत्। व्यास-स्तुष्यति तस्याशु विष्णु लोकं स गच्छति। कृत्वा प्रेक्ष॰णकं विष्णोर्लोकमप्सरसां लभेत्। तोर्थाम्बुस्नापना-द्विष्णानिर्मलं देहमाप्नुयात्। पञ्चगव्याशनात् पार्थ! चा-न्द्रायणफलं लभेत्। अयाचितेन प्राप्नाति पुत्रान् धर्म्यान-शेषतः। षष्ठान्नकालभोक्ता यः कल्पस्थायी भवेद्दिवि”। षष्ठान्नकालभोक्ता उपवासद्वयान्तरितैकभक्तः
“शिलोञ्छि-लेन भुञ्जानः प्रयागस्नानमाप्नुयात्। विष्णुदेवकुले कुर्य्या-दुपलेपनमार्जने। कल्पस्थायी भवेद्राजा स नरो नात्रसशयः। प्रदक्षिणशत यस्तु करोति स्तुतिपाठकः। हसयुक्तविमानेन स तु विष्णुपुरं व्रजेत्। गीतवाद्य-करो विष्णोर्गान्धर्वं लोकमाप्नुयात्। यामद्वयं जलत्या-गान्न रोगैरभिभूयते। गुडव्रती नरो दद्याढद्भुतं ताम्र॰भाजनम्। सहिरण्यं नृपश्रेष्ठ! लवणस्याप्ययं विधिः”। चतुर्मूर्त्तिचतुर्थीव्रतं विष्णुधर्मात्तराक्तम्
“इदमन्यत् प्रवक्ष्यामिचतुर्मूर्त्तिव्रतं तव। वासुदेवांशकात् जाताः सर्वे देव-गणा नृप!। अधिकेन तु{??}शेन साध्या जातास्तथासुराः। तत्रापि त्ताधिकांशेन चतुरात्मा हरिःस्मृतः। नरी नारायणश्चैव हरिः कृष्णश्च वीर्य्यवान्। चतुरात्माहरिर्जातो गृहधमल्य यादव!। आदित्येषु तु यावुक्तौमित्रारुणसंज्ञकौ। ताबेव नान्यौ जानीहि हरिकृष्णौच यादव। आदित्येषु यावुक्तौ शक्रविष्णू सुरोत्तमौ{??}ताबेव सिद्धसाध्येषु नरनारायणौ पुनः। चैत्रशुक्लचतु-र्थ्यान्तु सोपवासस्तु पूजयेत्। देवेशं चतुरात्मानं वित्तशक्त्या नराधिप!। ब्रतमेतन्नरः कृत्वा पूर्ण्णद्वादशवत्स-रम्। न दुगतिमवाप्नोति मोक्षोपायञ्च विन्दति”। अतुर्युगव्रत विष्णुधर्मोक्तम्
“इदमन्यत् प्रवक्ष्यामि चतुर्युगव्रतंतव। कृतादिकं चतुर्युगं पूजयेत् सुममाहितः। प्रथमे[Page5014-a+ 38] चैत्रशुक्लस्य दिने पूज्यं कृतं युगम्। श्वेतेन वस्त्र-युग्मेन गन्धमाल्यादिना तथा। चैत्रशुक्लसमारम्भे षथ-मेऽहनि पूजयेत्। कृतं शुक्लेन सर्वेण गन्धमाल्यादिनाद्विज!। द्वितीयेऽहनि रक्तेन तथा त्रेतान्तु पूज-येत्। तृतीयेऽहनि पीतेन द्वापरं पूजयेद् बुधः। च-तुर्थेऽहनि कृष्णेन तिष्यं संपूजयेद् युगम्। सिर्द्धार्थकैःकुङ्कुमेन तथैव च हरिद्रया। तथैवामलकैः स्नानमम-सैर्दिवसक्रमात्। क्षीरेण प्राणयात्रान्तु कुर्य्यात् प्रत्यह-मेव च। कृत्वा व्रतं वत्सरमेतदेकं चतुर्युगं मोदतिनाकपृष्ठे। संपूज्य देवं युगमूर्त्तिसंज्ञं चतुर्युगं शास्तिमहीं समग्राम्”। चन्दव्रत वराहपु॰
“चन्द्रव्रतं पञ्चदश्यां शुक्लायां नक्तभो-जनम्। दश पञ्च च वर्षाणि व्रतमेतत् समाचरेत्। अ-श्वमेधसहस्राणि राजसूयशतानि च। इष्टानि तेनराजेन्द्र! एतद्व्रतं समाचरेत्”। पद्मपु॰
“चान्द्रायणञ्चयः कृत्वा हैमञ्चन्द्रं निवेदयेत्। चन्द्रव्रतमिदं प्रोक्तं च-न्द्रलोकप्रदायकम्”। चन्द्ररोहिणीश्यनव्रतं पद्मपु॰
“रोहिणीचन्द्रशयनै सोमव्रतमिहोत्तमम्। तस्मिन्नारायणस्यांशमर्चयेदिन्दुनामभिः। यदा सोमदिने युक्ता भवेत्पञ्चदशी क्वचित्। अथ वा ब्रह्यनक्षत्रं पौर्णमास्यां प्रजायते। तदा स्नानं नरः कु-र्य्यात् पञ्चगघ्येन सर्षपैः”। चन्द्रार्कव्रतं विष्णुधर्मोत्तरोक्तम्
“अमावास्यान्तवेलायां सोप-वासो नरोत्तम!। पक्षद्वये पूजयन्ति चर्न्द्रावेकराशिगौ। आदित्यमष्टदलके शशिनं षोडशारके। आदित्यं सर्व-रक्तेव चन्द्रं शुक्लेन यादव!। माल्यादिना महाभाग!होमयेत् तिलतण्डुलान्। घृतक्षीरयुतान् राजन्!तथार्चयेद्यथाविघि। व्रतान्ते ब्राह्मणेन्द्राय! कनकं प्रति-पादयेत्। रंजतं वा महाभाग! य इच्छेद्भूतिमात्मनः। कृत्वा व्रतं वत्सरमेतदिष्टं दद्याच्च दोपान् विधिवत् प्रभू-तान्। चान्द्रं पदं प्राप्य विवर्द्धते सदा धनान्वितःस्यात् लिदिवे इहैव”। चम्पाषष्ठीव्रतं स्कन्दपु॰
“यदि लभ्येत जीवेऽह्नि दैवेन नृप-सत्तम। षष्ठी भाद्रपदे शुक्ला वैधृतेन् रुमन्विता। वि-शाभा भोमयोगेन सा चम्पेतीह विश्रुता। देवासुर-म{??}ष्याणां दुर्लभा षष्टिहायनी। कृते त्रेतायां पञ्चा-शद्धायनो द्वापरे पुनः। चत्वारिंशत् कलौ त्रिंशद्धायनीदुर्लभा ततः”। [Page5014-b+ 38] चान्द्रायणव्रत ब्रह्मपु॰
“अथ शुक्लचतुर्दश्यां पौषमासे समा-हितः। चान्द्रायणव्रतं मासं ग्राहयेत् सर्वपापजित्। पूर्णेन्दुपौर्णमास्यान्तु पूजयेत् प्रत्यहं जलैः”। चित्रभानुसप्तमीव्रतं भविष्यपु॰
“सप्तम्यां पूज्य ऋक्षेशं चित्र-भानुं दिवाकरम्। रक्तैश्च गन्धकुसुमैर्महदारोग्यमाप्नुयात्”। चैत्रभाद्रमाथतृतीयाव्रतं भविष्योत्तरे
“चैत्रे मासि तृती-यायां दन्तधावनपूर्वकम्। उपवासस्य नियमान् गृह्णी-याद्भक्तिभावतः। अञ्जनं च सताम्बूलं सिन्दूरं रक्तवा-ससी। बिभृयात् सोपवासापि अवैधव्यकर परम्। बिधवा गतिमार्गेण कुमारी च यदृच्छया। कुर्य्यादार्य्यार्च-नविधिं श्रूयतामत्र च क्रमः। विधिर्भाद्रपदे ह्येष सर्वसौ-ख्यप्रदायकः। सप्तधान्यविधानेन शूर्पस्यां पूजयेदुमाम्” चैत्रशुक्लप्रतिपद्विहितं तिलकव्रतम् भविष्यपु॰
“वसन्तेकिंशुकाशोकशोभिते प्रतिपत्तिथिः। शुक्लातस्यां प्रकु-र्वीत स्नानं नियममास्थितः। नारी नरो वा राजेन्द्र!संतर्प्य पिटृदेवताः। नद्यास्तीरे तडागे वा गृहे वातदलाभतः। पिष्टातकेन विलिखेद्वत्सरं पुरुषाकृतिम्। ततः प्रभृत्यनुदिनं तिलकालङ्कृतं मुखम्। धार्य्यं से-वत्सरं यावच्छशिनेव नभस्तलम्। एवं नरो वा नारीवा ब्रतमेतत् समाचरेत्। सदैव पुरुषव्याघ्र! भोगान्भुवि भुनक्त्यसौ”। जयन्तीसप्तमीव्रतं भविष्यपु॰
“माथस्य शुक्लपक्षे तु सप्तमीया त्रिलोचना। जयन्ती नाम सा प्रोक्ता पुण्यापापहरा तथा। उपोष्या येन विधिना शृणुतं पार्व-तीप्रिय! पारणानि तु चत्वारि कथितानि च प-ण्डितैः। पश्चम्यामेकमक्तन्तु षष्ठ्यां नक्तं प्रकीर्त्तितम्। उपवासस्तु सप्तम्यामष्टम्यां पारणम्भवेत्” इत्यादि इदंवर्{??}साध्यम्। जयपौर्णमासीव्रतं भविष्यपु॰
“पौर्णमासी महाराज!सोमस्य दयिता तिथिः पूर्णमासी भवेद् यस्यां पूर्ण-मासी ततः स्मृता। तस्यां तु स्रोतसि स्नात्वा सन्तर्प्यपितृदेवताः। आलिख्य मण्डले सोमं नक्षत्रैः सहितंविभुम्। पूजयेत् कुसुमैर्हृद्यैर्नैबेद्यैर्थृतपाचितैः। शुक्ल-वस्त्रैर्दक्षिणाभिः पूजयित्वा क्षमापयेत्। शाकाहारेणमुन्यन्नैर्नक्तं भुञ्जीत वाग्यतः” इत्यादि। जयापञ्चमीव्रतं भविष्यपु॰
“माहात्म्यमपि वक्ष्यामिं पञ्चम्यास्तवेभारत!। जयेति या च{??}ख्याता ब्रतिना जयदा-[Page5015-a+ 38] यिनो। यस्माज्जया जयाशब्दं कुर्वन्ति व्रतिनो बुधाः। परिपूर्णं व्रतं यस्यां सा ज्ञेया जयपञ्चमी। जया चविजया चैव जयन्ती पापनाशिनी” जया, कार्त्तिक-शुक्लपञ्चमी”। जयावाप्तिव्रतं विष्णुधर्मोत्तरोक्तम्
“आश्वयुज्यामतीतायांप्रतिपत्प्रभृतिक्रमात्। पूर्ववत् पूजयेद्देवं लोकनाथंत्रिविक्रमम्”। पूर्ववदिति रूपावाप्तिव्रतवत्
“त्रिरा-त्र्यन्ते तु कार्त्तिक्यां यद्याद् भक्षणमुत्तमम्। सर्वशस्य-धरङ्कृत्वा शक्त्या रत्नैरलङ्कृतम्। कृत्वा व्रतं भासमिदंयथोक्तं प्राप्नोति लोकं सुचिरं नृवीर। तत्रोष्य कालंसुचिरं मनुष्यः प्राप्नोति सर्वत्र जयं त्रिलोक्याम्”। जयासप्तमीव्रतं भविष्यपु॰
“जया च विजया चैव जयन्तीचापराजिता। महाजया च नन्दा च भद्रा वामाप्रकीर्त्तिता। शुक्लपणस्य सप्तम्यां नक्षत्रं पञ्चतारकम्। यदा भवेत् तदा ज्ञेया जयानामेति सप्तमी”। पञ्चतारक-मिति रोहिण्यश्लेषामघाहस्ताश्च। तस्यां दत्तं हुतंजप्तं तर्पणं देवपूजनम्। सर्वं शतगुणं प्रोक्तं पूजा-ञ्चापि दिवाकर। हंसे हस्त प्रारूढे शुक्ला या स-प्तनी परा”। हंसः सूर्य्यः
“वर्षमेकन्तु कर्त्तव्यं बिधि-नानेन भास्करम्। सौवर्णं कारयेद्भक्त्या द्विभुजं पद्म{??}। पारणत्रितयं तस्यां क्रियते गोपतेः पुरः”। जातित्रिरात्रव्रतं भविष्योत्तरे
“ज्वैष्ठे मासि च कर्त्तव्यंत्रयोदश्यान्तु पाण्डव!। नियमश्च ग्रहीतव्य आचार्य्यानुज्ञया ततः। कृत्वैकभक्तं द्वादश्यामुपवासत्रयञ्चरेत्। मण्डपं कारयेत् तत्र सपताकं मनोहरम्। तत्र जातिःप्रकर्त्तव्या स्वर्णाद्विभवसारतः। रौप्यपुष्पाणि कार्य्याणिवंशपात्रे मिथापयेत्। तत्र देवास्त्रयः पूज्या ब्रह्मविष्णु,महेश्वराः। सपत्नीकाः शुभैः पुष्पैः फलैश्च विविधैस्तथा”। जामदग्न्यद्वादशीव्रतं धरणीव्रतोक्तम्
“वैशाखस्यैवमेवन्तु संक-ल्पविधिना नरः। तद्वत् स्नानं मृदा कृत्वा ततो देवालयंव्रजेत्। तत्राराध्य हरिं भक्त्या एभिर्मन्त्रैर्विचक्षणः। जामदग्न्याय पादौ तु उदरं सर्वधारिणे” इत्यादि। ज्ञानावाप्तिव्रतं विष्णुधर्मोक्तम्
“भगवन्! कर्मणा केन बु-द्धियुक्तो भवेन्नरः। एतदेव मनुष्याणां मनुष्यत्वमुदा-हृतम्”। मार्कण्डेय उवाच।
“चैत्र्यान्तु समतीतायांयावन्मासं दिने दिने। पूर्ववत् पूजयेद्देवं नृसिंहमप-राजितम्”। पूर्ववदिति चैत्रमासोक्तरूपावाप्तिव्रतव-देकभक्तवहिःस्नानभूशव्यादिकं कर्त्तव्यमित्यर्थः।
“होमञ्च[Page5015-b+ 38] प्रत्यहं कुर्य्यात् तथा सिद्दार्थवैर्नृप!। ब्राह्मणान् भो-जयेच्चात्र तथा त्रिमधुरं नृप!”। त्रिमधुरं मधुघृत-शर्कराः
“वैशाख्यां कनकन्दद्यात् त्रिरात्रोपोषितो नरः। ज्ञानावाप्तिप्रदन्त्वेतद्व्रतं बुद्धिविवर्द्धनम्। कृत्वा व्रतंमासमिदे यथोक्तमासाद्य नाकं सुचिरं मनुष्यः। मानु-ष्यमासाद्य तु बुद्धियुक्तो ज्ञानेव युक्तश्च तथा भवेच्च”। ज्येष्ठाव्रत भविष्योत्तरे
“मासे भाद्रपदे शुक्लेपक्षे ज्येष्ठायदा भवेत्। रात्रौ जागरणं कृत्वा गीतवादित्रनिः-स्वनैः। एवंविधविधानेन एभिर्मन्त्रैः सुपूजयेत्। एह्येहित्वं महाभागे! सुरासुरनमस्कृते!। ज्येष्ठे त्वंसर्वदे-वानां मत्समापे सदा भव”। ज्यैष्ठव्रतानि महाभारते
“ज्येष्ठामूलन्तु वै मासमेकभक्तस्तुयः क्षिपेत्। ऐश्वर्य्यमतुलं श्रेष्ठं पुमान् स्त्री वाभिजा-यते”। विष्णुधर्मे
“कृष्णार्पितमना ज्यैष्ठमेकभक्तेनयः क्षिपेत्। अहिंस्रः सर्वभूतेषु वासुदेवपरायणः”। तपश्चरणसप्तमीव्रतं भविष्योत्तरे
“शृणुष्वावहितो भूत्वा यु-धिष्ठिर! तपोव्रतम्। मार्गशोर्षादिमासेषु कर्त्तव्यं भूति-मिच्छता। तस्मिन् स्थितो व्रते विप्रो बह्वृचो वेद-पारगः। ब्रह्मवित् कृष्णसप्तम्यां दद्यादर्घ्यं महीतले। ऋग्वेदवर्गत्रितयं पठित्वा सूर्य्यवल्लभम्” इत्यादि। तपोव्रतं पद्मपु॰
“माथे निशार्द्रवासाः स्यात् सप्तम्यां गो-प्रदो भवेत्। स्वर्गलोकमवाप्नोति तपोव्रतमिहोच्यते”। ताम्बूलसंक्रान्तिव्रतं स्कन्दपु॰ अथान्यां सम्प्रवक्ष्यामि ताम्पू-लाख्यामनुत्तमाम्। विधानं पूर्ववत् कुर्य्याद्धान्यसंक्रान्तिवच्चतत्। ताम्बूलचन्दनाद्यञ्च प्रगृह्याज्ञां द्विजोत्तमात्। यावत् संवत्सुरं पूर्णं रात्रौ रात्रौ ततः षरम्। ता-म्बूलं भक्षयेद् विप्रान् कारयेच्चैव नान्तरम्। वत्स-रान्ते तु कमलं कृत्वा चैव तु काञ्चनम्। पत्रकोशञ्चकुर्वीत तथा पूगीफलालयम्” इत्यादि। तारकद्वादशीव्रतं भविष्योत्तरे
“कथं तत् कृष्ण! कर्त्तव्यंतारकद्वादशीव्रतम्। पापोऽपि सद्गतिं प्राप्तो यत्प्रभा-वात् स्वगध्वज!”। कृष्ण उवाच
“मार्गशीर्षे सिते पक्षेगृहीत्वा द्वादशीव्रतम्। अकृत्तिमे जले स्नानमपराह्णेसमाचरेत्। प्रणम्य भास्करं भक्त्या कृत्वा देवार्चनं तथा”। तिथिनक्षत्रवारव्रतानि कालोत्तरे
“नक्षत्रतिथियोगेन ति-थीनां वारयोगतः। पुनरेव प्रवक्ष्यामि ब्रतानि तुयथास्थितम्। रोहिण्याञ्चाष्टमीयोगो यदा भवतिसौम्यके। विशेषपूजा कर्त्तव्या पुत्रकामेण यत्नतः। पुष्ये[Page5016-a+ 38] शुक्लचतुर्दश्यां गुरुयोगो यदा भवेत्। अथ वा सोम-संयोगो विशेषात् पूज्य शङ्करम्। पायसं घृतसंयुक्तंशिवाय विनिवेदयेत्। धूपदीपोपहाराद्यैः पूर्वबत् पूज-येच्छिवम्। प्राशनन्तु घृत कार्य्यं सर्वकामप्रद व्रतम्। आदित्यरेवतीयोगश्चतुदेश्यां यदा भवेत्। अष्टम्यां वामघायोगो शिवं संपूज्य पूर्ववत्। तिलास्तु प्राशनेशस्ता आदित्यव्रतमीरितम्। आरोग्यं जायते तस्यपुत्रवन्धुगणैः सह। रोहिणीचन्द्रयोगश्च चतुर्दश्यांयदा भवेत्। अष्टम्यां सोमसयोगात् तदा चन्द्रव्रतंचरेत्। प्रागुक्तेन विधानेन शिवं संपूज्य यत्नतः। दधिक्षीरन्तु नैवेद्यं प्राशनं क्षीरमेव च। कीर्त्तिमारोग्य-भैश्वर्य्यं प्राप्नुयान्नानृतं वचः। अश्विनीभौमसंयोगश्चतु-र्दश्यां यदा भवेत्। अष्टम्यां भरणीयोगस्तदा भौम-व्रत चरेत्। सपूज्य परया भक्त्या शिवं पञ्चोपचा-रतः। रक्तोत्पलप्राशनन्तु साम्राज्यं प्राप्नुयाच्छुभम्। रोहिणीबुधसंयोगश्चतुर्दश्यां यदा भवेत्। अष्टम्यांवा समासेन बुधव्रत समाचरेत्। शिवा पूज्या विधा-नेन महास्नानपुरःसरम्। महावर्त्तिसमीपे तु प्राशनंपायसंघृतम्। पुत्रार्थदाराश्च यशो वर्द्धते तस्य नान्यथा। रेवतीगुरुसंयोगश्चतुर्दश्यां यदा भवेत्। अष्टम्यां ति-ष्यसंयोगाद् गुरुव्रतं तदा चरेत्। प्राशनं कपिलाज्यन्तुब्रह्मारससमन्वितम्। वागीशत्वमवाप्नोति व्रतस्यास्यपभाबतः। श्रवणं भार्गवयुतं चतुदश्यां यदा भवेत्। शक्रव्रतं तदा विद्धिपुनर्वस्वष्टमी यदा। संपूज्य पर-मेशानं यथाविभवविस्तरैः। प्राशनं मधु चैवात्र कर्त्तव्यंसंयतात्मना। महाफलमवाप्नोति व्रतस्यास्य प्रभावतः। भरणीशनियोगस्तु चतुर्दश्यां यदा भवेत्। आर्द्रायोग-स्तथाष्टम्यां तदा शनिव्रतं चरेत्। शिवं संपूज्य विधिवत्प्राशनं सस्यमेव च। शनिरेकादशस्थो हि फलं यच्छति शोभनम्। विरुद्ध नश्यते वत्स! तदर्थं व्रत-माचरेत्। हेमकुप्यप्रवालञ्च कम्बलन्तु क्रमेण च। शङ्खञ्च तीक्ष्णलौहञ्च क्रमाद् यत्नन दापयेत्। यथासम्भवतो वत्स! आचार्य्याय प्रयत्नतः”। तिथियुगलव्रत यमस्मृतौ
“द्वेधाष्टम्यौ तु मासस्य च-तुर्दश्यौ तु द्वे तथा। अमावस्यापौर्णमास्यौ सप्तम्यौ-द्वादशाद्वयम्। संवत्सरमभुञ्जानः सततञ्च जितेन्द्रियः। ब्रह्मचर्य्य फलं यच्च यत्फलं सत्रयाजिनाम्। ऋतुगाभिफल यच्च तदवाप्नोत्यभोजनात्” [Page5016-b+ 38] तिन्दुकाष्टमीव्रतं भविष्यपु॰
“ज्यैष्ठे मासि द्विजश्रेष्ठ! शुक्ला-ष्टम्यां त्रिलोचनम्। यः पूजयति देवेशमोशलोकं ब्रज-न्नरः। ज्यैष्ठे मासि तथाषाढे श्रावणे च तथा परे। पूजयेच्चतुरोमासान् नीलोत्पलकदम्बकैः। त्रिपुरान्तकरंशम्भुं त्र्यम्बकान्धकसूदनम्। गन्धानाञ्च कदम्बनपूजयेत् गुग्गुलेन च। टेम्बुरुकफलं विप्र! प्राशयेत्कायशाधनम्” टेम्बुरुकन्तिन्दुकफलम्”। तिलदाहीव्रतं स्कन्दपु॰
“विधिना केन कर्त्तव्यं तिलदाहीव्रतात्तमम्। कस्मित्मासे तिथौ चैव विधिना केनतद्भवेत्” श्रीभगवानुवाच
“पौषमासे च या कृष्णा तिथिरेकादशी शुभा। तामुपोष्य तदा स्नानं कृत्वा नारायणंजपेत्” इत्यादि। तिलद्वादशीव्रतं विष्णुधर्मोक्तम्
“माघमासे तु सम्प्राप्ते आ-षाढर्क्षं भवेद् यदि। मूलं वा कृष्णपक्षस्य द्वादश्यांनियतव्रतः। गृह्णीयात् पुण्यफलदं विधानं तस्य मेशृणु!। देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः। कृष्णनाम्ना तु सम्पूज्य एकादश्यां महामतिः। उपा-षितो द्वितीयेऽह्नि पुनः सम्पूज्य केशवम्। संस्तूयनाम्ना तेनैव कृष्णाख्येन पुनः पुनः। दद्यात्तिलांस्तुविप्राय कृष्णां मे प्रोयतामिति। स्नानप्राशनयोः श-स्तास्तथा कृष्णतिला मुने!। विष्णुप्रीणनमन्त्रैश्च समाप्तेवर्षपारणे। कृष्णकुम्भास्तिलैः सार्द्धे पक्वान्नेन च सं-युताः। छत्रोपानद्युगैः सार्द्धं संवीता रत्नगर्भिणः। ब्राह्मणानां प्रदेयास्ते यथावन्माससंख्याया” इत्यादि। विष्णुधर्मे व्रतान्तरम्
“माघ्यान्तु समतीतायां श्रवणेनतु संयुता। द्वादशी या भवेत् कृष्णा प्रोक्ता सा तिल-द्वादशी। तिलैः स्नानं तिलैर्होमं नैवेद्यं तिलमोदकैः। दीपैश्च तिलतैलेन तथा देय तिलोदकम्। तिलाश्चदेया विप्रेषु तस्मिन्नहनि पार्थिव। उप{??}दिनेराजन्! हातव्याश्च तथा तिलाः। उपोषितनापरेऽह्निहोतव्यश्च विशेषतः। इन्घनञ्च प्रदातव्यं ब्राह्मणेषु तथानघ!। तिलप्रस्थं तदा हुत्वा सोपवासो जितेन्द्रियः। न दुर्गतिमवाप्नोति नात्र कार्य्या विचारणा” इत्यादि। तीब्रव्रत सौरपु॰
“अथात्मचरणौ भित्त्वा शिवक्षेत्रे वसेन्नरः। देहान्ते शिवसायुज्य लभते नात्र संशयः”। तुरगसप्नमीव्रतं विष्णुधर्मोत्तरे
“चैत्रमासस्य सप्तम्यां शुक्ल-पक्षे नराधिप!। गोमयेनोपलिप्ते तु मृदा कुर्य्यात् तुसण्डलम। तत्राष्टपत्रं कमलं कर्चव्यं वर्णकैः शुभै[Page5017-a+ 38] कृतोषवासस्तन्मध्ये भास्करं पूजयेन्नरः। व्रते समाप्तेदातव्यास्तुरगा ब्राह्मणाय तु। प्राप्याश्वमेधस्य फलंयथावल्लोकानवाप्याथ पुरन्दरस्य। उपोष्य राजन्!मुचिरञ्च काल सायुज्यमायाति दिवाकरस्य”। तुष्टिप्राप्तिवृतीयाव्रतं विष्णुधर्मोत्तरे
“तृतीया श्रावणे कृष्णायाच श्रवणसंयुता”। श्रावणोऽत्र पौणेमास्यन्तोमासो ग्राह्यःअतः श्रवणकृष्णवृतीयायाः श्रवणयुक्तत्वं न दुर्घटम्।
“तस्यां संपूज्य गोविन्दं तुष्टिमग्र्यामवाप्नुयात्”। तेजःसंक्रान्तिव्रतं स्कन्दपु॰
“अथान्यां सम्प्रवक्ष्यामि तेजः-संक्रान्तिमुत्तमाम्। संक्रान्तिवासरं प्राप्य स्नानं कृत्वाविचक्षणः। शालितण्डुलसंयुक्तं कारणं कारयेच्छु-भम्। तन्मध्ये दीपकं स्थाप्य प्रज्वलन्तं स्वतेजसा। तन्मुखे मादकं स्थाप्य ब्राह्मणाय निवेदयेत्। अर्घ्यञ्चपूर्ववत् कार्य्यमेकभक्तन्तु पूर्ववत्। संवत्सरे तु संपूर्णेकुर्य्यादुद्यापनं बुधः” इत्यादि। त्रयादशद्रव्यकमप्तमीव्रतं भविष्योत्तरे
“भानोर्दिने सितेपक्षे अतीते चात्तरायणे। सव्रोहिभिस्तिलयवान् सहमाषमुद्गैर्गोधूममांसमधुमैथुनकांस्यपात्रैः। अभ्यञ्जना-ञ्जनशिलातलचूर्णितानि षष्ठीव्रती परहरेदहनीष्ट-सिद्ध्यै। देवान् पितृन् मुनिगणान् सजलाञ्जलीभिःसन्तर्प्य पूज्य गगनाङ्गनहस्तदोपम। हुत्वानले तिल-यवान् बहुशोघृताक्तान् भूमौ स्वपेत् हृदि निधायदिनेशविम्बम्। यानि त्रयोदशदिनैरिह वर्जितानिद्रव्याणि तानि परिहृत्य दिने च षष्ट्याम्। संप्राश्यशुद्धचणकानिह वर्षमेकं प्राप्नोति भारत! पुमान्मनसेप्सितानि”। त्रिगतिसप्तमीव्रतं भविष्यपु॰
“सप्तम्यां शुक्लपक्षे तु फाल्-गुन्यां यो यजेन्नरः। जपेद्बलीति नाम भक्त्या पुनःपुनः। देवार्चनं वाष्टशतं कृत्वैवं तु जपेच्छुचिः। स्नातः प्रस्यानकाले तु उत्थाने स्खलिते क्षुते। पाष-ण्डान्! पतितांश्चैव तथैयान्त्यावसायिनः। नालापयेत्तथा भानुमर्चयेच्छद्धयान्वितः। इदञ्चोच्चारयेद्भानोर्म-नसा ध्यानतत्परः। हंस हंस कृपालो! त्वं अगतीनांगतिर्भव। संसारार्णवमग्नानां त्राता भा दिवाकर। एक प्रसाद्योपवासं कृत्वा नियतमानसः। पूर्वाह्णे एववान्येद्युः सकृत् प्रास्यार्जुनीयकम्” आर्जुनीयक, गोशकृ-द्गाश्रयम्त्रिविक्रषतृतीयाव्रतं विष्णुधर्मोत्तरं
“शुक्लपक्षे तृतीयायां[Page5017-b+ 38] सोपवासो जितेन्द्रियः। मण्डलत्रितयं कुर्य्याद् वर्णकेनपृष्ट्वक् पृथक्। मण्डलं दक्षिणं भागे श्वेतं कुर्य्यात्ततो नरः। रक्तं मध्ये रवेः कुर्य्यात् तादृक्श्वेतं ध्रुवस्यतु। विष्णोः पदत्रयं तेषु पूज्यं स्यात् मण्डलेन तु। भूमौ तु प्रथम पादं द्वितोयं सूर्थभण्डले। तृतीये तुध्रुवे देवे पूजयेत् प्रयतः शुचिः”। व्रतान्तरं विष्णुधर्मोत्तरे
“द्वितोयञ्च प्रवक्ष्यामि शृणु!त्रैविक्रम ब्रतम्। भूमिस्तु प्रथमः पादः अन्तरिक्षंतथा परः। तृतीयो दिवि विज्ञेया देवदेवस्य चक्रिणः। भुवः पतिः स्मृता वह्निरन्तिरिक्षस्य चानलः। दिशां-पतिस्तथा सूर्य्यस्तस्य विष्णोः पदत्रयम्। ज्यैष्ठे-शुक्लतृतीयायां सोपवासा जितेन्द्रिय। कल्ये कूपजलेस्नाता वह्निं संपूजयेन्नरः। एतत् सवत्सरं कृत्वा नर-स्त्रैविक्रमं व्रतम्। सर्वकामसमृद्धस्य यज्ञस्य फलमश्रुतं”। व्रतान्तरं विष्णुधर्मोत्तरे
“वक्ष्यामि ते महाभाग!तव त्रैविक्रमव्रतम्। तृतीय नृपशार्दुल! तन्मेनिगदतः शृणु!। ज्यैष्ठे शुक्लतृतीयायां नरः स-म्यगुपोषितः। भुवः सम्पूजन कुर्य्याद्धूपमाल्यानुलेपनैः। दोपैः रत्नैश्च विविधैर्दद्याद् विप्रेषु दक्षिणाम्। वीज-पूणांनि पात्राणि सहिरण्यानि भक्तितः। पूजैवमन्त-रिक्षस्य मास्याषाढे विधीयते। दक्षिणा तत्र दातव्यातथा वासायुग द्विजे। दिवः पूजा च कर्त्तव्या श्रा-वण प्राग्वदेव तु। छत्रञ्चोपानहं युग्म दक्षिणातत्र दापयेत्। एवं मासत्रयेणेह पारणं प्रथमं भवेत्। मासत्रयेण चान्येन ततो मासत्रये पुनः। ततो मास-त्रये चान्यटवमन्यन्नचान्यथा। विज्ञेथमित्थं धर्मस्य पार-णानां चतुष्टयम्” इत्यादि। त्रिविक्रमत्रिरात्रशतव्रतं विष्णुरहस्ये
“यत्त्विरात्रशतं कुर्य्यात्समुद्दिश्य जनार्दनम्। कुलानां शतमादाय स यातिभवनं हरेः। नवम्यादिसिते पक्षे नरोमार्गशिरस्य च। प्रारभेत त्रिरात्राणां शतं तु विधिवत् ब्रती। श्रद्धधानोजितक्रोधो नित्यस्नायी क्षमान्वितः। अभ्यर्चयेत् सदाविष्णुं कर्मणा मनसा गिरा। अष्टोत्तरसहस्रन्तु शतंवानुदिनं जपेत्। अष्टम्यामेकभक्ताशी दिनत्रयमुपा-वसेत्। एकादश्यां शुचि स्नाती वासुदेवार्चने रतः। द्वा-दश्यां पूजयेद्देवं गन्धमाल्यविलेप्तनैः। नैवेद्यधूपदीपा-र्द्यैर्गीतनृत्यैश्च केशवम्। अनेन विधिना कृत्वा त्रिरा-त्राणां शतं नरः। निर्वापयेत् ततो भक्त्या विशेषबि-[Page5018-a+ 38] धिना व्रतम्। संप्राप्ते कार्त्तिके मासि व्रतमेतदनुत्तमम्”। प्रतिमासं त्रिरात्रद्वयमिति पञ्चाशता मासैः शतंतच्चाधिमासद्वतयोताच्चतुर्भिर्वर्षैरिति कार्त्तिके समाप्तिः। त्रिविक्रमव्रतं विष्णुधर्मोत्तरे
“करोति केशवप्रीत्यै कार्त्तिकंमासमाप्तवान्। पूर्वे वयसि यत्तेन जानताऽजानतापि वा। पापमाचरितं तस्मान् मुच्यते नात्र संशयः। अनेनैव विधानेन मार्गशीर्षेऽपि माधवम्। समर्भ्यर्च्यैकभक्तं वै व-र्णिभ्यो यः प्रयच्छति” इत्युपक्रमे। त्रैमासिकं व्रतमिदं यःकरोति नरेश्वर!। सविष्णुप्रीणनात् पाषैर्लघुभिः परि-मुच्यते। द्वितीये बत्सरे राजन्! मुच्यते चोपपातकैः। तद्वत् तृतीयेऽपि कृतं महाषातकनाशनम्। ब्रतमेत-न्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम्। त्रिभिः संवत्सरै-श्चैव प्रददाति फलं नृणाम्। त्रिभिर्मासैस्त्र्यवस्थाभि-स्त्रिविधात् पातकान्नृप!। त्रीणि नामानि देवस्य मोच-यन्ति त्रिवार्षिकैः। यतस्ततो ब्रतमिदं त्रिविक्रममुदा-हृतम्। सर्वपापप्रशमनं केशवाराधनं परम्”। सौरत्रिविक्रमव्रतं भविष्योत्तरे
“समभ्यर्च्यजगन्नाथं देव-मर्कमथापि वा। एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणा-र्पणम्। करोति भास्करप्रीत्यै कार्त्तिकं मासमाप्तवान्। पूर्वे वयसि यत्तेन जानताऽजानताऽपि वा। पापमाच-रित तस्मान् मुच्यते नात्र संशयः। व्रतमेतन्नरैस्त्रीभि-स्त्रिमिर्मासैरनुष्ठितम्। त्रिभिः संवत्सरैश्चैव प्रददातिफलं नृणाम्। त्रिभिर्मासैस्त्र्यवस्थासु त्रिविधात् पात-कान्नृप!। त्रीणि नामानि देवस्य मोचयन्ति त्रिवार्षि-कात्। यतस्ततो व्रतमिदं त्रिविक्रममुदाहृतम्। सर्व-भूतप्रशमनं भास्कराराधनं परम्”। त्र्यम्बकव्रतं पद्मपु॰
“चतुर्दश्यान्तु नक्ताशी समान्ते गोयुग-प्रदः। स शैवं पदमाप्रोति यजन्त्रैयम्बकं व्रतम्”। दशादित्यव्रतं ब्रह्माण्डपुरा॰
“वक्ष्ये सौरव्रतं पुण्यं दुर्द्दशा-न्तकरं परं। दशाकरं हि भूतानां मनोरथकरं परं। भानुवारे सिते पक्षे दशम्यां चैव नारद!। प्रातः काले-ऽथ मध्याह्ने म्नानं कुर्य्याद्यथाविधि” इत्यादि। दशावतारव्रतं विष्णुपु॰
“एकादश्यां निराहारो द्वादश्यांपुरुषोत्तमम्। अर्चयेद् ब्राह्मणमुखे स गच्छेत्परमं पदम्। एषा तिथिर्व्वैष्णवी स्याद्द्वादशीशुक्लपक्षगा। तस्या-माराधयेद्देवं प्रयत्नेन जनार्दनम्”। दान्यत्थाष्टमोव्रतं भविष्यपु॰
“कार्त्तिके मासि विप्रेन्द्र! पुत्र-कामो नरोसुने!। अष्टम्यां कृष्णप्रक्षस्य पूजयेद्विधिवद्द्विज![Page5018-b+ 38] उमाञ्च तां सतीं देवीं विधियद्ब्रह्मसत्तम!। य एतत् कुरुतेभक्त्या उमामहेश्वर व्रतम्। समैकमेवं विप्रेन्द्र! स यातिपरमां गतिम्”। समैमेकं संवत्सरम्
“चतुर्भिः पार-णैरेवं समैकमेक कीर्त्तितं बुधैः। प्रथमन्तु त्रिभिर्मासैःपारणं कार्त्तिकादिभिः। कार्त्तिके मार्गशीर्षे तु पौषेमासि तथा परे। उन्मत्तकस्य पुष्पैस्तु फलैर्भक्ष्यैरने कशः”। दिवाकरव्रतं भविष्यपु॰
“आदित्यवारं हस्तेन युक्तं गृह्णीतपाण्डव!। ततः प्रत्यादित्यदिनं सप्त वारान् प्रषू-जयेत्। एकभक्तेन नक्ताशी ब्राह्मणान् पूजयेत् दिवा। दक्षिणां तु यथा शक्त्या दद्यात् विप्राय भक्तितः” दीप्तिव्रतं पद्यपु॰
“सन्घ्यादीपप्रदो यस्तु समां तैलञ्चवर्जयेत्। समान्ते दीपकान् दद्याच्चक्रं शृलञ्च काञ्चनम्। वस्वयुग्मञ्च विप्राय स तेजस्वी भवेदिह। रुद्रलोकमवा-प्नोति दीप्तिव्रतमिदं स्मृतम्”। दुर्गन्धदौर्भाग्यनाशनत्रयोदशीव्रतं भविष्योत्तरे
“ज्यैष्ठे मासिसिते पक्षे त्रयोदश्यां युधिष्टिर!। स्रात्वा पुण्यनदीतीयेपूजयेछुभदेशजम्” इत्यादि। दुर्गानवमीव्रतं भविष्यपु॰
“नवम्यां तु सिते पक्षे नियतःसञ्जितेन्द्रियः। मासि चाश्वयुजे वीर! कार्त्तिके का-र्त्तिकोत्तरे। पुष्ये च पूजयेद् दूर्गां जातिपुष्पैर्विधा-नतः। धूपार्थं गुग्गुलं दद्यान्नैवेद्यं गुडपूपकान्। दु-र्गेति नाम जप्तव्यं प्रयतोऽष्टशतं नृप!। माघे चफाल्गुने मासि चैत्रे चैत्रोत्तरे नृप!। शुक्लपक्षे तुअष्टम्यामुपवासपरायणः” इत्यादि वर्षसाध्यम्। दुर्गाव्रतं देवीपु॰
“देवीव्रतं प्रवक्ष्यामि सर्वकामप्रसाधनम्। श्रावणे शुक्लपक्षे तु अष्टम्यां वायुभोजनः। स्नात्वासार्द्धपुटोभूत्वा जितक्रोधः क्रियान्वितः। देवीं सस्नाष्पतोयेन पुनःक्षीरेण वारिणा। ततौ गुग्गुलधूपञ्च सतुरुष्कन्तु दापयेत्” इत्यादि तदवधिवर्षसाध्यम्। दूर्वागणपतिचतुर्थीव्रतं सौरपु॰
“चीर्णमेतद् व्रतं सर्वैः पुरा-कल्पे षडानन!। चतुर्थी या भवेदुक्ता नभोमासस्यपुण्यदा। तस्यां व्रतमिदं कुर्य्यात् कार्त्तिक्यां वा षडा-नन !। गजाननं चतुर्वाहुमेकदत्तं विपाटिनम्। तथा हैमीमथो दूर्वां तदाधारे व्यवस्यिताम्”। तदा-धारे, विघ्नेशासने
“संस्थाप्य विघ्नहन्तारं कलसे ताम्र-भाजने। वेष्टितं रक्तवस्त्रेण सर्वतो भद्रमण्डले। पूज-येच्छुक्लकुसुमैः पत्रिकामिश्च पञ्चभिः। विल्वपत्रमषा-मार्गः शमी दूर्वा हरिप्रिया। सोपोष्या तु सुरश्रेष्ठ![Page5019-a+ 38] ततो राज्यं भविष्यति। सर्वोपहारसम्पन्नं सर्वोप-स्करमाहरेत्। कन्दुपक्वं फलं शाकं लवणं गुडशर्करा। खण्डं वुस्तुम्बरी जीरं धान्यानि विविधानि च। दा-{??}व्यानि रघुश्रेष्ठ! वन्यकानान्तु भक्तितः”। दूर्वात्रिरात्रव्रतं पद्यपु॰
“शृणु! दूर्वात्रिरात्रस्य विधिं कात्-र्स्न्येन सुव्रत!। मासि माद्रपदे चैव शुक्लपक्षे त्रयोदशीम्। त्रिरात्रं समुपोष्यन्तु यावत् पूर्णा तिथिर्भवेत्। उमा-मद्देश्वरं देवं सावित्रीं धर्ममेव च। दूर्वामूले तु संस्थाप्यमण्डपं कारयेत्ततः” इत्यादि। दूवां{??}मीव्रतं भविष्यपु॰
“ब्रह्मन्! भाद्रपदे मासि शुक्ला-{??}म्यामुपोषितः। पूजयेच्छङ्करं भक्त्या यो नरः श्रद्धया-न्वितः। स याति परमं स्थानं यत्र देवस्त्रिलोचनः। गणेशं पूजयेद्यस्तु दूर्कया यो हि तं मुने!। कृत्वोप-वासं सप्तम्यामष्टम्यां पूजयेच्छिवम्। दूर्वासमेतं विप्रेन्द्र!दध्यक्षतफलैः शुभैः”। व्रतान्तरं दूर्वाष्टमीशब्दे दृश्यम्। दवमूर्तिव्रत विष्णधर्भोत्तरोक्तम्
“ईशानञ्च तथा वह्निं विरूपाक्षं समीरणम्। जानीहि यदुशार्दूल! दैवमूर्तिचतु-ष्टयम्। तेषान्तु रूपनिर्माणं कृत्वा तानर्च्चयेद् बुधः। गन्धमाल्यनःस्कारदीपघूपान्नसम्पदा। चैत्रशुक्लेमहाभाग! प्रतिपताभृतिक्रमात्। कौप--नादेय ताडाग-कासारैः स्नानमाचरेत्। दध्ना तिलैर्यवैर्होमो धृतेन चतथा भवेत्। कर्पूरं वुङ्कुमञ्चैव तथैवागुरुचन्दनम्। ब्राह्मणेषु प्रदातव्यं तथा राजन्! दिनक्रमात्। दिनत्रयंतथाऽश्नीयात् सायं प्रातरथार्चितम्। दिनमेकन्तु नाश्नी-यात् व्रतचारी नरे त्तमः। एतत् संवत्सरं कृत्वा व्रतंपुरुषसत्तम। सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते”। देवव्र त पद्मपु॰
“नक्तम{??}दञ्च{??}त्वा तु गवा सार्द्धं कुटु-म्बिने। हैमञ्चक्र त्रिशूलञ्च दद्या{??}दृप्राय वाससी। प्रणम्य मक्त्या शक्रश्च प्रियतां शिववेशवौ। एतद्देवव्रतंनाम महापातकनाशनम्। यस्तु संवत्सरं पूर्णमेक-{??}क्तो भ{??}न्नरः। अहिंसः सर्वभूतेषु बासुदेवपरायणः। नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत्। पौण्डरिकस्ययज्ञस्य ततः फलमवाप्नुयात्। दश वर्{??}सहस्राणि स्वर्गलोकेमहीयते। तत्क्षयादिह चागत्य माह त्म्यं प्रतिप-द्यते”। कालोत्तरे व्रतान्तरं
“वृहस्पति{??}घायोगश्चतुर्दश्यांयदा मवेत्। उषोष्य पूजयेत्तस्यां देवदेवं महेश्वरम्। महास्नानप्रकारेण महावर्त्तिपुरःसरम्। अङ्गरागश्च-न्दनेन शुक्लपुष्पैः प्रपूजयेत्। धूपस्तु सफलो देयः मधुना[Page5019-b+ 38] चन्द्रसंयुतः। सितवस्त्राणि वस्तञ्च आचय्याय प्रदाष-येत्। जातीफलैः प्राशनञ्च रात्रौ जामरणं हितम्। एतद्देवव्रतं नाम आयुःश्रीकीर्तिवर्द्धनम्”। देवीव्रतं पद्मपु॰
“पयोव्रतं पञ्चदश्यां व्रतान्ते गोयुगप्रदः। लक्ष्मोलोकमवाप्नोति देवीवतमुदाहृतम्” देवीपु॰ व्रतान्तरं
“क्षीराशी कार्त्तिके यस्तु देव्या भक्तिरतो नरः। शाक-पाचकनक्ताशी प्रातःस्नायी शिवारतः। पूजयेत्तिलहोमस्तुमधुक्षीरघृतादिभिः। कार्य्यस्तु देवीमन्त्रेण शृणु पुण्य-फलं हरे” इत्यादि। द्वादशसप्तमीव्रतं भबिष्योत्तरे
“माथमासात् समारभ्य शुक्ल-पक्षे युधिष्ठिर! सप्तन्यां कृतसङ्कल्पो वंषमेकं व्रती भवेत्” मासभेदे नियमभेदास्तत्रोक्ता दृश्या॰। द्वाढशसाध्यतृतीयाव्रतं विष्णुधर्मोत्तरे
“मनोऽनुमन्ता प्राणश्चनरयानश्च वीय्यवान्। वित्तिर्हयो नयश्चैव हंसोनारायणस्तथा। प्रभवो विष्णुर्विश्वश्च साध्या द्वादश ज-ज्ञिरे। तृतीयायां महाभाग! पूजयेत्तानुपोषितः”। प्रत्येकतृतीयायां यावद्वर्षं सोपवास इति शेषः। द्वादशादित्यव्रतं विष्णुधर्मोत्तरे
“धाता मित्रोऽर्यमा पूषाशक्रोऽंशोवरुणोभगः। त्वष्टा विवस्वान् सबिता विष्णु-र्द्वादशकस्तथा। पूजयेद् द्वादशादित्यान् शुक्लपक्षे उपो-षितः। भार्गशीर्षादथारभ्य द्वादश्यां नियतव्रतः”। द्वादशीव्रतं कूर्मपु॰
“एकादश्यां निराहारो द्वादश्यां पुरु-षोत्तमम्। अर्चयेद् ब्राह्मणमुखे स गच्छेत्परमं पदम्। एषा तिथिर्वैष्णवी स्याद् द्वादशी शुक्लपक्षगा। तस्यामा-राधयेद्देवं प्रयत्नेन जनार्दनम्”। द्वीपव्रतं विष्णुधर्मोत्तरे
“अथातः संप्रवक्ष्यामि द्वीपव्रतमनु-त्तमम्। चैत्रशुक्लात्तथारभ्य प्रत्यहं दिनसप्तकम्। जम्बू-शाककुशक्रौञ्चशाल्मलिद्वीपसंज्ञितम्। गोमेदं पुष्कर-ञ्चैव प्रत्यहं पूजयेत् क्रमात्। नित्यमेव मृदा स्नानं बहि-रेव समाचरेत्। अधःशायी भवेन्नित्यं तदेव दिनसप्त-कम्” इत्यादि। धनसंक्रान्तिव्रतं स्कन्दपु॰
“धनमंक्रान्तिमाहात्म्यं शृणु स्कब्द!विधानतः। यत्कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः। संक्रान्तिवासरं प्राप्य शुचिर्भूत्वा समाहितः। कलशंनिर्व्रणं गृह्य वारिपूर्ण निधापयेत्। सुवर्णयुक्तन्तं कृत्वाप्रेतिमासन्तु दापयेत्। विधिनानेन वर्षान्ते प्रीयतां{??}दिवाकरः”। धनावाप्त्रित धमेत्तिरोक्तम{??}गवन्! कर{??} केन धनवान्[Page5020-a+ 38] पुरुषो मवेत्। पुत्रवान् देवलोकेषु पूज्यो भवति मानवः”। इति प्रश्ने
“श्रावण्यं समतीतायां प्रतिपत्प्रभृति क्र-मात्। पूर्बवत् पूजयेद्विष्णुं देवं सङ्कर्षणं विभुम्” इत्यादि। धन्यव्रतं वराहपु॰
“अथातः सम्प्रवक्ष्यामि धन्यव्रतमनु-त्तम!। येन सद्यो भवेद्धन्यो ह्यधन्योऽपि हि यो भवेत्। मार्गशीर्षेऽमले पक्षे प्रतिपद् या तिथिर्भवेत्। तस्यांनक्तं प्रकुर्वीत रात्रौ विष्णुञ्च पूजयेत्” इत्यादि। धराव्रतं पद्मपु॰
“यो विंशतिपलादूर्द्ध्वं महीं कृत्वा तु का-ञ्चनीम्। दिनं पयोव्रतं दद्याद्रुद्रलोके महीयते। धरा-व्रतमिदं प्रोक्तं सप्तकल्पशतानुगम्”। दिनं देवानामुत्त-रायणम्। पयोव्रतमित्यनन्तरं कृत्वेत्यनुसङ्गः। रुद्रो दे-वता धरादानं पारणम्” इत्यादिधर्मव्रतं विष्णुधर्मोत्तरे
“शुक्लपक्षे दशम्यां तु सोपवासस्तुभानवः। धर्मं सम्पूजयेद् देवं सर्वलोकसुखावहम्”। धान्यव्रतं स्कन्दपु
“अथातः संप्रवक्ष्यामि धान्यव्रत-मनुत्तमम्। यत् कृत्वा हि नरो राजन्! सर्बकामान-वाप्नुयात्। अयने विषुवे चैव स्नानं कृत्वा विचक्षणः। व्रतस्य नियमं कुर्य्याद्ध्यात्वा देवं दिवाकरम्। रविन्ध्यात्वाततो दद्याद्धान्यप्रस्थं द्विजातये। प्रतिमासं पुनस्तद्वत्पूज्यो देवः सहस्रपात्। एवं सदा प्रदातव्यं धान्यप्रस्थंद्विजन्मने। एवं संवत्सरे पूर्णे कुर्य्यादुद्यापनक्रियाम्”। धान्यसप्तमीव्रतं भविष्यपु॰
“संपूज्य सितसप्तम्यां भानुं धा-न्यानि सप्त च। ददाति नक्तभुक् गार्हं लवणेन सम-ग्वितम्”। गार्हं गृहस्योपकरणम्
“स तारयति सप्ता-न्यान् कुल्यानात्मानमेव च। सुत! धान्यव्रतं नामव्रतं धान्यसुखप्रदम्”। धामत्रिरात्रव्रतं पद्मपु॰
“त्रिरात्रोपोषितो दद्यात् फाल्गुन्यांभवनं शुभम्। आदित्यलोकमाप्तोति धामव्रतमिदं स्मृ-तम्”। धाराव्रतं भविष्योत्तरोक्तम्
“चैत्रारम्भात् पिषंस्तोयञ्जलधारांप्रपातयेत्। वर्षान्ते घृतसंपूर्णान्दद्याद्वर्द्धनिकां नवाम्। एतद्धाराव्रतं नाम सर्वोद्वेगहरं परम्। कान्तिसौभाग्यजननं सपत्नीदर्प्यनाशनम्”। जीनवमीव्रतं भविष्योत्तरे
“पौषस्य शुक्लपक्षे तु नवमी श-ङ्करी श्रुता। तस्यां स्नात्वा शुभैः पुष्पैरर्चनीयाहरेः स्वसा। कुमारी भगवान् देवी सिंहस्यन्दनगामिनी। ध्वजान् नानाविधान् कृत्वा पुरतस्तञ्च पूज-येत्। मालतोकुसुमैर्दीपैर्गन्धधूपविलेपनैः। बलिभिः[Page5020-b+ 38] पशुभिर्षेध्यैः सुरामांसस्रगिन्धनैः। दधिचन्दनचूर्णैश्चफलैश्चानग्निपाचितैः। देवीं स्वर्णमयीं कृत्वा सिंहा-रूढां चतुर्भुजाम्। खड्षशक्तिधरां शूलधरां नेत्र-त्रयान्विताम्”। (पूजयेतु)ध्वजव्रतं विष्णुधर्मोत्तरोक्तम्
“चैत्रे तु प्रत्यहं मासि गरुडंपूजयेन्नरः। पीतेन गन्धनैवेद्यमाल्यवस्त्रादिना द्विज!। वैशाखे च तथा मासि तालं संपूजयेत्सदा। नीलेनगन्धनैवेद्यमाल्यवस्त्रादिना द्विज!। ज्यैष्ठे च प्रत्यहंमासि मकरं पूजयेत् सदा। श्वेतेन गन्धनैवेद्यमाल्यवस्त्रा-दिभिर्द्विज!। ऋष्यं संपूजयेद्देवं मास्याषाढे यथा-विधि। रक्तेन गन्धनैवेद्यमाल्यवस्त्रादिना द्विज!। बहिः स्नानं तथा कुर्य्याद्वह्निसंपूजनं तथा। नित्यञ्चकुर्य्याद्धर्मज्ञ! तथा ब्राह्मणभोजनम्। पारणार्थे तथा कु-र्य्यान्नक्तं तैलविवर्जितम्। अधःशावी तथा च स्याद् ब्रह्म-चारी सदा भवेत्। व्रतमेतन्नरः कुर्य्यात् सम्यङ्मासचतुष्टयम्। ब्राह्मणान् पूजयेच्छक्त्या आषाढे चरमेऽ-हनि। वस्त्राण्युक्तानि धर्मज्ञ! दद्याद्विप्रेषु दक्षिणाम्। कृत्वैकं पारणं राजन्! स्वर्गलोके महोयते। द्वितीयंपारणं कृत्वा शक्रलोके महीयते। तृतीशं पारणं कृत्वाब्रह्मलोके महीयते। कृत्वा तूर्य्यं पारणन्तु रुद्रलोकेमहीयते। विष्णुलोकमवाप्नोति कृत्वा द्वादशपारणम्। ध्वजव्रतं द्वादश वत्सराणि कृत्वा नरा भार्गववंशसुख्य!। सायुज्यभायाति जनार्दनस्य देबस्य विष्णोः परमेश्वरस्य”। नक्तचतुर्थीव्रतं स्कन्दपु॰
“विनायकचतुर्थ्याख्य व्रत व-क्ष्यामि तेऽनघ!। धन्यं यशस्यमायुष्यं समीहितफल-प्रदम्। बिव्नापशमनायालं सर्वसिद्धिप्रदायकम्। प्रियंगणपतेर्नित्यमृषिभिश्चाप्युपासितम्। मार्गशुक्लचतुर्थ्यान्तुग्राह्यं व्रतमिदं महत्। नक्ताहारेण विप्रेन्द्र। तिलान्नंपारणं स्मृतम्। तदेव वह्नौ होतव्यं ब्राह्मणाय ददेत्सदा। नद्यां नदे वा तैवेद्यं विघ्नराजाय संयमी। पू-जयेत्। गणपतिं रात्रौ गन्धेः पुष्पैयथाक्रमम्” नक्षत्रपुरुषव्रतं भत्स्यपु॰
“नक्षत्रपुरुषं नाम परं नाराय-णार्चनम्। पादौ हि कुर्य्याद्विथिवद्विष्णुनामानि की-र्त्तयेत्। प्रतिमां वासुदेवस्य मूलर्क्षाद्यभिपूजयेत्। चैत्र-मास समासाद्य कृत्वा ब्राह्मणवाचनम्। मूले नमो विश्व-धराय पादावनन्तदेवाय च रोहिणीषु। जङ्घे च पूज्येवरदाय चैव द्वे जानुनी चाश्विकुमारकर्क्षे। पूर्वोत्तराषा-ढयुगे च पादौ नमा शिवायेत्यमिपूजनीय्यु” इत्य{??}द। [Page5021-a+ 38] नक्षत्रार्थव्रतं देवीपु॰ अतःपरं प्रवक्ष्यामि रूपसौभाग्यका-रकम्। नक्षत्रविधिगा वत्स! यथा तुष्यति शङ्करी। मृगादारभ्य मूलेन पादौ जातिस्रजा पुरा। पूजयेत्सो-पवासस्तु नक्षत्रान्ते तु पारणम्। यवान्नं हविषा सिद्धंब्राह्म्ये जङ्घे प्रपूजयेत्” इत्यादि। नदीव्रतं विष्णुधर्मोत्तरे
“चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्त-कम्। ह्रदिनीं ह्रादिनीञ्चैव पावनीं चैव पूजयेत्। सोतांचेक्षुं तथा सिन्धुं तथा भागोरथीं क्रमात्। वहिःस्नानंतथा कुर्य्यान्नित्यं नक्ताशनो भवेत्। जले च जुहुयात्क्षीरं शान्तात्मा च दिने दिने। क्षीरपूर्णाश्च दातव्यावारिधान्यो द्विजातिषु। क्षीराशनश्च तिष्ठेत तत्तथादिनसप्तकम्। एवं संवत्सरं कृत्वा पूर्णे संवत्सरे नरः। द्विजातिषु ततो दद्याद्रजतस्य पलं शुभम्। फाल्गुन-स्यासिते पक्षे सप्तम्यां दिवसे क्रमात्। तं लोकमवाप्नोतिनरो यत्र पायसकर्दमाः” इत्यादि। नन्दव्रतं विष्णुधर्मोत्तरे
“शुक्लपक्षे महाराजं त्रयोदश्यामु-पोषितः। फाल्गुनात्तु समारभ्य नित्यं संपूजयेन्नरः”। महाराजन्तु धनदम्।
“गन्धमाल्यनमस्कारदीपधूपा-न्नसम्पदा। सुवर्णं ब्राह्मणेन्द्राय व्रतान्ते प्रतिपादयेत्। कृत्वा व्रतं वत्सरमेतदिष्टं पक्षेषु राजन्! सुचिरं ह्यु-पोष्य। मानुष्यमासाद्य धनान्वितः स्यात् सौभाग्ययुक्तश्चतथा विरोगः”। नन्दादिव्रतं भविष्योत्तरे
“यस्त्वादित्यग्रहेशस्य वारोदेवस्य सुव्रतः। पूजयेत् स प्रियो नित्यं ख्यातो गोश्रुति-भूषणः (शिवः)। यस्तु संपूजयेन्नित्यं पतङ्गं पन्नगाधिपम्। गन्धपुष्पादिधुपैस्तु स्तोत्रैर्वा विविधैस्तथा। सोपबासोगणश्रेष्ठ! आदित्यग्रहणे शुचिः। जपमानो महाश्वेतांस्वशाखोक्तग्रहाधिपम्। ब्राह्मणान् भोजयित्वा तु ततोभुञ्जीत वाग्यतः। आदित्यग्रहयुक्तेऽस्मिन् वारे त्रिपुर-सुदनः। तत्र कर्म कृतं पुण्यं तत्सर्वं शुभदं भवेत्”। नन्दाव्रतं देवीपु॰
“मासे नभसि संप्राप्ते नक्ताहारो जिते-न्द्रियः। प्रातःस्नायी सदाध्यायी अग्निकार्य्यपरायणः। देवीं संपूजयेद्वत्स! बिल्वपुन्नागचम्पकैः। धूपन्तु गुग्गुलदद्यान्नैवेद्यं घृतपाचितम्। क्षीरान्नं दधिभक्तञ्च अथवाशाकयावकम्। जपञ्च कुर्य्यान्मन्त्रस्य सहस्रमथवा श-तम्। देव्यास्तत्र समर्प्ये तत् यावत् पूर्णं व्रतम्भवेत्”। नन्द सप्तमीव्रतं भविष्योत्तरे
“या त भार्गशिरे मासि शुक्ल-पक्षे तु सप्तमी। नन्दा सा कथिता वीर! सर्वानन्द-[Page5021-b+ 38] करी शुभा। पञ्चम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकी-र्त्तितम्। सप्तम्यामुपवासञ्च कीर्त्तयन्ति मनीषिणः। मालतीकुसुमानीह सुगन्धं चन्दनं तथा। कर्पूरा-गुरुसंमिश्रं धूपञ्चात्र विनिर्दिशेत्। दध्योदनं सखण्डञ्चनैवेद्यं भास्करप्रियम्। तदेव दद्याद्विप्रेभ्यो ह्यश्रीयाच्चस्वयं यथा”। नयनप्रदसप्तमीव्रतं भविष्यपु॰
“यो मार्गशीर्षे सितसप्तमे-ऽह्नि हस्तर्क्षयोगे जगतः प्रसूतिम्। संपूज्य भानुंविधिनोपवासो स्रग्गन्धधूषान्नवनोपहारैः। गृहीतगव्यंप्रतियत्नपूजादानादियुक्तं ब्रतमव्दमेकम्” इत्यादि। नरकपूर्णिमाव्रत विष्णुधर्मोत्तरोक्तम्
“प्रतिमासन्तु नामानिपञ्चदश्यां जगत्पतेः। कृतोपवासः सुस्नातः पूजयित्वाजगद्गुरुम्। उञ्चारयन्नरोयाति सुमुखेनैव गच्छति। यद्वा मासगतं नाम प्रीयतामिति कीर्त्तयेत्। केशवंमार्गशीर्षे तु पौषे नारायणं तथा। माघवं माघमासेतु गोविन्दमपि फाल्गुने। चैत्रे विष्णुञ्च वैशाखे की-र्त्तयेन्मधुसूदनम्। ज्यैष्ठे त्रिविक्रमं देवं तथाषाढेच वामनम्। श्रीधरं श्रावणे मासि हृषोकेशं ततः-परम्। नाम भाद्रपदे तद्वत् ज्ञायते पुण्यकाङ्क्षिभिः। तद्वदश्वयुजे मासि पद्मनामेति कीर्त्तयेत्। दामोदरंकार्त्तिके च सर्वान्तरति दुर्गतिम्। एवं मासक्रमे-णैव यदि दातुं न शक्यते। तदा संवत्सरस्यान्ते दद्या-च्चैव समागतम्”। नरसिंहचतुर्दशीव्रतं नरसिंहपु॰
“वैशाखशुक्लपक्षे तु च-तुर्दश्यां समाचरेत्। मज्जन्मसम्भवं पुण्यं व्रतं पाप-प्रणाशनम्। वर्षे वर्षे तु कर्त्तव्यं मम सन्तुष्टिकार-कम्। महागुप्तमिदं श्रेष्ठमानुषैर्भवभीरुभिः। तेनैवक्रियमाणेन सहस्रद्वार्दशीफलम्। जायते मत्सस्वावच्मि मानुषाणां महात्मनाम्। स्वातोनक्षत्रयागेनशनिवारेण संयुते। सिद्धियोगस्य संयोगे वाणिजे करणेतथा। पुण्यसौभाग्ययोगेन लभ्यते दैवयोगतः। सर्वै-रैतेस्तु संयुक्तं हत्याकोटिविनाशनम्। एतदन्यतरेयोगे तद्दिनं पापनाशनम्। केवले तत् प्रकर्त्तव्यं म-द्दिने व्रतमुत्तमम्। अन्यथा नरकं याति यावच्चन्द्रदि-वाकरौ। यथा यथा प्रवृत्तिः स्यात्पातकस्य कलौ युगेतथा तथा प्रणश्यन्ति तदव्रतस्य प्रभावतः। मद्व्रतस्यप्रभावेन मतिर्न स्याद् दुरात्मनाम्। विचार्य्येत्थं प्रक-र्त्तव्यं माधवे मासि मद्व्रतम्”। [Page5022-a+ 38] नरसिंहत्रयोदशीव्रतं नरसिंहपु॰
“गुरुवारे त्रयोदश्यामप-राह्णे जलप्लुतः। तर्पयित्वा देवपितृन् ऋषींश्च तिलतण्डुलैः। नरसिंहं समर्भ्यर्च्य यः करोत्युपवासकम्। सर्वपापविनिर्मुक्तोविष्णुलोके महीयते”। नरसिंहव्रतं गरुडपु॰
“अथाष्टमीव्रतं ब्रह्मन्! प्रोच्यमानमिदंशृणु!। भवविध्वं सनं नॄणां सर्वार्त्तिहरणं परम्। राजा वा राजपुत्रो वा यदि चेद्रिपुनाशनम्। तदा-ष्टम्यान्तु सुस्नातो यवाशञ्च पकारयेत्। कुर्य्यादष्टदलंपद्मं तण्डुलैर्वा प्रसूनकैः। कर्णिकायामथेशानं नर-सिंहाकृतिं स्मात्” इत्यादि। नवम्याद्युपासव्रत मत्स्यपु॰
“नवमी चाष्टमी चैव पौर्णमासीचतुर्दशी। यो भुङ्क्ते देवि। नैतेषु सुपर्वसु नरः समाम्। गाणपत्यं स लभते निःसपत्नमनिन्दितम्”। नवरात्रिव्रतं देवीपु॰
“सौभाग्यार्थं स्त्रिया कार्य्यमाद्यैश्चघनकाङ्क्षिभिः। महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठि-तम्। कर्त्तव्यं देवराजेन्द्र! देवीभक्तिसमन्वितैः। क-न्यासंस्थे रवौ शक्र! शुक्लादारभ्य नन्दिकाम्”। नन्दिकाम्प्रतिपदम्
“यवाशीत्यथवैकाशी नक्ताशीत्यथ वा पुनः। प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः। जपहोम-समासक्तः कन्यका भोजयेत् सदा। अष्टम्यां नवगेहानिदारुजानि शुभानि च। एकं वा द्वित्रिभागेन कार-येत् सुरसत्तम!। तस्मिन् देवी प्रकर्त्तच्या हैमी वाराजती च वा। युद्धकालक्षणोपेतखडगशूलेन पूज-येत्। सर्वोपहारसम्पन्नवस्त्ररत्नफलादिभिः। कार-येद्रथदोलादिपूजाञ्च वलिदैविकीम्” इत्यादि। नागदष्टोद्धरणपञ्चमीव्रतं भविष्योत्तरे
“उपोष्य पञ्चमीं सम्यक्नागानां बलबर्द्धनम्। स्वमैकमेकं यावच्च विधानं शृणुभारत!। समैकं संवत्सरम्
“मासि भाद्रपदे राजन्!शुक्लपक्षे तु पञ्चमी। सापि पुण्यतमा प्रोक्ता ग्राह्यासौगतिकाम्यया। चतुर्थ्यामेकभक्तञ्च तस्यां नक्तं प्रकी-र्त्तितम्”। तस्यां पञ्चम्यामुपोष्येति दिवा भोजनवर्ज-नात्
“कुर्य्याच्चान्द्रमसं नागमथ वा कलधौतजम्। अथ दारुमयं भव्यं मृण्मयं वाप्यशक्तितः। चान्द्र-मसं सौवर्णं कलधौतजं रूप्यभयम्। पञ्चम्यामर्चयेद्द्भ्यक्त्या नागं पञ्चफणन्तथा। करवीरैस्तथा पद्मैःजातीपुष्पैः सुगन्धिभिः। गन्धैर्धूपैः सनैवेद्यैः स्नाप्यक्षोरादिभिर्नृप!। ब्राह्मणान् भोजयेत्पश्चात् धृत-पायसमोदकैः। अनन्तं वासुकिं शङ्खं पद्मं कम्बल-[Page5022-b+ 38] मेव च। तथा कर्कोटगं नागं नागमश्वतरं नृप!। धृतराष्ट्रं शङ्खपालं कालियं तक्षकं तथा। पिङ्गलञ्चमहामागं मासि मासि क्रमाद् यजेत्”। नागपञ्चमीव्रतं भविष्यपु॰
“नागानिष्ट्वा तु पञ्चम्यां न वि-षैरभिभूयते। स्त्रियं च लभते पुंत्रं परमां श्रियमा-प्नुयात्। मूलमन्त्राः स्वसंज्ञाभिरङ्गमन्त्राश्च कीर्त्तिताः। पूर्ववत् पद्मपत्रस्थः कर्त्तव्यश्च तिथीश्वरः”। तिथी-श्वरोऽत्र नागः गन्धपुष्पापहारश्च यथाशक्ति विधीयते। पूजाऽशाठ्येन शाठ्येन कृतापि तु फलप्रदा। आज्यधा-रासमिद्भिश्च दधिक्षीरान्नमाक्षिकैः। पूर्वोक्तफलदो होमोयतः शान्तेन चेतसा। एतद्व्रतं वैश्वानरप्रातपद्वतवद्व्याख्येयम्”। नागव्रतं कूर्मपु॰ कार्त्तिकशुक्लपक्षमुपक्रम्य
“तिथौ युगाह्वया-यान्तु समुपोष्य यथाबिधि। शङ्खपालादिनोगानां शे-षस्य च महात्मनः। पूजा कार्य्या पुष्पगन्धक्षीराप्या-यनपूर्वकमिति”। युगाह्वयायाञ्चतुर्थ्यां प्रातर्मध्याह्नव्यापिन्याञ्च कर्तव्यम्” तथा च स्कन्दपुराणे
“प्रात-र्मध्यन्दिने तत्र तत्रोपोष्य फणीश्वरान्। क्षीरेणाप्याय्यपञ्चम्यां पारयेत् प्रयतो नरः। विषाणि तस्य नश्यन्ति-न तं हिंसन्ति पन्नगाः”। नानाफलपूर्णिमाव्रतं विष्णुधर्मोत्तरे
“प्राप्य पञ्चदशीं राम!तथा शुक्लाञ्च कार्त्तिकीम्। आरामगृहभित्तिं वै उमे-शौच समालिखेत्। तस्य द्वारि गृहे चाशु नानावर्णैस्तुवर्णिकम्। गृहोपकरणे शक्त्या तयोश्चैवाभितो लिखेत्। पीतं यद्वाससाच्छाद्य सकटीमुखनासिकम्। ततस्तौपूजयेन्नारी स्नात्वा भर्त्तृपरा शुचिः”। नामतृतीयाव्रतं भविष्योत्तरे
“उपवासस्य नियमं गृ-ह्णीयात् भक्तिभाविता। देवीं संवत्सरं यावत् तृतीया-यामुपोषिता। प्रतिमासं करिष्यामि पारणञ्चापरे-ऽहनि। तदविघ्नन मे यातु समाप्तिं व्रतमुत्तमम्। शरणं त्वां प्रपन्नास्मि दौर्भाग्यादुद्धरस्व माम्। एवं स-ङ्कल्प्य विधिवत् कौन्तेय! कृतनिश्चया। भक्त्या नारीध्यानपरा स्नान कृत्वा जितेन्द्रिया। नद्यां तडागेवाप्या वा गृहे वा नियतेन्द्रिया। पूजयेत् पार्वतींनाम्ना रात्रौ प्राश्य कुशोदकम्। प्रभाते भोजयेत्विप्रान् शिवभक्तान् विशेषतः। पौषे मासे त्रतीयायांनिरिजां नाम पूजयेत्। गोमूत्रं प्राशयेद्रात्रौ प्रभाते भो-जवेद् द्विजान्” इत्यादि। भविष्यपु॰ व्रतान्तरम
“गौरी

१ [Page5023-a+ 38] काली

२ उमा

३ भद्रा

४ दुर्गा

५ कान्तिः

६ सरस्वती

७ । म-ङ्गला

८ वैष्णवी

९ लक्ष्मीः

१० शिवा

११ नारायणी

१२ क्रमात्। मार्गतृतीयामारभ्य पूजयेत् स्वर्गभाक् भवेत्”। मार्गशीर्ष-तृतीयामारभ्य प्रतिमासमेकैकेन नाम्ना पूजयेदित्यर्थः
“अर्द्धनारीश्वरं रुद्रमथ वा उमाशङ्करम्। पूजयेद्विधि-वन्नारी अवियोगमवाप्नुयात्”। नामद्वादशीव्रतं विष्णुरहस्ये
“मार्गशीर्षे शुभे मासि शुक्ल-पक्षे यतव्रतः। प्रथमञ्चैव गृह्णीयात् द्वादशीं विधि-वन्नरः। कारयेच्च हरेर्यज्ञमाचार्य्याद्यैर्विधानतः। अर्च-यित्वा हरिं तत्र लब्ध्वानुज्ञां द्विजन्मनः” इत्यादि। नामनवमीव्रतं भविस्यपु॰
“नवम्यां शुखपक्षे तु कृते नक्तेविशेषतः। मासि चाश्वयुजे वीर! दुर्गादेवीति पूजयेत्। विल्वपत्रैस्तथाद्भिश्च द्रोणपुष्पैस्तु सर्वशः। गुग्गुलेनाथदुग्धेन भक्ष्यभोज्यैरनेकशः। परमान्नेन रत्नेन महि-षाजैर्विघातितैः। सम्प्रीणनं तथा कुर्य्याद्देव्या वै भक्ति-माचरन्। भोजयित्वा नवम्यां तु ब्राह्मणानां तु क-न्यकाः। ब्राह्मणानां सुस्त्रियश्च यथा भवति शक्तितः। पञ्चगव्यं ततः प्राश्य नक्तं भुञ्जीत वाग्यतः। य एवंपूजयेदत्र दुर्गां भक्त्या समन्वितः। सोऽश्वमेधसह-स्रस्य फलं प्राप्य दिवं व्रजेत्। कार्य्यमाश्विनवत् सर्वंकार्त्तिकेऽपि हि सत्तम!। कृत्वोपवासमष्टम्यां मासिमार्गशिरे नृप!। नवम्यां पूजयेद्वस्तु शक्त्या भगवतींबुधः” इत्यादि। वर्षसाध्यमिदम्। नामसप्तमीव्रतं भविष्योत्तरे
“चैत्रात् प्रभृति कर्त्तव्यासर्वदा नामसप्तमी। घातेति मधुमासे तु पूजनीयोदिवाकरः। अर्य्यमेति च वैशास्वे ज्यैष्ठे मित्रः प्रकी-र्त्तितः। आषाढे वरुणो ज्ञेय इन्द्रो नभसि कथ्यते। विवस्वांश्च नभस्ये तु पर्जन्योऽश्वयुजि स्मृतः। पूषाकार्त्तिकमासे च मार्गशीर्षे तु कथ्यते। भगः, पौषेविवस्वांश्च त्वष्टा माथे तु कथ्यते। विष्णुस्तु, फाल्गुनेमासि पूज्यो वन्द्यश्च भास्करः। सप्तम्यां चैव सप्तम्यांभोजयेद्भोजकान् बुधः”। निक्षुभार्कसप्तमीव्रतं प्रथमं भविष्यपु॰
“सूर्य्यभक्ता तु यानारी ध्रुवं सा पुरुषो भवेत्। स्त्री चैवाप्युत्तमं नाथंयत् कृत्वा लभते शृणु। निक्षुभार्कब्रतं भानोःसदा प्रीतिविवर्द्धनम्। अवियोगकरं वीर! धर्मका-मार्थसाधकम्। सप्तम्यामथ षष्ठ्यां वा संक्रान्तौ भानवेदिने। हविषा हविषा होमं सोपवासः समाचरेत्। [Page5023-b+ 38] निक्षुभार्कस्य चैवार्च्चां कृत्वा स्वर्णमयीं शुभाम्। रा-जतीं वाथ वाक्षीं वा स्नापयेच्च घृतादिभिः”। निक्षुभासूर्य्यपत्नी तया सहितोऽर्कः। द्वितीयम्
“या नार्य्यु-पवसेदेवं कृष्णामेकान्तु सप्तमीम्। सा गच्छेत् परमंस्थानं भानोरमिततेजसः। वर्षान्ते प्रतिमां कृत्वा शा-लिपिष्टमयीं शुभाम्। पीतानुलेपनैमांल्यैः पीतवस्त्रैःप्रपूजयेत्। पूर्वोक्तं निखिलं कृत्वा भास्कराय निवेदयेत्। सर्वभूमौ महीपालो घातुचामीकरप्रभः। वर्षकोटिसह-स्राणि सूर्य्यलोके महीयते”। तृतीयम्
“सप्तम्यां यानिराहारा भवेदव्दनियन्त्रिता। गजं पिष्टमयं कृत्वावर्षान्ते विनिवेदयेत्। विधाय राजतं पद्मं सुवर्णकृत-कर्णिकम्। भक्त्या विन्यस्य तत्पृष्ठे सर्वं पूर्ववदाचरेत्। कामतोऽपि कृतं पापं भ्रूणहत्यादि यद्भवेत्। तत् सर्वंगजदानेन क्षीयते नात्र संशयः”। चतुर्थम्
“कृष्णपक्षेतु माघस्य सप्तम्यां या दृढव्रता। वर्षैकमुपवासेन सर्व-भोगविवर्जिता। वर्षान्ते सर्वगन्धोत्थं निक्षुभार्कं नि-वेदयेत्”। निर्जलैकादशीव्रतं भविष्योक्तम्
“वृषस्थे मिथुनस्थेऽर्केशुक्ला ह्येकादशी भवेत्। ज्यैष्ठे मासि प्रयत्नेन सोपोष्याजलवर्जितैः। स्नाने चाचमने चैव वर्जयित्वोदकं बुधः। उपभुञ्जीत दैवाद्यद्व्रतभङ्गोऽन्यथा भवेत्। उदयादु-दयं यावद्वर्जयित्वा जलं बुधः। अप्रयत्वादवाप्नोति द्वा-दश्यां द्वादशीपरः। ततः प्रभाते विमले द्वादश्यां खा-{??}माचरेत्। जलं सुवर्णं दत्त्वा तु द्विजातिभ्यो यथा-विधि। मुञ्जीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशौ। एवं कृते तु यत् पुण्यं भीमसेन! शृणुष्व तत्। संवत्स-रस्य या मध्ये एकादश्यो भवन्त्युत। तासां फलमवा-प्नोति अत्र मे नास्ति संशयः”। नीराजनद्वादशीव्रतं भविष्योत्तरे
“कार्त्तिके शुक्लपक्षस्य द्वा-दश्यां रजनीमुखे। समुत्थिते विनिद्रे तु देवे दामो-दरे तथा। दोषान्ते नरमालाभिरम्ये स्त्री वा नुर-न्तिके। जनयित्वा नवं विष्णुं हुत्वा मन्त्रैर्द्विजो-त्तमैः। सार्द्धमानतपुष्पाभिर्दीपिकाभिर्हुताशनम्। कृत्वामहाजनाः सर्वे हरिं नीराजयेच्छनैः। पुष्पैरभ्यर्चितंदेवं समालभ्य च चन्दनैः। बदरैः कर्वरैश्चैव त्रपुसै॰रिक्षुभिस्तथा। गन्धैः पुष्पैरलङ्कारैर्वस्त्रैरत्नैश्च पूजितैः। तस्यैवानुगतां लक्ष्मीं ब्रह्माणं चण्डिकां तथा। आ-दित्यं शङ्करं गौरीं यक्षं गणपतिं ग्रहान्। मातरः[Page5024-a+ 38] पितरो गावः सर्वा नीराजयेत् क्रमात्। गवां नीरा-जनं कुर्य्यात् महिष्यादेश्च मण्डचम्। भ्रामयेत्त्रास-येच्छब्दैर्घण्टावादनच्छादनैः”। नृसिंहद्वादशीव्रतं धरणीव्रतोक्तम्
“तद्वत्तु फाल्गुने मासिकृष्णपक्षे तु द्वादशी। उपाष्या प्रोक्तविधिना हरिमा-वाहयेद् बुधः। नरसिंहाय पादौ तु गोविन्दायो-दरं तथा। कटिं विश्वभुजे तद्वदनिरुद्वाय चोदरम्। कण्ठन्तु शितिकण्ठाय पिङ्गकेशाय वै शिरः। असुर-ध्वं सनायेति चक्रवोध्रात्मने तथा। शङ्खमित्येव सम्पूज्यगन्घपुष्पफलैस्तथा। रत्नगर्भं घटे स्थाप्य तं संपूज्य वि-धानतः। द्वादश्यां वेदविदुषे ब्राह्मणाय निवेदयेत्। एवं कृते फलं प्राप्तं यत् पुरा पार्थिवेन च” इत्यादि। पक्षसन्धिव्रतं पद्मपु॰
“प्रतिपद्येकभक्ताशी सामन्ते कपि-लाप्रदः। वैश्वानरपुरं याति व्रतं वैश्वानरन्त्विदम्। पृथिवीं भाजनं कृत्वा यी भुङ्क्ते पक्षसन्धिषु। अहो-रात्रेण चैकेनातिरात्रफलमश्नुते”। पञ्चघटपूर्णिमाव्रतं भविष्योत्तरे
“पञ्च पञ्चदशीः स्थित्वा एक-भक्तेन मानवः। संपूज्य पूर्णिमां देवीं लिखितां चन्द-नादिना”। पूर्णिमाप्रतिमा तु प्ररिभाषायां द्रष्टव्या।
“ततः पञ्च घटान् पूर्णान् पयोदधिघृतेन च। मधुनासितखण्डेन ब्राह्मणायोपपादयेत्। मनोरथान् पूरयस्वयथा त्वं पूर्णिमा ह्यसि। पञ्चकु म्भप्रदानेन भूतानांतुष्टिरस्तु मे। द्विजानेवं नमस्कृत्य सर्वान् कामानवा-प्नुयात्। एतत् पञ्चवटं नाम व्रतं तुष्टिप्रदायकम्”। पञ्चपिण्डिकागौरीव्रतं स्कन्दपु॰ मागरख॰
“नभस्ये च सितेपक्षे तृतीयादिवसे स्थिते। प्रातरुत्थाय पश्चाच्च भक्ष-येत् दन्तधावनम्। ततश्च नियम कुर्य्यादुपवाससमुद्भद्भवम्। गौरीनाम समुच्चार्य्य अद्धापूतेन चेतसा। ततोनिशागमे प्राप्ते कृत्वा गौरीचतुष्टयम्। मृण्मयं यादृ-शञ्चैव तदिहैकमनाः शृणु!। एका गौरो प्रकर्त्तव्यापञ्चपिण्डा यथाचिता। प्रहरे प्रहरे प्राप्ते तासु पूजांरेत्”। समाचपञ्चमहापापनाशनद्वादशोव्रतं भविष्यपु॰
“यत् कृत्वा मुच्यतेलन्तर्प्रहतः पञ्चपातकात्। पञ्चपातकिनः प्रेतान्पित्{??}स्तारयते तथा। निशाकृदाप्यायनश्च पूर्णिमादेवताइमाः। अगन्नाथो महीधारी देवेन्द्रो देवकोसुतः। चतुर्भुजो गदापाणिः सुरभीशः सुलोचनः। सर्व-{??}तश्चक्रपाणिः शूरश्चाप्यसुरान्तकः। श्रीशश्च द्वादश[Page5024-b+ 38] इमा देवताः परिंकीर्त्तिताः। स्वाहाकारान्वितैरेतैश्च-तुर्थ्यन्तैश्च नामभिः। श्रावणादौ देवतानां पूजां चकुरुते व्रती। श्रावणादेव कुर्वीत द्वादश्यां परिकीर्त्तिता। पूर्णिमायान्तु देवेभ्यः पायसञ्जुहुयात्ततः। अमावास्यांदेवतानां तिलमुद्गगुडोदकम्। पञ्च रत्नानि देयानि पञ्च-पातकशान्तये। पञ्चम्र्त्तिं स्वर्णमयीं पञ्चामृतसमन्वि-ताम्। भोजयेद् ब्राह्मणान् राजन्! पञ्चद्वादशसंख्यया”। पञ्चमहाभूतपञ्चमीव्रतं विष्णुधर्मोक्तम्
“अतःपरं प्रवक्ष्यामिपञ्चमूर्त्तेस्तथार्चनम्। पृथिव्यापस्तथातेजो वायुराकाश-मेव च। एता वै देवदेवस्य कथिताः पञ्च मूर्त्तयः। चैत्रे तु पञ्चमीं शुक्लां समासाद्य विचक्षणः। सोप-वासो हरिं देवं पञ्चात्मानं समर्चयेत्। पञ्चमण्डलकाःकार्य्याः पञ्चभिर्वर्णकैः पृथक्। पार्थिवं मण्डलं कार्य्यंनीलवर्णं महीपते!। वारुणञ्च तथा श्वेतं रक्तमा-ग्नेयमिष्यते। पीतं भवति वायव्यं कृष्णमाकाशदैवतम्। समानवर्णगन्धैश्च पुष्पैस्तानर्चयेत् पृथक्। शक्त्या चधूपदीपान्नैर्यथालाभमरिन्दम!। यवैर्माषैस्तिलैश्चैव घ्व-पायसेन च”। तेनपञ्चमूर्त्तिव्रतं विष्णुधर्मोत्तरे
“अथापरं प्रवक्ष्यामि पञ्चमूर्त्ति-व्रतं तव। शङ्खचक्रगदापद्मं पृथिवीञ्च महाभूज!। गन्धैर्मण्डलिकां कृत्वा पञ्च पञ्चसु पूजयेत्। चैत्रशुक्लादिमां प्राप्य पञ्चमीप्रमृतिं नरः। सोपवासो वहिःस्नात-स्तथा शुक्लाम्बरः शुचिः। गन्घमाल्यनमस्कारदीपधूपा-न्नसम्पदा। सर्वेषां पूजनं कृत्वा जुहुयाज्जातवेदमि। सर्वेषामेव देवानां नामभिस्तु तथा गृहान्। ब्राह्मणान्भोजयेच्चात्र तदा च सुरभोजनम्। संवत्सरमिदं कृत्वाव्रतान्ते वस्त्रपञ्चकम्। पञ्च वेदविदां दद्यात् पञ्चवर्णंनराधिप!। व्रतेनानेन चीर्णेन राजसूयफलं लभेत्”। पञ्चाग्निसाधनरम्भातृतीयाव्रतं भविष्योत्तरे
“भद्रे कुरुष्वयत्नेन रम्भाब्रतमनुत्तमम्। मनोऽभिलषित काम येनप्राप्नोति शङ्करम्। ज्यैष्ठशुक्लतृतीयायां स्नाता नियमतत्-परा। कुरु! पार्श्वेषु पञ्चाग्नोन् ज्वालामालाकुला-कृतीन्। नार्हपत्यं दक्षिणाग्निं सम्यकाहवनीय-कम्। पञ्चमं भास्करं तेज इत्येते पञ्च बह्नयः। इ-त्येषां मध्यमा भूत्वा तिष्ठ पूर्वसुखी सती। चतुर्मुखंध्यायमानं पङ्कजापरिसंस्थितम्। मृगाजिनच्छन्नकुचांजटावल्कलधारिणोम्। सर्वामरणसम्पन्नां देवीमभि-मुख कुम। ” [Page5025-a+ 38] पत्रव्रतं मविष्योत्तरे
“ताम्बूलभक्षणादौ या गौरापत्रंददाति च”। गौरीपत्रं ताम्बूलपत्रम्
“पूगचूर्णसमा-युक्तं स्त्रियो वा पुरुषस्य वा। वर्षस्यान्ते तु सौवर्णंफलपत्रन्तु राजतम्। मुक्ताफलमयं चूर्णं सम्पूर्णं वाप्रयच्छति। न सा प्राप्नोति दौर्भाग्यं न दौर्गन्ध्यंसुखस्य वा। एतत्पत्रव्रतं नाम गौरीलोकप्रदायकम्”। पदार्थव्रतं विष्णु धर्मोत्तरे
“शुक्लपक्षे दशम्यां तु सोपवास-स्तिथा नरः। मार्गशीर्षे तथारभ्य यावत् संवत्सरं भवेत्। गन्घमाल्यनमस्कारधूपदीपान्नसम्पदा। दिक्पालपूजनंकुर्य्यात् दिशां संपूजनं तथा। गां वत्सरान्ते दद्याच्च तथैवच पयस्विनीम्। ब्राह्वणाय महाभाग! तथा च मनु-जोत्तम!। एतद्व्रतं नरः कृत्वा यत्र क्वचन गच्छति। तत्रेष्टं काममाप्नोति पुत्रेष्टिफलमश्नुते। वाणिज्यसक्तश्चनरः ससिद्धिं यायात् तथान्यां विजीगीषवश्च। विद्या-र्थिनो वा रिपुनाशनं वा हितं पदार्थव्रतमेतदिष्टम्”। पद्मनाभद्वादशीव्रतं
“तद्वदाश्वयुजे मासि द्वादशीं शुक्लपक्षिणोम्। सङ्कल्प्याभ्यर्चयेद्देघं पद्मनाभं सनातनम्। प-द्मनाभाय पादौ तु कटिंवै पद्मयोनये। उदरं सर्वदे-वाय पुष्कराक्षाय वै उरः। अव्यपाय तथा बाहू प्राग्व-दस्राणि पूजयेत्। प्रभवाय शिरः पूज्य प्राग्वदग्रे घटंन्यमेत्। तस्मिन् हेममयं देवं पद्मनाभं तु विन्वसेत्”। पद्मनाभस्तु दक्षिणाधोहस्तादारभ्य सव्येन च शङ्खपद्मग-दाचक्रधारी कार्य्यः”। पयोव्रतं पद्मपु॰
“वर्षमेकं भवेदयस्तु पञ्चदश्यां पयोव्रतः”। पञ्चदश्यामित्यमावास्यायां पुराणान्तरसंवादात्
“समान्तेश्राद्धकृद् दद्यात् यञ्च पञ्च पयस्त्रिनीः। वासांसि चपिशङ्गानि जलकुम्भयुतानि च। स याति वैष्णवं लोकंपितॄणां तारयेच्छतम्। जन्मान्तरे भवेद्राजा! पयोव्रत-मिदं स्मृतम्”। पर्वनक्तव्रतं भविष्यपु॰
“योऽव्दमेकं प्रकुर्वीत नक्तं पर्वणिपर्वणि”। पर्व पञ्चदशी ब्रह्मचारी जितक्रोधः शि-वाचेनरतः सदा। वत्सरान्ते च विप्रेन्द्र! शिवभक्तान्समाहितान्। भोजयित्वा ततो ब्रूयात् प्रीयतां भग-वान् प्रभुः। एवंविधिसमायुक्तः शिवलोकञ्च गच्छति” पवगाजनव्रतं पद्मपु॰
“पृथिवीभाजने भुङ्क्ते नित्य प-वसु यो नरः। अतिरात्रफलं देवि! अहोरात्रेणविन्दति”। पृथिवीभान्नने भूमाबन्नं निधायेत्यर्थः शिवो-ऽत्र देवता”। [Page5025-b+ 38] पातालव्रतं विष्णुधर्मोत्तरे
“चेत्रमास दथ रभ्य कृष्णपक्षेदिने दिने। पातालपूजनं कुर्य्यात् प्रतिपत्प्रभृति-क्रमात्। रौक्षं भौमं स्निग्धभौमं पातालं नीलमृत्ति-कम्। रक्तभौमं पीतभोम श्वेतकृष्णमृदावपि। सुवर्णै-र्गन्धमाल्यैश्च नैवेद्येन च भूरिणा। घृतदोपप्रदानेनवह्निसन्तर्पणेन च। एवं नक्ताशनः कृत्वा व्रतं संवत्-सरं सदा। व्रतावसाने दद्यात् तु दीपकान् द्विज-वेश्मसु”। पात्रव्रतं नरसिंहपु॰
“उपष्यैकादशीं शुक्लां माषमामेऽथपूर्णिमान्। कुर्य्याद्विधिमिमं सम्यक् सदा तस्य व्रजेत्-पदम्। तद्द्विरूपप्रदञ्चैतद व्रत सौभाग्यदायकम्। पु-त्रदं वेश्मदञ्चैव विधिना चरितं त्विदम्। व्रतस्यास्यप्रवक्तारं समयुक्तं गुणान्वितम्। पूजयेद्भूमिकामोऽथपादुकाद्यैः सुभावितः। रुक्मप्राज्ययुतञ्चाथ पात्रं नी-लाञ्च गामपि। अभावे च तथा हेम्रः कर्षार्द्धेन तुराजतम्। वस्त्रयुग्मं नवं सूक्ष्मं पुष्पप्रकरचित्रितम्। आश्रित्य तत्र तत् पात्रं शुचौ देशे निवेशयेत्। ततोजागरणं कुर्य्यात् गोतवाद्यादिमङ्गलैः। प्रभाते तु नये-त्पात्रं हरेरायतनं महत्। स्नाप्य क्षीरादिभिर्देवंविष्णुं सम्पूज्य वै स्वयम्। निवेदयेत् तु तत्पात्रं प्रीय-तामित्युदीरयेत्”। पापनाशनीसप्तमीव्रतं भविष्यपु॰
“शुक्लपक्षस्य सप्तम्यां यदाऋक्षङ्करो भवेत्। तदा पुण्यतमा प्रोक्ता सप्तमी पाप-नाशिनी”। करो, हस्तः अयं हि योगो बहुलेश्रावणे मासि सम्भवति।
“तस्यां सम्पूज्य देवेशं चित्र-मानुञ्जगद्गुरुम्। सप्तजन्मकृतात्पापान्मुच्यते नात्र सं-शयः। यश्चोपवासं कुरुते तस्यां नियतमानसः। सर्व-पापनिर्मुक्तः सूर्य्यलोके महीयते। दानं यद्दीयते कि-ञ्चित् समुद्दिश्य दिवाकरम्। होमो वा क्रियते तत्रतत् सर्वञ्चाक्षयं भवेत्। करर्क्षा सप्तमी कृष्णा तेनोक्तापापनाशिनी। अस्यां समभ्यर्च्य रविं याति सौमनसंपुरम्”। पापमोचनव्रतं सौरपु॰
“विल्ववृक्षं समाश्रित्य द्वादशाह-ममोजनम्। यः कुर्य्याद् भ्रूणहात् पापान्मुक्तो भवतिनारद!”। पापात्त्राणसक्रान्तिव्रतं स्कन्दपु॰
“वक्ष्यात्यपाषसंक्रान्तिं शृणुस्कन्द! चिधानतः। संक्रान्त्यां नियतो भूत्वा तिलैःश्वेतैः समन्वितैः। करक वर्द्धमानञ्च प्रतिमासं निवे[Page5026-a+ 38] दयेत्”। वर्द्धमानः शरावः।
“मन्त्रेणानेन तु स्ना-याद्भक्तिभावसमन्वितः। तिलो माम्पातु पापेभ्यस्तव देवप्रसादतः। त्वञ्च मां रक्ष देवेश! वाङ्मनःकायकल्म-षात्। उद्यापने च देवस्य सौवर्णमाषकेण तु। द्वि-भुजा प्रतिमा कार्य्या रजतेनाथ कारयेत्”। प्रालीचतुर्दशीव्रतं भविष्योत्तरे
“मासि भाद्रपदे पक्षे शुक्ले-भूततिथऔ नृप!। तदा भक्त्या प्रदातव्यं वरुणाया-र्घ्य मुत्तमम्। ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैस्त्रीभिस्तथैवच। फलपुष्पैस्तथा वस्त्रेर्दीपालक्तकचन्दनैः। विरूढैःसप्तधान्यैश्च दधिपिष्टाम्बुचन्दनैः। अनग्निपाकसिद्धैस्तै-स्तिलतण्डुलमिश्रितैः। खर्जूरैर्नारिकेलैश्च बीजपूर्णावृपै-स्तथा”। आतृपं (आता) फलविशेषः
“द्राक्षादाडिमपू-गैश्च पुष्पैश्चापि प्रपूजयेत्। संरुद्धशुद्धसलिलातिबलां वि-शालां पालीमुपेत्य बहुभिस्तनुभिः कृतालोम्। ये पूजयन्तिवरुणं सहितं समुद्रे तेषां गृहे भवति भूतिरनर्थगाधा”। पाशुपतव्रतं बह्निपु॰
“शिबं ये पूजयिष्यन्ति दानं दास्यन्तिसुव्रताः। सवेपावविनिर्मुक्ता दिवमेष्यन्ति ते द्विजाः। यथा पशुपतिर्नित्य हत्वा सर्बमिदं जगत्। न लि-प्यते पुनः सोऽपि यो नित्यं व्रतमाचरेत्। इह जन्मकृतं पापं पूर्वजन्म कृतञ्चयत्। व्रतं पाशुपतं नामकृत्वा हन्ति द्विजोत्तम! द्वादश्यामेकभक्ताशी त्रयोदश्या-मयाचितम्। चतुर्दश्यां तथा नक्तं उपवासं परेऽहनि”। कालसंहितोक्तम्
“रहस्यं यत् प्रवक्ष्यामि{??}र्वपापनिकृ-न्तनम्। ब्रतं पाशुपतं श्रेष्ठं मया च शिरसि (वेदे)श्रुतम्। कालश्चैत्रपौर्णमासी देशः शिवपरिग्रहः!क्षेत्रारामादिरन्यो वा प्रशस्तः शुभलक्षणः। तत्र पूर्व-त्रयोदश्यां सुस्नातस्तु कृताह्निकः। अतुलार्थं समा-चर्य्य संपूज्य प्रणिपत्य च। पूजां स्वशाणिकीं कृत्वाशुक्लाम्बरधरः स्वयम्। शुव्लयज्ञोपवीती च शुक्लमा-ल्यानुलेपनम्। दर्भासने समासीनो दर्भमुष्टिं प्रगृह्यच। प्राणायामत्रयं कृत्वा प्राङ्मुखोवाऽप्यु दङ्मुखः। ध्यात्वा देवञ्च देवीञ्च भूतविज्ञानवर्त्मना। ब्रतमेतत् करो-मीति भवेत्सङ्कल्प्य दीक्षितः। यावत् शरीरपातञ्चद्वादशाव्दमथापि वा। तदर्द्धं वा तदर्द्धं वा मास-द्वाशकन्तु वा। तदर्द्धं वा तदर्द्धं वा मासमेकमथापिबा। दिनद्वादशकं वाथ व्रतसङ्कल्पनं विधिः”। व्रतान्तरंमलव्यपोहनं लिङ्ग पु॰
“कृत्वा कनीयसं लिङ्गं स्नाप्यचन्दनवारिणा। चैत्रमासादि विप्रेन्द्राः शिवलिङ्गव्रतं[Page5026-b+ 38] शुभम्। कृत्वा हैमं शुभं पद्मं कर्णिकाकेसरान्वितम्। नवरत्नैस्तु खचितमष्टपत्रं यथाविधि। कर्णिकायांन्य-सेल्लिङ्गं स्फाटिकं पीठसंयुतम्। तत्र भक्त्या यथा-न्यायमर्चयेद्बिल्बपत्रकैः”। पितृव्रतं विष्णुधर्मोत्तरे
“अतःपरं प्रवक्ष्यामि सप्तमूर्त्तिव्रतंतव। चैत्रमासादथारभ्य प्रतिपत्प्रभृति क्रमात्। सुभा-स्वरा वर्हिषदोऽप्यग्निष्वात्तास्तथैव च। क्रव्यादापहता-श्चैव आज्यपाश्च सुकालिनः। पूजयेत् प्रत्यहं राजन्!गन्धमाल्यानुलेपनैः। नैवेद्यं कृशरं कुर्य्यात् तिलानग्नौच होमयेत्। कृशरं भोजयेद्विप्रान् तिलान् दद्याच्चदक्षिणाम्। नक्ताशनस्तथा तिष्ठेद्धविष्याशी नराधिप!संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तम!। व्रतावसानेदद्यात्तु रजतस्य फलं द्विजे। व्रतेनानेन चोर्णेन सप्त-लोकगतिर्भवेत्। त्रिदशैः पूज्यमानस्तु कामचारीविहङ्गमः”। पिपीतकीद्वादशीव्रतं ति॰ त॰ उक्तं वैशाखशुक्लद्वादश्यां कार्य्यम्। पुण्डरीकप्राप्तिव्रतं विष्णुधर्मोत्तरे
“द्वादश्यां देवदेवेशं षू-जयित्वा जलाधिपम्। पुण्डरीकमवाप्नोति वरुणं याद-साम्पतिम्”। पुत्रकामब्रतं पद्मपु॰
“नमस्यमासस्य तु पौर्णमास्याम्। भार्य्याद्वितीयः सहसा य एव पुत्रेष्टिमादौ स्वगृहेऽपिकृत्वा। गच्छ्रेत्ततः सर्वसमृद्धियुक्तो होमैः सजाप्यैर्व-लिना च रुदूम्। शैलेन्द्रकन्यागजवक्त्रयुक्तम् सद्भावशक्त्याप्यथ वार्च्चयित्वा। संपूज्य विप्रानथ देवपूर्वान् कृतोप-वासो जितरोषदोषः। ततः सहायानपि भोजयित्वाभार्य्याञ्च पश्चात् स्वयमत्र भुङ्क्ते। तृप्ताञ्च भार्य्यामथगोपयित्वा प्रदक्षिणीकृत्य गुहां सुगुह्याम्। गृहांस्तुगच्छेत्परिपूर्णकामो वृषः प्रहृष्टः कृतभोजतश्च। क-थाश्च दिष्यास्त्वथ नन्दिनीश्च भार्य्यां ततः श्रावणयोःप्रयुक्ताम्। क्षीरोदनं त्रिदिनं भोजयेच्च बन्ध्याञ्च भार्य्या-मपि पुत्रकामाम्। ततो गृहे सर्वसमृद्धिकामः सन्तर्प्यभार्य्यां प्रयतो विधाय। उमां शिवं नन्दिनं चार्चयित्वाततो भवेत् पुत्रवती च बन्ध्या”। व्रतान्तरं वृश्चिकसंक्रान्त्यांकार्त्तिकपूजारूपम्। पुत्रप्राप्तिषष्ठीव्रतं विष्णुधर्मोत्तरे
“वैशाखमासादारभ्य पञ्चम्यांय उपोषितः। भवन्तं पूजयेत् षष्ठ्यां{??}वत्सरमतन्द्रितः। पुत्रार्थी प्राप्नुयात् पुत्रान् धनकामो धनी भवेत्। स्वर्गार्थी प्राप्नुयात् स्वर्गमपि तुष्टो तमात्मजः। स्तोत्रेण[Page5027-a+ 38] च मदीयेन ये स्तोष्यन्ति नराः प्रभो!। लोकद्वयेऽपि तेकामान् प्राप्नुवन्ति मनःप्रियान्। कुमारश्च तथा स्कन्दोविशाखश्च गुहस्तथा। चतुरात्मा विनिर्दिष्टो भगवान्क्रौञ्चसूदनः। तमभ्यर्च्च्य नरः षष्ठ्यां पुत्रान् प्राप्नोत्य-भीप्सितान्”। पुत्रप्राप्तिव्रत देवीपु॰
“ब्रह्मणा यो विधिः शक्रे कथितोविजयावहः। जयेति पूर्णिमा तात! श्रावणस्य शुभा-वहा”। शक्र उवाच
“विजया या समाख्याता सर्वकामप्र-सिद्धये। तामहं श्रोतुमिच्छामि तत्त्वतः सुरस-त्तम!”। ब्रह्मोवाच
“पुत्रार्थं राज्यविद्यार्थं यशः-सौभाग्यतोऽपि वा। विजयार्थं ग्रामकामो जयां कु-र्वीत पूर्णिमाम्। हैमं वा राजतं वापि खड्गं वाअथ पादुके। प्रतिमां वापि कुवींत सर्वलक्षणसंयुताम्”। शाङ्कर्य्या इति शेषः
“तामादाय शुभे ऋक्षे शुक्लवस्त्रवि-भूषिताम्। यवशाल्यङ्कुरोपेतां पानपात्रविभूषिताम्। दीवीं सुशोभनां वस्त्रैः कल्पयेत्तत्र विन्यसेत्”। पुत्रसप्तमीव्रतं वराहपु॰
“मासि भाद्रपदे प्राप्ते शुक्लपक्षे सुरे-श्वरः!। सप्तम्यामुषवासेन पुत्रप्राप्तिप्रद ब्रतम्। षष्ट्यांचैव सुसंकल्प्य सप्तम्यां पूजयेद्धरिम्”। पुत्रीयब्रतं विष्णुधर्मोत्तरे
“प्रौष्ठपद्यामतीतायां कृष्णपक्षा-ष्टमी तु या। सोपवासोनरोऽष्टम्यां योषिद्वा तनया-र्थिनी। स्नाता सरसि धर्मज्ञा तोयेऽवाप्यथ सारसे। पूजनं वासुदेवस्य यथा कुर्य्यात्तथा शृणु!”। पुत्रीयसप्तमीब्रतं विष्णुधर्मोत्तरे
“मार्गशीर्षे शुभे मासिशुक्लपक्षे द्विजोत्तम!। पुत्रीयां सप्तमीं राम! गृह्णीयात्प्रयतः शुचिः। अथ वा पुत्रकामश्च विधिना येन तत्शृणु”। पुत्रीयां पुत्रदाम्।
“हविष्याशी शिरःस्नानंकृत्वा भास्करपूजनम्। अधःशायी द्वितीयेऽह्नि गोवृषा-णोदकेन तु। स्नात्वा संलिप्य च तथा शुभे देशे तुमण्डलम्। तत्राष्टपत्रकमलं विन्यसेत् वर्णकैः शुभैः। तस्यैव कर्णिकामध्ये भास्करं चन्दनेन तु। रक्तेन पूज-येद्देवं गन्घमाल्यानुलेपनैः”। पुत्रोत्पत्तिव्रतं आदित्यपु॰
“कुरु संवत्सरं स्नानं श्रवणे श्रवणेमुने! सोऽपि पुत्रानवापाष्टौ चकार श्रद्धयान्धितः। पाराशर्य्यः सुतं लेभे व्रतस्यास्य प्रभावतः। एवमन्योऽपिराजेन्द्रस्तावत् सिद्धिमवाप्नुयात्। पुत्रान् पौत्रांश्च लभतेसुखञ्चात्यन्त{??}श्नुते”। पुरश्चरणसप्तमीव्रतं स्कन्दपु॰ नागर{??}ण्डे
“माथमासे वरे पक्षे[Page5027-b+ 38] मकरस्थे दिवाकरे। सप्तम्यां सूर्य्यवारेण व्रतमेतत् समा-चरेत्। पाषण्डैः पतितैः सार्द्धं तस्मिन्नहनि वर्ज्जयेत्। क्षपायत्वा नृपश्रेष्ठ! प्रभाते दन्तधावनम्। मन्त्रेणानेनपानाच्च कर्त्तव्यो नियमो नृप!। पुरश्चरणकृत् पापात्सप्तम्यां दिवसाधिप!। उपवासं करिष्यामि अद्य त्वंशरणं मम। ततोऽपराह्णसमये स्नात्वा धौताम्बरः शुचिः। प्रतिमां पूजयेद्भक्त्या दिनाधिपसमुद्भवाम्। रक्तैः पुष्पै-र्महावीरपादौ सम्पूजयेत्ततः”। पुष्पद्वितीयाब्रतं भविष्यपु॰
“कार्त्तिके शुक्लपक्षे तु द्विती-यायां नराधिप! पुष्पाहारो वर्षमेकं वसेत् सुनियता-त्मवान्”। कार्त्तिकशुक्लपक्षद्वितीयायां व्रतमारभ्यान्या-स्यपि शुक्लपक्षद्वितीयास्वेव वर्षपर्य्यन्तं पुष्पाहारव्रतंकुर्य्यादित्यर्थः।
“कालप्राप्तानि यानि स्युर्हविष्यकुसु-मानि तु। भुञ्जीत तानि दत्त्वा तु ब्राह्मणेभ्यो नरा-धिप!”। हविष्यकुसुमानि पूजार्हाणि भक्षणे चावि-रुद्धानि अश्विनौ चात्र नामभन्त्रेण पूजनीयौ तयोःफलदातृत्वेन श्रवणात्।
“सुवर्णस्य च पुष्पाणि गवासह ददाति यः। व्रतान्ते तस्य सन्तुष्टौ देवौ त्रिभु-वनेश्वरौ। दत्तः कामांस्तथा दिव्यान्विमानमपि तैज-सम्। सुचिरं देवनारीभिर्लोकं रमयतोऽश्विनौ”। पूर्णिमाव्रतं विष्णुधर्मोत्तरे
“या प्रेरयति कर्माणि लोकेषुद्विजसत्तम!। तस्याः संपूजनं कार्य्यं शुक्लपञ्चदशीं सदा। माल्यानुलेपनैः शुक्लैर्धूपेन च सुगन्धिना। रक्तवस्त्र-प्रदानेन दीपदानेन चाथ वा। वैदलैश्च तथा भक्ष्यैरपू-पैश्च तथैव च। पूजयित्वा च तां देवीं भोक्तव्यं निशिभार्य्यया। यदि पञ्चदशीं सर्वां न शक्नोति कथञ्चन। देव्याः संपूजनं कार्य्यं अवश्यमपि कार्त्तिके। उमान्तुपूजयेद् या तु सा तु नारी पतिव्रता। सदा धर्मरतानारी लोके भवति भार्गव!”। वह्निपु॰ व्रतान्तरम्
“श्रावण्यां पौर्णमास्याञ्च सोपवासो जितेन्द्रियः। प्राणायामशतं कृत्वा मुच्यते सर्वकिल्विषैः”। पृथिवीपञ्चमीव्रतं विष्णुधर्मोत्तरे
“पञ्चम्यां पृथिवीं शुक्ले देवींसंपूजयेन्नरः। तामवाप्नोति यत्नेन नात्र कार्य्या विचा-रणा”। पौरन्दपञ्चमीब्रतं भविष्योत्तरे
“तिलपिष्टमयं कृत्वा गजंहैमविभूषितम्। कक्षाङ्कुशयुतं तद्वदारोहकसमन्धि-तम्”। तद्वदिति अनन्तव्रतोक्तमत्र गजस्वरूपं गृह्यते।
“नक्षत्रमालासहितं चामरापीडधारिणम्। दशनाग्र-[Page5028-a+ 38] बद्बनेत्रं रक्तवस्त्रयुगावृतम्। ताम्रपात्र्यां कुण्डके वाकृतदन्ताग्रमोदकम्। प्रदद्याद् द्विजदम्पत्योः पूज्य मा-लाविभूषणैः। कर्णाभरणकं दद्यात् वस्त्रञ्च मलवर्जि-तम्। कान्तारतारकं ह्येतत् कथितं हि युधिष्ठिर!। कान्तारगिरिदुर्गेषु तारयत्यपि दुःखितान्। इहलोके परे चैतन्नात्र कार्य्या विचारणा। ये कुर्वन्तिदिने पुण्ये व्रतं पौरन्दराह्वयम्। तेषां पौरन्दरे लोकेवासः स्यात् सुचिरं नृप!” दिने पुण्ये, पञ्चम्यांब्रकरणवशात्। प्रकृतिपुरुषद्वितीयाव्रतं विष्णुधर्मोत्तरे
“पुरुषः प्रकृतिश्चोभौजगत् सर्वं प्रकीर्त्तितम्। अग्नीषोमात्मकं सर्वं तथातच्च प्रकीर्त्तितम्। वासुदेवश्च लक्ष्मी{??} तावेव परिकी-र्त्तितौ। चैत्रशुक्लद्वितीयायां सोपवासो जितेन्द्रियः। पौरुषेण च सूक्तेन वह्निं संपूजवेन्नरः”। सोपवासइति प्रतिपदि कृतोप्रवासो द्वितोयायां वह्निं पूज-येदित्यथः उपरिष्टाच्च क्षीरघृतभोजनस्य विहि-तत्वात
“गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा। लक्ष्मीञ्चवरदं देवं पूजयेदुदकं हरिम्। श्रीसूक्तेन च धर्मज्ञ!तथार्चन्मनुजोत्तमम्”। हरिसोमौ वह्निं जलकुम्बञ्चप्रतिष्ठाप्य परुषमग्निं बासुदेवञ्चैकोपरि पूजयेत्” इत्यादि। प्रजापतिव्रतं
“अथ वटोर्व्रतम् इत्युपक्रमे
“नेक्षेतोद्य-न्तमादित्यमित्यादिकमुक्तम्”। प्रतिपद्क्षीरपाणव्रतं भविष्यपु॰
“कार्त्तिक्यामथ सप्तम्यांवैशाख्यां वा युगादिषु। नियमोपवासं प्रथमं ग्रहयेतविधानवित्”। कार्त्तिके वैशाखे वा मासि प्रतिपत्तिथौव्रतस्यारम्भः। युगादितिथिव्रतस्य माघवैशाखभाद्र-पद कार्त्तिकेष्वन्यतमे आरम्भः
“या तिथिर्नियमं कर्तुंशक्या समनुगच्छति। तस्यां तिथौ विधानं यत्तन्नि-बोध जनाधिप!। नियमोपवासं प्रथमं ग्राहयेद् विधिवन्नरः। यदा वै प्रतिपद्यादौ गृह्णीयान्नियमं नृप!। चतुर्दश्यां कृताहारः सङ्कल्प्य परिकल्पयेत्। अमावास्यांन भञ्जीत त्रिकालं स्नानमाचरेत्। पवित्राणि जपेन्नित्यंगायर्त्नी शिरसा सह। अर्च्चयित्वा विधानेन गन्ध-माल्यैर्द्विजोत्तमान्। शक्त्या क्षीरं प्रदद्यात् तु ब्रह्मामे प्रीयतां विभुः। तेतो भूञ्जीत गोक्षीरमनेन विधिवानृप!। एष एव विधिः प्रोक्तः सर्वासु तिथिषु नृप”।{??} कालोत्तरे
“अधुना तु प्रवक्ष्यामि प्रतिमाव्रत-{??}त्तमम्। महास्नानं महावर्त्तिदीपमालाशतं तथा। [Page5028-b+ 38] विलेपनं कुङ्कुमेन धूपं वै गुग्गुलेन तु। शतेनाष्टोत्तरे-णैव नैवेद्यं पयसा घृतम्। तालमात्रा चतुर्विंशत् त्रि-नेत्रा च चतुर्भुजा। शूलासियुग्धनुर्वाणा नानाभ-रणभूषिता। शालिपिष्टमयो कार्य्या वृषपृष्ठे चशोभना। चामरैर्वीज्यमानन्तु शिवं तत्र प्रकल्पयेत्। दर्पणञ्चैव ताम्बूलं व्यजनं पादुकासनम्। वैजयन्तीध्वजयानमाचार्य्याय प्रयत्नतः। मासि मासि प्रकर्त्तव्यं चतु-र्दश्यां दिने दिने। कार्त्तिकन्तु समारभ्य यावदाश्वयु-जावधि। एतद् ब्रतोत्तमं नाम प्रतिमाव्रतमीरितम्”। प्रदोषव्रतं भविग्यपु॰
“त्रयोदश्यान्तथा रात्रौ सोपहारंत्रिलोचनम्। इष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकै”। प्रभाव्रतं पद्मपु॰
“पक्षोपवासी यो दद्याद्विप्राय कपिला-द्वयम्। ब्रह्मलोकसवाप्नोति देवासुरसुपूजितः। तदन्तेराजराजः स्यात् प्रभाब्रतमिदं स्मृतम्”। प्राजापत्यव्रतं पद्मपु॰
“कृच्छ्रान्ते गोयुगं दद्यात् भोजनंशक्तितः पदम्। विप्राणां शाङ्कर याति प्राजापत्यमिदंस्मृतम्” शाङ्करं पदं यातीत्यन्वयः। कृच्छ्रशब्दे दृश्यम्। प्राप्तिव्रतं पद्मपु॰
“वत्सरं त्वेकभक्ताशी सभक्ष्यफलकुम्भदः। शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम्”। फलव्रतं पद्मपु॰
“महाफलानि यस्त्यक्त्वा चतुर्मास्यां द्विजा-तये। हैमानि कार्त्तिके दद्याद् गोयुगेन समं नरः। सितवस्त्रयुगेनाथ सम्पूर्णाज्यघृतेन च। एतत् फलव्रतंनाम सर्वकामफलप्रदम्”। फलतृतीयाव्रतं पद्मपु॰ प्रभासख॰
“फलवृतीयां या नारीकुरुते तत्र भाविता। वर्षमेकं सिते पक्षे देवीं पूज्यविधानतः। फलानि ब्राह्मणे दद्यादभीष्टानि च यानितु। फलानि वर्जयेत् नक्तमत्रात्ति सुरसुन्दरि!। निष्पावानाढकीं मुद्गान् माषांश्चैव कुलत्थिकान्। मसू-रान् राजमांषाश्च गोधूमांस्त्रिपुटांस्तथा। चणकान्वर्त्तुलान् वापि मुकुटान् शक्तितोऽत्ति यः। नरा वायदि वा नारी यावद्गौरीव्रतं चरेत्। तस्याः पुण्यफलंवक्ष्ये कथ्यमानं शृणष्व मे। धनं धान्यं गृहे तस्यन कदाचित् क्षय व्रजेत्। दुःखिता दुर्भगा दीना सदाजन्मनि नो भवेत्। कथानकञ्च श्नोतव्यं देव्या माहात्मृसंयुतम्। कृतपातकनाशाय सर्वकामसमृद्धये”। फलषष्ठीव्रतं भविष्यात्तरे
“अन्यामपि पवक्ष्यामि फलषर्ष्ठशुभां तथा। यामुपोष्प नरः पाषैर्निसक्त॰ फलभाभवेत्। मार्गशीर्षे सिते प{??} पञ्चन्यां नियमस्थितः[Page5029-a+ 38] कृत्वा दन्तधावनं तु स्वपेद्रात्रौ विमत्सरः। ततः प्रभातेविभले कारयित्वा तु काञ्चनम्। कमलञ्च फलन्त्वेकंस्वशक्त्या शाठ्यवर्जितः। ततस्तु सङ्गमे स्नातो मध्याह्नेकृतनित्यकः। आगत्य भवनं देवं पूजयित्वा जगद्गु-रुम्। कृत्वा तु कमलं पात्रे सफलं शर्करान्वितम्। औडम्बरे मृणमये वा यथाशक्त्या नृपोत्तम!। पूजयेत्पुष्पधूपाद्यैर्नैवेद्यैर्विविधैः फलैः” इत्यादि। फलभंक्रान्तिव्रतं स्कन्दपु॰
“अथान्यामपि ते वच्मि फल-संक्रान्तिमुत्तमाम्। संक्रान्तिवासरं प्रांप्य स्नानं कृत्वातु पूर्ववत्। संपूज्य पूर्ववद्भानुं पुष्पधूपादिना तथा। शकरासहितं पात्रं फलाष्टकसमन्वितम्। संक्रान्तिवासरंप्राप्य ब्राह्मणाय निवेदयेत्। तदन्ते तु रविं कुर्य्यात्सुवर्णेन च नारद!। कुम्भस्योपरि संस्थाप्य गन्धपुष्पैःप्रपूजयेत्। फनाष्टकं ततो दद्याद् भक्ष्यभोज्यसमन्वितम्”। फलसप्तमीव्रतं भविष्यपु॰
“अथ भोद्रपदे मासि सिते पक्षेमहीपते!। कृत्वापवासं सप्तम्यां विधिवत् पूजयेद्रविम्। माहेश्वरेण विधिना पूजयेदत्र भास्करम्। अष्टम्यां तुपुनः प्रातः पूजयित्वा दिवाकरम्। दद्यात् फलानिविप्रेभ्यो मार्त्तण्डः प्रीयतामिति। स्वर्जरं नातिकेलञ्चमातुलङ्गफलानि च। ब्राह्मणान् भोजयित्वा तु फला-हारः स्वयं भवेत्। पूर्वमेकन्तु सम्प्राश्य सुसूक्ष्मं फल-मादरात्। मन्त्रेण भरतश्रेष्ठ! ततः शेषाणि भक्षयेत्”। पद्मपु॰
“अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम्। यामुपोष्य नरः पापैर्विमुक्तः स्वर्गभाग्भवेत्। मार्गशीर्षेशुभे मासि पञ्चम्यां नियतव्रतः। षष्ठ्यामुपोष्य कमलंकारयित्वा तु काञ्चनम्। शर्करासंयुक्तं दद्यात् ब्राह्मणायकुटुम्बिने। रूपन्तु काञ्चनं कृत्वा फलस्यैकस्य धर्मवित्। दद्याद्विकालवेलायां भानुर्मे प्रीयतामिति। भक्त्या तुविप्रान् संपूज्य सप्तम्यां क्षीरभोजनम्। कृत्वा कुर्य्यात्फलत्याग यावत्स्यात् कृष्णसप्तमी। तामुपोष्य विधिंकुर्य्यादनेनैव क्रमेण तु। तद्वद्धेमफलं दद्यात् सुवर्ण-कमनान्वितम्। शर्करापात्रसंयुक्तं वस्त्रमालाविभूषितम्। मंवत्सरमनेनैव विधिनोभयसप्तमोम्। उपोष्य दद्यातक्रमशः सूर्य्यमन्त्रमुदीरयेत्” इत्यादि। फाल्गुनव्रतं महाभारते
“भगदेवन्तु योमासमेकभक्तेनविक्षिपेत्। ऐश्वर्य्यमतुलं श्रेष्ठं पुमान् स्त्री वा प्रपद्यने। स्त्रियो वल्लभतां यान्ति तस्याश्चैव भवन्ति ते”। विष्णुधर्मे
“क्षपयेदेकभक्तेन शुश्रूषुर्य्यश्च फाल्गुने”। [Page5029-b+ 38] शुश्रूषुः विष्णुशुश्रूपापरः
“सौभाग्यं स्वजनानाञ्चसर्वषामेव सोन्नतिः। अहिंसृः सर्वभूतेषु वासुदेवपरा-यणः। नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत्। अति-रात्रस्य यज्ञस्य ततः फलमवाप्नुयात्”। वाणिज्यलाभव्रत विष्णुधर्मोत्तरे
“काम्यं कर्म समाचक्ष्यवाणिज्यं येन सिध्यति। कृषिञ्च वहुलाञ्चैव कर्मणाकेन वाश्नुते”। पुष्कर उवाच
“मूलेषूपोषितः कुर्य्यादिदकर्म पुरोहितः। उपोषितस्य धर्मज्ञ! यजमानस्य नि-त्यशः। प्राप्तासु पूर्वाषाढासु प्राङ्मुख स्नापयेन्नरम्। युग्मैर्वैतसमूलैश्च शङ्खमुक्ताफलैस्तथा।{??}णिभिश्च यथा-लाभं कनकेन तथैव च। अकालमलैः कलशैश्चतुर्भि-र्भृगुनन्दन!। कृत्वैतत् सिद्धिषाप्नाति वाणिज्ये नात्रसंशयः। समुद्रयाने च तथा कर्षणे च न सीदति। नीलानि सप्त वामांसि दक्षिणा चात्र शस्यते। शङ्खंसुवर्णं रूप्यञ्च तथा मुक्ताफलानि च। हर्त्र कर्त्रद्विजेभ्यस्तु सर्वमेतद्विधीयते”। बुद्धद्वादशीव्रत धरणीव्रते
“एवमेव श्रावणे तु मासि संकल्प्यद्वादशीम्। अर्च्चयेत्परमेशानं गन्धपुष्पनिवेदनैः। बुद्धायपादौ संपूज्य श्रीधरायेति वै कटिम्”।
“एवमभ्यर्च्च्यमेधावी तस्याग्रे पूर्ववद्घटम्। स्थापयेत्तत्र सौवर्णं बुद्धंकृत्वा विचक्षणः”। बद्धस्वरूपमुक्तं पुराणान्तरे
“बुद्धस्तुद्विभुजः कार्य्योध्यानस्तिमितिलोचा” इति।
“तमप्येवन्तुसंपूज्य ब्राह्मणाय निवेदयेत्। अनेन विधिना पूर्वद्वादशी समुपोषिता। शुद्धोदनेन, बुद्धोऽभूत् स्वयं पुत्रोजनार्दनः। महतीञ्च श्रियं प्राप्तः पुत्रपौत्रसमन्वितः। भक्त्वा राज्यश्रियं सोऽथ गतिं परमिकां गतः”। बुधव्रतं भविष्योत्तरे
“विशाखासु बुधं प्राप्य सप्त नक्तानिचाचरेत्। बुधं हेममय कृत्वा स्थापितं कांस्यभाजने। शुक्लमाल्याम्बरधरं शुक्लगन्धानुलेपनम। गुडोदनोप-हारन्तु ब्राह्मणाय निवेदयेत्”। बुधाष्टमीव्रतं भविष्योत्तरे
“शृणं पाण्डव! यत्नेन बुधा-ष्टम्यां विधिं शुभम्। यदा यदा सिताष्टम्यां बुधवारो भवे-द्यदि। तदा तदेव सा ग्राह्या एकभक्ताशनैर्नृभिः। म्नात्वा नद्या तु पूर्वाह्णे गृहीत्वा करकं नवम्। जल-पूणं सहेमानं कृत्वा खाद्यैः समन्वितम्। दद्माद्विप्रायतं गत्वा गृहं चैव क्रमण तु। अष्टम्यष्टविधानेन विचि-त्रान्नैः पृथक् पृथक्। प्रथमा मोदकैर्भक्ष्यैः द्वितोयाधामकैस्तथा। तृतीया घृतपूरौश्व चतुर्थी वटकैर्नृप। [Page5030-a+ 38] पञ्चमी शुभ्रकासारैः षष्ठी सोहानकैः शुभैः। अशोक-वर्त्तिभिः शुभ्रेः सप्तमी चातिवाहयेत्। अष्टमी फ णि-तापूर्णै खण्डवेष्टेर्युधिष्ठिर!। एवं क्रमेण कर्त्तव्याःसुहृत्स्वजगबन्धवैः। सहैकत्र स्थितैर्भोज्यं भोक्तष्यंप्रीतिपूर्वकम्। उपाख्यानान्तमासाद्य भोजनं सहसात्यजेत्। तावदेव हि भोक्तव्यं यावत् सा कथ्यते कथा। नतोभूत्वा बुधस्याग्रे आचम्य च समाहितः। विप्रायवेदविदुषे वाचकाय प्रदापयेत्। साक्षतं सहिरण्यं चजातरूपमयं शुभम्। अर्चितं चर्च्चितं गन्धैः पुष्पैर्धूपैःसुगन्धिभिः। पीतवस्त्रैः समाच्छन्नं बुधं सोमात्मजंतथा। मापकेण सुवर्णस्य तदर्द्धार्द्धेन वा कृतम्” इत्यादिब्रह्मव्रतं भविष्यपु॰
“ब्रह्माणञ्च द्वितीयायां संपूज्य ब्रह्म-चारिणम्। भोजयित्वा तु विधिना सर्वासां पारगोभवेत्। मूलमन्त्राः स्वसंज्ञाभिरङ्गमन्त्राश्च कीर्त्तिताः। पूर्ववत्पद्मपत्रस्थः कर्त्तव्यश्च तिथीश्वरः”। तिथीश्वरोब्रह्मा। ब्रह्मकूर्च्चब्रतं ब्रह्मपु॰
“उपोषितश्चतुर्दश्यां पञ्चदश्यामन-न्तरम्। पञ्चगव्यं समश्नीयाद्धविष्याशी त्वनन्तरम्। ब्रह्मकूर्चमिदं कुर्य्यादुक्तप्रशमनाय वै। पक्षान्ते त्वथ वाकार्य्यं मासमध्येऽथ वा पुनः। ब्रह्मकूर्चं नरः कुर्य्यात्पौर्णमासीषु यः सदा। तस्य पापं क्षयं याति दुर्भुक्तादिन संशयः। मासेन द्विर्न्नरः कृत्वा ब्रह्मकूर्चं समा-हितः। सर्वपापविनिर्मुक्तो यथेष्टाङ्गतिमाप्नुयात्। ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च। योगभूतंपरिचरन् केशवं सहसाप्नुयात्”। ब्रह्मण्यप्राप्तिव्रतं विष्णु धर्मोत्तरे
“इदमन्यत् प्रवक्ष्यामि चतु-र्मूर्त्तिव्रतं तव। शक्रकीनाशवरुणधनाध्यक्षा यदूत्तम!। चतुरात्मा विनिर्दिष्टो वासुदेवो जगत्पतिः। तेषान्तुरूपनिर्माणं कृत्वा तानर्चयेद् बुधः। गन्धमाल्यनम-स्कारदीपधूपान्नसम्पदा। आद्येऽह्नि चैत्रशुक्लस्य यजेतत्रिदशेश्वरम्। द्वितीयेऽह्नि यमं देवं तृतीये सलिला-धिपम्। चतुर्थेऽह्नि धनाध्यक्ष प्रत्यहं स्नानमाचरेत्। नदीप्रदेशमासाद्य देवदिक्प्रवहक्रमात्। यवैस्तिलैस्तथा-ज्येन होमः स्यात् तिलतण्डुलैः। रक्तं पीतं तथाकृष्णं श्वेत वस्त्रं दिनक्रमात्। शुभमेतद् व्रतं कृत्वापूर्णसंवत्सरं नरः। नाकलोकमवाप्नोति यावदाभूत-संप्लवम्”। बह्मव्रतं पद्मपु॰
“ब्रह्माणं काञ्चनं कृत्वा तिलराशिसम[Page5030-b+ 38] न्वितम्। त्र्यहं तिलप्रदो भूत्वा वह्निं सन्तर्प्य चद्विजान्। संपूज्य विप्रदम्पत्यं माल्यवस्त्रविभूषितम्। शक्तितस्त्रिपलादूर्द्ध्वं विश्वात्मा प्रीयतामिति। पुण्येऽह्निदद्यात्स परं ब्रह्म यात्यपुनर्भवम्। एतद् ब्रह्मव्रतं ना मनिर्वाणफलदं नृणाम्”। ब्रह्मसावित्रीव्रतं भविष्योत्तरे
“श्रूयतां पाण्डवश्रेष्ठ! सावि-त्रीव्रतमादरात्। कथयामि यथा चीर्णं तया सत्या युधि-ष्ठिर!। इत्युपक्रमे
“त्रयोदश्यां भाद्रपदे दन्तधापूववर्नकम्। त्रिरात्रं नियमं कुर्य्यादुपवासस्य भक्तितः। अशक्ताच त्रयोदश्यां नक्तं कुर्य्याज्जितेन्द्रिया। अयाचितं चतु-र्दश्यां पौर्णमास्यामुपोषणम्। नित्यं स्नात्वा महानद्यांतडागे निर्झरेऽपि वा। विशेषतः पूर्णमास्यां स्नानंसर्षपमृज्जलैः। गृहीत्वा बालुकां पात्रे प्रस्थमात्रांयुधिष्ठिर!। अथ वा धान्यमादाय यवशालितिला-ढकम्। ततो वंशमये पात्रे वस्त्रयुग्मेन वेष्टिते। सावि-त्रीप्रतिमां कृत्वा ब्रह्मणश्चैव शोधनम्। सौवर्णीं मृण्-मयीं वापि स्वशक्त्या रौप्यनिर्मिताम्। रक्तवस्त्रयुगंदद्यात् सावित्र्या, ब्रह्मणः सितम्। सावित्रीं ब्रह्मणा-सार्द्धमेवं भक्त्या प्रपूजयेत्” इत्यादि। ब्राह्मण्यावाप्तिब्रतं प्रभासख॰
“ज्यैष्ठस्य पौर्णमास्यान्तुदम्पती यस्तु भोजयेत्। परिधाय यथा शक्त्या दौर्भा-ग्यैर्मुच्यते नरः। गन्धपुष्पोपहारैश्च षौर्णमास्यान्तुयोऽर्चयेत्। ब्राह्मण्यं जायते तस्य सप्तजन्मनि सुन्दरि!”। भर्तृप्राप्तिव्रतं भविष्यपु॰
“वसन्ते शुक्लपक्षस्य द्वादशी यामवेच्छुभा। तस्यामुपोष्य विधिवत् सश्रीकं हरिमर्च-येत्। पर्य्यङ्कास्तरणं कृत्वा नानास्तरणसंयुतम्। तत्रलक्ष्म्या युतं देवं रौप्यं कृत्वा निवेदयेत्। तस्योपरिततः पुष्पैर्मण्डपं कारयेद् बुधः। नृत्यवादित्रगीतैश्चजागरं तत्र कारयेत्। एवं कृत्वा प्रभाते तु दापयेत्ब्राह्मणाय तम्। वेदवेदाङ्गयुक्ताय संपूर्णाङ्गाय धीमते। ब्राह्मणांश्च तथा भोज्य व्रतमेतत् समाप्यते। व्रतस्यान्तेततो विष्णुर्भर्त्ता वै भवति धुवम्”। भद्रकालीब्रतं विष्णुधर्मोत्तरे
“नवम्यां सोपवासस्तु भद्रकालींप्रपूजयेत्। शुक्लपक्षे महाराज। कार्त्तिकात् प्रभृतिक्रमात्। गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा। संवत्-सरान्ते संपूज्यं व्रतान्ते ब्राह्मणाय तु। वस्त्रयुग्मं नरोदत्त्वा यथेष्टं काममाप्नुयात्। विधिना पूजयेत् कन्यांभदूकालीं नराधिप!। नवम्यामाश्विने मांसि शुक्लपक्षे[Page5031-a+ 38] नरोत्तम!”। पुस्कर उवाच
“पूर्वोत्तरे तु दिग्भागे लि-खेत् वास्तुमनोहरे। भद्रकालीं नृपगृहं चित्रवस्त्रै-रलङ्कृतम्। भद्रकालीं पटे कृत्वा तत्र सम्पूजयेद् द्विज!”। भद्रचतुष्टयव्रतं भविष्यपु॰
“शृणु राजन्नवहितो भद्राणांविस्तरं परम्। कथयिष्ये न कथितं यन्मया कस्यचित्पुरा। शुक्ला मार्गशिरस्यादौ चतस्रस्तिथयो वराः। द्वितीया च तृतीया च चतुर्थी पञ्चमी तथा। एकभक्ता-शनस्तिष्ठेत् प्रतिपदि जितेन्द्रियः। प्रभाते तु द्विती-यायां कृत्वा यत् करणीयकम्। प्रहरे वै समधिके गतेस्नानं समाचरेत्। मृद्गोमयं तु संगृह्य मन्त्रैरेभिर्विच-क्षणः”।
“स्नात्वा चैव ततो नाम द्वितीयादौ चतुर्दिने। नमः कृष्णाच्युतानन्तहृशीकेशेति च क्रमात्। चतुर्दिनेद्वितीयादिदेवमभ्यर्चयेद् व्रती। प्रथमेऽह्नि स्मृता पूजापादयोश्चक्रपाणिनः। नाभिपूजा द्वितीयेऽह्नि कर्त्तव्याविधिवन्नरैः। पुरद्विषस्ततीयेऽह्नि पूजां वक्षसि विन्यसेत्। चतुर्थेऽह्नि जगद्वातुः पूजां शिरसि विन्यसेत्” इत्यादि। भद्रातृतीयाव्रतं पद्मपु॰
“कार्त्तिकादि तृतीयायां प्राश्य गो-मूत्रयावकम्। नक्तञ्चरेदव्दमेकं तदन्ते गोप्रदो भवेत्। गौरीलोके वसेत् कल्पं ततो राजा भवेदिह। एतद्भद्राव्रतं नाम सर्वकल्याणकारकम्”। भद्रासप्तमीव्रतं भविष्यपु॰
“शुक्लपक्षे तु सप्तम्यां नक्षत्रं स-वितुर्भवेत्। सदा प्राप्यमशेषेण सदा तां भद्रतां ब्रजेत्। सवितृनक्षत्रं हस्ता।
“चतुर्थ्यामेकभक्तन्तु पञ्चम्यां नक्त-मादिशेत्। षष्ठ्यामयाचितं प्रोक्तं उपवासस्ततः परम्”।
“अनेन विघिना यस्तु कुर्य्याद्वै भद्रसप्तमोम्। भद्राददाति सप्तम्यां भद्रं तस्य व्रतं भवेत्। तस्य भद्राः सर्वएव गच्छन्ति ज्ञातयः सदा। तदशक्तः फलं तस्यां वि-धिना केन दीयते। व्योमभद्रमिति प्रोक्तं देवचिह्नंमनोरमम्। शालिपिष्टमयं प्रोक्तं चतुःकोणं मनो-रमम्। गव्येन सर्पिषा युक्तं खण्डशर्करयान्वितम्। चतुर्जातकचूर्णेन द्राक्षाभिश्च विशेषतः”। भवानीतृतीयाव्रतं पुद्मपु॰
“आलेपनञ्च यः कुर्य्यात् तृतीयायांशिवालये। समान्ते धेनुदो याति भवानीब्रतमित्युत”। भवानीव्रतं लिङ्गपु॰
“पौर्णमास्याममावस्यां वर्षमेकमतन्द्रिता। उपवासरता नारी नरो वा द्विजसत्तमाः!। वर्षान्तेसर्वगन्धाद्यां प्रतिमाञ्च निवेदयेत्। सा भवान्यास्तु सा-युज्यं सारूप्यं वाथ सुव्रता। लभते नात्र सन्देहःसत्यं सत्यं मुनी धराः!” [Page5031-b+ 38] माद्रपदव्रतं महाभारते
“प्रौष्ठपादन्तु यो मासमेकाहारोभवेन्नरः। धनाढ्यस्फीतमतुलमैश्वर्य्यं प्रतिपद्यते। राज-सूयस्य यज्ञस्य फलं दशगुणं लभेत्”। भानुव्रतं पुद्मपु॰
“सप्तम्यां नक्तभुक् दद्यात्समान्ते गां स-काञ्चनाम्। सूर्य्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम्”। भास्करव्रतं कालिकापु॰
“कृतोषवासः षष्ठ्यान्तु सम्यम्यां यस्तुमानवः। करोति विधितः श्राद्धं भास्करः प्रोयतामिति। सर्वरोगविनिर्मुक्तः स्वर्गलोकमवाप्नुयात्”। भीमद्वादशीव्रतं पद्मपु॰
“यद्यष्टम्यां चतुर्दश्यां द्वादशीष्वथभारत!। अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वमुपोषितुम्। ततः पुण्यामिमां भैमीं सर्वपापप्रणाशनीम्। उषोष्यविधिनानेन गच्छ विष्णोः परं पदम्। माघमासस्यदशमी यदा शुक्ला भवेत्तदा। घृतेनाभ्यञ्जनं कृत्वातिलैः स्नानं समाचरेत्। तथैव विष्णुमभ्यर्च्य नमोनारायणेति व” इत्यादि।
“शृणु राजन्! प्रवक्ष्यामिव्रतानामुत्तमं व्रतम्। यामुपोष्य न दुःखानां भाजनंभजते जनः। माघमासे सिते पक्षे द्वादशी पावनीस्मृता। तस्यां जलार्द्रवसन उपोष्य सुखभाग् भवेत्”।
“भीमाख्या द्वादशी चेति कृतकृत्या नरा यतः। एषापुलस्त्यमुनिना कथिता कुरुनन्दन!। यश्चैनां कथितांयत्नात् कुर्य्याद्वा भक्तिभावतः। सर्वपापविनिर्मुक्तोविष्णुलोके महीयते। दरिद्रेणापि वा पार्थ! वित्त-शाठ्यं विवर्जयेत्। विष्णुभक्तेन कर्त्तव्या संसारभय-भीरुणा। भीमेन या किल पुरा समुपोषितत्वाद्रात्रौगलत्स्थिरसुशीतलवारिधारा। तां द्वादशीं त्रिदश-वेद्यमुखां स्मरेद् यः सम्यक् समाचरति याति स विष्णु-लोकम्”। भीमव्रतं पद्मपु॰
“मासोपवासो यो दद्याद्धेनुं विप्राय शी-भनाम्। सर्वेश्वरपदं याति भीमव्रतमिदं स्मृतम्”। भीष्मपञ्चवव्रतं नारदपु॰
“प्रवक्ष्यामि महापुण्यं व्रतं व्रत-वतां वर!। भीष्मेणैतद्यतः प्राप्तं व्रतं पञ्चदिनात्मकम्। सकाशाद्वासुदेवस्य तेनोक्तं भीष्मपञ्चकम्। व्रतस्यास्यगुणान्वक्तुं कः शक्तः केशवादृते। व्रतञ्चैतन्महापुण्यंमहापातकनाशनम्। अतो नरैः प्रयत्नेन कर्त्तव्यं भीष्म-पञ्चकम्। कार्त्तिकस्यामले पक्षे स्नात्वा सम्यग्यतव्रतः। एकादश्यान्तु गृह्णीयाद् व्रतं पञ्चदिनात्मकम्। प्रातःस्नात्वा विधानेन मध्याह्ने च तथा व्रती। नद्यां निर्झर-गर्त्ते वा समालभ्यञ्च गोमयम्। यवव्रीहितिलैः सम्यक[Page5032-a+ 38] पितॄन् सन्तर्पयेत् क्रमात्। स्नात्वा मौनं ततः कृत्वाधौतवासा दृढव्रतः”। इत्यादि
“अर्चयित्वा हृषीकेश-मेकादश्यां समाहितः। त्रिःप्राश्य गोमप सम्यक् एका-दश्यामुपावसेत्। गोमुत्रं मन्त्रवद्भूयो द्वादश्यां पूज-येद् व्रती। क्षीरञ्चैव त्रयोदश्यां चतुर्दश्यां तथादधि। संप्राश्य कायशुद्ध्यर्थं लङ्घनीयञ्चतुर्दिनम्”। प्राशनं, होममन्त्रण।
“पञ्चमे तु दिने स्नात्वा विधिवत्पूज्य केशवम्। भोजयेद् ब्राह्मणान् भक्त्या तेभ्यो द-द्याच्च दक्षिणाम्। तथोपदेष्टारमपि पूजयेद् वस्त्रभूषणैः। ततो नक्तं समश्नीयात् पञ्चगव्यपुरःसरम्। एवं सम्यक्समाप्यं स्यात् यथोक्तं व्रतमुत्तमम्। सर्वपापहरं पुण्यंप्रख्यातं भोष्मपञ्चकम्। जन्मप्रभृति यन्मांस त्यक्त्वा पुण्य-मवाप्नुयात्। तत्फलं समवाप्नोति संत्यज्य भीष्मपञ्चके। मद्यपो यः पिवेन्मद्यं जन्मतोमरणान्तिकम्। तद्भीष्मप-ञ्चके त्यक्त्वा सम्प्राप्नोत्यधिकं फलम्”। भूभाजनव्रतं पद्मपु॰
“संवत्सरन्तु यो भुङ्क्ते नित्यमेवह्यतन्द्रितः। निवेद्य पितृदेवेम्थः पृथिष्यामेकराद्भवेत्” यो भुङ्क्ते पृथिव्यामित्यन्वयः। भूमिव्रतं कालोत्तरे
“शुक्लपक्षे चतुर्दश्या यदा तिथ्यार्क-सङक्रमः। पूजयेत् पूर्वविधिना उपवासेन शूलिनम्”। पूर्वविधिना लिङ्गव्रतोक्तेनेत्यर्थः।
“कुङ्कुमेनाङ्गरा। गन्तु गन्धपुष्पैः प्रपूजयेत्। पायसं घृतसंयुक्तं कुर्य्यात्प्रस्थप्रमाणतः। भूमिदानं प्रकर्त्तव्यं शिवभक्ताय यत्नतः। अनेन व्रतमुख्येन पृथ्वीपालत्वमाप्नुयात्। एतद्भूमिव्रतंनाम पृथ्वीपालस्तु कारयेत्”। भोगसंक्रान्तिव्रतं स्कन्दपु॰
“वक्ष्येऽहं भोगमंक्रान्तिं सर्व-लोकविवर्द्धनीम्। सक्रान्तिवासरं प्राप्य योषितस्तु समा-ह्वयेत्। कुङ्कुमं कज्जलञ्चैव सिन्दूरं कुसुमानि च। सुगन्धीनि च सर्वाणि ताम्बूलं शशिसंयुतम्”। शशि-मंयुतं कर्पूरमंयुतम्
“तण्डुलान् फलसंयुक्तान् प्रदद्याच्चविचक्षणः। अन्यान्यपि हि वस्तूनि भोगसाधनकानेच। दद्यात् प्रहृष्टमनसा मिथुनेभ्यः प्रयत्नतः। भोज-यित्वा यथा शक्त्या वस्त्रयुग्मं प्रदापयेत्। एव संवत्-सरस्यान्ते रविं सम्पज्य पूर्ववत्। स्वर्णशृङ्गीं रौप्य-खरां सर्वोपस्करसंयुताम। धेनुं स दक्षिणां दद्यात्सपत्नोमद्विजातये। एवं यः कुरुते भक्त्या भोगसंक्रा-न्तिमादरात्। स्यात् सुखी सर्वमर्त्त्येपु भोगो जन्मनिजन्मनि” [Page5032-b+ 38] भोगावाप्तिव्रतं विष्णुधर्मोत्तरे
“ज्यैष्ठ्यान्तु समतीतायांप्रतिपत्प्रभृतिक्रमात्। पूर्ववत् पूजयेद्देवं विश्वरूपधरंहरिम्”। अत्रापि पूर्ववदिति रूपावाप्तिव्रतवदित्यर्थः
“कृत्वा व्रतान्ते च तथा त्रिरात्रं दत्त्वा सुयुक्तं शयनंद्विजाय। स्वर्लोकमासाद्य चिरं नरेन्द्र! मानुष्यमासाद्यच भोगवान् स्यात्”। भौमवारव्रतं स्कन्दपु॰
“भौमोऽयमैश्वरः पुत्रः पृथिव्यां ज-नितो महान्। रूपेणैव सदा रम्यो वरदानाद्दिवौ-कसाम्। अस्यैव दिवसे प्राप्ते ताम्रपात्रं सुशोभनम्। परिपूर्णं गुडेनैव वर्षमेकं प्रदापयेत्”। भौमव्रतं भविष्योत्तरे
“स्वात्यामङ्गारकं गृह्य क्षपयेन्नक्त-भोजनः। सप्तमे त्वथ संप्रप्ते स्थापितं ताम्रभाजने। हैमं रक्ताम्बरच्छन्नं कुङ्कुमेनानुलेपनम्। नैवेद्यं शुभ्रकमारं पूज्य पुष्पाक्षतादिभिः। मन्त्रेणानेन त दद्यात्ब्राह्मणाय कुचुम्बिने”। पद्मपु॰
“ग्रहाणामधिपं भौमंपूजयेद्भौमवासरे। मङ्गलो भूमिपुत्रश्च ऋणहर्त्ता धन-प्रदः। स्थिरामनो महाकायः सर्वकामार्थसाधकः। लोहितो लोहिताङ्गश्च सामगानां कृपाकरः। धरा-त्मजः कुजो भौमो भूतिदा भूमिनन्दनः। अङ्गारकोयमश्चैव सर्वरोगापहारकः। सृष्टिकर्त्ता प्रहर्त्ता चसर्भकामफलप्रदः। एतानि कुजनामानि प्रातरुत्थाययः पठेत्। ऋणं न जायते तस्य धनं प्राप्नोत्यसशयम्। त्रिकोणञ्च सदा कार्य्यं मध्ये छिद्रं प्रकल्पयेत्। कुङ्कुमेनसदा लेख्यं रक्तचन्दनकेन च। कोणे कोणै प्रकल्प्यानित्रीणि नामानि भूमिप!। आरं वक्रं भूभिजञ्च रक्त-गन्धैश्च पूजयेत्। मङ्गलाव्रतं देवीपु॰
“आश्विने चाथ माघे वा चैत्रे वा श्रा-वणेऽपि च। कृष्णादारभ्य कर्त्तव्यं व्रतं शुक्लावधिंचरेत्”। शुक्लावधिं शुक्लपक्षावधिम्। एतच्चोक्त-मासेष्वेव वक्ष्यमाणप्रकारेण कृष्णाष्टम्यामारभ्य शुक्ला-ष्टमीं यावत् कर्त्तव्यम्
“अष्टमीमाश्विनीं कृष्णामेकभक्तेनकारयेत्। मङ्गलारूपिणीं देवीमथ वा रुरुघातिनीम्। पूजयेन्नवभेदेन गन्धमाल्यनिवेदनैः। नवभेदेन नवकृत्वोगन्धघर्षणेन।
“कन्यका भाजयेद् वत्स! देवीभक्तांश्चमानवान्। अथ वा नवरात्रञ्च सप्तपञ्चत्रिकं हि वा। एकभक्तेन नक्तेनायाचितोपोषितैः क्रमात्”। नवरात्र-मेकभक्तेन सप्त नक्तेन पञ्चायाचितेन तिस्र उपवामे-नेति क्रमः। अष्टमीमन्ते कृत्वा नवादिगणन पूर्त-[Page5033-a+ 38] त्रासमर्थस्यैते पक्षाः
“क्षपयेताश्विने शक्र! यावत्च्छुक्लातु अष्टमी। पूजयेन्मङ्गलां तत्र मण्डले विधिवत्कृते। सर्वसम्भारसम्पन्ने सर्वसिद्धिविधायके। सर्वकामानवाप्नु-यात्” इत्यादि। मङ्गल्यसप्तमीव्रतं गुरुडपु॰
“मङ्गल्यं परमिच्छन्ती मङ्गलाय-तनं हरिम्। अर्चयेद्विनता देवं सप्तम्यां समुपोषिता। माङ्गल्यं परमिच्छन्ती व्रतेनानेन चाप्नुयात्। पुमानपियशः कीर्त्तिं बलमायुश्च विन्दति”। मत्स्यद्वादशीव्रतं धरणीव्रते
“मार्गस्य शुक्लपक्षे तु दशम्यांनियतात्मवान्। स्नात्वा देवार्चनं कृत्वा अग्निकार्य्यंयथाविधि। शुचिवासाः प्रसन्नात्मा हव्यं चान्न सुसं-स्कृतम्। भुक्त्वा पञ्चपदं गत्वा पुनः शौचं तु पादयोः। कृत्वाऽष्टाङ्गुलमानन्तु क्षीरवृक्षसमुद्भवम्। भक्षयेद्दन्तकाष्ठंतु तत आचम्य यत्नतः। स्पृष्ट्वा खानि तथाद्भिश्चचिरं ध्यात्वा जनार्दनम्”। खानीन्द्रियाणि
“शङ्ख-चक्रगदापाणिं पीतवस्त्रं किरीटिनम्। प्रसन्नवदनंदेवं सर्वलक्षणलक्षितम्। ध्यात्वा जलं गृहीत्वा तुभानुरूपं जनार्दनम्। दृष्ट्वार्घ्यं दापयेत् पश्चात् कर-तोयेन मानवः। एवमुच्चारयेद्वाचं तस्मिन् काल महा-मुने!। एकादश्यां निराहारो भूत्वाहमपरेऽहनि। भोक्ष्यामि पुण्डरीकाक्ष! शरणं मे भवाच्युत!। तेषांभध्ये शुभं पीठं स्थाषयेद्वस्त्रसंयुतम्। तस्मिंश्च रौप्यंसौवर्णं ताम्रं वा दारवं तथा। अलाभतस्तोयपूर्णंकृत्वा पात्रं ततो न्यसेत्”। अलाभतः सौवर्णादीनाम-लाभे दारवमपि कुर्य्यादित्यर्थः
“सौवर्णं मत्स्यरूपेणकृत्वा देवं जनार्दनम्। वेदवेदाङ्गसंयुक्तं श्रुतिस्मृति-विभूषणम्”। तोयपूर्णं पात्रं कृत्वा तत्र मत्स्यरूपंजनार्दनं न्यसेदित्यन्वयः
“तत्रानेकविधैर्भक्ष्यैः फलैःपुष्पैश्च शोभितम्। गन्धैरन्नैश्च धूपैश्च अर्चयित्वा यथाविधि। रसातलगता वेदा यथा देव त्वयाहृताः। मत्स्यरूपेण तद्वन्मां भवादुद्धर केशव!। एवमुच्चार्य्यतस्याग्रे जागरं तत्र कारयेत्। यथाविभवसारेण प्रमातेविमले तथा। चतुर्णां ब्राह्मणानां च चतुरो दापयेत्घटान्”। मदनद्वादशीव्रतं मत्स्यपु॰
“चैत्रे मासि सिते पक्षे द्वादश्यांनियतव्रतः। स्थापयेदव्रणं कुम्भं सिततण्डुलपूरितम्। नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम्। सितवस्त्रयुग-च्छन्नं सितचन्दनचर्चितम्। नानाभक्ष्यरसोपेतं[Page5033-b+ 38] सहिरण्यं त्वशक्तितः। ताम्रपात्रं गुडोपेतं तस्योपरिनिवेशयेत्। तदभावे कुथां कुर्य्यात् कामकेशवयोर्नरः। कामनाम्ना हरेरर्च्चां स्नापयेद्गु डवारिणा। शुक्लपुष्पा-क्षततिलैरर्चयेदिति केशवम्। अनेन विधिना सर्वं मासिमासि समाचरेत्। उपवासी त्रयोदश्यामर्चयेद् विष्णु-मव्ययम्। फलमेकञ्च सम्प्राश्य द्वादश्यां भूतले स्वपेत्। ततस्त्रयौदशे मासि घृतधेनुसमन्विताम्। शय्यां दद्याद्द्विजेन्द्राय सर्वोपस्करसंयुताम्। काञ्चनं कामदेवं च शुक्लांगाञ्च पयस्विनीम्। वासोभिर्द्वि जदाम्पत्यं पूज्य शक्त्याविभूषणैः। सर्वगन्धादिकं दद्यात् प्रीयतामित्युदीरयेत्”। मधुकतृतीयाव्रतं भविष्योत्तरे
“फाल्गुनस्य सिते पक्षे तृती-यायामुपोषिता। स्नाता स्थिता ब्रह्मचर्य्ये ततोऽन्यस्मित्दिने पुनः। व्रजेन्मधुवनं, गौरीं पूजयेत् मधुमानसा। मन्त्रेणानेन ध्यायन्ती पार्वतीप्रतिमां शुभाम्। मृगा-जिनावृतकुषां जटामुकुटशोभिताम्। गोधारथगतांदेवीं रुद्रध्यानपरायणाम्। पूजयेत् गन्धकुसुमैर्दीपाल-क्तकचन्दनः। पर्य्यङ्कलब्धमुखरालिकुलोपगीतं दत्त्वाफलाक्षतयुतं मधुपादपस्य। गौरीव कामसदृशा भवतीहनारी” इत्यादि। मनोरथद्वादशीव्रतं पद्मपु॰
“फल्गुनामलपक्षस्य एकादश्या-मुपोषितः। नरो वा यदि वा नारी समभ्यर्च्य जग{??}-पतिम्। हरेर्नाम जपन् भक्त्या सप्त वारान् जनेश्वर!। उत्तिष्ठन् प्रस्वपंश्चैव हरिमेवांशु कीर्त्तयेत्। अतः प्र-भाते विमले द्वादश्यां नियता हरिम्। स्नात्वा सम्यक्समभ्यर्च्य दत्त्वा विप्राय दक्षिणाम्। हरिमुद्दिश्य चै-वा{??} घृतहोमं समाचरेत्। फाल्गुनश्चैत्रवैशाखौज्यैष्ठमासश्च पार्थिव!। चतुर्भिः पारणं मासैरोभिर्नि-ष्पादितं भवेत्। रक्तपुष्पैश्च चतुरोमासान् कुर्वीत चा-र्चनम्। जातीपुष्पाणि धूपश्च शस्तः सर्जरसेन तु। प्राश्य दर्भोदकं चात्र शाल्यन्नं च निवेदयेत्। स्वयमेवतदश्रीयाच्छेषं पूर्वबदाचरेत्। कार्त्तिकादिषु मासेषु गो-मूत्रं कायशोधनम्। सुगन्ध्रं स्वेच्छया धूपं पूजांभृङ्गारकेण च”। भृङ्गारको माकन्दः
“कृसरं{??}नैवेद्यं भुञ्जीयात्तच्च वै स्वयम्। प्रतिमासञ्च विप्रायदातव्या दक्षिणा तथा। प्रीणनं देवदेवस्य पारणे पा-रणे गतं” वर्षसाध्यमिदम्। मनोरथपूर्णिमाव्रतं विष्णुधर्मोत्तरे
“कार्त्तिक्यान्तु तथारभ्यसंपूर्णं शशलक्षणम्। पूजयेदुदये राजन्! सदा नक्ता-[Page5034-a+ 38] शनो भवेत्। लावणं मण्डलं कृत्वा चन्दनेनानुलेपितम्। द्विदिग्नक्षत्रसहितं ततः सोमन्तु पूजयेत्”। लवणं सैन्धव-लवणकृतम्
“कृत्तिकारोहिणीयुक्तं कार्त्तिके मासिपूजयेत्। सौम्यार्द्रासहितं राजन्! मासि सौन्ये तथैवच। आदित्यपुष्यसहितं मासि पौषे च यादव!। मथासर्षयुतं माघे फाल्गुने शृणु पार्थिव!। आर्य्यम्णेनाऽथ सावित्रैः सहितं पूजयेद्विभुम्। चित्रास्वातियुत-ञ्चैत्रे वैशाखे शृणु पार्थिव!। विशाखया च मैत्रेणयुतं संपूजयेत्तथा। ज्येष्ठामूलयुतं ज्यैष्ठे आषाडेसलिलोत्तरे। श्रावणे श्रवणोपेतं वारुणेन श्रविष्ठया। तथा भाद्रपदे पौष्ण्या अजाहिब्रध्नसंयुतम्। अश्विनोभरणीयुक्तं
“तथाचाश्वयुजे विभुम्” इत्यादि। मनोरथसंक्रान्तिव्रतं स्कन्दपु॰
“अतः परं प्रवक्ष्यामि सं{??}-न्तिञ्च मनोरथाम्। गुडेन पूर्णकुम्भञ्च सवस्त्रञ्च स्व-शक्तितः। सङ्क्रान्तिवासरे दद्याद्ब्राह्मणाय कुटुम्बिने। एवं संवत्सरे पूर्णे स्वशक्त्योद्यापनं शुभम्। गुडेनपर्वतं कार्ष्यं वस्त्ररत्नैश्च भूषितम्। अयने चोत्तरेदद्याद्वित्तशाठ्यं न कारयेत्। यं यं प्रार्थयते कामंतं तं प्राप्नोति पुष्कलम्। सर्वपापविनिर्मुक्तः सूर्य्यलोकेमहीयते”। मन्दारषष्ठीव्रतं भविष्योत्तरे
“शृणु पार्थ! प्रवक्ष्यामि सर्व-पापप्राणाशिनीम्। सर्वकामप्रदां पुण्यां षष्ठीं मन्दार-संज्ञिताम्। माषस्यामलपक्षे तु पञ्चम्यां लघुभुक् नरः। दन्तकाष्ठं ततः कृत्वा स्वपेद्भूमौ जितेन्द्रियः। सर्वभोग-विहीनस्तु षष्ठीमुपवसेन्नरः। प्राप्यानुज्ञां द्विजश्रेष्ठात म-न्दारं पार्थयेन्निशि” इत्यादि। मन्दारसप्तमीव्रतं पद्मपु॰
“अथातः सम्प्रवक्ष्यामि सर्वपाप-प्रणाशिनीम्। सर्वकामप्रदां पुण्यां नाम्ना मन्दार-सप्तमीम्। माघस्यामलपक्षे तु पञ्चम्यां लघुभुक् नरः। दन्तकाष्ठं ततः कृत्वा षष्ठीमुपवसेन्नरः। विप्रान् सम्यग्भोजयित्वा तु मन्दारं प्राशयेन्निशि। ततः प्रभातेष्टत्थाय कुर्य्यात् स्नानं पुनर्द्विजान्। भोजयेच्छक्तितःकृत्वा मन्दारकुसुमाष्टकम्”। मन्दारोराजार्कः
“सौ-षर्णं पुरतस्तद्वत् पद्महस्तं सुशोभनम्। पद्मं कृष्ण-तिलैः कृत्वा ताम्रपात्रेऽष्टपत्रकम्। हैमं मन्दारकुसुमं{??}पाप्य मध्ये च पूजयेत्” इत्यादि वर्षसाध्यम्। म{??}चसप्तमीव्रतं भविष्यपु॰
“तथा संपूज्य देवेशं मानुं{??}मप्रदं नृप!। भोजयित्वा यथाशक्ति ब्राह्मणांश्च[Page5034-b+ 38] विशेषतः। सप्तम्यां प्राशयेच्चापि मरीचं मनुजाधिप। गृहीत्वा मरीचशतमव्रणं सुदृढं परम्। मरीचं प्राश-येद्राजन् मन्त्रेणानेन वा स्पृशन्” इत्यादि। मरुत्सप्तमीव्रतं विष्णुधर्मोत्तरे
“चैत्रस्य शुक्लपक्षे तु सम्यक्षष्ठ्यामुपोषितः। सप्तम्यामर्चनं कृर्य्यादृतूनां तत्र तत्रच। तत्र श्रेणीगतं सप्तमण्डलं नृप! कारयेत्। श्रेणी तथा कार्य्यसमा सप्तमण्डलकान्विता”। इत्यादिवर्षसाध्यम्मल्लद्वाददीव्रतं भविष्योत्तरे
“मञ्जैर्विशेषतः कार्य्यास्तथान्यै-रपि भक्तितः। पूजयन्ति क्रमेणैव मासि मासि तनू-र्{??}। मार्गशीर्षादिभिः पार्थ! पूजयेन्मासनामभिः। पारणे पारणे दद्यान्मल्लिकानि द्विजातये। गन्धैः पुष्पै-स्त{??}दीपैर्गीतवाद्यैर्मनोहरैः। मल्लयुद्धैश्च विविधैर्जा-गरं कारयेन्निशि। घृतदानैः क्षीरदानैर्दाधिदानैः पृथक्पृधक्। सर्वत्र देवदेवेशः कृष्णो मे प्रीयतामिति। एव-मेव बिधिः प्रोक्तो मन्त्रदानसमन्वितः। द्वादशीयं मया-द्यापि क्रियते बलवृद्धये। मल्लानां जयदा यस्मान्मल्ल-द्वादशिसंज्ञिता। तस्मान्मल्लैः प्रकर्त्तव्या मल्लयुद्धजया-र्थिभिः। अन्येषामपि कौन्तेय! सर्वार्थजयदायिनी। इमां चीर्त्वा पापसङ्घैर्मुच्यते नात्र संशयः। भण्डीर-पादपतले मिलितैर्महद्भिर्मल्लैरनाकुलबाहुबलं नियुद्धैः। सम्पूजितः सपदि यत्र तिथौ ततश्च सा द्वादशी भुविगता बलमल्लसंज्ञा”। महाजयासप्तमीव्रतं भविष्यपु॰
“शुक्लपक्षे तु सप्तम्यां यदासंक्रमते रविः। महाजया तदा स्याद् वै सप्तमी भा-स्करप्रिया। स्नानं दानं जपो होमः पितूदेवाभिपूज-नम्। सर्वं कोटिगुणं प्रोक्तं तपनेन महौजसा। यस्त्वस्यां मानवो भक्त्या घृतेन स्नापयेद्रविम्। सोऽश्व-मेधफलं प्राप्य ततः सूर्य्यपदं व्रजेत्”। महातपोव्रतं महाभारते
“मासि मासि त्रिरात्राणि कृत्वातु नियतेन्द्रियः। गणाधिपत्यं प्राप्तोति निःसपत्नमनावि-लम्। यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः। अतिरा-त्रस्य यज्ञस्य मवै फलमुपाश्नुते। दशवर्षसहस्राणि स्वर्ग-लोके महीयते। तत्क्षयादिह चागत्य माहात्म्यं प्रति-पद्यते। यस्तु मंवत्सरं पूर्णञ्चतुर्थं भक्तमश्नुते। अहिंसानिरतो नित्यं सत्यवाग्विजितेन्द्रियः। वाज-पेयस्य यज्ञस्य स फलं समुपाश्नुते। त्रिंशद्वर्षसहस्राणिवर्षाणां दिवि मोदते। अष्टमेन् तु भक्तेन जीवेत् संवत्-[Page5035-a+ 38] सरं नरः। गवां मेधस्य यज्ञस्य फलं प्राप्नोति मानवः। हंससारसयुक्तेन विमानेन स गच्छति। पञ्चाशत्तु सह-स्राणि कर्षाणि दिवि मोदते। पक्षे पक्षे गते राजन्!योऽश्नोयाद्वर्षमेव तु। षण्मासानशनन्तस्य भगवानङ्गी-राब्रवीत्। षष्टिवर्षसहस्राणि दिवमावसते स च। अश्नीयाद्वितीये पक्षे यस्तु सर्वदिनेष्विति। वीणानांवल्लकीनाञ्च वेणूनाञ्च विशाम्पते!। सुघोषैर्मधुरैः शब्देःस सुप्तः प्रतिबुध्यते। संवत्सरमिहैकन्तु मासि मासिपिबेत् पयः। फलं विश्वजितस्तात! प्राप्नोति स नरो-त्तमः। सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति। शत-ञ्चाष्टौ सुरकन्या रमयन्ति च तन्नरम्। सप्ततिञ्च सह-स्राणि वर्षाणां दिवि मोदते। मासादूर्ध्वं नरव्याघ्र!नोपवासो विधीयते”। महाफ{??}द्वादशीव्रतं विष्णुरहस्ये
“पौषे कृष्णे विशास्वासु-युक्ता चैकादशी भवेत्। तस्यां संपूजयेद्विष्णु मुपोष्य वि-विवन्नरः। सुगन्धपुष्पनैवे द्यैर्वस्त्रभूषणसम्भवैः। मासा-नुमासम्पूजयेत् विधिना जगतीपतिम्। प्राशनङ्काय-शुद्द्यर्थ कार्य्य मासक्तमेण तु। गोमूत्रमुदकं सर्पि-राचस्य कामतः परम्। ततोदूर्वादधिब्रीहितिलांश्चैवयवांस्तथा। जलमर्ककरैस्तप्तं दर्भांश्च क्षीरमेव च। द्वादश्यां भोजयेद्विप्रान् दधिक्षीरगुडौदनैः। मास॰क्रमेण विप्रेभ्यो दद्यात्सम्यक्कृते व्रते। घृतं तिल-व्रीहियवसुवर्णसंयुतं घटम्। मोदकैश्च युतं कुम्भमात-पत्रन्तु पायसम्। फाणितं चन्दनं मालाः सगन्थाश्चेतिदक्षिणाः। व्रतमेतन्महापुण्यं दृष्टादृष्टफलप्रदम्। क-र्त्तव्यं धर्मनिरतैर्विष्णुपूजनतत्परैः। व्रतमेतन्नरः कृत्वाबिप्राणां प्रवरे कुले। सुजन्मा जायते धीमान् येदवेदा-ङ्गपारगः”। महाफलव्रतं भविष्यपु॰
“शृणु कौरव! कर्माणि तिथिगुह्या-चितानि तु। श्रुत्वैव पापहानिः स्यात् कृत्वानन्तंफलं त्वभेत्। क्षीराशनः प्रतिपदि। पुष्पाहारो द्वि-तीयायाम्। लवणबर्जितं तृतीयायाम्। तिलान्नाशीचतुर्थ्याम। क्षीराशवः पञ्चम्याम्। फलाशनः षष्ठ्याम्। शाकाशनः सप्तम्याम्। विल्वाहारोऽष्टम्याम्। पिष्टा-शनो नवम्याम्। अनग्निपकाहारो दशम्याम्। एका-दश्यामुपवासः। घृताशनो द्वादश्याम्। पायसाहार-स्त्रयोदश्याम्। यावान्नाहारश्चतुर्दश्याम्। गोमूता-हारः कुशोदकप्राशनः पौर्णमास्मात्{??} धिः। [Page5035-b+ 38] उक्तानि प्राशनान्येवं विधिपूर्वमुदाहृतम्। क्षीरं प्रति-पदायान्तु सर्वासु च विधीयते”। महत्तमव्रतं स्कन्दपु॰
“वैदिकेन विधानेन व्रतं पुण्यं मह-त्तमम्। कस्मिस्तिथौ तु कर्त्तव्यं विधानं तद्वदस्व मे”। स्कन्द उवाच
“मासि मासि भाद्रपदे शुक्ले च प्रतिपत्तिथौ। नैवेद्यन्तु पचेन्मौनी षोडशत्रिगुणानि च। फलानि पिष्टपक्वानि दद्याद्विप्राय षोडश। देवाय षो-डशैतानि दातव्यानि प्रयत्नतः। भुञ्जते षोडश तथाव्रतस्य नियमाश्रयात्। सौवर्णं कारयेद्देवं यथा शक्त्याहिरण्मयम्” इत्यादि। महाराजव्रतं स्कन्दपु॰
“यदागस्त्य! चतुर्दश्यामार्द्रा भाद्र-पदाथ वा। सितायामसितायां वा न विशेषो यथागवि। तदा लब्धैकभूर्भूत्वा त्रयोदश्यां यथाविधि। सर्वव्रतं महाराजं तदा संकल्पयेन्नरः। चतुर्दश्यां ततःकुर्य्यात्तिलगोमूत्रगोमयैः। मृदाथ गञ्चगव्येन स्नानंशुद्धाम्बुना ततः। शिवसंकल्पमन्त्रस्य ततो दशशतेपठेत्”। शिवसंकल्पमन्त्रो यज्राग्रतो दूरमित्यादिर्यजुः-शाखाप्रसिद्धः
“पञ्चाक्षरस्तु शूदस्य जन्मकोटिकृतैस्ततः”। मुच्यते पातकै मर्वैस्तत्कृत्वा नात्र संशयः”। महालक्ष्मीव्रतं सकन्दपु॰
“महाराज! निबोधेदं महा-लक्ष्मीव्रतं शुभम्। भद्र! भाद्रपदे मासि शुक्लाष्टम्यां नरो-त्तम!। स्तुत्वाभ्यर्च्य महालक्ष्मीमे{??}भक्तं प्रकल्प्य च। कुङ्कुमाक्तघृतं सूत्रं षोडशग्रन्थिसंयुतम्। तन्तुभिस्तत्-प्रमाणैश्च बधीयात्तु अरे गुणम्। दूर्वाक्षतप्रवालानांषोडशैव तु षोडश। पुनरेवाश्विने मासि कृष्णाष्टम्यांदिने शुभे। उत्सवं कारयेद्देव्यास्तूर्य्योपशतनादितम्”। महाव्रतं कालिकापु॰
“महाव्रतमथो वक्ष्ये येनारोहति तत्पदम्। सुरासुरमुतीनाञ्च दुर्लभं विधिना शृणु। पर्वण्याश्वयुजस्यान्ते पायसञ्च घृतप्लुतम्। नक्तं भुञ्जीतशुद्दात्मा चन्दनञ्चैक्षवान्धितम्”। आश्वयुजस्यान्ते का-र्त्तिके। पर्वणि अमावस्यायां कार्त्तिक्यन्त इत्यर्थः। ऐक्षव इक्षुरसः। लिङ्गपु॰
“अष्टम्याञ्च चतुर्दश्यां पक्ष-योरुमयोरपि। वर्षमेकं ततो भुक्त्वा नक्तं यः पूजयेच्छि-वम्। सर्वयज्ञफलं प्राप्य स याति परमाङ्गतिम्”। विष्णुधर्मोत्तरे
“योगभूतं हरिं देवं चातुर्मास्यमुपोषि-तम्। अर्चयेत् पौर्णमास्यान्तु सोऽश्वमेधपालं लमेत्”। योगभूतं सकलम्
“ब्रह्मभूतममावास्यां पूजयेत्तामुपो-पितः। राजसूयमवाप्नोति कलमुद्धरति स्वकम्”। [Page5036-a+ 38] ब्रह्मभूतं निष्क{??}म्
“ब्रह्मभूतममावास्यां पौर्णमास्यां तथैवच। योगभूतं परिचरन् केशवं मदमाप्नुयात्। अ-{??}र्थं प्रीतिमाप्नोति मासपक्षांस्तयोः सदा। पूजितःसोपवासेन भक्त्या देववरो हरिः। महाव्रतमिदं ख्यातंसर्वकल्मषनाशनम्। संवत्सरमिदं कृत्वा नाकपृष्ठेमहीयते” इत्यादि। महासप्तमीव्रतं भविष्यपु॰
“माधस्य शुक्लपक्षे तु प{??}म्या{??}कुरूद्वह!। एकभक्तं समाख्यातं षष्ठ्यां नक्तमुदाहृतम्। सप्तम्यामुषवास{??} केचिदिच्छन्ति सुव्रत!। षष्ठ्यां केचि-दुशन्तीह सप्तम्यां राधनं किल। कृतोपवासः षष्ठ्यान्तुपूजयेद् भास्करं{??}। रक्तचन्दनमिश्रैस्तु करवीरैःसमाहृतै। गुग्गुलेन महाबाहो! सुगन्धेन च सुव्रत!। पूजयेद्देवदेवेशं ग्रहेशं शङ्करं रविम्”। शङ्करं सुखकर-मित्यर्थः
“एवं हि चतुरोमासान् माघादीत् पूजयेद्र-विम्। आत्मनश्चापि शुद्ध्यर्थं प्राशर्{??} गोमवस्व च। स्नानञ्च गोमयेनेह कर्त्तव्यञ्चात्मशुद्धये। ब्राह्मणान् दि-व्यभौमांश्च भोजयेच्चापि शक्तितः”। दिवि देवकुले भवाःदिव्या इतरे भौमाः।
“ज्यैष्ठादिष्वसि{??}तेषु श्वेतचन्द-नमुच्यते। श्वेतानि चापि पुष्पाणि शुभगन्धान्वितानिवै। कृष्णागुरु तथा धूपं नैवेद्यं{??}ं त्वतम्। तेनैववाह्मणान् साधून् भोजयेच्च महामते!। प्राशयेत् पञ्च-गव्यन्तु स्नानं तेगैव सुव्रत!। कार्त्तित्तादिषु मासेषुअनस्तिकुसुमैः स्मृतम्। पूजनं कुरुशार्दू{??}!{??}पञ्चैवा-षराजितः। नैनेद्यं गुडपूपाश्च तथैवेक्षुरसः स्मृतः। तेनैव ब्राह्मणान् स्नातो भोजयेच्च{??}क्तितः। कुशोदकंप्राशयेच्च स्नानञ्च कुरु सिद्धये। तृतीयषार{??}न्तेमाशे मासि महामते!। भोजनं तत्र दानञ्च द्विगुणंममुदाहृतम्।{??} पूजा च कर्त्तव्या शक्तितो{??}। र{??}स्य चापि यानन्तु रथया{??} च तव्रत!। रथस्य प्रा प्रहेतोर्वै कर्त्तव्या विमवे सति। दानं कार्य्य-र{??}ह यथोक्तं विमवे सति। इत्येषा{??}ता पुत्र!{??}शथाङ्कसप्तमी शुभा। सप्तमीत्ति महाख्याता महापुख्यामहादया। यामु{??}पा पवं पुत्रान् कीर्त्तिं विद्यांसमश्नुते”। महे{??}रव्रतं विष्णुधर्मोत्तरे
“शुक्लपक्षादथारभ्य फास्गुनस्यनराधिप!। पूजयेत् तु चतुर्दश्यां सोपवासो प्रहेश्व-रम्। गन्धमाल्यनमस्कारदीपधू{??}न्नसन्त्रदा। व्रता{??}गां तथा दस्मा व{??}ष्टोमफलं लभेत्। एतदेव[Page5036-b+ 38] व्रतं कृत्वा शुक्लपक्षे तु वत्सरम्। पौण्डरीकमवाप्नोतिकुलमुद्धरति स्वकम्। चतुर्दशाद्वयञ्चेतत् कृत्वा संवत्-सरं नरः। मासि भासि यथाशक्त्या सर्वान् कामा-नयाप्नुते। आसाद्य कामांश्च महेश्वरस्य तत्रापि कालंसुचिरहु राजन्!। सायुज्यमायाति महेश्वरस्य सर्वे-श्वरस्यापतिमा{??} त{??}अ”। महेश्वराष्टमीव्रतं विष्णुधर्मोत्तरे
“शुक्लपक्षात्तथारभ्य सौम्या-ष्टम्यां नराधिप!। पूजयेत् सोपवासस्तु देवदेवं त्रि-कोचनम्”। सौम्याष्टम्यां गार्गशीर्षाष्टव्याम्
“लिङ्गेवाप्यथ चार्च्चायां कमले यदि वा स्थ{??}। घृतक्षीराभि-षेकेन स्वातेन विविधेन वा। ग{??}रदीप-धूपा{??}सस्पदा। गीतेन नृत्यवाद्येन वह्निमन्तर्प{??}न च। ब्राह्मणानाञ्च पूजाभिर्यथावन्मनुजोत्तम!। व्रतावसानेदत्त्वा तु तथा धेनुं पयस्विनीम्। पोण्डरीकमवाप्नोति{??}गलाकञ्च गच्छति”। महोत्सवव्रतं स्कन्दपु॰
“शालिपिष्टभवैर्द्दीपैः प{??}भिर्नवमि-स्तथा। कुर्य्यादारात्रिकं शम्भोः स्वर्णपात्रैः समुज्ज्यलैः। विचित्रवस्त्रपूजा च कर्त्तव्या महती शिवे। पुष्पमण्ड-लिकां चित्रां सवितामोज्ज्वलो शुभाम्। महोत्सवेनविधिवद्वेयं तूर्य्यरवेण च। विविधैर्भक्ष्यभोज्यैश्च नै-वेद्यञ्जोपकल्पयत्। सम्यक्{??}म्पादनीया स्यात् रथयात्रापिनाकिनः। प्रे{??}णीयैस्तथा नृत्यैर्वाद्यैर्यन्तैश्च शोभनैः। पूजयेच्छिवभक्ताश्च विप्रानन्यांश्च भक्तितः। प्रीयतां शिवईत्युक्त्वा नक्तं भुञ्जीत च स्वयम्। वर्षेवर्षे प्रकर्त्तव्यंएतच्चैत्रोत्सवं महत्। शिवभक्तैस्तथान्यैश्च कीर्त्ति-श्रेयोविवृ{??}ये”। माघमासव्रतं भविष्योत्तरे
“एतस्मात् कारणात्{??}! माघ-{??}नं विशिष्यते। अहन्यहनि दातव्यास्तिलाः शर्क-रयार्न्विताः। त्रिमागस्तु तिलानां हि चतुर्षः शर्करा-ग्वितः। अनभ्यङ्गो वरारोह सर्वं मासं नयेद् व्रती।{??}र्यो मे प्रीयतां देवो विष्णुमूर्त्तिर्निरञ्जनः। माघाव-साने तभगे! षड्रसं सम्पदापयेत्। दम्पत्योर्वाससी शुक्लेसप्तधान्यसमन्वित। त्रिंशत्तु मोदका देयाः कृतास्तिल-मयाः शुभः। मरिचैर्निर्मिताः श्लक्ष्णाः नारङ्गाणि चदापयेत्”। नातृनबमीव्रतं भविष्योत्तरे
“मातरश्चैव संपूज्याः यथाशक्त्या प्रयत्नतः। तदग्रे क्षिवभक्तांस्तु यतावार्य्यं विगे-ततः। एवं कृत्वा विषानेन सर्वत्र जयमाप्नुयात्”। [Page5037-a+ 38] इत्युपक्रमे मातृपामान्यमिधाय उक्तम्
“नवरयां पूच-येद् यस्तु माति चाश्वयुजे सदा। अद्यण्डितप्रभाव{??}भवते नात्र संशयः”। मातृव्रतं वराहपु॰
“मातॄणामष्टमी दत्ता ब्रह्मणा तिथि-रुत्तमा। एताः क्षमापयेद्भक्त्या निराहारो नरःसदा। तस्य ताः परितुष्टास्तु क्षेमारोम्यं ददत्यपि”। मार्गशिर्षव्रतां महाभारते
“मार्गशीर्षन्तु यो मासमेक-भक्तेन संक्षिपेत्। भोजयेत्तु द्विजान् भक्त्या मुच्यतव्याधिकिल्विषैः। सर्वकल्याणसम्पूर्णः सर्वदुःखविव-र्जितः। उपोष्य व्याधिरोहितो वीय्यवानभिजायते। कृपिभागी बहुवनो बहुधान्यश्च जायते”। मार्त्तण्डसप्तमीव्रतं भविष्यपु॰
“मार्त्तण्डसप्तमीं कृष्ण!अथान्यां वच्मि तेऽनथ!। पौषमासे सिते पक्षे सप्तम्यांसमुपोषितः। सम्यक् संपूज्य मार्त्तण्डं मार्त्तण्ड इतिवै जपन्। पूजयेत् कुतपं भक्त्या श्रद्धया परयान्वितः”। कुतपः सूर्य्यः
“पुष्पधूपोपहाराद्यैरुपवासैः समाहितः। मार्त्तण्डेति जपञ्चाम पुनस्तद्गतमानलः। विप्राय द-क्षिणां दद्यात् यथाशक्त्या सुगज्वज। द्वितीयेऽह्नि पुन-स्तात! तत्रैवाभ्यर्च्चनं रवेः। तेनैव नाम्ना संबोध्य दत्त्वाविप्राय दक्षिणाम्। ततो भुञ्जीत गोदेहसमूद्भूतसम-न्वितम्। एवमेवास्विलान् मासान् उपोष्य प्रयतःशुचिः। दद्याद्गवाह्निकं विद्वान् प्रतिमासञ्च शक्तितः। पारिते च पुनर्वर्षे यथापूर्वं गवाह्निकम्। दत्त्वा पर-गवे भूयः शृणु यत् फलमश्नुते। स्त्रर्णशृङ्ग्यः पञ्च-गावः षष्ठञ्च वृषभन्नरः। प्रतिमासं द्विजातिभ्यो दत्त्वायत् फलमश्नुते। तदाप्नोत्यखिलं सम्यग्व्रतमेतदुपोषितः। तञ्च लोकमवाप्नोति मार्त्तण्डो यत्र तिष्ठति”। मासव्रतं देवीपु॰
“मार्गे रसोत्तमं दद्याद् घृतं पौर्षे महा-फलम्”। रसोत्तमं लवणम्
“तिलान्माघे मुनिश्रेष्ठ!सप्त धान्यानि फाल्गुने। विचित्राणि च वस्त्राणि चैत्रेदद्याद् द्विजातये। वैशाखे द्विज! गोधूमान् ज्यैष्ठेनोयभृतं घटम्। आषाढे चन्दनं देयं सकर्पूरं महाफलम्। नवनीतं नभोमासि छत्रं प्रौष्ठपदे मतम्। गुडशर्करवर्णासान्{??}ड्डुकानाश्विने मुने!। दीपदानंमहापुण्यं कार्त्तिके यः प्रयच्छति। सर्वकामानवाप्नोतिक्रमेण तु उदाहृतम्”। मासोपवासव्रतं विष्णुधर्मोत्तरे
“आश्विगस्यामले पक्षे एका-दश्यामु{??}षितः। ब्रतमेतत् तु गृह्नीयाद् यावत्{??}ं-[Page5037-b+ 38] शद्दिनामि तु। वासुदेवं ससुद्दिश्य मार्त्तिकं{??}लं नरः। मासञ्चोपवसेद्यस्तु{??} मुक्तिफलभाग्भवेत्।{??}त-स्यासुये भक्त्या त्रि{??}लं कुसुमैः शुभैः। मालतीन्दी-वरैः पद्मैः कमरौः समुगन्धिभिः। कुङ्कुमोशीरकर्पू-रैर्बिलिप्य वरश्चन्दनैः। नैवेद्यधूपदीपाद्यैरर्चयेत जना-र्दगम्” इत्यादि। मुक्तिद्वारसप्तमीव्रतं{??}स्यपु॰
“अश्वमेधादियज्ञानां लक्ष-कोट्यर्बुदैरपि। तत् फलं लभ्यते पुंसा मुक्तिद्वा रव्रते{??}यत्। योगमार्गमनभ्यस्य यथेष्टाचारवानपि। अथयुक्तो मृतश्चापि व्रतेनानेन मुच्यते। सप्तमीं प्राप्य ह-स्तेन दन्तधावनमाचरेत्। नमोर्क्कायेत्युदीर्य्याथ अर्क्क-काष्ठेन भक्तिमान्। अथ वा पुष्य ऋक्षेण जलेनाप्ला-वनं तथा। हुत्वा पवित्रं देवानां मन्त्रेणाकसमित्स्थितम्। रक्तचन्दनपद्मन्तु लिखेद्गोमयवारिणा। प्रा-ङ्गणे षोडशदलं समर्भदलकर्णिकम्” इत्यादि। मुखव्रतं पद्मपु॰
“मुखवासं परित्यज्य समान्ते गोप्रदोभवेत्। यक्षाधिपत्यमाप्नोति मुखव्रतमिहोच्यते”। मुनिव्रतं विष्णुधर्मोत्तरे
“सप्तम्यां मुनिशार्दूल! इष्टानभ्यर्च्च-येन्मुनीन्। स्वाध्यायफलमाप्नोति तद्धामफलमश्नुते”। मृगशीर्षव्रतं पद्मपु॰
“श्रावणे मासि कृष्णे च शङ्करः प्रथ-मेऽहनि। त्रिपर्वणा त्रिशल्येन त्रिमुखेन शरेण च। मुखानि त्रीणि चिच्छेद यज्ञस्य मृगरूपिणः। तैःशिरोभिस्तपस्तप्तं वरः प्राप्तोऽथ शङ्करात्”। त्रिशल्येनत्रिमुखेन शल्यरूपत्रिमुखेनेत्यर्थः। मृगरूपिणस्त्रिमुख-मृगरूपिण इत्यर्थः
“स्त्रीभिः पूज्यानि तानीति न म-नुव्यैः कदाचन। मृगशीर्षं ततः कृत्वा लिङ्गाकारन्तुमृण्मयम्। क्षीरेण तपनीयं वै पूजनीयं यथाविधि। अर्घैः पुष्पेश्च धूपैश्च नैवेद्यैर्विविधैरपि। याकैः सौवर्च्चला-भिश्च कृतैः पिष्टमयैः शुभैः”। सौवर्चलाभिः अतसी-मिश्रपिष्टविकृतिभिः।
“कांस्यभाजनवाद्यैश्च पश्चात् का-र्व्यञ्च भोजनम्”। मेघपालीतृतीयाव्रतं भविष्यपु॰
“अश्वयुकशुक्लपक्षे चतृतौयायां युधिष्ठिर!। मेघपालो प्रदातव्या भक्त्यास्त्रीभिर्नृभिस्तथा। अर्च्यैः विरूढैर्गोधूमैः सप्तधान्य-समन्वितैः। ति{??}तण्डुलमिश्चैश्च दातव्या धर्मलिप्मुभः”। युधिष्ठिर उवाच
“कीदृशी सा भवेद्वल्ली मेघपालीजनार्दन!। लक्षणं कीदृशं तस्याः को मन्त्र इति मेषद”। श्रीकृष्ण उवाच
“ताम्बूलसदृशैः पत्रैरक्ता वल्ली[Page5038-a+ 38] समञ्जरी। वाटीषु या न मार्गेषु प्रेक्षिता पर्वतेषुवा। यत्र वा दृश्यते राजन्! शुचौ देशे समुत्थिता। मेघपाली समभ्यर्च्या फलैः पुष्पैस्तथाक्षतैः। खर्जूरैर्नालि-केरैश्च नारङ्गैर्दाडिमैस्तथा। वीजपूरैः कपित्थैश्च सप्त-धान्यैर्विरूदकैः”। मौनव्रतं स्कन्दपु॰
“नभस्यत्र व्यतिक्रौन्ते नभस्ये च प्रव-र्त्तिते”। नभाः, श्रावणः, नभस्यो भाद्रपदः तौ चात्रपूणिंमान्तौ ग्राह्यौ।
“एवं कालक्रमेणैव श्रावणी पू-र्णिमा गता। तद्दिनं प्राप्य विप्रेणेत्यग्रेणाभिधा-नात्।
“व्रतमेतत् तु कर्त्तव्यं षोडशैव दिनानि तु। एतच्छ्रुत्वा ततो देवी प्रहृष्टा वाक्यमब्रवीत्”। पार्वत्यु-वाच
“किं विधानं पुरा प्रोक्तं व्रतं मौनव्रतात्मकम्। तत्समस्तं समाचक्ष्व प्रसादं कुरु मे प्रभो!”। ईश्वरउवाच
“तद्विनञ्चव सम्प्राप्य सभार्य्यः सह बान्धवैः। गत्वा प्रभातसमये स्नानार्थं जलसन्निधौ। तडागे वानदीदेशे गत्वा प्रस्रवणेऽथ वा। स्नानं कार्य्यं तदासर्वैः शिवध्यानपरायणैः। दूर्वाकाण्डं सुसंगृह्य षोड-षग्रन्थिसयुतम्। तत्सूत्रञ्च करे न्यस्य स्त्रिया वामेनृ{??}क्षिणे। एवंविधानं कर्त्तव्यं यावत् स्यात् प्रति-पद्दिनम्। तद्दिने चैव संप्राप्ते समाप्त्यर्थं व्रतस्य तु। मौनेनैवानयेत्तोयं मौनात् गौधूमपेषणम्। मौनेनैव चकर्त्तव्यं नेवेद्यं भोजनादिकम्। सर्वोपस्करमादाय गत्वा( जलसन्निधौ। स्नानं कार्य्यं तदा तत्र नित्य-कर्म ततः परम्। देवर्षिमनुजानाञ्च पितॄणाञ्चैव तर्प-णम्। पश्चाद्देवाधिदेवेशं मन्त्रैः सम्पूजयेत् ततः”।{??}मचतुर्थीव्रतं कूर्मपु॰
“भरण्यान्तु चतुर्थ्यान्तु शनैश्चरदिनेयमम्। पूजयन् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः”। यमद्वितीयाव्रतं भविष्योत्तरे
“कार्त्तिके शुक्लपक्षस्य द्वितीयायांयुधिष्ठिर!। यमो यमुनया पूर्वं भोजितः स्वगृहेसदा। द्वितीयायां महोत्सर्गे नारकीयाश्च तर्पिताः। पापेभ्योऽपि विमुक्तास्ते मुक्ताः सर्वनिबन्धनात्। भ्रंशि-ताश्चातिसन्तुष्टाः स्थिताः सर्वे यदृच्छया। तेषां महोत्-सवी वृत्तो यमराष्ट्रमुखावहः। अतो य{??}अद्वितीया साव्रोक्ता लोके युधिष्ठिर! अस्यां निजगृहे पार्थ! नभोक्तव्यमतोबुधैः। स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टि-वर्द्धनम्”। यमव्रतं भविष्यपु॰
“दशम्यां यमराडिष्टः सर्वव्याधिहरोध्रुवम्। मूलमन्त्राः स्वसंज्ञाभिरङ्गमन्त्राश्च कीर्त्तिताः। [Page5038-b+ 38] पूर्ववत् पद्मपत्रस्थः कर्त्तव्यश्च तिर्थीश्वरः”। इदं व्रतं वैश्वा-नरप्रतिपद्व्रतवद्व्याख्येयम्। कूर्मपु॰
“उपोषित-श्चतुर्दश्यां कृष्णपक्षे समाहितः। यमाय धर्मराजायमृत्यवे चान्तकाय च। वैवस्वताय कालाय सर्वभूतक्षयायच। प्रत्येकं तिलसंयुक्तान् दद्यात् सप्तोदकाञ्जलीन्। स्नात्वा नद्याञ्च पूर्वाह्णे मुच्यते सर्वपातकैः”। महाभारतं
“यजिष्णुः पञ्चमीं षष्ठीं यमान् यो भोजयेद् द्विजान्। अष्टमीमथ कौन्तेय! शुक्लपक्षे चतुर्दशीम्। उपोष्यव्याधिरहितो रूपवानिति जायते”। विष्णुधर्मोत्तरे
“यत्र कचन नद्याञ्च यत्र कृष्णा चतुर्दशी। अनर्काभ्यु-दिते काले देवं सम्पूजयेद यमम्। धूम्रवर्णं चित्रगुप्तंकालपाशञ्च यादव!। मृत्युं स्वर्गञ्च धर्मज्ञं गन्धमाल्यान्न-सम्पदा। यमोदधार इत्युक्त्वा तिलांश्च जुहुयात् ततः। नमो यमायेति तथा स्त्रीशृद्रस्य विधीयते। कृमरं{??}भो-जयेद्विप्रान् यथाशक्ति नरोत्तमः। दद्याद् व्रतान्तेविप्राय तथैब च पयस्विनीम्। कृत्वा व्रतं वत्सरमेत-दिष्टं न याति राजन्! नरकं मनुष्यः। पापक्षयप्राप्य स याति नाकं मानुष्यमासाद्य स धर्मवान् स्यात्”। यमादर्शनत्रयोदशीव्रतं भविष्योत्तरे पूर्वाह्णे मार्गशीर्षादौवर्षमेकं निरन्तरम्। त्रयोदश्यां सौम्यदिने सूर्य्या-ङ्गारकवर्जिते। मम नाम्रा द्विजानष्टौ पञ्च चैव समा-ह्वयेत्। पुराणवेदतत्त्वज्ञान् स्वाचारांस्तन्त्रदर्शनान्। सूर्य्यैकशरणात् साधून् सर्वभूतहिते रतात्। शुचौदेशे शुभे पट्टे प्राङ्मुखानुषवेशयेत्। अन्तर्वासोयुतान्भक्त्या यत्नेनाभ्यञ्जयेत तान्। त्रयोदश्यां त्रयोदश्यांये करिष्यन्ति भूतले। एकभक्तेन नक्तेन उपवासेन वापुनः। यमादर्शननाम्ना वै व्रतं सर्वव्रतोत्तमम्। तेसर्वपापनिर्मुक्ता विमानेनार्कबर्चसा। यास्यन्तीन्द्रपुरींरम्यामप्सरोगणसंवृताम्”। युगादिव्रतम् आदिपु॰
“वैशाखस्य तृतीयायां श्रीसमेतंजगद्गुरुम्। नारायणं पूजयेथाः पुष्पधूपविलेपनैः। वस्त्रालङ्कारसम्भारैर्नैवेद्यैर्विविधैस्तथा। ततस्तस्याग्रतोधेनुर्लवणस्याढकेन तु। कार्य्या कुरुकुलश्रष्ठ! चतुर्भागेणवत्सकम्। अविचर्मोपरि स्थाप्य कल्पायत्वा विधानतः। शास्त्रोक्तक्रमयोगेन ब्राह्मणायोपपादयेत्। श्रीधरःश्रीपतिः श्रीमान् श्रीशः संप्रीयतामिति। अनेन वि-धिना दत्त्वा धेनुं विप्राय भारत!। गोसहस्रप्रदानस्यफलं प्राप्नोत्यसंशयम्। तथैक कार्त्तिके मासि नवम्यां[Page5039-a+ 38]{??}अक्तभुग् नरः। स्नात्वा नद्यां तडागे वा देवस्वातेऽथ वाधुनः। उमामहायं वरदं नीलकण्ठमथार्चयेत्। पुष्प-धूपादिनैवेद्यैर्दीपगन्धादिभिस्तथा। धेनुं ति{??}मयींदद्यात् पुराणोक्तविधानतः। अष्टभूर्त्तिर्नीलकण्ठःप्रीवतामिति कीर्त्तयेत्। तदनु प्राप्यते पुण्यं पार्थ!न केन वर्ण्यते। दत्त्वा तिलमयीं धेनुं शिवलोकमवाप्नुयात्। त्रयोदशी नभस्ये या पितृन् तत्र समर्चयेत्। पितन् पायसदानेन सुमनोभिर्घृतेन च। भोजयेद्ब्राह्मणान् भक्त्या वेदवेदाङ्गपारमान्। पितॄनुद्दिश्यदातव्या{??} कां{??}दोहना। प्रत्यक्षा गौर्महाभाग!नरुणी सुपयस्विनी। पिता पितामहश्चैव तथैव प्र-पितामहः। मातामहप्रभृतयस्तथैवात्र त्रयो मम। प्रीयन्ताङ्गोप्रदानेन इति दत्त्वा विसर्जयेत्। कृतेनानेनराजेन्द्र! यत् पुण्यं प्राप्यते पुनः। तदन्येन न शक्यन्तुवक्तुं वर्षशतैरपि। पुत्रांश्च पौत्रांश्च धनं सर्वं सुमह-दीप्सितम्। इहैवाप्नोति पुरुषः परुत्र च पराङ्गतिम्। षञ्चदस्यान्तु भावस्य पूजयित्वा पितामहम्। गायत्र्यासहित देवं वेदवेदाङ्गभूषितम्। नवनीतमयीं धेनुंफलैर्नानाविधैर्युताम्। सहिरण्या सवत्सान्तु ब्राह्मणायनिवेदयेत्। कीर्त्तयेत् प्रीयतां मेऽद्य वद्मयोनिः पिता-महः। यत्स्वर्गे यच्च पाताले यना{??}र्ये किञ्चिद्दुर्लभम्। तदवाप्नोत्यसन्दिग्धं पद्मयानेः प्रसादतः। यानि चान्यानिदानानि दीयन्ते सुवहून्यपि। युगादिषु महाराज!अक्षयाणि भवन्ति हि। वित्तहीनः स्वशक्त्या योददाति स्वल्पकं वसु। तदप्यक्षयतां याति नात्र कार्य्याविचारणा”।{??}गावतारव्रत भविष्यपु॰
“मासि प्रोष्ठपदे यत् तु कृष्ण-पक्षे त्रयोदशी। अवतीर्णं युगं तस्यां त्रेतायान्तु स-माहित!”। त्रेतायां विनिकृत्तायां एतस्यां तिथौ युग{??}वतीर्णमिति सम्बन्धः अर्थाद् द्वापरमिति लभ्यते
“गो-मूत्रं गामयं दूर्वां समालभ्य च मृत्तिकाम। स्नाया-{??}दे तडागे वा तिथौ तस्यां समाहितः। कृतन्तेन{??}वच्छाद्धं गयायान्तु न संशयः। युमादौ यस्तिलो-कशं स्नापयेद्गण्डध्यजम्। तक्षारजलैः पुण्यैः सशच्छेद्वैष्णवीं पुरीम्। स्वापिताऽथ विलिप्तोऽथ पूजितोथनमस्कृतः। युगादौ युगकर्त्ता तु नृणां मुक्तिप्रदो हरिः। व्रते वै सर्वयत्नेन युगादौ जगतीपतिं। पूजतीयो जनैर्भक्त्य सर्कदुः{??}हरो हरिः”। [Page5039-b+ 38] योगव्रतं मविष्योत्तरोक्तम्
“विष्कुम्भादिषु यागेषु भवेदेका-शनो नरः। यो ददाति क्रमात् पार्थ! घृततैलपलैक्ष-वम्। यवगोधूमवरणं निष्पावाच्छालितण्डुलान्। लवणं दधि दुस्धयु वस्त्रं कनकमेव च। कम्बलं गोवृषंछत्रमुपानद्युगलं तथा। कर्पूरं कङ्कुमञ्चैव चन्दनंकुसुमानि च। लौहं ताम्रञ्च कास्यञ्च रोप्यञ्चोति युधि-विर!। स्नातः स्वशक्त्या विधिवत् सर्वपापैः प्रसुच्यके। न वियोगमवाप्नोति योगव्रतमिदं स्मृतम्”। योगेश्वरद्वादशीव्रतं धरणीव्रते
“शृणुष्व भक्तितो राजन्। कार्त्तिकैकादशीं तथा। उपोष्य बिधिना येन सर्वासांप्राप्नुतात् फलम्। प्राग्विधानेन संकल्प्य तद्वत्{??}नं{??}समावरेत्। विलोमेनार्चयेद्देवं नारायणमकल्मषम्”{??}क्षाबन्धवपौर्णमासीव्रतं भविष्योत्तरे
“घवावृतेऽम्बगे पार्थ!शाद्बले धरणीतले। संप्राप्ते श्रावणे मासि पौर्ण-मास्यां दिनोदये। स्नानं कुर्वीत मतिमान् श्रुतिस्मृति-विधानतः। ततो देवान् पितृंश्चैव तर्षंयेत् परमाम्भसा। उपाकर्मादि चैवोक्तमृषीणाञ्चैव तर्षणम्। कुर्वीग ब्रा-ह्मणः श्राद्धं वेदानुद्दिश्य सुब्रत!। शूदाणां मन्त्राहितंस्रानं दानञ्च शस्यते। ततोऽपराह्णसमये रक्षापोटलिकाशुभाम्। कारयेदक्षतैः शस्तैः सिद्धार्थैर्हेमभूषितास्। षस्त्रैर्विचित्रैः कार्पासैः क्षोमैर्वा मलवर्जितैः। दूर्वावर्ण-सहितैश्चित्रा दुरितोपशमनाय। उपलिप्ते गृहोद्देशेदत्तचतुष्के न्यसेत् कुम्भम्। पीठ दत्त्वोपरी विशेत्राजामात्यैर्युतश्च सुमुहूर्त्ते। वेश्याजनेन सहितोमङ्गलशब्दैः समुच्छितैश्चिह्नैः। रक्षाबन्धः कार्य्यःशान्तिध्वनिना नरेन्द्रस्य। देवद्विजातिशस्त्राण्यस्त्रैरक्षाभिरर्चयेत् प्रथमम्। तदनु पुरोधा नृपतेः{??}क्षांबध्रीत मन्त्रेण” इत्यादि। स्थनवमीव्रतं भविष्यपु॰
“कृत्वैवाश्वयुजे मासि कृष्णपक्षेनराधिप!। नवम्यामुपवासन्तु दुर्गादेवीं प्रपूजयत्। पुष्पधूपोपहारैस्तु ब्राह्मणानां च तर्पणैः। पूजयित्वारथं कृत्वा नानावस्त्रापशोभितम्। शोभितं ध्वज-मालामिः छत्रचामरदर्पणैः। मानापुष्पस्रजामिश्चसिंहैर्युक्तं मनोरमम्। कृत्वा स्वर्णमयीं दुर्ता महिषा-{??}नशोभिताम्। विन्यस्य रथमध्ये तु पूजयेत् कृत-लक्षणम्। तं रथं राजमार्गेण शङ्खभेर्य्यादिमि{??}नैः।{??}वम्यां भ्राभयित्वा तु नयेत् दुर्गालयं नृप!। तत्रजापरपूर्वन्तु प्रदीर्पाद्युपशोभितम्। नानाप्रक्षेपकैर्वीर{??}[Page5040-a+ 38]{??}मानेश्च बालकैः। जानरं कारयेत्तत्र पूजयानश्चचण्डिकाम्। प्रभाते स्नपनं कृत्वा तद्भक्तानाञ्च भोज-नम। रथं शोभासमायुक्तं भगवत्यै निवेदयेत्” !रशमप्तमीव्रतं भविष्योत्तेरे
“शुक्लपक्ष तु माघस्य षष्ठ्यामामन्त्र-एत् गृही। स्नानं शुक्लतिलैः कार्य्यं नद्यभावे तु कुत्र-चित्। विमले सलिले राजन्! विधिवद् वर्णधर्मतः। देवादीन् पूजयित्वा तु मत्वा सूर्य्यालयं ततः। सूर्य्यंसम्यक् नमस्कृव्य पुष्पधूपाक्षतैः शुभैः। आगत्य भवनंपश्चात् पञ्च यज्ञांश्च निर्बपेत्। संमोज्यातिथिभृत्यांश्चबालवृद्धाश्रितान् स्वयम्। विद्यमाने दिनेऽश्नोयाद्वाग्-यतस्तैलवर्जितम्। रात्रौ विप्रं समाहूय विधिज्ञंयेदपारगम्। संपूज्य नियमं कुर्य्यात् सूर्य्यमाधायचेतसि। सप्तम्यान्तु निराहारा भूत्वा भोगविवर्जितः। भक्ष्येऽष्टम्या जगन्नेत्र निर्विघ्नं तत्र मे कुरु!। इत्यु-च्चार्य्य नृपश्रेष्ठ! तोयं तोयेषु निक्षिपेत्। ततो वि-सर्ज्य तं विप्रं स्वपेद्भूमौ जितेन्द्रियः। ततः प्रातःसमुत्थाय कृतावश्यः शुचिर्नरः। कारयित्वा रथं दिव्यंकिङ्किणीजालमालिनम। सर्पोपस्करसंयुक्तं रत्नैःमर्वाङ्गचित्रितम्। काञ्चनं राजतञ्चाथ हयसारथि-संयुतम्। ततो मध्याह्नसमये कृतस्नानादिको व्रती। अतीर्ष्य गवीक्ष्यमाणस्तु पाषण्डालापव्र्जितम्। सौर-सृक्तं जपन् प्राज्ञः समागच्छेत् समालयम्”। र{??}आङ्गसप्तमीव्रतं भविष्यपु॰
“माघे मासि महादेव! सितेपक्षे जितन्द्रियः। षष्ठ्यामुपोषितो भूत्वा गन्धपुष्पोप-हारलैः। पूजयित्वा दिनकरं रात्रौ तम्याग्रतः स्वपेत्। विबुद्धस्त्वथ सप्तम्यां भक्त्या भानुं{??}मर्चयेत्। ब्राह्मणान्भोजयेद्भक्त्या वित्तशाठ्यं विवर्जयेत्। खण्डवेष्टैर्मोदकैश्चतथेक्षुगुडपूपकैः। प्रथमं वत्सरे पूर्णे सप्तम्यां कारयेद्वुधः। देवदेवस्य वै यात्रां पूर्वोक्तविधिना तथा। ” पर्वोक्तः विधिना नानातिथिप्रकरणस्यितरथयात्राविधि-{??}त्वथः।
“कृच्छ्रपादं व्रतं कुर्य्याद्रथारूढं रचितथा। पश्येद्भेक्त्या जगन्नाथं स याति परमां गतिम्। यतीयायामेकभक्तं चतुर्थ्यां नक्तमुच्यते। अयाचितन्तुपञ्चम्यां षष्ठ्याञ्चैव उपोषितः। सप्तम्यां पारणं कुर्य्यात्{??}ष्ट्वा देवं रथेस्थितम्। पूजयित्वा च विधिना भुक्त्या-टेवं त्रिलौचनम्। सौवर्णन्तु रथं कृत्वा ताम्रपात्रोपरिस्थितम। रथमध्ये न्यसेद्व्योम पूजितं मणि-भि{??}पम्”। [Page5040-b+ 38] रम्भात्रिरात्रव्रतं स्कन्दपु॰
“शुक्लपक्षे त्रयोदश्यां मासिज्यैष्ठे च सुव्रत!। त्रिरात्रं व्रतमुद्दिश्य भक्त्या ताकदलीं शुभाम्। स्नात्वा चैव शुचिर्भूत्वा व्रती सिश्चे-द्बहूदकैः। सूत्रेण वेष्टयेद्भक्त्या गन्धपुष्पादि दापयेत्। रात्रौ कुर्वीत नक्तं च अवदमेकं समाहितः। तथैवकदलीवृक्ष नित्यमेव प्रसेचयेत्। ज्यैष्ठे मासि। ततःप्राप्य द्वादश्याञ्चैव सुव्रत!। नद्यां वाथ तडागे वाशिवं संपूज्य चाक्षतैः। म्नात्वा च पूजयेन्नन्दिन्नुमा-देहार्द्धधारिणम्। एकभक्तं ततः कृत्वा नियमं कार-येत् व्रते। भाक्ष्येऽह त्रिदिनं लङ्घ्य सम्यगिष्ट्वा सर-श्वरोम्। त्वत्प्रसादात् ब्रतं मेऽस्तु निर्विघ्नेन महेश्वरि। रम्भायाः स्थण्डिलं कृत्वा विचित्रञ्च सुशोभवम। रम्भाया निकटे स्थित्वा गीतवाद्यसमन्वितम्। मण्डपंकारयेत्तत्र पुष्पमालाविभूषितम्। वितानेन च सयुक्तसर्वशोभासमन्वितम्। मध्ये कुर्वीत कदलीं फल ष्यादिसंतयुताम्। राजतीं शोभनाकारां जातरूपफला-चिताम्। वस्त्रयुग्मन्ततो दद्यात् सर्वालङ्कारभूषिताम्”। रविव्रतं भविष्यपु॰
“माघमासि समुद्युक्तस्त्रिसन्ध्यं योऽर्चय-द्रविम्। भवेत् षाण्मासिकं पुण्यं मासेनैव न संशयः”। रसकल्याणिनीतृतीयाव्रत ब्रह्मपु॰।
“अन्यामपि प्रवक्ष्यामितृतीयां पापनाशनीम्। रसकल्याणिनीमेतां पुरा-कल्पविदो विदुः। माघमासे तु सम्प्राप्य तृतीयां शु-क्लपक्षतः। प्रातर्गव्येन पयसा तिलैः स्नानं समाच-रेत्। स्नापयेन्मधुना देवीं तथैवेक्षुरसेन च। गन्धो-दकेन च पुनः पूजनं कुङ्कुमेन वै। दक्षिणाङ्गानिसम्पूज्य ततो वामानि पूजयेत्”।
“अनेन विधिनादेवीं मासि मासि सदार्चयेत्। लवणं वर्जयेन्माघे फाल्-गुने च गुडं पुनः। तवराजं तथा चैत्रे वर्ज्यञ्चमधु माधवे। पानकं ज्यैष्ठमासे तु तथाषाढे च जीर-कम्। श्रावणे वर्जयेत् क्षीरं दधि भाद्रपदे तथा। घतमाश्वयुजे तद्वदूर्जे वर्ज्याथ सर्जिका”। ऊर्जे, का-र्त्तिके। सर्जिका, रसाला लोके शिखरिणीतिप्र-सिद्धा।
“धान्यकं मार्गशीर्षे तु पौषे वर्ज्याथ शर्करा। व्रतान्ते करकं पूर्णमेतेषां मासि मासि च। दद्याद्वि-कालचेलायां भक्ष्यपात्रेण संयुतम्”। राथवद्वादशीव्रतं धरणीव्रते
“ज्यैष्ठमागेष्वेवमेव संकल्प्यविधिना नरैः। अर्चयेत् परम देवं पुष्पैर्नानाविधैःशुभैः। नमीराघवावेत्युक्त्वा प्रादौ पूर्वं समर्चयेत्। एव-[Page5041-a+ 38] मभ्यच्यं विधिवत् धृतकुम्भं प्रकल्पयेत्। प्राग्वद्वस्त्रयुगच्छन्नो सौवर्णौ रामलक्षणौ” इत्यादि। राजराजेश्वरव्रत कालोत्तरे
“बुधस्वात्यात्मिकोयोगो यदा-ष्टम्यां प्रजायते। उपोषितस्तु विधिना महाम्नानपुरःसरम्। सम्पूजयेद्विरूपाक्षमङ्गरागं चतुःसमम्। महा-वर्त्तिद्वय दार्घदीपं माष्टोत्तरं शतम्। लघुकुङ्कुमधू-पन्तु सितपुष्पैस्तु पूजयेत्। खण्डस्वाद्यान्यनेकानि नैवे-द्यानि प्रकल्पयेत्। आचार्य्याय शिवस्याग्रे ग्रैवेयमुकु-टाटिकम। रसनाकुण्डले चैव कङ्कणं मुद्रिकाद्वयम्। वाहनन्तु गजञ्चैव तदमावाद्धयोत्तमम्। सम्पूज्य परयाभक्त्या अन्नञ्च शर्कराघृतम्। राजराजेश्वरपदं प्राप्नुया-द्रोमसङ्ख्यया। राजराजेश्वरं तेन व्रतमेतत् प्रका-शितम्”। राज्यतृतीयाव्रतं विष्णुधर्मोत्तरे
“ज्यैष्ठे शुक्लतृतीयायां नि-राहारो नरः शुचिः। त्रिमूर्त्तिपूजनं कृत्वा तृती-यायां यथाविधि”। त्रिमूर्त्तिपूजनं तिसृणां मूर्त्तीनांवायुसूर्य्यचन्द्रमसां पूजनम्।
“कूपनदतडागाद्यैर्मिश्रैःप्रात शुचिर्जलैः। प्रत्यूषे पूज{??}द्वायुमनुलिप्ते शुभ-स्थले। गन्धमाल्यनमस्कारदीपधूपान्नसम्बदा। हीमंकुर्य्याद्यवैर्मुख्यर्वस्त्र दद्याद् द्विजातये। मध्याह्ने पूज-वेद्वह्नौ तथा सूर्य्यमतन्द्रितः। तिलांश्च जुहुयाद्वह्नौदद्याद्विप्रेषु काञ्चनम्। सूर्य्यास्तमनवेलायां जले चन्द्रञ्चपूजयेत्”। जले चन्द्रमसमभिध्याय पूजयेदिति। वह्ना-वमिध्याय मध्याह्ने सूर्य्यं प्रपूजयेदिति यावत्
“घृतेनहोमं कुर्वीत रजतं दक्षिणा स्मृतम्। नक्त भुञ्जीतधर्मज्ञः तैलहीनं ततो नरः। पूर्णं संवत्सरं कृत्वाव्रतमेतदतन्द्रितः। स्वर्गलोकमधाप्नोति सहस्रं परि-वत्सरम्। मानुष्यमासाद्य ततो राजा भवति भूतले। व्रतं कृत्वा महाभाग! पूर्णं संवत्सरत्रयम्। पञ्चवर्ष-महस्राणि स्वर्गलोके महीयते”। राज्यदद्वादशीव्रतं धष्णुधर्मे
“शृणुष्वावहितो राजन्!द्वा--टशीं राज्यदां शिवाम! यामुपोष्य नरोलोके राज्य-माप्नोत्यकण्टकम्। मार्गशीर्षस्य मासस्य शुक्लपक्षे नरा-द्विप!। दशम्यां प्रयतः शुद्धः स्नानमभ्यङ्गपूर्वकम्। हविष्यभुक् प्राशान्तात्मा दन्तधाव्रनपूर्वमम्। उपवासस्यसङ्गल्पं श्वोभूतस्य तु कारयेत्। देवाङ्गणे कुशस्तोर्णा-मेकवस्त्रोत्तरच्छदाम्। अध्यासीत महीं तत्र तां रात्रीं{??}यतो नयेत्। द्वितीयेऽछि ततः कुर्य्यादद्भि स्नानमत-[Page5041-b+ 38] न्द्रितः। पूजनं चैव सर्वस्य सर्वमुक्तेन कारयेत्इत्यादि। राज्याप्तिदशमीव्रतं विष्णुधर्मोत्तरे
“क्रतुर्टक्षो मुनिः सत्यःकालः कामोवसुस्तथा। कुरवान् मनुजो विप्रो रोममा-रश्च ते दश। विश्वेदेवाः समाख्याता दशात्मा केशयोबिभुः। तस्य सम्पूजनं कार्य्यं सितपक्षे नराधिप!। आरभ्य कार्त्तिकान्मासादृशम्यां नृपपुङ्गव!। मण्डलेष्वपपुण्येषु यदि वार्च्चासु यादव!। गन्ध, माल्य, नमस्कार,दीप, घूपान्नः सम्पदा” ! अर्च्चा प्रतिमा सा च यथास-म्भवं सुवर्णादिधातुमयी विधेया
“व्रतान्ते कनकं द-द्याद् यथाशक्ति द्विजातये। कृत्वा व्रतं केवलमेतदिष्टंप्राप्नोति तेषां सुचिरन्तु लोकान्। तत्रोष्य लोके पुरु-षोत्तमस्य राजा भवेद् ब्राह्मणपुङ्गवो वा”। रामनवमीव्रतं अगस्त्यसंहितोक्तम्
“चैत्रै नवम्यां प्राक्पक्षेदिवा पुष्पे पुनर्वसौ। उदये गुरुगौरांश्वोः स्वोच्चस्येग्रहपञ्चके। मेषे पूषणि सम्प्राप्ते लग्ने ककंटकाह्वये। आविरासीत्स कलया कौशल्यायां परः पुमान्। त{??}न्दिने तु कर्त्तव्यमुपवासव्रतं सदा। तत्र जागरणं क-र्य्याद्रघुनाथवरो भुवि। प्रातर्दशम्यां कृत्वा तु सन्ध्याद्याःकालिकीः क्रियाः। संपूज्य विधिवद्रामं भक्त्या वित्ता-नुसारतः। ब्राह्मणान् भोजयेद् भक्त्या दक्षिणाभिश्चतोषयेत्। गोभूतिलहिरण्याद्यैर्वस्त्रालङ्करणैस्तथा। रामभक्तान् प्रयत्नेन प्रीणयेत्परया मुदा। एवं यः कु{??}तेभक्त्या श्रीरामनवमीव्रतम्। अनेकजन्मसिद्धानि पात-कानि बहून्यपि। भष्मीकृत्य व्रजन्त्येव तद्विष्णोः परमंपदम्”। राशिव्रतं भविष्यपु॰
“कार्त्तिक्यां नक्तभुक् दद्यान्मेषंहेमविनिर्मितम्। मार्गशीर्षे नृपं पश्येन्मिथुनं तद्वदेवहि” इत्यादि। एवं क्रमेण यो दद्याद्दासीं वस्त्र-विभूषिताम्। पौर्णमास्यां पौर्णमास्यां कौन्तेय! बहु-दक्षिणम्। एतद्राशिव्रतं नाम ग्रहोपद्रवनाशनम्। मर्वाशापूरकं तद्वत्सोमलोकप्रदायकम्”। रुक्मिण्यष्टमीव्रतं स्कन्दपु॰
“मासि मार्गशिरे कृष्णपक्षेऽ-ष्टम्यां षडानन!। रुक्यिण्यष्टमिसंज्ञा सा सर्वकामकलप्रदा। तस्यां प्रातः शुचिर्भूत्वां नारी नियमका-रिणी। वर्षे च प्रथमे कुर्य्यादेकद्वारं गृहं मृदा। गृहोपकरणं सर्वं तस्मिन्निक्षिप्य सादरम्। व्राहीन्{??}पप्रकारान्नैर्घृतादींश्च रसांस्तथा। वस्त्रैः नाष्ठैस्तथा[Page5042-a+ 38] दलैस्तित्रेस्म लिखितास्तथा। कार्य्याः पुत्तलिकास्तत्रतासां नामानि मे शृणु!। कृष्णश्च रुक्मिणी चैव वल-दैवश्च रेवती। प्रद्युम्नश्चैव तद्भार्य्या अनिरुद्ध उषा तथा। देवकीवसुदेवादीन् सर्वांस्तत्र प्रकल्पयेत्। ततोऽनुपूजयेत्सर्वानष्टधूपाक्षतादिभिः। चन्द्रोदये तु सञ्जाते दद्या-दर्घ्यन्तदिन्दवे।
“अर्घ्यं दत्त्वा तु भुञ्जीत भित्रस्वजन-बन्धुभिः। ततः प्रभातसमये कुमार्य्यै तद्गृहं शुभम्। दद्यात् प्रीतंन मनसा सर्ववस्तुप्रपूरितम्। ततो द्वितीयेअव्दे तु कुर्य्याद् द्विमुखमन्दिरम्। पूर्ववत् पूरितंकृत्वा कुमार्य्यै विनिवेदयेत्। ततस्तृतीये अव्दे तुकृत्वा त्रिमुखसन्दिरम्। सम्पूर्णं पूर्वबत् कृत्वा कुमार्य्यैविनिवेदयेत्। ततश्चतुर्थे अव्दे तु कृत्वा मुखचतुष्टयम्। पञ्चमेऽव्दे पञ्चद्वारं षष्ठे षण्मुखसंयुतम्। कृत्वा दद्यात्प्रयत्नेन कुमार्य्यै तच्च मन्धिरम्। ततस्तु सप्तमे वर्षे कुर्य्यादुद्यापनं शुभम्। सप्तद्वारं गृहं कृत्वा सुधाधवलितं म-हत्। शय्यां तूलीञ्च यानं च छत्रीपानहमेव च। आदर्शंचामरञ्चैव{??}शलोलूखलं तथा। कांस्वभाजनपात्राणिताम्रस्य तु महान्ति च। नानाविधानि वस्त्राणि तथैवा-भरणानि च। गृहोपकरणं सर्वं गृहे निक्षिप्य स-र्वतः। कृष्णञ्च रुक्मिनीञ्चैव प्रद्युम्नञ्च षनोहरम्। कृत्वा स्वर्णमयान् शक्त्या पीतवस्त्रावगुण्ठितान्। पूज-यित्वोपवासेन रात्रिजागरणेन च। ततः प्रभातसमयेनद्गृहे समुपागतम्। सपत्नीकं द्विजं पूज्य वस्त्रालङ्कार-भूषणैः। तस्मादेतद्गृहं दद्याद्गाञ्चैवाथ सुशीलिनीम्”। रुद्रव्रतं पद्मपु॰
“यस्त्वेकभक्तेन समां क्षिपेद्धेनुं पृषान्वि-ताम्। धेनुं तिलमयीं दद्यात् स पदं याति शाङ्करम्। एतद्रुद्रव्रतं नाम पापशोकविनाशनम्”। ज्यैष्ठे पञ्च-तपाः सायं हे{??}धेनुप्रदो दिवम्। यात्यष्टमीचतुर्दश्यौरुद्रव्रतमिदं स्मृतम्”। अष्टमीचतुर्दश्याविति चचत्वादि दिनानि पञ्चाष्नि{??}आधनं तच्चतुर्थे दिने सायं{??}वर्णधेनुं दद्यात्”।{??}पनवमीव्रतं भविष्यपु॰
“पौषे मासि महाबाहो! चतुर्दन्तंगजं शुभम्। कृत्वा रुक्ममयं भक्त्या न्यस्य पात्रे हिर-स्ममये। इन्द्राण्यै विधिवद्दद्यान्नानामणिविभूषितम्। एवं पूजयते भक्त्या इन्द्राणीं विधिवत्ततः। स ऐरा-{??}अतमारूढः सोमलोके महीयते”। रुप{??}त्रव्रतं विष्णुघर्मोतरोक्तम्
“फालगुन्यां समतीतायां{??}मी तु या। ममूकां तां त संप्राप्य व्रतं[Page5042-b+ 38] गृह्णीत मानवः। उपोषितव्यं नक्षत्रं नक्षत्रस्य चदैवतम्। बरुणञ्च तथा चन्द्रं पूजयेद् विधिना नरः। पूजयेद्देवदेवञ्च भगवन्तं जनार्दनम। उपोष्याङ्गानिदेवस्य प्रयत्नेन च पूजयेत्। ततोऽग्निहवनं कृत्वापूजयित्वा तथा गुरुष्। उपवासस्तु कर्त्तव्यो द्वितीये-ऽहनि पार्थिव। उपोष्य ऋक्षे विगते म्रात्वा संपूज्यकेशवम्। कृत्वाग्निहवनं शक्त्या पूजयित्वा द्विजोत्त-मान्। हविष्यान्नञ्च भोक्तव्यं शृणु चाङ्गक्रयं मम। पादयोः कथितं मूलं प्राजापत्यन्त जङ्घयोः। अश्विनौजानुयुगलं ऊरुयुग्मे च पार्थिव। । सहिते द्वे तथा-षाढे गुह्यञ्च सहिते स्मृते। पूर्वोत्तरे च फाल्गुन्यौकृत्तिका च कटिर्भवेत्। पार्श्वयोः कुक्षियुतयोर्नक्षत्र-त्रितयं सम{??}। उभे प्रोष्ठपदे राजन्! रेवती च तथाभवेत्। उरोऽनुराधासु पृष्ठं धनिष्ठासु प्रकीर्त्तितम्। भुजौ ज्ञेयौ विशाखासु हस्ते प्रोक्तौ तथा करौ। अङ्गुल्यञ्च तथा प्रोक्ता राजसिंह! पुनर्वमौ। अश्लेषायांनखाः प्रोक्ता ज्येष्ठायां नृप! कन्धरः। श्रवणे श्रवणौ{??}यौ मुखं पुष्ये प्रकीर्त्तितम। दन्ताः स्वातौ शत-भिषा हनुः प्रोक्ता तथा नृपः! मघायां नासिके प्रोक्तेमृगशीर्षे च लोचने। चित्रा ललाटे विज्ञेया भर-ण्याञ्च तथा शिरः। शिरोरुहास्तथाद्रांसु व्रतस्यान्तेनराधिप!। चैत्रशुक्लावसाने तु सत्रं परिसमाप्यते”। रूपसंक्रान्तिक्रतं स्कन्दपु॰
“अथान्यदपि ते वच्मि रूप-संक्रान्तिमुत्तमाम्। संक्रान्तिवासरे स्नानं तैलं कृत्वाचिचक्षणः। हैमपात्रे घृतं कृत्वा हिरण्येन सम-न्तितम्। स्वरूपं वीक्ष्य तत्पात्रं ब्राह्मणाय निवेदयेत्। एकभक्तं ततः कृत्वा भक्त्या चैव समन्वितम्। व्रतान्तेकाञ्चनं दद्याद्धृतधेनुसमन्वितम्। अश्वमेधसहम्राणांफलमाप्नोति मानवः”। रुपावाप्तिव्रतं विष्णुधर्मोत्तरे
“फाल्गुन्यां समतीतायां-प्रतिपत्प्रभृति कमात। यावच्चैत्रीं महाराज! तावत्-{??}तो दिने दिने। बष्टिः संपूजयेद्देवं कशवं भोग-प्रायिगम्। एकमक्ताशनो नित्यमधुःशायी तथा भवेत्। त्रिरात्रोपोषितः पूजाञ्चैत्र्यां कुर्य्यात्तथैव च। स्वशक्त्यारजतं दद्याद्वस्त्रयुग्यं तथैव च। रूपार्थिनो मासमिदं{??}अयोक्तं व्रतोत्तमं नित्यमदीनसत्त्वम्। कृत्वा तु नाकंमनुजस्त्ववाप्य मानुष्यमासाद्य च रूपवान् स्यात्”। रोहिणीद्वादशीमतं भविष्योत्तरे
“प्र{??}ते श्रावन्ते{??}[Page5043-a+ 38] कृष्णपक्षे समाहितः। एकादश्यां शुचिर्भूत्वा स्नात्वासर्वौषधीजलैः। माषचूर्णेन राजेन्द्र! कुर्य्यादिन्दुरि-काशतम। मादकांश्च तथा पञ्च घृतप्रस्थः सुनिर्मलः। आत्मोपयागमुद्दिश्य ततो गत्वा जलाशयम्। दुष्टयादो-विरहितं अब्जोपेतजलैर्वृतम्। तस्यैव पुलिने रम्येजलान्ते गोमयादिना। कृत्वा मण्डलकं वृत्तं पिष्ट-कादिभिरर्चितम्। चर्चितं गन्धकुसुभैर्धूपदीपाक्षतैःशुभैः। तत्र चन्द्रं लिखेत् पार्श्वे रोहिण्या सहितंभुवि। अर्चयीत शुभार्थेन मन्त्रेणानेन भक्तितः। एवमुच्चार्य्य तद् दत्त्वा तज्जलं स्वयमाविशेत्”।
“कण्ठान्तंजलमात्रं वा जानुगुल्फान्तमेव वा। ध्यायते सोम-राजञ्च रोहिणीसहित विभुम्। जलस्थमेव भुञ्जीतस्वयमिन्दुरिकाशतम्। खे रोहिणी शशिभृता विहृताहिता च यत् कारणं शृणु नरेन्द्र! निवेदयामि। सत्-पिष्टमाषरचितेन्दिरिकाशतं यद्भुक्तं जले गडघृतेनफल तदेव”। रोहिणोव्रतं स्कन्दपु॰
“रोहिणी जन्मनक्षत्रं साक्षाद्देवस्य चक्रिणः। ताम्ररुक्ममयीं कृत्वा पञ्चरत्नेनसंयुताम्। स्थापयेद्वस्त्रयुग्मेन पुष्पधूपैः प्रपूजयेत। कालोद्भवफलैर्दिव्यैर्नैवेद्यैर्घृतपाचितैः। द्वितीयेऽह्निसमाप्यैतद्ब्राह्मणायोपपादयेत्। श्रोत्रियाय सुरूपायभिक्षुकाय कुटुम्बिने। खय नक्तेन भुञ्जीत रोहिण्यादर्शने कृते। एवंविधं व्रतं दिव्यं दिवि देवाश्च चक्रिरे। वर्षे वर्षे समायाते देवाश्चाद्यापि कुर्वते। यं यं काम-मभिध्यायन् तं तमाप्नोत्यसंशयम्। लक्षणार्द्राव्रत मत्स्यपु॰
“अस्ति वत्स! व्रतञ्चैकं तिथिनक्ष-त्रयोगतः। नभस्ये मासि राजेन्द्र! यदार्द्रा जायतेतदा। व्रतमेतद्विधातव्यमुमामाहेश्वरं भुवि। आरोग्यै-श्वर्य्यसौभाग्यरूपसम्पत्प्रदायकम्। कारयित्वा यथा-शक्ति सौवर्णं मिथुनं तयोः। गौरीगिरिशयोर्भक्त्यानक्तं सङ्कल्प्य पूजयेत्। नभस्ये बहुलाष्टम्यामेवं यःकुरुतं व्रतम्। लक्षणार्द्रेतिविख्यातमिदं तस्य फलं शृणु। सर्वपापविशुद्धात्मा सर्वैश्वर्य्यसमन्वितः। भुक्त्वा भोगान्महे-शेन ततः कालविपर्य्यये। राजा भवति धर्मात्मा वाल-वीर्य्यसमन्वितः। मास्यार्द्रर्क्षयुताष्टमी भवति या कृष्णानभस्ये तदा सौवर्णं मिथुनं शिवागिरि शयो रूपं तयो-र्णक्षणैः। पूर्णं पिष्ठमयैर्ददाति गुरवे सार्द्धं रसैर्भोजनंभुक्त्वा योगयुतोत्सवं पदमथो शम्भोर्व्रजे{??}श्वतम्”। [Page5043-b+ 38] लक्ष्मीनारायणव्रतं विष्णुषर्मोत्तरे
“पञ्चदश्यां शुक्लपक्षेफाल्गुनस्य नरोत्तम!। पाषण्डपतितांश्चैव तथैवान्त्या-वसायिनः। नास्तिकान् भिन्नवृत्तांश्च पापिनश्चापिनालपेत्। नारायणे गतमनाः पुरुषो नियतेन्द्रियः। तिष्ठन् ब्रुवन् प्रस्खलंश्च क्षुते वापि जनार्दनम्। कीर्त्तये-त्तत्क्रियाकाले समं कृत्वा पुनः पुनः। लक्ष्म्या समन्वितंदेवमर्चयेत जनार्दमम्। सन्ध्याव्युपरमे चन्द्रस्वरूपं हरि-मीश्वरम्। रात्रिञ्च लक्ष्मीं सञ्चित्य स्वस्वगर्भेण चिन्त-येत्।{??}र्निशा चन्द्ररूप! त्व वसुदेव! जगत्पते!। मनो-ऽभिलषितं देव! पूरयस्व नमोनमः। मन्त्रेणानेनदत्त्वार्घ्यं देवदेवस्य भक्तितः। नक्तं भुञ्जीत मौनंततैलक्षारविवर्जितम्। तथैव चैत्रवैशाखे ज्यैष्ठे चमुनिसत्तम!। अर्चयेच्च यथाप्रोक्तं मासि मासि चतद्दिने। निष्पादितं भवेदेकं पारणं दाल्भ्य! भक्तितः। द्वितीयं तत्र वक्ष्यामि पारणन्तत् निबोध मे। आषाढेश्रावणे मासि मासि भाद्रपदे तथा। तथैवाश्वयुजे-ऽभ्यर्च्य श्रीधरञ्च श्रिया सह। सम्यक् चन्द्रमसन्दत्त्वाभुञ्जीतार्च्य यथाविधि। द्वितीयमेतदाख्यातं तृतीयंपारणं शृणु। कार्त्तिकादिषु मासेषु तथैवाभ्यर्च्य केश-वम्। भूत्या समन्वितं दद्याच्छशाङ्कायाहण निशि। भुञ्जीत च यथाख्यातं तृतीयमपि पारणम्। प्रतिपूज्यततो दद्यात् ब्राह्मणेऽभ्यर्च्य दक्षिणाम्। प्रतिमासं चवक्ष्यामि प्राशनं कायशुद्धये। प्रथमं चतुरो मासान्पञ्चगव्यमुदाहृतम्। कुशीदकं तथैवान्यदुक्तं मासचतु-ष्टयम्। गोतवाद्यादिकं रात्रौ तथा कृष्णकथाः शुभाः। कारयेद्देवदेवस्य पारणे पारणे गते। जनार्दनं सल-क्ष्मीकमचंयेत् प्रथमं तथा। सश्रीकं श्रीधरं तद्वत्तृतोयंभूतिकेशवम्। एवं संपूज्य विधिवत् सपत्नीकं जना-र्दनम्। नाप्नोतीष्टवियोगार्त्तिं पुमान्नार्य्यपि वा पुनः”। लक्ष्मीपञ्चमीव्रतं यमपु॰
“लक्ष्मीमभ्यर्च्य पञ्चम्यामुपवासी भ-वेन्नृपः। समान्ते हेमकमलं दद्याद्धेनुसमन्वितम। स वैष्णवं पदं याति लक्ष्मीर्जन्मनि जन्मनि। एतल्लक्ष्मी-व्रत नाम दुःखशोकविनाशनम्”। ललितातृतीयाव्रतं भविष्यात्तरे
“माघमासे सिते पक्षेतृतीयायां यतव्रता। पादौ प्रक्षाल्प हस्तौ च मुख-ञ्चैव समाहितः। उपवासञ्च नियमं दन्तधावनपूर्वकम्। गध्याह्ने तु नदीं गत्वा तिलैरामलकैः शुभैः। स्नात्वो-त्तीर्व्य जलात् शुक्ले वासली परिधाय च। सुगन्धैञ्च[Page5044-a+ 38] सुपुष्पैश्च मनोज्ञैः कुङ्कुमादिभिः। अर्चयीत तथा तथादेवीं त्वां भक्त्या भक्तिवत्सले!” इत्यादि। ललिताव्रतं स्कन्दपु॰
“शृणु त्वमनवद्याङ्गि! ललिताराधन-क्रियाम्। आश्विनस्य सिते पक्षे दशम्यां नक्तभोजनम्। प्रतिमां हेममयीं दिव्यां सर्वालङ्कारभूषिताम्। वापीकार्य्या शुभे देशे तन्मव्ये वेदिका शुभा। हस्तमात्रावितस्त्यर्द्धा दशधान्यसमन्विता। वेदीकोणेषु संस्थाप्यामृण्मयः पञ्च देवताः। सिक्त्वा जलेन तन्मध्ये देवीस्थाप्या प्रयत्नतः। अव्रणं सजलं कुर्म्भ ताम्रपात्रसम-न्वितम्। तत्र स्वर्णमयी देवी स्थाप्या च ललिता शुभा। चन्द्रन्तु रोहिणीयुक्तं राजतं कारयेत् पुरः। दक्षिणेहीश्वरं स्थाप्य वामतो विध्ननाशनम्। मूलमन्त्रेणगायत्र्या सर्वं तत्र प्रपूजयेत्” इत्यादि। ललिताषष्ठीव्रतं भविष्योत्तरे
“भद्र! भाद्रपदे मासि शुक्लेषष्ठ्यां सुसंयता। नारी स्नात्वा प्रभाते च शुक्लमाल्या-म्बरप्रिया। सुवेषाभरणोपेता भूत्वा संगृह्य वालुकाः। नवे वेणुमये पात्रे गृहं गच्छेदवाङ्मुखी सोपवासाप्रयत्नेन तत्र देवीं प्रपूजयेत्। कृत्वा वस्त्रयुगं रम्यंपुष्पमालाविचित्रितम्। तत्र संस्थाप्य तां देवीं पुष्पैःसम्पूजयेद्धरिम्”। तां देवीमिति जलान्तरगतां वालुका-मानीय वंशपात्रे पञ्चपिण्डाकृतिं वालुकामयीं पूजये-दिति
“ध्यात्वा तु ललितां देवीं तपोवननिवासिनीम्। पङ्कजं करवीरञ्च नेपालीं मालतीं तथा”। नेपालींपुष्पविशेषं, गृहीत्वा पूजयेदितिशेषः। नीलोत्पलं केत-कीञ्च संगृह्य तगरं वरम्। एकैकाष्टशतं ग्राह्यमष्टाविंशतिरेव वा। अक्षताः कलिका गृह्य ताभिर्देवीं समर्चयेत्”। लावण्यावाप्तिव्रतं विष्णुधर्मौत्तरोक्तम्
“कार्त्तिक्यां समती-तायां प्रतिपत्प्रभृतिक्रमात्। पटे वा यदि वार्चायांप्रद्युम्नं पूजयेद्विभुम्। बहिःस्नानं ततः कुर्य्यान्नक्त-मश्नोत वाग्यतः। एकभक्तं महाराज! हविष्यं प्र-यतः सदा। मार्गशीर्षं ततः प्राप्य त्रिरात्रोपोषितःशुचिः। सम्पूज्य देवं प्रद्युम्नं हुत्वाग्नौ घृतमेव च। भोजयेद्ब्राह्मणांश्चात्र भोजनं लवणोत्कटम्। चूर्णि-तस्य ततः प्रस्थं लवणस्य द्विजातये। महारजतरक्तञ्चवस्त्रयुम्मं तथा गुरोः। दद्याच्च कनकं राजन्! कास्य-पात्रं तथैव च। मासेन लावण्यकरं प्रदिष्टं व्रतोत्तमनाकगतिप्रदञ्च। न केवलं यादव! सर्वकापान् नरस्यदद्यात्पुरुषप्रक्षानताम्”। [Page5044-b+ 38] लोकव्रतं विष्णु धर्मोत्तरोक्तम्
“अतःपरं प्रवक्ष्यामि तव लोक-व्रतं शुभम्। यास्तु व्याहृतयस्तत्र सप्त लोकाः प्रकीर्त्तिता!आचरेत् प्रत्यहं स्नानं वहिर्नित्यमतन्द्रितः। चैत्रशुक्ला-त्तथारभ्य क्रमेण दिनसप्तकम्। गोमूत्रं गोमयं क्षोरंदधि सर्पिः कुशादकम्। एकरात्रोपवासश्च क्रमेणैर्वसमाचरेत्। महाव्याहृतिभिर्होमस्तिलैः कार्य्या दिनेदिने। संवत्सरान्ते दद्याच्च तथा विप्रेषु दक्षिणाम्। सुवर्णं सुमहद्वासः कांस्यधेनूस्तथैव च। संवत्सरमिदंकृत्वा व्रतं पुरुषसत्तम!। सर्वलोकवरः श्रीमान् स्वे-च्छया स्यान्नराधिपः”। वटसावित्रीव्रतं स्कन्दपु॰ घर्भराजवरप्रदानानन्तरं सावित्र्यु-वाच
“मदीयन्तु व्रतं देव! भक्त्या नारी करिष्यति। भर्तुः साभिहिता साध्वी समस्तफलभाजना”। धर्म-राज उवाच
“नारी वा विधवा वापि अपुत्रा पति-वर्जिता। सभर्तृका सपुत्रा वा कार्यं व्रतमिदं शृणु। ज्यैष्ठमासे तु संप्राप्ते पौर्णमास्यां पतिव्रता। स्नात्वाचैव शुचिर्भूत्वा वटं सिच्य बहूदकैः। सूत्रेण वेष्टये-द्भक्त्या गन्धपुष्पाक्षतैः शुभैः। नमो वैवस्वतायेति भ्रम-यन्ती प्रदक्षिणम्। रात्रौ कुर्वीत नक्तञ्च अव्दमेकं समा-हिता। तथैव वटवृक्षञ्च पक्षे पक्षे च पूजयेत्। संप्राप्तेच पुनर्ज्यैष्ठे लघुभुक् द्वादशीर्नयेत्। दन्मानी धावनंकृत्वा नियमं कारयेत्ततः। त्रिरात्रं लङ्घयित्वा च च-तुर्थे दिवसे ह्यहम्। चन्द्रायार्घ्यं प्रदत्त्वा च पूजयित्वा चतां सतीम्। मिष्टान्नानि यथाशक्त्या पूजयित्वा द्विजो-त्तमान्। भोक्ष्येऽहन्तु जगद्धात्रि! निर्विघ्नं कुरु मे मुने। नियममन्त्रः
“कृत्वा वंशमये पात्रे वालुकाप्रस्थमेव च। सप्तधान्यधृतं पात्रं प्रस्थैकेन द्विजोत्तम!। वस्त्रद्वयो-परि स्थाप्य सावित्रीं ब्रह्मणा सह। हैमीं कृत्वा तयोःप्रीत्यै त्रिरात्रमुपवासयेत्। न्यग्रोधस्य तले तिष्ठेद्याव-च्चैव दिनत्रयम्। सौवर्णीञ्चैव सावित्रीं सत्येन सहकारयेत्। राप्यपर्य्यङ्कमारोप्य रथोपरि निवेशयेत्। पलादर्द्धं यथाशक्त्या रथं रौप्यभयं शुभम्। तथा चकाष्ठभारे च वटे चैव सुविस्तरम्। एवञ्च मिथुनं कृत्वापूजयेद्गतमत्सरा। वर्त्तुलं मण्डलं कृत्वा गोमयेन तपो-धन!। पञ्चामृतेन स्नपनं गन्धपुष्पोदकेन च। चन्दना-गुरुकर्पूरैर्माल्यवस्त्रविभूषणैः। संपूज्य तत्र सावित्रींमण्डले स्थापयेद्बुधः। पीतपिष्टेन पद्मञ्च अथ वा चन्द-गेन च। न्यसेच्चैव ततो देवीं रूमले कभलासनाम। [Page5045-a+ 38] अनेन विधिना स्थाप्य पूजयेद्गतमससरा” इत्यादि। वरचतुर्थीव्रतं स्कन्दपु॰
“चतुर्थ्यां मार्गशीर्षे तु शुक्लपक्षेनृपोत्तम! प्रारभ्य प्रतिमामञ्च चतुर्थ्यां गणनायकम्। मंपूज्य विधिना कुर्य्यादेकमक्तं समाहितः। अक्षारल-वणं त्वेवं पूर्णसंवत्सरे ततः। द्वितीये वत्सरे चाथनक्तं प्रतिचतुर्थि च। कुर्य्याद्गणेशमभ्यर्च्य तृतीयेऽया-चितं तथा। एवमेव प्रकुर्वीत चतुर्थे स्यादुपोषणम्। ततश्चतुर्थं संयाप्य तदुद्यापनमाचरेत्। इदं वरचतु-र्थ्याख्यं व्रतं सर्वार्थसाधकम्”। वरव्रतं पद्मपु॰
“सप्तरात्रोमितो दद्यात् घृतकुम्भं द्विजातये। वरव्रतमिदं प्रोक्तं ब्रह्मलोकप्रदायकम्”। वराटिकासप्तमीव्रतं भविष्यपु॰
“या काचित् सप्तमी प्रोक्ताततो वक्ष्यामि शोभनम्। वराटिकात्रयक्रीतं यत् कि-ञ्चित् प्राशयेन्नरः। अनेन देहि मूल्येन यल्लब्धं तच्चभक्षयेत्। अभक्ष्यं वापि भक्ष्यं वा नात्र कार्य्याविचारणा। अनेन विधिना कार्य्या वराकाह्वय-सप्तमो”। वराहद्वादशीव्रतं धरणीव्रत्ते
“एर्व माघे सिते पक्षे द्वादशीधरणीभृतः। वराहस्य शृणुष्वान्यां पुण्यां परम-धार्मिकः। प्रागुक्तेन विधानेन सङ्कल्प्य स्नानमेव च। कृत्वा देवं समभ्यर्च्च्य एकादश्यां विचक्षणः। पुष्पैर्{??}वेद्यगन्धैश्च ह्यर्चयित्वाच्युतं नरः। पश्चात्तस्याग्रतः कु-म्भञ्जलपूर्णन्तु विन्यसेत्। एवं विधानतो दत्त्वा हरिंवाराहरूपिणम्। ब्राह्मणाय च तद् दद्यात् फलं तस्यनिशामय। इह जन्मनि सौभाग्यं श्रीः कान्तिस्तुष्टि-रेव च। ज्ञानवान् वित्तवान् भोगी अषुत्रः पुत्रवान्भवेत्”। वरुणव्रतं पुद्मपु॰
“निशि कृत्वा जले वासं प्रभाते गोप्रदोभवत्। वारुणं लोकमाप्नोति वरुणव्रतमुच्यते”। वसुव्रतं विष्णुधर्मोत्तरे
“ध्रुवोऽध्रुवश्च सोमश्च आपश्चैवानि-लाऽनलः। प्रत्यूषश्च प्रभासश्च अष्टौ ते वसवः स्मृताः। अष्टात्मा वासुदेवोऽयं प्रभावेनोदयेन च। अष्टम्यां पूक्षयेद्यस्तु सोपवासो नराधिप!। चैत्रमासादथारभ्य शुक्ल-पक्षाच्च यादव!। मण्डलेऽप्यथ वार्चासु जपेच्च मनुजा-धिप!। गन्धमाल्यनमस्कारदीपधूतान्नसम्पदा। वहिः-स्नानेन राजेन्द्र! तथाधःशयनेन च। व्रतान्ते तु सदादद्याद्धेनुं विप्राय शक्तितः”। पद्मपु॰
“यथोभवमुर्खीदद्यात् प्रभतकनकान्विताम्। दिनं पबोव्रती तिष्ठेत् स वाति[Page5045-b+ 38] परमं पदम्। एतद्वसुव्रतं वाम पुनरावृत्तिदुर्लभम्”। वस्तत्रिरात्रव्रतं भविष्योत्तरोक्तम्
“चैत्रे तु कुमुदैर्देवंत्रिभिः प्रयतमानसः। त्रिरात्रं तत्र नक्ताशी नद्यांस्नात्वा द्विजातये। पयस्त्रिनीरजाः पञ्च प्रदद्यात् ससुवर्णकाः। न जायते पुनरसौ जीवलोके कदाचन। एतद्वस्तव्रतं प्रोक्तं सर्वव्याधिविनाशनम्”। वह्निव्रतं विष्णु पु॰
“कृष्णपक्षे पञ्चदश्यां चैत्रादारभ्य या-दव!। वह्निसंपूजनं कृत्वा गन्धमाल्यान्नसम्पदा। तिलहोमन्तथा कुर्य्यान्नाम्ना वह्नेर्नराधिप!। संवत्स-रान्ते दद्याच्च सुवर्णं ब्राह्मणाय च। कृत्वा व्रतं वत्सर-मेतदिष्टं प्राप्नोति वित्तं सतत यशश्च। धर्मे मतीरूप-मनुत्तमञ्च कामान् यथेष्टान् पुरुषप्रधानः”। वामनद्वादशाव्रतं धरणीव्रते
“एवमेव मुने! मासि चैत्रे सं-कल्प्य द्वादशीम्। उपोष्य धारयेद्भक्त्या देवदेवं जना-र्दनम्। वामनायेति पादौ तु विष्णवे कटिमर्चयेत्। वासुदेवाय जठरं उरः सङ्कर्षणाय च। कण्ठं विश्व-भृते पूज्य शिरो वै व्योमरूपिणे। बाहू विश्वजितेपूज्य स्वमाम्ना शङ्खचक्रके। अनेन विधिनाभ्यर्च्च्यदेवदेवं जनार्दनम्। प्राग्वंशेनोदरं कुम्मं सयुग्मं पुरतोन्यसेत्”। युग्मं वस्त्रयुग्मम्।
“प्रागुक्तपात्रे संस्थाप्यवामनं काञ्चनं बुधः। यथाशक्ति कृतं ह्रस्वं सितयज्ञोप-वीतिनम्। कुण्डिकां स्थापयेत् पार्श्वे छत्रिकापादुकेतथा। अक्षमालाञ्च संस्थाप्य यष्टिकां च विशेषतः। एतैरुपस्करैर्युक्तं प्रभाते प्राह्मणाय तु। दापयेत्प्रीयतां विष्णुः ह्रस्वरूपीति कीर्त्तयेत्। मासनाम्ना तुतु संयुक्तं प्रादुर्भावाभिधानकम्। प्रीयतामिति सर्वत्रविधिरेष प्रकीर्त्तितः। मासनाम्ना मार्गशीर्षादिमास-वेशवादिनाम्ना प्रादुर्भावाभिधानकं मत्स्यरूपी कूर्मरूपी-त्येवमादि”। वायुघ्रतं विष्णुधर्मोत्तरे
“शुक्लपक्षे चतुर्दश्यां ज्यैष्टादारभ्ययादव!। वायुं सम्पूजयेद्देवं सोपवासो जितेन्द्रियः। गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा। संवत्सरान्ते दा-तव्यं वस्त्रयुग्मं द्विजातये। कृत्वा व्रतं वत्सरमेतदिष्ट-मासाद्य लोकं सुचिरं मनुष्यः। सुखानि मुक्त्वासुचिरं महीपो मानुष्यमासाद्य भवेत्पुरोगः”। बारिव्रतं पद्मपु॰
“चैत्रादिचतुरो मासान् जले कुर्य्यादव्या-चितम्। ज्यैष्ठाषाढे तथा माघे पौषे वा राजसत्तम!। व्रतान्ते मणिकं दद्यादन्नवस्त्रसमन्वितम्। तिलपात्रं[Page5046-a+ 38] हिरण्यञ्च ब्रह्मलोके महीयते। तदन्ते राजराजःस्याद् वारिब्रतमिहोच्यते”। वासुदेवद्वादशीव्रतं धरणीव्रते
“आषाढेऽप्येवमेवन्तु सङ्कल्प्यविधिना ततः। अर्चयेत्परमं देवं गन्धपुष्पैर्विधानतः। बासुदेवाय पादौ तु कटिं सङ्कर्षणाय च। प्रद्युम्नायेतिजठरमनिरुद्धाय वै उरः। चक्रपाणये च भुजौ कण्ठंभूपतये तथा। स्वनाम्ना शङ्खधर्त्त्रे तु पुरुषायेति वैशिरः। एवमम्यर्च्य मेधावी प्राग्बत्तस्याग्रतो घटम्। विन्यसेद्वस्त्रयुम्मं तु तस्योपरि ततो न्यसेत्। काञ्चनंवासुदेवं तु चतुर्वाहुं सनातनम्। तमभ्यर्च्य विधानेनगन्धपुष्पादिभिः क्रमात्। प्राग्वत्तु ब्राह्मणे दद्याद्वेद-वादिनि सुव्रते” इत्यादि। विजयाद्वादशीव्रतम् आदित्यपु॰
“पुष्यर्क्षेण समायुक्ता शुक्लावै द्वादशी भवेत्। सा प्राक्ता वासुदेवेन सर्वपापप्रणा-शिनी। येऽर्चयन्ति नरास्तस्यां भक्त्या देवं जनार्दनम्। समुपोष्य विमुच्यन्ते पापैस्ते शतजन्मजैः। कर्मणामनसा वाचा यत्पापं समुपार्जितम्। तत् क्षालयतिगोविन्दस्तिथौ तस्यां समर्चितः। स्नानं जपोऽथ वाहोमः समुद्दिश्य जनार्दनम्। नरैर्यत् क्रियते तस्यांतदनन्तफलं भवेत्। यस्मान्नाशयते जन्तोः पापं जन्मशतो-द्भवम्। पुष्यर्क्षैकादशी तस्मात् प्रोक्ता पापप्रणाशिनी। एवमेव पुरा प्राह भानुः सारथिनं प्रति”। भानुरुवाच
“द्वादशी या परा ब्रध्न! पुष्येणैव च संयुता। उपोष्यातु प्रयत्नेन द्वादशी पापनाशनी। पुष्येण द्वादशीयुक्ताशुक्ला वै फाल्गुनस्य च। विजया द्वादशी प्रोक्ता स्वयंसा विष्णुना पुरा। तस्यां दत्तं तपस्तप्तं कोटिकोटि-गुणोत्तरम्। एकादश्यां निराहारो द्वादश्यां विष्णु-मर्चयेत्। रौप्यसौवर्णपात्रे वा दारुवंशमयेऽपि वा। आच्छाद्य पात्रं वासोभिरहतैः सुपरीक्षितैः। मार्गैश्चमेढजैश्चैव सिद्धिः स्याच्छक्त्यपेक्षया। तिलाढकेन वित्ताद्यैःप्रस्थेन कुटजेन या। अलाभे चैव गोधूमैः फलं मुख्यंतिलैर्भवेत्”। ब्रह्मवैवर्त्ते
“मासि भाद्रपदे शुक्ले पक्षेयदि हरेर्दिनम्। बुधश्रवणयोगश्च प्राप्यते तत्र पू-जितः। प्रयच्छ्रति सुतान् कामान् वामनो मनसि स्थि-तान्। विजया नाम सा प्रोक्ता तिथिः प्रीतिकरीहरेः। सङ्गमः सर्वतीर्थानां सङ्गमे तत्र जायते। शुक्लाभाद्रपदे स्वर्गे कृष्णा कलुषसंक्षयम्। गङ्गायमुनयोःपुण्ये नर्षदासरित्सङ्गमे। सरस्वत्यरुणयोश्चैक्व सङ्गमे[Page5046-b+ 38] पापनाशने। ब्रह्मवल्मीकाभ्यासे सप्तधारेऽथ वा द्विज!। अन्येषु सङ्गमेष्वैव स्वयमायाति वामनः। तत्र सम्पू-जितोऽथासौ जायते प्रेतमोक्षदः। दध्योदनसमायुक्तांवारिधानीं प्रदापयेत्। पूजय त्वं जगन्नाथं वामनःप्रीयतामिति। महापुण्यप्रदा ह्येषा सङ्गमे विजयातिथिः। सर्वपापक्षयो नूनं जायते च उपोषणात्। गृहीत्वा नियम प्रातर्गत्वा नद्यादिसङ्गमे। सौवर्णं वा-मनं कृत्वा सौवर्णमाषकेण वा। यथा शक्त्या तु विन्यस्यकुम्भोपरि जगत्पतिम्। पूर्णपात्रे स्थापयित्वा मन्त्रै-रेतेः प्रपूजयेत्। एवं कृते तु विजयाव्रतेऽस्मिन् विजयादिने। न दुर्लभतरं किञ्चिदिह लोके परत्र च। दुलेभाविजया नॄणां दुर्लमस्तत्र सङ्गमः”। अग्निपु॰
“विधानंशृणु राजेन्द्र! यथादृष्टं मनीषिभिः। यथीक्तं नि-यम कुर्य्यादेकादश्यामुपोषितः। दन्तकाष्ठं प्रगृह्यादौवाग्यतो नियतेन्द्रियः। श्रवणद्वादशीयोगे समुपोष्यजनार्दनम्। अर्चयित्वा विधानेन अहं भोक्ष्ये परेऽ-हनि। नदीनां सङ्गमे स्नायादर्चयेत् यत्र वा मनः। सौवर्णं रक्तसंयुक्तं द्वादशाङ्गुलमुच्छ्रितम्। पीतवस्त्रैःशुभैर्वष्ट्य भृङ्गारं निर्व्रणं नवम्। हिरण्मयेन पात्रेणअर्ध्यपात्र प्रकल्पयेत्। दध्यक्षतफलैश्चैव सहिरण्यंसचन्दनम्। नमस्ते पद्मनाभाय नमस्ते जलशायिने। तुभ्यमर्घ्यं प्रयच्छामि बालषामनरूपिणे। मायावीवामनः श्रीशः सौत्रामा तु जगत्पतिः। एवं सम्पूज-यित्वा तु द्वादश्यामुदये रवेः। भृङ्गारसहितं वस्त्रंसंवत्सरं प्रपूजयेत्। वामनः प्रतिगृह्णातु वामनोऽहंददामि तम्। वामनं सर्वतोभद्रं विजयार्थं निवेदयेत्। जलधेनुं तथा दद्याच्छत्रं चैव तु पादुके। सहिर-ण्यानि वस्त्राणि धेनुं चानुडुहं नृप!। यत्किञ्चिद्दीयते तत्र तदानन्त्याय कल्पते। श्रवणद्वाटशीयोगेसम्पूज्य गरुडध्वजम्। दत्त्वा दानं द्विजातिभ्यो वि-योगे पारणं ततः। सिंहस्थिते तु मार्तण्डे श्रवणस्थेनिशाकरे। श्रवणद्वादशी ज्ञेया न स्याद् भाद्रपदादृते। दशम्येकादशी यत्र सानुपोष्या भवेत्तिथिः। चत्रणेनतु संयुक्ता सा शुभा सर्वकामदा”। श्रवणेन युक्तायादशमी साप्युपोष्येर्थः।
“पारणं तिथिवृद्धौ तु द्वाढ-स्यामुडुसंक्षयात्। वृद्धौ कुर्य्यात्त्रयोदम्यां तत्र दौषो नविद्यते”। द्वादशीत्रल्ये नक्षत्रे द्वादश्यां पारणम् अ-धिके त्रयोदश्यामित्यर्थः”। [Page5047-a+ 38] वि{??}यासप्तमीव्रतं भविष्योत्तरे
“शुक्लपक्ष तु सप्तम्यां यदा-दित्यदिनं भवेत्। सप्तमी विजया नाम तत्र दत्तंमहाफलम्। स्नानं दानं जपो होम उपवासस्तथैवच। सर्वं विजयसप्तस्यां महापातकनाशनम्। प्रद-क्षिणं यः कुरुते फलैः पुष्पैर्दिवाकरम्। स सर्वगुण-सम्पन्नं पुत्रं प्राप्नोत्यसंशयम्। प्रथमा नारिकेरैस्तुद्वितीया वीजपूरकैः। तृतीया रक्तनारङ्गैश्चतुर्थी कद-लीफलैः। पञ्चमी ऋजुकुष्माण्डैः षष्ठी पक्वैश्च तेन्दुकैः। वृन्ताकैः सप्तमी ज्ञेया शतेनाष्टोत्तरेण तु। मौक्तिकैः प-द्मरागेस्तु तिलैः कर्कटकैस्तथा। गोमेदैर्वज्रवैदर्य्यैः शते-नाष्टाधिकेन तु। इङ्गुदैर्वदरैर्बिल्वैः करमर्दैः सचिर्भदैः। आम्रातकैश्च जम्बीरैर्जम्बूकर्कटिकैः फलैः। पुष्पैर्धूपैःफलैः पत्रैर्मोदकैर्घृतपाचितैः। एभिर्विजयसप्तम्यांभानोः कुर्य्यात् प्रदक्षिणम्। अन्यैः फलैश्च कालोत्थैर-खण्डैर्ग्रन्थिवर्जितैः। रवेः प्रदक्षिणं देयं फलेन फल-मादिशेत्। नारी वा कुरुते या तु सापि तत्फलभा-गिनो। नित्यं महीतलजयप्रतिपादयित्री या सप्तमीमुनिवरैः प्रवरा तिथीनाम। सा भानुपादकमलार्चन-चिन्तकानां पुंसां सदैव विजया विजयं ददाति”। भविष्योत्तरे
“माघे मासि सिते पक्षे सप्तम्यां कुरुनन्दन!। निराहारो रविं भक्त्या पूजयेद्विधिना नृप!। पूर्वोक्तेनजपेज्जप्यं देवस्य पुरतः स्थितः। शुद्धैकाग्रमना राजन्!जितक्रोधो जितेन्द्रियः”। इत्यादि
“एवं संवत्सरंयावत् कुर्य्याद् विजयसप्तमीम्। स जयेदखिलाञ्छत्रून्सूर्य्यलोकं स गच्छति”। भविष्यपु॰
“शुक्लपक्षस्य सप्तम्यांसूर्य्यवारो भवेद् यदि। सप्तमी विजया नाम तत्र दत्तंमहाफलम्। स्नानं दानं जपो होम उपवासस्तथैव च। सर्वं विजयसप्तम्यां महापातकनाशनम्। पञ्चम्यामेक-भक्तं स्यात् षष्ट्यां नक्तं प्रचक्षते। उपवासस्तु सप्तम्या-मष्टम्यां पारणं भवेत्। उपवासपरः षष्ठ्यां अव्जस्थंपूजयेद्रविम्”। उपवासपरः विजयसप्तम्यामुपवासं करि-ष्यन्।
“गन्घपुष्पोपहारैश्च भक्त्या श्रद्धासमन्वितः। प्रकल्प्य पूजां भूमौ च देवस्य पुरतः स्वपेत्। जप-मानस्तु गायत्रीं सौरसूक्तमथापि वा। त्र्यक्षरं वा भ-हाश्वेतं षडक्षरमथापि वा। विबुद्धस्त्वथ सप्तम्यां कृत्वास्नानं गणाधिपम्। ग्रहेशं पूजयित्वा तु होमं कृत्वाविधानतः। ब्राह्मणान् भोजयेत् पश्चाद्भक्त्या च गण-गायकम्। शाल्योदनमपूपांश्च खण्डवेष्टांश्च शक्तितः। [Page5047-b+ 38] दत्त्वा तु दाक्षणां शक्त्या ततो विप्रान् विसर्जयेत्। इत्येषा कथिता देव। पुण्या विजयसप्तमी। यामुपोष्यनरो गच्छेत् परं वैरोचनं पदम्। विजयासप्तमीसत्रव्रतं भविष्यपु॰
“नैमित्तिकान् ततो वक्ष्येयज्ञांश्चात्र समाहितः। सप्तम्यां ग्रहणे चैव संक्रान्तिषुविशेषतः”। नैमित्तिकान् ततो वक्ष्ये इत्यनेन श्लोकेनग्रहणसंक्रान्तिषु साधारण्येन यज्ञप्रतिज्ञा कृता सत्र-सप्तमीयज्ञं तावदाह शुक्लपक्षस्येत्यादिना
“शुक्लपक्षस्यसप्तम्यां हविर्भुक्त्वैकदा दिवा। सम्यगाचम्य सन्ध्यायांवरुणं प्रणिपत्य च”। वरुणोऽत्र सूर्य्यः
“इन्द्रिवाणितु संयम्य स तं ध्यात्वा स्वपेद् बुधः। दर्भशय्यागतोरात्रौ प्रातः स्नातः सुसंयुतः। सर्वस्यादौ तथेवान्तेपूर्ववद्वरुणं यजेत्। जुहुयाद्वह्वृचस्त्वग्निं सूर्य्याग्निंपरिकल्प्य वै। सूर्य्याग्निकरणं वक्ष्ये तर्पणं च समा-सतः। अस्त्रेणोङ्कारमुल्लिख्य सावित्र्याभ्युक्ष्य वानले”। अस्त्रेण अस्त्रमन्त्रेण सावित्र्या सूर्य्यगायत्र्या एतच्चसर्वं निक्षुभासप्तम्यामेवाभिहित वेदितव्यम्।
“प्रक्षिप्या-स्तीर्य्य दर्भांश्च देशे भूमौ यथेप्सितम्। प्रागग्रैरुद्ग-ग्रैश्च पात्राण्यालभ्य चक्रवत्। पवित्रं द्विकुशं कृत्वासाग्रं प्रादेशसम्मितम्। तेन पात्राणि संप्रोक्ष्य सं-शोध्य च विलोड्य च। उद्गभागस्थिते पात्रे साग्निनाचोल्मुकेन च। पर्य्यग्निकरणं कृत्वा ततश्चोत्पवनंत्रिधा। परिमृज्य स्रुचादींश्च दर्भैः सम्प्रोक्षितैश्च तैः। जुहुयात् प्रोक्षिते वह्नौ तत्रार्कं पूर्ववत् यजेत्। भूमौस्थितेन पात्रेण विस्तरेण तु पाणिना। वामेन यदु-शार्दूल। नान्तरिक्षे तु हूयते”। अन्तरिक्षे त्रिकादौ
“दक्षिणेन स्रुचौ गृह्य जुहुयात्पावकं बुधः। हृदयेनक्रियाः सर्वाः कर्त्तव्याः पूर्व चोदिताः”। हृदयेन हृद-यमन्त्रेण
“अनेन हुत्वा सन्तर्प्य दद्यात् पूर्णाहुतिंततः। वरुणायादरान्माघे सप्तम्यां वरुणं यजेत्। यथा शक्त्या तु विप्रेभ्यः प्रदद्यात् खण्डवेष्टकान्। द-द्याच्च दक्षिणां शक्त्या प्राप्यते यागजं फलम्। एवञ्चफाल्गुने सूर्य्यं चैत्रे चैवांशुमालिनम्। वैशाखे मासिधातारं इन्द्रं ज्यैष्ठे यजेद्रविम्। आषाढे श्रावणेमासि भगं भाद्रपदे तथा। आश्विने चापि पर्जन्यंत्वष्टारं कार्त्तिके यजेत्। मार्गशीर्षे तु मित्रञ्च पौषेविष्णुं यजेद् यदि। संवत्सरेण यत् प्रोक्तं फलमिष्ट्वादिने दिने। तत् सर्वं प्राप्नुयात् क्षिप्रं भक्त्या श्रद्धा-[Page5048-a+ 38] समन्वितः। एवं संवत्सरे पूर्णे कृत्वा वै काञ्चनं रथम्। सप्तभिर्वाजिभिर्युक्तं नानारत्नोपशोमितम्। आदि-त्यप्रतिमां मध्ये शुद्धहेम्ना कृतां शुभाम्। रत्नैरलङ्कृतांकृत्वा हेमपद्मोपरिस्थिताम्। तस्मिन् रथवरे कृत्वा सा-रथिं चाग्रतः स्थितम्। वृतं द्वादशभिर्विप्रैः क्रमान्मासाधिपात्मभिः। सर्वकल्पज्ञमाचार्य्यं पूजयित्वा रथा-ग्रतः”। मासाधिपाः प्रतिमासोक्ताः सूर्य्याः। अतस्त-द्भक्तिभावितैर्द्वादशभिर्विपैर्वृतमाचार्य्यं पूजयेदित्यर्थः। विद्याप्रतिपद्व्रतं गरुडपु॰
“अथ त्वं प्रतिपत्कृत्यं शृणुमम्पत्कर व्रतम्। यत् कुर्वाणः श्रियं विन्देद्दुर्लभंमानुषैरिह। शालितण्डुलसंसिद्धे मण्डले चतुरस्रके। श्रीशं श्रियमथावाह्य पूजयेत् सपुरःसरम्। अप्रच्छन्नदसैःपद्मैरयुतैस्तं प्रपूजयेत्”। अप्रच्छन्नदलैः विकसितैः
“सहस्रैर्वा यथायागं पयसा पायसेन च। ततश्च वि-धिनाभ्यर्च्य पार्श्वे देवीं सरस्वतीम्। अथातः पूजये-दिन्दुं गुरुं पश्चाद्वन्यधीः। परिवारनियोगेन तांश्चसत्कारयेदथ”। प्रार्थनामन्त्रः
“मम विद्यां प्रदिशतु देवोवागीशृरो हरिः। विद्याधिदैवतं देवी विद्यां दिशतुमे स्थिराम्। सरस्वती प्रदिशतु वाग्वृद्धिमतिशालि-नीम्” इत्यादि।
“यस्त्वेवं कुरुते विरुते विद्वान् विद्याव्रतमन्यधीः। समस्तविद्यानिपुणो वैष्णवं पदमृच्छति”। विद्यावाप्तिव्रतं विष्णुधर्मोत्तरे
“पौष्यान्तु समतीतायां प्रति-पत्पभृतिक्रमात। प्राग्वतु पूजयेद्देवं तुरङ्गशिरसं ह-रिम्” प्राग्वदिति रूपावाप्तिव्रतोक्तविधिवत् तुरङ्ग-शिरसं हवग्रीवम्।
“त्रिलांश्च जुहुयाद् वह्नौ तिलै-देवं समर्चयेत्। त्रिरात्रीपोषितो माघं तिलान् कनक-मेव च। दद्याद् ब्राह्मणमुख्याय सम्यक्प्रयतमानसः। मुख्यान् यज्ञोपवीतांश्च प्रभूतमपि चन्दनम्। कृत्वाव्रतं मासमिदं यथाक्तं विद्यान्वितः स्यात् पुरुषः सदैव। स्वर्लोकमासाद्य सुखानि भुक्त्वा कामानभीष्टात पुरुषो-ऽश्नुते च”। विधानद्वादशसप्तमीव्रतम् आदित्यपु॰
“निरुक्तसप्तमीनान्तुशृणु नारद्!। निर्णयम्। यः शान्तिमविगच्छत स्मर-स्वात् सर्वकिल्विषैः। शातनां सर्वपापानां शातनां न-मतां विदुः। तत्रोपवासविधिना धातारं य उपासते। चत्रमासे तु सप्तम्यामतिरात्रफलं लभेत्। वैशास्यमासेमप्तम्यां पर्जन्यं यस्तु पूजयेत्। चातुर्मासस्य यज्ञस्यफलं प्राप्तोति तत्र वै विभा विभावलोर्दृष्टा भाशब्दो[Page5048-b+ 38] व्याप्तिदीप्तिषु। विभानाम निरुक्तञ्च स्वयमेव विभाःवसोः। सप्तम्यां ज्यैष्ठमासन्तु वरुणं यः समर्च्चयेत्। आप्तोर्यामदशानान्तु फलं विन्दति मानवः। अमृतार्थेयदा देवा जयशब्देन निर्ययुः। पूजयन्ति जयां देवा-मृतमस्याश्च तत् स्मृतम्। आषाढमासे सूर्य्यन्तु सप्तम्यांपूजयेन्नरः। अश्वमेधमवाप्नोति कुलञ्चैव समुद्धरेत्। सप्तम्यां निर्जिता देवैरसुरा दानवास्तथा। समाराध्यसुरैः सेन्द्रैः संग्रामे तारकाभये। त्रैलोक्ये विजय-प्राप्ते तस्माद्विजयसप्तमी। यः पूजयति मां भक्त्या त-स्मिन्नहनि मानवः। स्नात्वा सम्यगुपस्पृश्य शुक्लवासाःकृताञ्जलिः। सदा यज्ञोपवीती च ब्रह्मचारी जिते-न्द्रियः। अक्रोधनो ह्यचपलः स्थिरचित्तः समाहितः। ध्यायमानस्तथा साम्ब! तत्परः सजितेन्द्रियः” इत्यादि। विभूतिद्वादशीव्रतं मत्स्यपु॰
“शृणु राजन्! प्रवक्ष्यामि वि-ष्णोर्व्रतमनुत्तमम्। विभूतिद्वादशी नाम सर्वाभरणभूषिता। कार्त्तिके चाथ वैशाखे मार्गशीर्षेऽथ फाल्गुने। आषाढे वा दशम्यान्तु शुक्लायां लघुभुङ्नरः। कृत्वा सायन्तनीं सन्ध्यां गृह्णीयान्नियमं बुधः। एका-दश्यां निराहार समभ्यर्च्य जनार्दनम्। द्वादव्यां द्विज-संयुक्तः करिष्ये भोजनं ततः। तदविघ्नेन मे यातुसाफल्यं मधुसूदन!। ततः प्रभाते चोत्थाय कृत्वा स्नान-जपं शुचिः। पूजयेत् पुण्डरीकाक्षं शुक्लमाल्पानुलेपनैः”। वि(बि)ल्वत्रिरात्रव्रतं स्कन्दपु॰
“ज्यैष्ठे मासि च संप्राप्तेपूर्णमाम्यां द्विजोत्तम!। ज्येष्ठाऋक्षदिने कुर्य्यात्सिद्धार्थैः स्नानमुत्तमम्। श्रीघृक्षं सिञ्चयेत् पश्चाद्गन्धपुष्पैश्चपूजयेत्। वत्सरन्त्वेकभक्तन्तु हविष्यान्नेन कारयेत्। श्वशूकरस्वरादीनां दर्शने भोजनं त्यजेत्। अनेन वि-धिना सम्यक् मासि मासि समाचरेत्। ततः संवत्सरेपूर्णे गत्वा वि(बि)ल्वसमीपतः। गृहीत्वा वालुकां पात्रेप्रस्थमःत्रं महामुने!। अथ वा धान्यमादाय यवशालि-तिलादिकम्। ततो वंशमये पात्रे वस्त्रयुग्मेन वेष्टयेत्। उमामहेश्वरं हैमं शक्त्या कुर्य्यात् सुभूषितम्” इत्यादि। विशोकद्वादशीव्रतं पद्मपु॰
“पुण्ये चाश्वयुजे मासि विशोकद्वा-दशीव्रतम्। यच्चोत्वां शोकदौगत्यभाजनं न नरो भवेत्। दशम्यां लघुभुक् रात्रौ कृत्वा वै दन्तधावनम्। उदङ्मुखो प्राङ्मुखो वा वाक्यमेतदुदीरयेत्। एकादश्यां निराहारः समभ्यर्च्य च केशवम्। थियंच जगतां भूतिं भोक्ष्यामीत्यपरेऽहभि। पूकंनियम-[Page5049-a+ 38] मास्थाय सुप्वा रात्रौ जितेन्द्रियः। प्रभाते विमले गत्वामध्याह्ने तु जलाशयम्। स्नानं सर्वौषधैः कुर्य्यात् पञ्च-गव्यजलेन च। शुक्लमाल्याम्बरधरः समभ्येत्य गृहंततः। पूजयेज्जगतां नाथं लक्ष्मीदयितमुत्पलै” इत्यादि। विशोकषष्ठीव्रतं भविष्योत्तरे
“विशाकषष्ठीमधुना वक्ष्यामिमनुजोत्तम!। यामुपोष्य नरः शोकं न कदाचिदिहस्पृशेत्। माघे कृष्णतिलैः स्नानं पञ्चम्यां शुक्लपक्षतः। कृताहारः कृशरया दन्तधावनपूर्वकम्”। कृशरया, ति-लतण्डुलान्नेन
“उपवासव्रत कृत्वा ब्रह्मचारी भवेन्निशि। ततः प्रातः समुत्याय कृत{??}आनजपः शुचिः। कृत्वा तुकाञ्चनं पद्ममर्कोऽयमिति पूजयेत्। करवीरेण रक्तेन रक्त-वस्त्रयुगेन च। यथा विशोकं भुवनमुदिते त्वयि जायते। तथा विशाकता मे स्यात्त्वद्भक्तेः प्रतिजन्मनि। एवं स-म्प्रूज्य षष्ट्यान्तु द्विजान् शक्त्या प्रपूजयेत्। सुप्यात्-संप्राश्य गोमूत्रं समुत्थाय ततः शुचिः। सपूज्यविप्रान् दानेन गुडपात्रेण संयुतम्। वस्त्रेणाच्छाद्यगुरवे सर्वमेतन्निवेदयेत्” इत्यादि। विशोकसंक्रान्तिव्रत स्कन्दपु॰
“अतःपरं प्रवक्ष्ये विशोक-संक्रान्तिमुत्तमाम्। अयने विषुवे पुण्ये व्यतीपातो भवेद्-यदि। एकभक्तं नरः कुर्य्यात्तिलैः स्नानन्तु कारयेत्। काञ्चनं भास्कर कृत्वा यथाविभवशक्तितः। स्नापवेत्पञ्च-गव्येन गन्धपुष्पैः सुपूजयेत्। वेष्टयेद्रक्तवस्त्राभ्यं ताम्र-पात्रे निधापयेत्” इत्यादि। विशोकसप्तमीव्रतं भविष्यपु॰
“विशोकसप्तमीं तद्वत् वक्ष्यामिमुनिपुङ्गव!। यामुपोष्य नरः शोकं न कदाचिदिहाश्रुते। माघे कृष्णतिलैः, स्नातः पञ्चम्यां शुक्लपक्षतः। कृताहारःकृशरया दन्तधावनपूर्वकम्। उपवासव्रतं कृत्वा ब्रह्म-चारी भवेन्निशि। ततः प्रभाते चोत्थाय कृतस्नानजपःशुचिः। कृत्वा तु काञ्चनं पद्ममर्कोऽयमिति पूजयेत्। करवीरैश्च पुष्पैश्च रक्तवस्त्रयुगेन च। यथा विशोकं भुवनंत्वयैवादित्य! सर्वदा। तथा विशोको मे चास्तु त्वद्भक्तेःप्रतिजन्मनि। एवं संपूज्य षष्ट्यां तु भक्त्या संपूजयेद्द्विजान्। सुत्वा संप्राश्य गोमूत्रमुत्थाय कृतनित्यकः। संपूज्य विप्रं यत्नेन गुडपात्रसमन्वितम्। सुसूक्ष्मंवस्त्र{??}युक्तं ब्राह्मणाय नियेदयेत्। अतैललवणंभुङ्क्ते सप्तम्या मौनसंयुतः। ततः पुराणश्रवणंकर्त्तव्यं भूतिमिच्छता। अनेन विधिना सवमुभयोरपिप्रक्षयाः कुर्य्यात्{??}त् पुनर्माधशुक्लपक्षस्य सप्तमीम्। [Page5049-b+ 38] व्रतान्ते कलसं दद्यात् सुवर्णकमलान्वितम्”। विश्वव्रतं भविष्यपु॰
“एकादश्यां यथोद्दिष्टा विश्वेदेवाः प्र-पूजिताः। प्रजां पशून् धनं धान्यं प्रयच्छन्ति महींतथा। मूलमन्त्रः स्वसंज्ञाभिरङ्खमन्त्राः प्रकीर्त्तिताः। पूर्ववत् पद्मपत्रस्थः कर्त्तव्यश्च तिथाश्वरः। गन्धपुष्पोप-हारैश्च यथाशक्ति विधीयते। पूजाऽशाठ्येन शाठ्येनकृतापि तु फलप्रदा। आज्यधारासमिद्भिश्च दधिक्षी-रान्नमाक्षिकैः। पूर्वोक्तफलदो होमः कृतः शान्तेन चे-तसा”। एतद्व्रत वैश्वानरप्रतिपद्व्रतवद्व्याख्येयम्”। विश्वरूपव्रतं कालोत्तरे
“रेवतीशनियोगस्तु सिताष्टम्यां यदाभवेत्। भूतायां वा महासेन! तदा जातमिदं शृणु!महास्नानं प्रकर्त्तव्यं नित्यकृत्यादनन्तरम्। चन्द्रेणै-वाङ्गरागन्तु रत्नपूजान्तु कल्पयेत्। सितपद्मानि देयानिभूषणानि वहून्यपि। चन्द्रमेवं दहेद्धूपं नैवेद्यं पायस-ङ्घृतम्। श्वेताश्वन्तरुणं सौम्यं शिवाय विनिवेदयेत्। अश्वाष्टमं कुञ्जरञ्च आचार्य्याय प्रदापयेत्। ऋग्यजुःसा-माथर्वाणः प्रत्यश्वकुञ्जरं तथा। राज्यार्थीं लमतैराज्यं यावदाहूतसंप्लवम्। पुत्रार्थी लभते पुत्रान्वायुतुल्यपराक्रमान्। भोगार्थी लभते भोगान् विद्या-तत्त्वेन शाश्वतान्। यान् यान् कामयते कामान् तास्तान् कामानवाप्नुयात्। विश्वरूपमनन्त न व्रतमेतदु-दाहृतम्। कुशोदकप्राशनन्तु रात्रौ जागरणं ततः”। विष्टिव्रतं भविष्योत्तरे विष्टिस्वरूपमुक्त्वा
“एवमेषा समुत्पन्नाविष्टिरिष्टविनाशिनी। तस्मान्नरेण कौन्तेय! वर्जनीयाफलार्थिना। येनोपवासविधिना व्रतेन च युधिष्ठिर!। पूजिता तोषमायाति तदेव कथयामि ते। यस्मिन् दिनेभवेद्भद्रा तस्मिन्नहति भारत!। उपवासस्य नियम कु-र्य्यान्नारी नरीऽथ वा। यदि रात्रौ भवेद्विष्टिरेकभक्तंदिनद्वयम्। कार्य्यस्तेनोपवासः स्यादिति पौराणिकोविधिः। प्रहरस्योपरि यदा स्याद्विष्टिः प्रहरत्रयम्। उपवासस्तथा कार्य्य एकभक्तमतोऽन्यथा। सर्वौषधि-जलस्नान सुगन्धामलकैरथ। नद्यान्तडागेऽथ गृहेस्नानं सवेत्र शस्यते। देवान् पितॄन् समभ्यर्च्य ततो दर्भ-मयीं शुभाम्। विष्टिं कृत्वा पुष्पघूपैर्मैवेद्यादिभिरर्च-येत्। होमन्तु नामभिर्विष्टेः शतमष्टौत्तरं नृप!। भुञ्जीत दत्त्वा विप्राय तिलान् पायसमेव च। सतैलंकृशरं भुक्त्वा पश्चाद्भ ञ्जीत कामतः। छायासूर्य्यसुते!देवि! विष्टिरिष्टार्थताशिनि!। पूजितासि यथाशर्क्त्या[Page5050-a+ 38] भद्रे! भद्रप्रदा भव। उपोष्य विधिनानेन दश सप्त यथाक्रमात्। उद्यापनं ततः कुर्य्यात् पूर्ववत् पूज्य भामिनीम्। स्थापयित्वायसे पीठे कृशरान्नं निवेद्य च। परिधायकृष्णवस्त्रयुगं मन्त्रेण तं पुनः। ब्राह्मणाय पुनर्दद्याद्लौहतैले तिलांस्तथा। कृष्णां सवत्सां गामेकान्तथैवकृष्णकम्बलाम्। दक्षिणाञ्च यथाशक्त्या दत्त्वा भद्रांविसजैयेत्। य एवं कुरुते पार्थ! सम्यगभद्राव्रतं नरः। विघ्नं न जायते तस्य कार्य्यारम्भे कथञ्चन”। विष्णुदेवकीव्रतं विष्णुधर्मोत्तरे
“प्रथमे कार्चिकस्याह्नि सम्प्राप्तेदेवकि! स्वयम्। पञ्चगव्यकृतस्नानः पञ्चगव्यकृताशनः। वाणपुष्पैः समभ्यर्च्य वासुदेवमजं विभुम्। दत्त्वा चचन्दनं घूपं परमान्नं निवेदयेत्। घृतं निवेदयेद्विप्रे गृह्णी-याच्च ततो व्रतम्। अद्यप्रभृत्यहं मासं विरतः प्राणिनांबधात्। असत्यवचनात्स्तेयान्मधुमांसादिभक्षणात्। स्वपन्विबुध्यन् गच्छंश्च स्मरिष्याम्यहमच्युतम्। परापवादंपैशून्यं परपीडाकरन्तथा। सच्छास्त्रदेवतायज्ञनिन्दा-मन्यस्य वा भुवि। न वक्ष्यामि जगत्यस्मिन् पश्यन् सर्व-गतं हरिस्। अशक्तो बाऽधिशक्तोऽपि यस्मिन् वोदुंयशस्विनि!। कुर्वीत नियमं तस्य त्यागाधर्मोपवृद्धये। कृत्वैवं पुरतो विष्णार्निर्वृतिं पापतः शुभे। नैवेद्यं स्व-यमश्नीयान्मौनी नित्यमुदङ्मुखः। मार्गशीर्षे तथा मासिजातीपुष्पैर्जनार्दनम्। समभ्यर्च्य पुनर्धूपं चन्दनञ्चनिवेदयेत्। परम न्नञ्च देवाय विप्राय च पुनर्घृतम्। दत्त्वा तथैव गृह्णीयान्नियमो योऽस्य रोचते। तथैवनक्तं भुञ्जीत नैवेद्य कुलनन्दिनि!। सर्वेष्वेव चतुर्मासंपञ्चगव्यादिकं समम्। पुष्पधूपोपहारेषु विशेषो दक्षिणासुच। स्नानप्राशनयोः साम्यं तथैव नक्तभोजनम्। अर्चयेत् प्रतिमासञ्च यैः पुष्पैस्तानि मे शृणु!। ये चधूपाः प्रदातव्या नैवेद्यान्नञ्च यत्तथा। वाणैश्च जाति-कुसुमै तथैव च मुकुन्दजैः। कुन्दातिमुक्तकै रक्तै रक्तवीरैश्च रक्तकैः। श्वेतैः शुभ्रैर्मल्लिकायास्तथा मल्लिकयाततः। दधिपद्माभकेतक्याः पद्मरक्तोत्पलेन च। क्रमेणा-भ्यर्चितो विष्णुर्ददाति मनसि स्थितम्। कार्त्तिके मार्ग-शीर्षे च धूपं पौषे च चन्दनम्। माघफाल्गुनचैत्रेषुदद्याद्विष्णोस्तथाऽगुरुम्। वैशाखादिषु मासेषु त्रिषु देवकि!भक्तितः। कर्पूरं देवदेवाय गुग्गुलं श्रावणादिषु। का-र्त्तिकादिषु मासेषु परमान्नं शुभे! त्रिषु। कामारं माघं-प्र्वैषु यवान्नञ्च ततस्त्रिषु। घृतं तिलान् जलघटं हि[Page5050-b+ 38] रण्टमथ वा व्रती। प्रतिमासं तथा दद्याद् ब्रह्मणायशुभव्रते!। यथोक्तनियमानाञ्च ग्रहणं प्रतिमासिकमकुर्वन् जगत्पतिर्विष्णु प्रीयतामिति मानवः। योषिद-प्यचलप्रज्ञा व्रतमेतद् यथाविधि। करोति मासान् सक-लान् अवाप्नोति मनोरथान्। व्रतेनाराधितो विष्णु-रनेन जगतःपतिः। ददात्यभिमतान् कामान् क्षिप्र-कालेन भामिनि!। धन्यं यशस्यमायुष्यं सौभाग्यारौ-ग्यदन्तथा। व्रतमेतत् प्रियतरं व्रतेभ्योऽव्यक्तजन्मनः”। विष्णुपदव्रतं विष्णुधर्मोत्तरे
“आचष्ट दुःखक्षयदं व्रतं वि-ष्णुपदत्रयम्। सर्वारम्भविनिष्पत्तिकारकं पापनाशनम्। संसारोच्छेदकैर्धीरैर्यथेष्टं स्थिरबुद्धिभिः। तदह् तवराजेन्द्र! व्रतानामुत्तोत्तमम्। कथयामि समाचष्ट यथा-पूर्वं समासतः। आषाढे मासि राजेन्द्र! पूर्वाषादाषुपार्थिव!। समभ्यर्च्य जगन्नाथमच्युतं नियतः शुचिः। पुष्पैर्धूपैस्तथा हृद्यैर्गन्धैः सागुरुचन्दनैः। यथाविभ{??}त-श्चान्यैरत्नैर्वासोभिरेव तु। क्षीरस्नेहस्थितं तद्वद्द्रव्यै-र्विष्णुपदत्रयम्। समभ्यर्च्य यथाशक्त्या केशवस्याग्रतोन्यसैत्। यवांश्च दद्याद्विप्राय श्रीपतिः प्रोयतामिति। नक्तं भुञ्जीत राजेन्द्र! हविष्यान्नं सुशोभनम्। तथै-वोत्तरषाढासु श्रावणे मासि मानवः। तथैवाभ्यर्च्यगोविन्दं तथा विष्णुपदत्रयम्। विप्रायात्र घृतं दत्त्वाप्रीणयित्वा भुवःपतिम्। भुञ्जीत गोरसप्रायं मानवोमौनमास्थितः। स्त्री वा राजेन्द्र! पूर्वासु तथा भाद्र-पदासु वै। फाल्गुने फाल्गुनीपूर्वा भवेदिति यदानृप!। त्रिबिक्रमं तदा देवं पूर्वोक्तविधिनार्चयेत्। पदत्रयन्तु देवस्य समभ्यर्च्य तु पार्थिव!। हिरण्यंदक्षिणां दद्यात् स्वर्गतिः प्रीयतामिति। नक्तं भुञ्जीतराजेन्द्र! आज्यपाकविवर्जितम्। एष एवोत्तरायोगे चैत्रेमासि विधिः स्मृतः। अपुत्रो लभते पुत्रमपतिर्लभतेपतिस्। समागमं प्रवासाच्च तथा प्राप्तोति बान्धवैः। भद्रवैश्चर्य्यमारोग्यं सौभाग्यं चानुरूपताम्। प्राप्नुया-दखिलानेतान् पूजयित्वा पदत्रयम्। यान् यान् कामा-न्नरः स्त्री वा हृदयेनाभिवाञ्छति। तांस्तानाप्नोतिनिष्कामो विष्णुलोकं प्रपद्यते। पूर्वं कृत्वापि पापानिनरः स्त्री वा नराधिप!। पदत्रयव्रतं कृत्वा मुच्यतेसर्वकिल्विषैः”। विष्णुप्राप्तिद्वादशीव्रतं भविष्यपु॰
“द्वादश्यामुपचासन्तु ये यैकुर्वन्ति ते नराः। मामेव प्रतिपद्यन्ते मम भक्तिपरा-[Page5051-a+ 38] यणाः। कृत्वा चैवोपवासन्तु गृहीत्वा च जलाञ्ज-लिम्। नमो नारायणायेति आदित्यं चावलोकयेत्। यावन्तो विन्दवः केचित् पतन्त्यञ्जलितो जलात्। ताव-द्बर्षसहस्राणि स्वर्गलोके महीयते। तथैव तस्यां द्वा-दश्यां कृत्वा क र्म यथाविधि। पाण्डुरैश्चैव पुष्पैस्तुमृष्टैर्गन्धैश्च धूपनैः। य एवं कारयेद्भूमे! तस्यापि शृणुयां गतिम्” इत्यादि। विष्णुव्रतं भविष्यपु॰
“द्वादश्यां विष्णुमिष्ट्वेह सर्वदा वि-जयी भवेत्। पूज्यश्च सर्वलोकानां यथा गोपति-गाकरः”। गोपतिः सूर्य्यो गोकरो नेत्ररश्मिर्यस्यस गोपतिगोकरो विष्णुः
“मूलमन्त्राः स्वसंज्ञाभिरङ्ग-मन्त्राश्च कीर्त्तिताः। पूर्ववत् पद्मपत्रस्थः कर्त्तव्यश्चतिथीश्वरः। गन्धपुष्पोपहारैश्च यथाशक्ति विधीयते। पूजाऽशाठ्येन शाठ्येन कृतापि तु फलप्रदा। आज्य-धारासमिद्भिश्च दधिक्षीरा{??}माक्षिकैः पूर्वोक्तफलदोहोमः कृतः शान्तेन चेतसा”। एतत्तु व्रतं वैश्वानरप्रति-पद्व्रतवद्व्याख्येयम्। पद्मपु॰
“द्वादश द्वादशीर्यस्तु स-माप्योपोषणैर्नरः। गीवतसं काञ्चनं विप्रानर्चयेद्भक्तितः। परं पदमवाप्नोति विष्णुव्रतमिदं स्मृतम्”। विष्णु-धर्मोत्तरे
“विष्णुव्रतमिति ख्यातं दर्शितं विष्णुना स्य-यम्। पौषशुक्लद्वितीयादि कृत्वा मासचतुष्टयम्। षण्-मासपारणप्रायं गृह्णीयात् परमं व्रतम्। पूर्वं सिद्धा-र्थकैः स्तानं ततः कृष्णतिलैः स्मृतम्। वचयाथ तृती-वेऽह्नि सर्वौषध्या ततःपरम्। नाम्ना कृष्णाच्युताख्येनतथा तं तेन पूजयेत्। तथैव च चतुर्थेऽह्नि हृषीकेशंच केशवम्। देवमभ्यर्च्य पुष्पैश्च पत्रैर्धूपानुणेपनैः। उद्गच्छतश्च बालेन्दीर्दद्यादर्घ्य समाहितः। पुष्पैः पत्रैःफलैश्चैव सर्वधान्यैश्च भक्तितः। दि{??}क्रमेण चैतानिचन्द्रनामानि कीर्त्तयेत्। शशी चन्द्रः शशाङ्कश्च निशा-पतिरिति क्रमात्। नक्तं भुञ्जीत सततं यावत्तिष्ठतिचन्द्रमाः। अस्तङ्गते न भुञ्जीत व्रतभङ्गभयाच्छुभे!। एवं सर्वेषु मासेषु ज्यैष्ठान्तेषु यशस्यिनि!। कर्त्तव्यं वैव्रतश्रेष्ठं द्वितीयादिचतुर्दिनम्। विप्राय दक्षिणां दद्यात्पञ्चभ्यां च यशस्विनि!। एवं समापयेन्मासैः षड्भिःप्रथमपारणम्। पारणान्ते च देवस्य प्रीणनं भक्तितःशुभैः। यथाशक्त्या तु कर्त्तव्यं वित्तशाठ्यं विवर्जयेत्। स्वाषाडादिद्वितीया{??} षण्मासेन तप्रोधन!। पारणं वै{??} व्र{??} शुभ{??}दम्”। [Page5051-b+ 38] वृषव्रतं पद्मपु॰
“कार्त्तिक्यां यो वृषोत्सर्गं कृत्वा नक्तं स-माचरेत्। वैष्णवं पदमवाप्नोति वृषव्रतमिदं स्मृतम्”। वेदव्रतं विष्णुधर्मोत्तरे
“इदमन्यत् प्रवक्ष्यामि चतुर्मूर्त्तिव्रत-न्तव। विद्याकामेन यत्कार्य्यं नरेण सुविपश्चिता। बहिः-स्नानं नरः कृत्वा कृतऋग्वेदपूजनः। ऋग्वेदं शृणुया-न्नित्यं मासद्वयमतन्द्रितः। चैत्रादारभ्य धर्मज्ञ! नित्यंनक्ताशनो भवेत्। ततो नृपवर! प्राप्ते ज्यैष्ठस्य चर-मेऽहनि। वासोयुगं हिरण्यञ्च तथा धेनुं पतस्विनीम्। घृतपूर्णं कांस्यपात्रं सहिरण्यन्तु दक्षिणाम्। आषाढा-दिषु मासेषु यजुर्वेदव्रतं चरेत्। आश्विनादिषु मासेषुसामवेदव्रतं चरेत्। तथाथर्वव्रत नाम पौषादिषुविधीयते। सर्वेषु सर्वं कर्त्तव्यमृग्वेदव्रतकौर्त्तितम्। वेदात्मनो वासुदेवस्य पूजां कृत्वा नरो द्वादशवत्सराणि। विष्णोर्लोकं याति लोकैर्विशिष्टं यस्मिन् प्राप्ते सर्वदुःखंजहाति”। वेदग्रहणार्थं वेदव्रतं विधानपा॰ दृश्यम्। बेश्याव्रतं पद्मपु॰
“अथाप्यन्यत् व्रतं सम्यक् उपदेक्ष्यामितत्त्वतः। अविचारेण सर्वाभिरनुष्ठेयञ्च तत् पुनः। संसारोत्तराणायालमेतद्वेदविदो विदुः। यदा सूर्य्यदिनेहस्तः पुष्योऽवाथ पुनर्वसुः। भवेत् सर्वौषधीस्नानं सम्य-ङ्गारी समाचरेत्। तदा पञ्चशरस्यापि सन्निधानमिहे-ष्यते। अर्चयेत् पुण्डरीकाक्षमनङ्गस्यापि कीर्त्तनम्। तस्माद्विप्राय दातव्यं हृच्छ्रयः प्रीयतामिति। यथेच्छा-हारभुग्नक्तं तमेव द्विजसत्तमम्। रत्यर्थं कामदेवोऽय-मिति चित्तेन धारयेत्। यद्यदिच्छति विप्रेन्द्रस्तत्तत्कुर्य्यात् विलासिनी। सर्वाभायेन चात्मानमर्पयेत् स्मित-भाषिणी। एवमादित्यवारेण सदा तद्व्रतमाचरेत्। तण्डुलप्रस्यदानादि यावन्मासास्त्रयोदश। ततस्त्रयोदशेभासि संप्राप्ते तस्य कामिनी। विप्रस्योपस्करैर्युक्तां शय्यदद्याद्विलक्षणाम्। सोपधानकविश्राम स्वास्तरावरणांशुभाम्। दीपकोपानहृच्छत्रपादुकासनसंयुताम्। सप-त्नीकमलङ्कृत्य हेमसूत्राङ्गुलीयकैः। सूक्ष्मवस्त्रैः सकटकै-र्धूपमाल्यानुलेपनैः। कामदेवं सपत्नीकं गुडकुम्भोपरि-स्थितम्”। कामदेवरूपन्तु मदनत्रयोदशीव्रतोक्तं विज्ञे-यम्।
“ताम्रपात्रासनगतं हैमसूत्रपटावृतम् सुकांस्य-भाजनोपेतमिक्षुदण्डसमन्वितम्। दद्यादयथोक्तविधिनातथैकां गां पयास्वनीम्”। वैतरणीव्रतं भविष्योत्तरे
“एकादशी तिथिः कृष्णामार्गशीर्षगता नृप!। तामासाद्य नर सम्बक गृह्णी-[Page5052-a+ 38] यान्नियमं शुचिः। एकादशी तिथिः कृष्णा नाम्नावैतरणी शुभा। सा व्रतेन मया कार्य्या वर्षं नक्तपरायणः। गध्याह्ने तु नरः हात्वा नित्यं निर्वर्त्तित-क्रियः। रात्रौ सुरभिमानीय कृष्णामर्चत् यथाविधि। पूर्वाभिमुख्यपि धातव्या कृष्णा गौर्लिप्तभूतले। अग्रपादा-दितः पूज्या पञ्चात्पादद्वयावधि। गोपुच्छन्तु समा-साद्य कुर्य्यात् वै पितृतर्पणम्। ततः पूजा प्रकर्त्तव्याशास्त्रदृष्टविधानतः। गाञ्चैव श्रद्धया युक्तश्चन्दनेनानु-लेपयेत्। गन्धतोयेन चरणौ शृङ्गे प्रक्षाल्य भक्तितः। ततोऽनुपूजयेद्भक्त्या पुष्पैर्गन्धादिवासितैः। मन्त्रैः पुरा-णसम्प्रोक्तैर्यथास्थानं यथाविधि”।
“मार्गशीर्षादिकेभक्तं यावन्मासंचतुष्टयम्। अन्यन्मासुचतुष्कन्तु याव-काशनमेव च। श्रावणादिषु मासेषु चतुर्ष्वद्याच्च पा-यसम्। तदन्नस्य त्रयोभागाः गोगुरस्वार्थमेव च। नैवेद्यं हि मया दत्तं सुरभी प्रीयतामिति। द्वितीयंगुरवे दद्यात् तृतीयं स्वयमेव च। मासाम्मासं प्रकुर्वीतमासद्वादशकं व्रतम्। उद्यापनन्ततः कुर्य्यात् पूर्णे संवत्-मरे तदा। शय्या सतूलिका भार्य्यादम्पत्योः परिधान-कम्। सवत्सां कृष्णवर्णा तु धेनुः कार्य्या पयस्विनी। सौवर्णीं सुरभीं कृत्वा स्थापयेत् तूलि{??}परि। सुरनींपूजयेन्मन्त्रौः पूर्वोक्तैर्भक्तिसंयुतैः। ततस्तु गुरपे दद्यात्सर्वं तत्र क्षमापयेत्। नारो वा पुरुषो वापि घ्रतस्या{??}प्रभावतः। राज्यं बहुविधं भुक्त्वा स्वर्गलोके महीयते। भारो लोहस्य दातव्यः कार्य्योऽसौ द्रोणसम्भितः। वै-तरण्याः समाप्त्यर्थं ब्राह्मणाय कुटुम्बिने”। वैनायकचतुर्थीव्रतं भविष्योत्तरे
“चतुर्थ्यां नक्तभुग्दद्या-दव्दान्ते हेमवारणम्”। वारणः, करी।
“व्रतं वैना-यकं नाम सवविघ्नोपशान्तिदम्”। वैशाखव्रतानि पद्मपु॰
“वैशाखे पुष्पलवणं वर्जयित्वा तुगोप्रदः। विष्णुलोकमवाप्नोति ततो राजा मवेदिह”। महाभारते
“निरन्तरैकभक्तेन वैशाखं यो जितेन्द्रियः। नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत्”। विष्णुधर्मोत्तरे
“यः क्षिपेदेकभक्तेन वैशाखं पूजयेद्धरिम्। नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत्। अ-हिंस्रः सर्वभूतेषु वासुदेवपरायणः। नमोऽस्तु वासुदेवा-येत्यहश्चाष्टशतं जपेत्। अतिरात्रस्य यज्ञस्य ततः फल-{??}वाप्नुयात्”। वै{??}नरपतिपद्व्रतं भविष्योत्तरे
“अग्निमिद्वा हुत्वा च[Page5052-b+ 38] प्रतिपद्यामिति स्मृतम्। हविषा सर्वधान्यानि प्राप्नुया-दमृतं धनम्”। इष्ट्वा पूजयित्वा। प्रतिपद्यां प्रति-पदि। इति स्मृत कामानुसारेण हिरण्यरेतस्कतयाविदितम्। हविषा घृतेन। सर्वघान्यानि हुत्वेत्र-न्वयः।
“मूलमन्त्राः स्वसंज्ञाभिरङ्गमन्त्राश्च कीर्त्तिताः। पूर्ववत् पद्मपत्रस्थः कर्त्तव्यश्च तिथीश्वरः”। मूलमन्त्राःप्रधानमन्त्राः अङ्गमन्त्राः परिवारदेवतामन्त्राःअग्नये हृदयाय नम इत्येवमादयः। स्वसंज्ञाभिः ओंअग्नये नम इत्यादिपूजायाम्। ओं अग्नये स्वाहाइत्यादि होमे। पूर्ववत् सूर्य्यव्रतवत्। पद्ममध्यस्थःकर्णिकायां स्वमूर्त्त्या पत्रेषु परिवारमूर्त्त्या स्थितः। तिथोश्वरोऽत्र वह्निः। स च श्मश्रुधारी त्रिलोचनोरक्ताङ्गश्चतुर्वाहुः दक्षिणे शूलं तदपरे ज्वाला। उत्-सङ्गगताया अन्नपात्रहस्तायाः स्वाहायाः स्कन्धे चन्यस्तकरोऽपरो वरः। चत्वारः शुका रथस्य वोठारः। वायुः सारथिरित्येवं विष्णुधर्मोत्तराभिहितो येदितष्यः।
“गन्घपुष्पोषहारैश्च यथाशक्ति विधीयते। पूजाऽशा-द्येन शाद्येन कृतापि तु कलपदा। अशाढ्येन अक-पटेन शाठ्येनेति स्तुतिः।
“आज्यघारासमिद्भिश्च दधिक्षीरान्नमाक्षिकैः। पूर्वोक्तफलदो होमो विहितःशान्तचेतसा”। आज्यधारादिभिः षड्भिः पृथक्कृतोहोमः पूर्वोक्तफलदा धनदः। माक्षिकं मधु। आदौपूजा ततो घृताक्तधान्यहोमस्ततो आज्यधारादिहोमः”। वैश्वानरव्रतं पद्मपु॰
“यश्चेन्धनन्ददेद्विप्रे वर्षादिचतुरस्त्वृतून्। घृतधेनुप्रदोऽन्ते च स परं ब्रह्म गच्छति। वैश्वानरव्रतंनाम सर्वपापप्रणाशनम्”। वैष्णवव्रतं पद्मपु॰
“आषाढादिचतुर्मासान् प्रातः स्नायी भवे-न्नरः। विप्राय भोजनं दत्त्वा कार्त्तिक्यां गोप्रदो भवेत्। घृतकुम्भं तथा दद्यात् सर्वकामानवाप्नुयात्। वैष्णव-व्रतमित्युक्तं विष्णुलोकप्रदायकम्”। व्यतीपातव्रतं वराहपु॰
“शुभे व्यतीपातदिने विगाहयेत् सपञ्चगव्येन महानदीजलम्। उपावसेद्वै एवमानजापकोजपेत्तु शुद्धो व्यतिपात! ते नमः। छादिते ताम्रपात्रेणशर्करापूरिते घटे। काञ्चनाब्जे प्रतिष्ठाप्य हैमुमष्टभुज-न्नरम्”। अष्टभुजं अष्टादशभुजम् उत्पत्तिवाक्ये व्यतीपात-मूर्त्तेरष्टादशभुजत्वात् उत्पत्तिवाक्यानुसारत्वाच्च विनि-योगवाक्यस्य यथा भगवद्गीतासु
“चत्वारोमनवस्तथेति” चत्वारश्चतुर्दश।
“गन्धपुष्पाक्षतैर्धूपदीपवस्त्रनिवेदनैः। [Page5053-a+ 38] भक्ष्यैर्भोज्यैः फलैश्चित्रैर्मासि मार्गशिरेऽर्चयेत्। नमस्ते-ऽस्तु व्यतीपात! सूर्य्यसोमसुत! प्रभा!। यद्दानादि कृतंकिञ्चित् तदनन्तमिहास्तु मे। इत्युक्त्रा पञ्चरत्नाढ्यंसपुष्पाक्षतमञ्जलिम्। प्रक्षिप्य तत्क्षणादेव सर्वपाप-क्षयो भवेत्। यदि द्वितीयेऽपि दिने व्यतीपातो भवे-न्महि!। तदा पूर्णोपवासस्तु दद्यात्तत् सकलं गुरोः। पारणं व्यतिपातान्ते कुर्य्यात् संप्राश्य गोमयम्। अथैकस्मिन्नेव दिने व्यतीपाती भवेद् यदि। तत्रैवाह्नितदा दत्त्वा उपवासं समाचरेत्। कुर्य्यादेवं मासि मासिव्यतीपातस्त्रयोदश। व्यतीपाते तु संप्राप्ते कुर्य्यादुद्या-पनं बुधः। व्यतोपाताय स्वाहेति क्षीरवृक्षसमन्वितम्। आज्यक्षोरतिलानाञ्च होतव्यं वै शतं शतम्”। नार-टोयपु॰
“व्यतीपातव्रतस्यास्य विधानं शृणु तत्त्वतः। माघे वा फाल्गुने वापि अन्यस्मिन्मासि वा भवेत्। व्यतीपातो दिने यस्मिन् प्रारभेद्व्रतमुत्तमम्। तिलैःपूर्णं शरावञ्च सगुडं गुरवेऽर्पयेत्। एवं द्वितीये दातव्यंतृतीये तु समापयेत्। सघृतं पायसञ्चैव दातव्यं चो-त्तरोत्तरम्। एवं संवत्सरस्यान्ते देवस्यार्चान्तु कार-येत्। शङ्खचक्रगदापाणिं पद्महस्तं हिरण्मयम्। वस्त्रयुम्मेन संवेष्ट्य पूजयेद्गरुडज्वजम्। गोक्षीरेण चसंपूर्णं कांस्यभाजनमुत्तमम्। स्थाप{??}द्देवदेवस्य स्थानन्त-त्रैव कल्पयेत्। शय्या च सन्निधौ तस्य स्थाप्या देव-मनुस्मरन्। अनन्तशायिनं देवमनन्तफलदं शुभम्। लक्ष्म्या सहान्वितं विष्णुं भक्त्या संपूजयेद्गुरुम्। वैदिकेनैव मन्त्रेण जातीपुष्पैः समर्चयेत्। पायसेनैवनैवेद्यं शर्करासंयुतेन च। दत्त्वा निवेद्यं देवस्य प्रार्थनंप्रार्थयेद्व्रती”। व्योमव्रतं भविष्यपु॰ अगस्त्यार्घ्यदानाऽनन्तरम्
“सितचन्दन-तीयेन व्योम स्थाप्य बिलिप्य च। कर्णिकाकल्पितैः पद्मैःसंप्ज्य प्रसिपत्य च”। कर्णिकाकल्पितैः कर्णिकामण्डितैः
“बकुले विमले सौम्ये निच्छिद्रे पुष्पिते सति”। पुष्पितेविकसिते।
“मध्ये केसरजालस्य व्योम स्थाप्यं सुशो-भनम्। अङ्गुष्ठपर्वपात्रन्तु सर्वगन्धसमन्वितम्। अग्रेसस्थापयित्वा च भास्करस्य सुरोत्तम!। पूजयेत् कर-वीरैस्तु तथा रक्तैश्च चन्दनैः। धूपञ्च गुग्गुलं दद्यात्प्रणम्य शिरमा रविम्। कुङ्कुमं पूर्वपार्श्वे तु दद्या-द्व्योम्नः समाहितः। दक्षिणे चागुरुं दत्त्वा पश्चिमेचन्दनं सितम्। चतुःसमञ्चोत्तरे तु दद्याद्व्योमविच-[Page5053-b+ 38] क्षणः। दद्यान्मध्ये शुभं पुण्यं रक्तचन्दनमादरात्। पूजयेद्विविधैः पुष्पेस्तथा साऽगुरुचन्दनैः। धूपं कृष्णा-गुरुं दद्यात् सघृत वापि गुग्गुलुम्। वासांसि च सु-सूक्ष्माणि विकेशानि निवेदयेत्। पायसं घृतसंयुक्तंघृतदीपांश्च दापयेत्। सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणम्।{??}णम्य शिरसा भानुमुत्थायैन क्षमापवेत्। सर्वोपहारसंयुक्तं बलिं देवाय चाहरेत्। खखोल्का-येति मन्त्रेण सूर्य्यायामिततेजसे। अनेन विधिवद्देव-ञ्चार्चयित्वा पुरा रविम्। अहं ब्रह्मत्वमापन्नः प्रसादा-द्भास्करस्य तु”। व्योमषष्ठीव्रतं भविष्यपु॰
“भाजनं तत्र संपूर्णं मधुना चसमन्वितम्। दद्यात् कृष्णतिलानां तु प्रस्थमेकन्तुमागधम्। त्रितुणं तण्डुलानां च पृयक प्रस्थं चकारयेत्”। भाजनं प्रस्थचतुष्टयपूरणोयं पात्रं त्रिगुणंप्रस्थत्रयम् पृथगिति घृतमधुतिलतण्डुलपात्राणिपृथक् कुर्य्यात्।
“गन्धपुष्पैस्तथा धूपैर्नानावाद्यैर्विशेषतः। ततः संपूजयेत् सूर्य्यं नानावाद्यसमन्वितम्। सूर्य्यंगगनस्थम्।
“पूजयेच्च ततो व्योम बलिं दिक्षु प्रपूजयेत्। व्यामदेवगृहे चैव सवभूतानि याजयेत्। व्योमदेवगृहे तत्र यत्र व्योम प्रतिष्ठितम्”। व्योमनिमांणंविष्णुधर्मोत्तरात्
“चतुरस्रं भवेन्मूले तत्र वृत्तं महा-भुजम्। ततोऽन्यत् चतुरस्रञ्च प्रथमे संस्थितं शुभम्। भद्रपीठमये प्रोक्तो व्योमभागस्तुरीयकः। स्तम्भे वैश्वा-नरोऽथास्य मध्यभागः प्रकीर्त्तितः। भद्रपीठषदन्यच्चतत्र पद्मं निवेशयेत्। शुभाष्टपत्रं तन्मध्ये कर्णिकायांदिवाकरः। पत्राष्टके न्यसेत्तस्य दिक्पालान् सर्वतोदिशम्”।
“य एवं कुरुते षष्ठ्यां सन्ध्याकाले बलिं रवेः। स सूर्य्यलोकमासार्द्य मोदते शाश्वतीः समाः”। व्रतराजतृतीयाव्रतं देवीपु॰
“तृतीयायान्तु शुक्लायां लिखे-द्वस्त्रयुगे शुभे। रोचनासितकर्पूरैः शिवोमां पूजयेत्ततः। हेमरत्नस्रजैर्वत्स! मन्त्रयुग्ममुदीरयेत्। समस्तकाम-फलदं यत्तत् पूर्वमुदाहृतम्। ततो जपार्चनं होषंकर्त्तव्यं द्विजसत्तम!। अवियोगाय नारीणां व्रतराजंसदा हितम्। सहेमपुष्परत्ना{??}ं सवस्त्रं दापयेत्तु तथ। महापुण्यं महाभाग्यं सर्वकामप्रदायकम। सुतम्रा{??}वियोगस्तु न भवेत्तेन भो द्विज!। न व्याधिर्नोपसर्भाधयावत्तन्तुरजो भवेत्। तावत्कालसुपासोके राक्षतेमोदते चिरम्”। [Page5054-a+ 38] शक्रव्रतं विष्णुधर्मोत्तरे
“आश्वयुज्यां सपूर्वन्तु पौर्णमास्यांनरो भुवि। सोपवासः सुरेन्द्रञ्च देवं संपूजयेत्तथा। शचीमैरावतं वज्रं मातलिञ्च नराधिपः। गन्धमाल्य-नमस्कारदीपधूपान्नसम्पदा। संवत्सरान्ते कनकञ्च दत्त्वाप्राप्नोति लोकं स पुरन्दरस्य। मानुष्यमासाद्य नरेन्द्र-पूज्यो राजा भवेद् वा द्विजपुङ्गवो वा”। पद्मपु॰
“आकाशाशी समां दद्याद्धेनुमन्ते पयस्विनीम्। शक्र-लोकमवाप्नोति शक्रव्रतमिद स्मृतम्”। शङ्करनारायणव्रत देवीपु॰
“कथितं शङ्करोमाख्यं व्रतंभनसि तुष्टिदम्। श्रोतुमिच्छाम्यहन्तात विष्णुशङ्कर-संज्ञितम्”। मनुरुवाच
“यथा उमेश्वरन्तात तथा कार्य्य-मिदं व्रतम्। किन्तु पीतानि वासांसि केशवाय प्रक-ल्पयेत्। गन्धपुष्पं तथा धूपं सुगन्धञ्च जनार्दने। कार्य्यं पूजनसम्भारे लड्डुकादिरसं दधि। एवन्तौपूजयित्वा तु प्रतिमास्थण्डिलेऽपि वा। आहूय ब्रा-ह्मणौ वत्स! वेदवेदाङ्गपारगौ। यती वा व्रतसम्पन्नौजटाकाषायधारिणौ। तौ भोजयेद्विधानेन शूलपाणि-जनार्दनौ। क्षभाप्य विधिना वत्स! सर्वकामप्रसाधकौ। भूमात्रं दक्षिणां विष्णार्मौक्तिकं शङ्कराय च। दत्त्वानु-व्रजतो लोकौ क्रमाद्देहक्षये ततः”। शङ्करार्कव्रतं कालिकापु॰
“अथ चानेन मार्गेण शुभां ता-मेव चाष्टमीम्। सम्प्राप्यादित्ययोगेन प्राग्विधानेन वानरः। किन्तु दक्षिणनेत्रस्थं भास्करञ्चार्चयेद्बुधः। पद्मरागेण हैमेन योज्येदं सेपनं शृणु। नेत्रे न्यस्यललाटाधः कुङ्कुमं रक्तचन्दनम्। वृत्तन्तु योज्य मध्येतु हरं पूर्ववदर्चयेत्”। अर्द्धचन्द्राकारं तन्मध्ये वृत्तञ्चकृत्वा हेमनिबद्धं पद्मरागं वृत्तमध्ये निधाय सूर्य्य-रूपनेत्रं कुर्य्यादित्यर्थः।
“अभावे पद्मरागादेर्हेमसर्वत्र योजयेत्। रुद्रवीजं परं पूतं यतस्तच्चैव सर्वदा। शुक्लमाल्याम्बरं वल्कं नैवेद्यं च घृतप्लुतम्। शेषःपूर्वविधानेन कर्त्तव्यो विधिविस्तरः। किन्तूपोष्य प्रकु-र्वीत सप्तम्यां विजितेन्द्रियः। शङ्करार्कयुतं पूज्य घृतंगव्यञ्च पारयेत्”। शनिव्रतं भविष्योत्तरे
“अतो यमस्य दिवसे स्नानमभ्यङ्गपूर्व-कम्। कार्य्यं देयञ्च विप्राय तैलमभ्यङ्खहेतवे। यस्तुसंत्वत्सरं यावत् प्राप्ते शनिदिने नरः। तैलं ददातिविप्राणां स्वशक्त्यान्यजनस्य तु। ततः संवत्सरस्यान्तेप्राप्ते तस्य दिने पुनः। लौहपटार्पितं सौरिं तैलकुम्भे[Page5054-b+ 38] विनिक्षिपेत्। लौहे वा मृण्मये चाथ कृष्णवस्त्रयुगा-न्वितम्” इत्यादि। शर्करासप्तमीव्रतं पद्मपु॰
“शर्करासप्तमीं वक्ष्ये सर्वकल्मष-नाशिनीम्। आयुरारोग्यमैश्वर्य्यं ययानन्त्यं प्रजायते। माधवस्य सिते पक्षे सप्तम्यां श्रद्धयान्वितः। प्रातःम्नात-स्तिलैः शुक्लैः शुक्लमाल्यानुलेपनः। स्थण्डिले पद्म-मालिख्य कुङ्कुमेन सकर्णिकम्। तस्मिन्नियमः सवि-त्रे धूपं पुष्पं निवेदयेत्। स्थापयेदव्रणं कुम्भ शर्करा-पात्रसंयुतम्। शुक्लवस्त्रेण संवेष्ट्य शुक्लमाल्यानुलेपनैः। सहिरण्यं यथाशक्त्या मन्त्रेणानेन पूजयेत्” इत्यादि। शाकसप्तमीव्रतं भविष्यपु॰
“सप्तम्यां सोपवासस्तु रात्रौ भुङ्क्तेतु यो नरः। कृतोपवासः षष्ठ्यां तु पञ्चम्यामेककाल-भुक्। दत्त्वा तु संस्कृतं शाकं भक्ष्यभोज्यैः सुसंस्कृतम्। देवाय ब्राह्मणेभ्यश्च रात्रौ भुञ्जीत वाग्यतः। याव-ज्जीवं नरः कश्चिद्व्रतमेतच्चरिष्यति। तस्य श्रीर्विजय-श्चैव त्रिवर्गश्च विवर्द्धते। मृतः स्वर्गमवाप्नोति विमान-वरमास्थितः”।
“शाकं सुसंस्कृतं कृत्वा भक्ष्यभोज्यसम-न्वितम्। दत्त्वा विप्रे यथाशक्त्या पश्चाद्भुङ्क्ते निशिव्रती। कार्त्तिके शुक्लपक्षस्य ग्राह्योऽयं कुरुनन्दन!। चतुर्भिरपि मासैस्तु पारणं प्रथमं स्मृतम्। अगस्तिकुसुमैश्चाव्र पूजा कार्य्या विभावसोः”। कार्त्तिकशुक्ल-सप्तम्यामारभ्य प्रतिमासं कुर्वता पुनर्मासचतुष्टयम् यावत्शुक्लसप्तमी तस्यां तस्याञ्च पारणं कार्य्यम्। एकस्मिन्वर्षे वारत्रयं पारणं भवति एवमेव वर्षान्तरेषु तादृशंव्रतं यावज्जीवं कर्त्तव्यम्”। शान्ताचतुर्थीव्रतं भविष्यत्पु॰
“माघमासि तथा शुक्ला याचतुर्थी महीपते!। ला सर्वशान्तिदा नित्यं शान्तिंकुर्य्यात् सदैव हि। म्नामं दानं बलिः कर्म सर्वमस्यांकृतं विभो!। भवेत्सहस्रगुणितं प्रसादाद्दन्तिनः सदा। कृत्वोपवासं यस्तस्यां पूजयेद्विघ्ननायकम्। तस्यां होमा-दिकं कर्म भवेत्साहस्निकं नृप!। लवर्ण गुडपूर्णञ्चघृताक्तं तच्च भारत!। दत्त्वा भक्त्या तु बिघ्नेशं फलंसाहस्निकं लभेत्”। शान्तितृतीयाव्रतं गरुडपु॰
“तृतीयायां महामाग! कर्त्त-व्यञ्च व्रतं शृणु। येनानन्तभवारब्धमेनः क्षपयति द्विज!। ग्रहपीडादिकैरन्यैरुपसर्गैः प्रपीडितः। अस्यां शान्तिंप्रकुर्वीत यतवाक्कायमानसः। स्थण्डिलं रचयित्वा तुनरोवीजप्रसूनकैः। चक्राब्जं मण्डलं कुर्यादस्विन्नसित-[Page5055-a+ 38] तण्डुलैः। तत्र चावाहयेद् देवं नरसिंहाकृतिं विभुम्। प्रसन्नमधुरोदारवीक्षणक्षपितार्त्तिकम्। अशेषभयविध्वंस-चतुरं पुरुषं हरिम्। अभयं भयतप्नानां ददतं ददतंवरम्” इत्यादि।
“होमाच्च द्विगुणं प्राहुस्तर्पणंमन्त्रनिश्चयः। तस्य तद् द्विगुणं प्राहुर्जप एष विधि-क्रमः। नियोगारम्भसमये नियमान् प्रतिपालयेत्। त्रयं चाहरहः कुर्वन् नक्तकालं समापयेत्”। नियमान्मौनादीन्। त्रयञ्चाहरहः पूर्वं नक्तकालं समापयेत्। त्रयं होमतर्पणजपान् अहरहः प्रतिदिनं संख्या चसङ्कल्पितहोमसंख्यापेक्षया।
“हविष्याशी जितक्रोधोयतवाक्कायमानसः। नित्यं त्रिःषवर्ण स्नायात् सदा-चाररतो मुनिः। न चानृतकथोऽनग्निर्ब्रह्मचारीजितश्रमः”। यस्त्वेतत् कुरुते मर्त्त्यः श्रद्धाभक्ति-समन्वितः। स सर्वार्त्तिविनिर्मुक्तो शान्तिमाप्नोतिनैष्ठिकीम्”। शान्तिपञ्चमीव्रतं भविष्यपु॰
“तद्धद्भाद्रषदे मासि पञ्चम्यांश्रद्धयान्वितः। यत्नाल्लिख्य नरो नागान् कृष्णवर्णादि-वर्णकैः। पूजयेद्गन्धधूपैस्तु सर्पिर्गुग्गुलपायसैः। तस्यतुष्टिं समायान्ति पन्नगास्तक्षकादयः। आसहस्रञ्जला-त्तस्य न भयं नागतो भवेत्। तस्मात् सर्वप्रयत्नेन ना-गान् संपूजयेद्बुधः। तथैवाश्वयुजे मासि पञ्चम्यांकुरुनन्दन!। कृत्वा कुशमयान्नागानिन्द्राण्या सहपूजयेत्। यस्तस्यां विधिवन्नानान् शुचिर्भक्त्या सम-न्वितः। पूजयेत् कुरुशार्दूल! तस्य शेषादयो नृप!। नागाः प्रीता भवन्तीह शान्तिमाप्नोति वा विभो!। प्र-शान्तिलोकमासाद्य मोदते शाश्वतीः समा”। शान्तिव्रतं वराहपु॰
“शान्तिव्रतं प्रवक्ष्यामि शृणुष्वैकमनानृप!। येन चीर्णेन शान्तिः स्यात् सर्वदा गृहमेधिनः। पञ्चम्यां शुक्लपक्षस्य कार्त्तिके मासि पार्थिव!। आरभ्यबर्षमेकन्तु भुञ्जीयादम्लवर्जितम्। नक्तन्तु पूजयेद्देवंहरिं शेषोपरिस्थितम्। एवं यः कुरुते भक्त्या व्रत-मेतन्नराधिप!। तस्य शान्तिर्भवेन्नित्यं नागेभ्यश्चाभयंतथा। शेषाहिभोगशयनस्थमपांप्रसूतिं सपूज्य यज्ञ-पुरुषं पतगेन्द्रकेतुम्। येनम्लमत्त्यमधुरं सितपञ्चमीषुतेषां न नागजनितं भयमस्ति किञ्चित्”। शाम्भरायणीव्रतं भविष्योत्तरे
“तस्मात् पोर्थ! प्रयत्नेनप्रतिमासं समाहितः। मासि मास्यच्युतं पूज्य भवेथा-स्तन्मनास्तथा। ये शाम्भरायणिकथाचरितव्रतेन वर्षाणि[Page5055-b+ 38] सप्त विधिना सुधियो नयन्ति। ते स्वर्गलोकमभिलभ्यकृताधिवासाः कल्पायुतं सुतशतैरपि न च्यवन्ति”। शिलाचतुर्थीव्रतं भविष्योत्तरे
“लवणैर्धान्यकैर्युक्तं जीरकंमरिचानि च। हिङ्गं शूण्ठीं हरिद्राञ्च सर्वं परि-करं तथा। चतुर्थ्यामेकभक्ताशी सकृद् दत्त्वा कुटुम्बिने। गृहेषु सप्तसु तथा शिलायुक्तानि भारत!। एतच्छिला-व्रतं नाम लक्ष्मीलोकप्रदायकम्”। शिवचतुर्दशीव्रतं मत्स्यपु॰
“शृणुष्याबहितो ब्रह्मन् वक्ष्येमाहेश्वरं व्रतम्। त्रिषु लोकेषु विख्यातं नाम्ना शि-वचतुर्दशी। मार्गशीर्षे त्रयोदश्यां सितायामेकभोजनः। प्रार्थयेद्देवदेवेशं त्वामहं शरणङ्गतः। चतुर्दश्यां निरा-हारः समभ्यर्च्य च शङ्करम्। सुवर्णवृषभं कृत्वा भो-जयेच्चापरेऽहनि। एवं नियमकृत् सुत्वा प्रातरुत्थायमानवः। कृतम्नानजपः पश्चादुमया सह शङ्करम्। पूजयेत् कमलैः शुक्लैः गन्धधूपानुलेपनैः”।
“पञ्चदश्यांततः पूज्य विप्रान् भुञ्जीत वाग्यतः। तद्वत्कृष्णचतु-र्दश्यामेतत् सर्वं समाचरेत्। चतुर्दशीषु सर्वासु कुर्य्यात्पूर्ववदर्चनम्। ये तु मासविशेषास्तु तान्निबोध क्रमा-दिह। र्मार्गर्शीर्षादिमासेषु क्रमादेतदुदीरयेत्”। आ-श्विनान्तेष्विति ज्ञेयम् इत्यादि। शिवनक्तव्रतं भविष्यपु॰
“कृष्णाष्टमीं तु नक्तेन कृत्वाकृष्णचतुर्दशीम्। इह भोगानवाप्नोति परत्र शिवमृ-च्छति”। शिवरथव्रतं विष्णुधर्मोत्तरे
“कृत्वैकभक्तं हेमन्ते माघमासेतु यन्त्रितः। माधान्ते च रथं कुर्य्याच्चित्रवस्त्रोपशी-भितम्। श्वेतैश्चतुर्भिः संयुक्तं वृषभैः समलङ्कृतम्। शोभितं ध्वजमालाभिश्चित्रचामरदर्पणैः। तण्डुलाढक-पिष्टेन लिङ्गं कृत्वा सवेदिकम्। विन्यस्य रथमध्ये तुपूजयेत् कृतलक्षणम्। तद्रात्रौ राजमार्गे च शङ्खभेर्य्या-दिभिः स्वनैः। भ्रामयित्वा ततः पश्चाच्छिवायतनमान-येत्। तत्र जागरपूजाभिः प्रदीपाद्युपशोभितैः। प्रेक्ष-णीयप्रदानैश्च क्षपयेत शनैर्निशाम्। प्रभाते स्नापन कृत्वातद्भक्तानाञ्च भोजनम्। दीनान्धकृपणानाञ्च यथाशक्त्याच दक्षिणाम्। रथं शोभासमायुक्तं शिवाय विनि-वेदयेत्। भुक्त्वा च वान्धवैः सार्द्धं प्रणम्येशं गृहंव्रजेत्”। शिवरात्रिव्रतं स्कन्दपु॰ नागरखण्डे
“माघस्य कृष्णपक्षीयतिथिश्चैव चतुर्दशी। तस्या रात्रिः समाख्याता शिव-[Page5056-a+ 38] रात्रिरिति द्विजाः!। तस्यां सर्वेषु लिङ्गेषु सदा संक्रमतेहरः। विशेषादमरैः सर्वैः ख्याता सैवं कणेश्वरे। माथमासस्य कृष्णायां चतुर्दश्यां सुरेश्वर!। अहं या-स्यामि भूमिष्ठो रात्रौ नैव दिवा कलौ। लिङ्गेषु चसमस्तेषु चलेषु स्थावरेषु च। प्रपूजयेत् सम्पदिच्छुःसर्वपापविशुद्धये। तस्यां रात्रौ हि मे पूजां यः करि-ष्यति मानवः। मन्त्रैरेतैः सुरश्रेष्ठ! विपाप्मा स भ-विष्यति”। स्कन्दपु॰
“माघमासे तु या कृष्णा फाल्-गुनादौ चतुर्दशी। सा तु पुण्या तिथिर्ज्ञेया सर्वपाप-विनाशिनी। शान्तात्मा क्रोधहीनस्तु तपस्वी ह्यनसू-यकः। तस्मै देयमिदं देवि! गुरुपादानुगे सदा। अन्यथा यो ददातीदं स दाता नरकं व्रजेत्। वर्षे वर्षेमहादेवि! नरोनारी पतिव्रता। वीक्षयामि जगत्सर्वं कोमां भक्त्या प्रपूजयेत्। शिवमन्त्रैर्जपं कृत्वाहोममर्चनदीपनम्। जागरं शिवरात्र्यान्तु शिवं पश्येत्समाहितः। मम भक्तो नरो देवि! शिवरात्रेरुपोषकः। गणत्वमक्षयं दिव्यमक्षयम् शिवशासनम्। सर्वं कृत्वा तुभजते गोगानमृतसम्भवान्। एवं द्वादश वर्षाणि शिव-रात्रेरुपोषकः। योमां जागरते रात्रिं मनुजः स्वर्ग-माप्नुयात्। अकृत्वा मां न जानाति व्रतमेतदुदाहृतम्। शिवञ्च पूजयित्वा यो जागर्त्ति च चतुर्दशीम्। मातुःपयोधररसं न पिबेत् स कदाचन। यदीच्छेच्चाक्षयान्भोगान् दिवि देवसमः पुमान्। आगमोक्तविधिं कृत्वाप्राप्नोति सकलं फलम्”। शिवलिङ्गव्रतं शिवधर्मोत्तरे
“सितचन्दनतोयेन स्नाप्य लिङ्गंविलेप्य च। श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च। पङ्कजे विमले सौम्ये निच्छिद्रे पुष्पिते घने”। सौम्ये रम्ये
“मध्ये केमरजालस्य स्थाप्य लिङ्गं कतीयसम्। अङ्गुष्ठ-मात्रं विधिवत् सर्वगन्धमयं शुभम्। स्थाप्य दक्षिण-मूर्त्तौ तु बिल्वपत्रैः समर्चयेत्। एवं योऽर्चयते लिङ्गंपद्मे गन्धमयं शुभम्। सर्वपापविनिर्मुक्तः शिवमेवाभि-गच्छति। एतद्व्रतोत्तमं गुह्यं शिवलिङ्गं महाव्रतम्। भक्तस्य ते मयाख्यातं न देयं यस्य कस्यचित्”। शिवव्रतं कालोत्तरे
“अतःपरं प्रवक्ष्यामि व्रतानान्तु यथा-क्रमम्। अष्टम्यान्तु चतुर्दश्यां पक्षयोरुभयोस्तथा। उ-पोष्य संयतो मूत्वा त्रिविधेनान्तरात्मना। ततोऽपराह्लेशुचिना विशेषात् पूजयेच्छिवम्। पूर्वोक्तेन विधानेनजपचोमादिमाचरेत्। पूजवेत् परया भक्त्या गुरुवाक्[Page5056-b+ 38] साधनादिकैः। ततस्तु पञ्चगव्यैश्च प्राशयेच्चुलुकत्रयम्। अमत्तश्चोपसम्स्पृश्य हविष्यान्नेन वर्त्तनम्। अनेन वि-धिना यत्नाद् यावज्जीवं ब्रतं चरेत्। पिता पितामह-श्चैव तथैव प्रपितामहः। वसन्ति शिवलोकेषु शिवव्रत-प्रभावतः। एतच्छिवव्रतं नाम व्रतानामुत्तमोत्तमम्”। तत्रैवान्यव्र
“पौषमासे तु सम्प्राप्ते पक्षयोरुभयोः सुत!। चतुर्दश्यामथाष्टम्यां पौर्णमास्यामथापि वा। नित्यंनिवंर्त्य विधिवत् ततः काम्यं समाचरेत्। विशेषपूजातत्रैव कर्त्तव्या शुद्धचेतसा। नैवेद्यं यावकप्रस्थं खण्डंक्षीराज्यसंस्कृतम्। रुद्रसंख्यांस्तु वै विप्रान् भोजयेच्चैवदक्षयेत्। वितस्तिमात्रां प्रकृतिं यावपिष्टेन निर्मिताम्। सशृङ्गखुरलाङ्गूलकृतभूषान्तु कारयेत्। शिवाय तुप्रदातव्या कपिला गुरवे ततः। स्ववाहनसमायुक्ता व्रत-पुण्यमतः शृणु!”। वर्षसाध्यम्
“अनेन विधिमा माघेखड्गं पिष्टमयं शिवे। समप्यं च विधानेंन चक्रवर्त्ति-पदं लभेत्। फाल्गुने तु तथा चक्रं निवेद्य तत्पदंलभेत्। चैत्रे शिवं पिष्टमयं निवेद्य च शिवाग्रतः। स मुञ्चति ब्रह्महत्यां शिवलोकमवाप्नुयात्। वैशास्वेमासि दण्डाग्रं शिवस्याग्रे निवेदयेत्। हस्तार्द्धं पि-ष्टकं कार्य्यं पूजान्ते तु निवेदयेत्। सुच्यते सर्वपापेभ्योरुद्रलोके महीयते। ज्यैष्ठे पिष्टमयं खड्ग शिवायविनिवेदयेत्। मुच्यते तु कृतघ्नत्वाद्रुद्रलोके तु गच्छति। आषाढे पिष्टजं पात्रं शिवाय विनिवेदयेत्। मुच्यतेदुष्कृतैः सर्वैरिह जन्मनि सञ्चितैः। ध्वजं पिष्टमयंयस्तु शिवस्याग्रे निवेदयेत्। श्रावणे तु विधानेन सोऽ-क्षय मोक्षमाप्नुयात्। मासे भाद्रपदे यस्तु गदां पिष्टमयींददेत्। निधीशत्वं स सम्प्राप्य शिवलोके महीयते। मासि चाश्वयुजे शूल दत्त्वार्द्धपिष्टसम्भवम्। शिवायपुरतो देय भ्रूणहत्यां व्यपोहति। कार्त्तिके तु गदा-चक्रं शिवस्याग्रे निवेदयेत्। सप्तजन्मकृतं पाप दह-त्यग्निरिवेन्धनम्। मासे वै मार्गशीर्षे तु कमलं पिष्ट-सम्भवम्। शिवाय विधिना देयं सर्वैश्वर्य्यमवाप्नुयात्। सर्वेषाञ्चैव नक्तन्तु व्रतानां कीर्त्तितं मया। नित्यपूजान्तुनिर्वर्त्य काम्यपूजान्तु कारयेत्”। तत्रैवान्यत्र
“अश्वं वैमार्गशीर्षे तु यस्तु पिष्टमयं ददेत्। शिवं सम्पूज्यविधिवत् सूर्य्यलोके महीयते। दिव्यं वर्षसहस्रन्तुतदन्ते स्यान्महीपतिः। पौषे पिष्टमयी दन्ती शिवस्याग्रेनिवेद्यते। त्रिःसप्तकुलसयुक्तः शिवलोके महीयते। [Page5057-a+ 38] दिव्यं वर्षसहस्रन्तु तदन्ते स्यान्महीपतिः। चक्रवर्त्तीमहावीरः सर्वैश्वर्य्यसमन्वितः। माघे चाश्वरथं यस्तु शि-वाय विनिवेदयेत्। उद्धरेत्सोऽपि नरकात् स्वपितॄन्रौरवादितः। शिवलोके तु वसति दिव्यवर्षायुतत्रयम्। तदन्ते तु महीं कृत्स्नां न च खण्डां भुनक्ति सः। फाल्गुने वृषयूथन्तु पिष्टोत्थं रुद्रसंख्यया। निवेद्य तुशिवस्याग्रे त्रैलोक्याधिपतिर्भवेत्। दिव्यं वर्षसहस्रन्तुतदन्ते स्यान्महीपतिः। चक्रवर्त्ती महावीरः सर्वैश्वर्य्य-समन्वितः। चैत्रे गृहमिन्दुमयं दासदासीसमन्वितम्। गृहोपकरणैर्युक्तं विचित्राङ्गणचर्चितम्। पूजान्ते प-रया भक्त्या शिवाय विनिवेदयेत्। दिव्यवर्षशतान्यष्टौरुद्रलोके महीयते। जातिस्मरस्तदन्ते तु चक्रवर्त्तित्व-माप्नुयात्। मासि वैशाखसंज्ञे तु सप्तव्रीहिशराव-कान्। शिवाय पुरतो दद्यात् पूजान्ते प्रीतचेतसा। स याति शिवसायुज्यं बन्धुभिः सहितो नरः। पलानांद्वे शते यस्तु गुग्गुलन्तु दहेत् सुधीः। ज्यैष्ठे मासिशिवस्याग्रे पूजान्ते भक्तिसंयुतः। त्रिःमप्तकुलसंयुक्तःशिवलोके महीयते। तदन्ते पृथिवीं भुङ्क्ते न च खण्डांससागराम्। बलिमण्डलकं कार्य्यं आषाढे शूलपाणिनः। नानाभक्ष्यैर्विरचितं नानाभक्ष्यससन्वितम्। नाना-चित्रसमाकीर्णं कर्त्तव्यं बलिमण्डलम्। संपूज्य परमे-शानं ततस्तस्य निवेदयेत्। पितॄन् पितामहांश्चैव उद्धृत्यप्रपितामहान्। पुत्रपौत्रसमायुक्तः शिवलोके महीयते। दिव्यवर्षसहस्राणि तदन्ते पृथिवीपतिः। श्रावणे मासिदेवस्य विमानं पुष्पसम्भवम्। पूजावसाने दातव्यं वि-चित्ररचनाकुलम्। वर्षायुतप्रमाणन्तु रुद्रलोके मही-यते। योगीशो जायते शान्तो येन मोक्षं व्रजेत्तु सः। मासि भादूपदे यस्तु रुद्रपूजां चरेत् तदा। गुग्गुलंप्रथमं धूपं सुरदारु ततो दहेत्। बिल्ववीजं घृतं तद्वत्तथा नानाघृतान्वितम्। पञ्चमं ह्यगुरुं दद्यात् धूपंसर्वात्मना विभोः मासमेकन्दहेद् यस्तु नैरन्तर्येणभक्तितः। याति सायुज्यतां शम्भोः सपुत्रः सहबान्धवःयस्त्वर्कपत्रपुटकं पूरयेत् क्षीरसर्पिषा। मासमश्वयुजंशम्भोर्नैरन्तर्येण भक्तितः। तस्य पुण्यफलं वक्तुं नशक्तोऽस्मि षडानन!। तत्कुले पतिता ये तु डिम्भा-डिम्भाहता पुनः। ते प्रयान्ति माहाभागा रुद्रलोकेयथासुखम्। वर्षायुतायुतं साग्रं तदन्ते तु नरेश्वराः। जायन्ते शिवभक्ताश्च ज्ञानिनो वीतकल्मषाः। शिवदीक्षां[Page5057-b+ 38] समासाद्य ते यान्ति परमाङ्गतिम्। वस्त्रावृतमिक्षुरसंपुटकन्तु शिवाग्रतः। पूजान्ते दापयेद् यस्तु मासि प्राप्तेच कार्त्तिके। देहान्ते रुद्रलोके तु मादते सह बा-न्धवैः। व्रतान् ते चैव संपूज्य शिवभक्तान् यथाविधि। हैमवस्त्रान्नपानैश्च वित्तशाठ्यं विना सुत!”। पद्मपु॰
“आषाढादिचतुर्मास्यां वर्जयेन्नखकृन्तनम्। वृन्ताकभ-क्षणञ्चैव मधुसर्पिर्घटान्वितम्। कार्त्तिक्यान्तत् पुनर्हैमंब्राह्मणाय निवेदयेत्। रुद्रलोकमवाप्नोति शिवव्रतमनु-त्तमम्”। शिवाचतुर्थीव्रतं भविष्यपु॰
“शिवा शान्ता सुखी राजन्!चतुर्थी त्रिविधा स्मृता। मासि भाद्रपदे शुक्ला शिवालोकेशपूजिता। तस्यां स्नानं तथा दानमुपवासोजप-स्तथा। क्रियमाणं शतगुणं प्रसादाद्दन्तिनो नृप!। गुडलवणघृतानां दानं शुभकरं स्मृतम्। गुडपूपा-स्तथा वीर! पुण्यं ब्राह्मणभोजनम्। चतुर्थ्यां नर-शार्दूल! पूजयेत सदा स्रियः। गुडलवणपूजाभिःश्वश्रूश्वशुरमातरः। ताः सर्वा सुभगा, स्युर्वै विघ्नेश-स्यानुमोदनात्। कन्यकाश्च विशेषेण विधिनानेन पूजयेत्”। शिवापवीतव्रतं शिवधर्मोत्तरे
“पौर्णमास्यां तथाषाढ्यां शिवंसंपूज्य यत्नतः। उपवीतं शिवे दद्याच्छिवभक्तांश्च भोज-येत्। पुनरेव च कार्त्तिक्यां पूज्य शम्भुं क्षमापयेत्। यतीनां दक्षिणां दत्त्वा सूत्रवस्त्रादिपूर्विकाम्। यः कु-र्य्यात् सकृदप्येवं चातुर्मास्यां पवित्रकम्। कल्पकोटि-सहस्राणि रुद्रलोके महीयते”। शीलतृतीयाव्रतं पद्मपु॰
“अनग्निपक्वमश्नाति तृतीयायान्तुयो नरः। गां दत्त्वा शिवमभ्येति पुनरावृत्तिदुर्लभम्। वृहदानन्दकृत् पुंसां शोलव्रतमिद स्मृतम्”। शीलावाप्तिव्रतं विष्णुधर्मोत्तरे
“भगवन्! कर्मणा केन शील-वान् पुरुषो भवेत्। कुलजातिश्रुतेभ्यस्तु शीलमेव वि-शिष्यते”। मार्कण्डेय उवाच
“आग्रहायण्यतीते तुमासमेकं दिने दिने। पूर्ववत् पूजयेद्दवं वराहमपरा-जितम्। घृतेन स्नापयेद्देवं घृतेन जुहुयाद्धरिम्। घृतंद्विजेभ्यो दद्याच्च घृतमेव निवेदयेत्। त्रिरात्रोपोषितःपौष्यां घृतपात्रेण च द्विजम्। पूजयेच्च सुवर्णेन यथा-शक्ति नराधिप!। कृत्वा व्रतं मासमिदं यथोक्तमासाद्यनाकं सुचिरं मनुष्यः। मानुष्यमासाद्य च शीलवान्स्यात् प्राप्नोति पुष्टिं चिरजीवितञ्च। शुक्रव्रतं भविष्योत्तरोक्तम्
“शुक्रं ज्येष्ठासु संप्राप्य पूजये-[Page5058-a+ 38] न्नक्तभोजनः। पूर्वोक्तक्रमयोगेण द्विजसन्तर्पणेन तु। सप्तमे त्वथ संप्राप्ते सौवर्णं कारयेत्सितम् (शुक्रम्)। रौप्ये वा कांस्यपात्रे वा स्थापयित्वा भृगोः सुतम्। संपूज्य परया भक्त्या श्वेतवस्त्रानुलेपनैः। अग्रे तस्यप्रदातव्यं पायसं प्लतसंयुतम्”। शुद्धिव्रतं वह्निपु॰
“एवं वा द्वादश मासानुपोष्यैकादशींबुधः। स यः करोति शुद्धात्मा कृतकृत्यः सुखी भवेत्। सुनामद्वादशी पूज्या नाम्ना द्वादशभिस्तथा। द्वादशधेनवो देया हरिः कामान् प्रयच्छति। दिवि देवाः सदेवेन्द्राः कृत्वा कर्माण्यनेकशः। पश्चादाराधयन्तीहहरिं शुर्द्धिव्रतेन हि”। शुभद्वादशीव्रतं वराहपु॰
“शृणु राजन्! महाभाग! शुभ-व्रतमनुत्तमम्। येन सम्प्राप्यते विष्णुः शुभेनैव न सं-शयः। मासि मार्गशिरे पुण्ये प्रथमाव्दात् समाचरेत्। एकभक्तं सिते पक्षे यावत् स्याद्दशमी तिथिः। ततोदशम्यां मध्याह्ने स्नात्वा केशवमर्चयेत्। भुक्त्वा सङ्कल्पतःप्राग्वद् द्वादश्यां शुद्धमानसः। केशवेति हरिं पूज्यदद्यात्तत्प्रीतये तिलान्। सहिरण्यं तथा कृष्णद्वादश्यांप्रयतो नृप!। तामप्येवमुषित्वा च यवान् दद्याद्द्विजातये। कृष्णायेति हरिर्वाच्यो दाने होमे तथा-र्चने। चातुर्मास्यामथैवन्तु क्षपित्वा राजसत्तम!। चैत्रादिषु पुनस्तद्वदुपोष्य प्रयतः शुचिः। सक्तुपात्राणिविप्राणां सहिरण्यानि दापयेत्। श्रावणादिषु मासेषुतद्वद्गोविन्दमर्चयेत्। त्रिषु मासेषु यावत्तु कार्त्तिकःस्यादिहागतः। तमप्येवं क्षपयित्वा दशम्यां प्रयतःशुचिः। अर्चयित्वा हरिं भक्त्या मासनाम्ना विचक्षणः”। शुभसप्तमीव्रतं पद्मपु॰
“अन्यामपि प्रवक्ष्यामि शोभनां शुभ-सप्तमीम्। यामुपोष्य नरोरोगात् शोकदुःखात् प्रमुच्यते। शुक्ले चाश्वयुजे मासि कृतस्रानजपः शुचिः। वाच-यित्वा द्विजश्रेष्ठानारभेच्छुभसप्तमीम्। कपिलां पूजये-द्भक्त्या गन्धमाल्यानुलेपनैः। नमामि सूर्य्यसम्भूता-मशेषभुवनालयाम्। त्वामहं सर्वकल्याणशरीरां सर्व-मिद्धये। अथाहृत्य तिलप्रस्थं ताम्रपात्रे कृतं नवम्। काञ्चनं वृषभं तद्वद्वस्त्रमाल्यगुडान्वितम्। फलैर्नाना-विधैर्भक्ष्यैः सर्वोपस्करसंयुतैः। दद्याद्विकालवेलाया-मय्य मा प्रीयतामिति। पञ्चगव्यं तु संप्राश्य स्वपेद्भूमौविमत्सरः। ततः प्रभाते सुस्नातो भक्त्या सन्तर्पयेद्द्विजान्। अनेन विधिना दद्यात् मासि मासि सदा[Page5058-b+ 38] नरः। वाससी वृषभं हैमं तद्वच्छन्दोऽश्वपू{??}नम्। वत्सरान्ते च शयनमिक्षुदण्डगुणान्वितम्। सोपधानक-विश्रामभाजनासनसंयुतम्। ताम्रपात्रे तिलप्रस्थं सौ-वर्णवृषभैर्युतम्। दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयता-मिति”। शूलदानव्रतं शिवधर्मोत्तरे
“अमावस्यां निराहारः अव्द-मेकं नियन्त्रितम्। शूलं पिष्टमयं कृत्वा वर्षान्ते विनि-वेदयेत्। शिवाय राजतं पद्मं सौवर्णकृतकर्णिकम्। भक्त्या च विन्यसेत् मूर्ध्नि शेषं पूर्ववदाचरेत्। कामतो-ऽपि कृतं पापं भ्रूणहत्यादिकञ्च यत्। तत् मर्वंशूलदानेन नश्यत्येव न संशयः। महापद्मविमानेननरो नारीसमन्वितः। युगकोटिशतं साग्रं शिवलोकेमहीयते”। शैलव्रतं विष्णुधर्मोत्तरे
“अथातः संप्रवक्ष्यामि तव शैलव्रतंशुभम्। महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि। बिन्ध्यश्च पारिपात्रश्च सप्तैते कुलपर्वताः। चैत्रशुक्लम-मारम्भात् प्रत्यहं दिनसप्तकम्। तेषां संपूजनं कृत्व-बहिःस्नानं समाचरेत्। गन्धमाल्यनमस्कारधूपदीपान्न-सम्पदा। यवैर्होमं तथा कुर्य्याद् दद्याद्विप्रे यवानपिनित्यं यवान्नमश्नीयात् कुर्य्यात् संवत्सरं व्रतम्। तस्याव-साने दद्यात्तु यवप्रस्थांश्च विंशतिम्। वावचकायद्विजेन्द्राय सुवर्णं काञ्चनस्य तु”। शैवनक्षत्रपुरुषव्रतं विष्णुधर्मोत्तरे
“उपवासेष्वशक्तानां नक्तभोजनमिष्यते। यस्मिन् व्रते तदप्यत्र श्रूयताक्षयं महत्शिवनक्षत्रपुरुषं शिवभक्तिमतां नृणाम्। तस्मिन्नक्षत्रयोगेच पुराणज्ञाः प्रचक्षते। फाल्गुनस्यामले पक्षे यदाहस्तः प्रजायते। तदा ग्राह्यं व्रतं चैतन्नक्तेनाभ्यर्च्यशूलिनम्। शिवायेति च हस्तेन पादौ संपूजयेद्विभोः”। शैवमहाव्रतं विष्णुधर्मोत्तरे
“प्रतिमासं प्रवक्ष्यामि शैवव्रत-मनुत्तमम्। धर्मकामार्थमोक्षार्थं नरनार्य्यादिदेहिनाम्। पौषे मासे तु सम्प्राप्ते यः कुर्य्यान्नक्तभोजनम्। सत्य-वादी जितक्रोधः शालिगोधूमगोरसैः। पक्षयोरष्टमींयत्नादुपवासेन वर्त्तयेत्। त्रिसन्ध्यमर्चयेदीशमग्निकार्य्यञ्चभक्तितः”। वर्षसाध्यम्
“त्रिस्नानञ्चाग्निहवनं भूशय्यानक्तभोजनम्। पक्षयोरुपवासेन चतुर्दश्यष्टमीं क्षिपेत्। इत्येवमादिनियमैराचरेत शिवव्रतम्। शिवभक्ता तुया नारी ध्रुवं सा पुरुषो भवेत्। स्त्रीत्वमत्युत्तमं साचेत् काङ्क्षते शृण{??}आद् व्रतम्”। [Page5059-a+ 38] शैवोपवासव्रतं भविष्यपु॰
“चतुर्दश्यां तथाष्टम्यां पक्षयोःशुक्लकृष्णयोः। योऽव्दमेकं न भुञ्जीत शिवार्चनरतोनरः। यत् पुण्यमक्षयं प्रोक्तं सततं सत्रयाजिनाम। तत्पुण्यं सकलं तस्यां शिवलोकञ्च गच्छति”। शौर्णव्रतं वराहपु॰
“अतःपरं प्रवक्ष्यामि शौर्य्यव्रतमनुत्तमम्। येन भीरोरपि महत् शौर्य्यं भवति तत्क्षणात्। मासिचाश्वयुजे शुद्धा नवमी समुपोषिता। सप्तम्यां कृतसङ्कल्पःस्थित्वाष्टम्यां निरोदनः। नवम्यां प्राशयेत् पिष्टं प्रथमंभक्तितो नृप!। ब्राह्मणान् भोजयेद्भक्त्या देवीञ्चैब तुपूजयेत्। दुर्गां देवीं महाभागां महामायां महा-प्रभाम्। एवं संवत्सरं यावदुपोष्य विविवन्नृप!। व्रतांन्ते भोजयेद्धीमान् यथाशक्त्या कुमारकान्। हेम-वस्त्रादिमिः स्नातान् पूजयित्वा तु शक्तितः। पश्चात्क्षमापयेत्क्षान्तुं देवी मे प्रीयतामिति। एवं कृत्वाभ्रष्टराज्योलभेद्राज्यं न संशयः। चविद्यो लभते विद्यांभीरुः शौर्य्यञ्च विन्दति”। श्रद्वाव्रतं पद्मपु॰
“कृत्वाप्रलेपनं शम्भोरग्रतः केशवस्य च। स सर्वपापनिर्{??}क्तः शिवलोके महोयते। राजा भ-वति सम्भूतः सार्वभौमो महेश्वरः। एतत् श्रद्धाव्रतंनाम बहुकल्याणकारकम्”। श्रवणद्वादशीव्रतं भविष्योत्तरे
“एकादशौ यदा शुक्ला श्रव-णेन समन्विता। विजला सा तिथिः पोक्ता मक्तानांविजयप्रदा। एकादश्यां{??}पवालो रात्रौ संपूजयेद्धरिम्। रौप्पसौवर्णपात्रे वा दारुवंशमयेऽपि वा। आच्छाद्यपात्रं वासोभिरक्षतैः पलसंमितैः। मार्गचर्मेण गन्धैश्चभक्त्या वा शक्त्यपेक्षया। तिलाढकेन वित्ताढ्यः{??}नकुडवेन वा। अलामे यवगोधूमैः फलैः शुद्धतिलैर्भवेत्। पुष्पैर्गन्धैः फलैर्धूपैः कालोत्थैरर्चयेद्धरिम्। नानावि-चैश्च नैवेद्यैर्भक्ष्यभोज्यैर्गुडोदनैः। म्रवित्तस्यासुलारेणसहिरख्यञ्च कारयेत्। मन्त्रेण तु शतगुणं भक्त्या लक्ष-गुणोत्तरम्। भक्तिमन्त्रगुणोपेतं कोटिकोटिगुणोत्तरम्। एभिर्मन्त्रपदैस्तत्र पूजयेद्गरुडध्वजम्। उपहारैर्नर-श्रेष्ठ! शुचिर्भूत्वा समाहितः”।
“एषा व्युष्टिः समा-ख्याता एकादश्यां मया तव। पूर्वमेव समाख्याताद्वादशी श्रवणान्विता। उपोष्यैकादशीं पश्चाद् द्वादशी-मप्युपोषयेत्। मचात्र विधिलोपः{??}दुभयोर्देवता हरिः”। एकादश्यां द्वादस्यां चाम्बतरस्यां वा श्रवणयुक्तायांश्रवणयुक्तोपषासेमैव व्रतद्वयसिद्धिः एकस्मिन् व्रते पूर्व-[Page5059-b+ 38] मन्यां तिथिमुपोष्य पश्चादपारयित्वा नान्योपोष्या इतियो विधिलोपः स एकदेवताकत्वेन न भवतीत्यर्थः।
“बुधश्रवणसंयुक्ता द्वादशी सङ्गमोदकम्। स्नानं दध्योदनंसम्यगुपवासः परो विधिः। सगरेण ककुत्स्थेन धुन्धु-मारेण गाधिना। एतैश्चान्यैश्च राजेन्द्र! कामाच्च द्वाद-शीव्रतम्। सा द्वादशी बुधयुता श्रवणेन साकं सासौजयेति कथिता ऋषिभिर्नभस्ये। तामादरेण समुपोष्यनरोऽमरत्वमाप्नोति पार्थ! अणिमादिगुणोपपन्नम्”। विष्णुधर्मोत्तरे
“उपवासासमर्थानां किं स्यादेकमुपोषि-तम्। महाफलं महादेव! तन्ममाचक्ष्व पृच्छतः”। कृष्ण उवाच
“या राम! श्रवणोप्रेता द्वादशी महती तुसा। तस्यामुपोषितः स्नातः पूजयित्वा जनार्दनम्। प्राप्तोत्ययत्नात् धर्मज्ञ! द्वादशद्वादशीफलम्। दध्योदन-युतं तस्यां जलपूर्णं घटं द्विजे। वस्त्रसंवेष्टितं दत्त्वाछत्रोपानहमेव च। न दुर्गतिमवाप्तोति जातिमग्र्याञ्चविन्दति। अक्षय्यं स्यानमाप्नोति नात्र कार्य्या विचा-रणा। श्रवणद्वादशीयोगे बुधवारो भवेद् यदि। अत्यन्तंमहती नाम द्वादशी सा प्रकीर्त्तिता। स्नानं जप्यं तथादानं होमः श्राद्धं सुरार्चनम्। सर्वमक्षयमाप्नोतितस्यां भृगुकुलोद्वह!। तस्मिन् दिने तथा स्नातो यत्रक्वचन सङ्गमे। स्वर्गङ्गास्रानजं राम! फलं प्राप्नोत्य-संशयम्। श्रवणे सङ्गमाः सर्वे परपुष्टिप्रदाः सदा। विशेषात् द्वादशीयुक्ते बुधयुक्ते विशेषतः। तथैवद्वादशी प्रोक्ता बुधश्रवणसंयुता। तृतीया च तथाप्रोक्ता सर्वकामफलप्रदा। तथा तृतीया धर्मज्ञ! तथापञ्चदशी शुभा”। श्रीपञ्चमीव्रतं गरुडपु॰
“यदिन्द्रेण पुरा चीर्णं श्रीवियुक्तेनपार्थिव!। श्रीसमृद्धिकरे तद्धि शृणु श्रीपञ्चमीव्रतम्। मार्गशीर्षे सिते पक्षे पञ्चम्यां पन्नगोत्सवे। उपवासस्य नि-यमं कुर्य्यात् पद्मां स्मरेद्धृदि। स्वर्णरौप्यां यथा शक्त्याताम्रां मृत्काष्ठजामथ। चित्रपट्टगतां देवीं लक्ष्मींक्ष्मापाल! कारयेत्। पद्मासनां पद्महस्तां पद्मां पद्मदले-क्षणाम्। दिग्गजेन्द्रैः स्नाप्यमानां काञ्चनैः कलमौ-त्तमैः”। लक्ष्मीरूपनिर्माणन्तु विष्णुधर्मोत्तरोक्तं वेटित-व्यम्। तद्यथा
“समुत्थिता श्रीः कर्त्तव्या शङ्खाम्बु-जकरा शुभा। सुखस्थिता महाभाग! पद्मे पद्मकराशुभा। द्विभुजा चारुसर्वाङ्गी सर्वाभरणभूषणा। द्वौच मूलकरौ मूर्घ्नि कार्य्यौ विद्याधरो{??}भाविति। ततो[Page5060-a+ 38] यामत्रये याते निम्नगाया मृदाथ वा। स्नानं कुर्य्याद-संभ्रान्तः शक्तिमदुषचारतः। देवान् पितृंश्च सन्तर्प्यततो देवगृहं ब्रजेत्। तत्रस्थां पूजयेद्देवीं पुष्पैस्तत्काल-सम्भवैः। फलानि च यथालाभं विरूढं धान्यसञ्चयम्। ततः सुवासिनी पूज्या कुङ्कमैः कुसुमेन च। मोजयेन्म-धुरान्नेन प्रणिप्रत्य विसर्जयेत्। ततस्तु तण्डुलप्रस्थंधृतपात्रेण संयुतम्। ब्राह्मणाय प्रदातव्यं सा श्रीर्म्मेप्रीयतामिति। निर्वर्त्यैतदशेषेण ततो भुञ्जीत वाग्यतः। मासानुमासं कर्त्तव्यं विधिनानेन भारत!। श्रीर्लक्ष्मीःकमला सम्पत् पद्मा नारायणी तथा। पद्मधृतिः स्थितिःपुष्टिस्तुष्टिः सिद्धिः क्षमा क्रमात्। मासानुमासं रा-जेन्द्र! प्रीयतामिति कीर्त्तयेत्। वस्त्रमण्डपिकां कृत्वापुष्पगन्धादिवासिताम्। शय्यायां स्थापयेल्लक्ष्मीं सर्वोप-स्करसंयुताम्। सौभाग्याष्टकसंयुक्तां नेत्रपट्टावृतस्तनीम्। सप्तधान्यसमोपेतां रसधातुसमन्विताम्। पादुकोपानह-च्छत्रभाजनासमसंस्कृताम्। देवीं संपूज्य विधिवद् ब्रा-ह्मणाय कुटुम्पिने। व्यासाय देदविदुषे यस्मे वा रो-चते स्वयम्। सोपस्करां सवत्साञ्च धेनुं दत्त्वा क्षमा-पयेत्। यः पञ्चमीव्रतमिदं दयितं मुरारेर्भक्त्या समा-चरति पूज्य मृगोस्तनूजाम्। राज्यश्रियं स भुवि भव्य-जनोपभोग्यं
“भुक्त्वा प्रयाति भवनं मधुसूदनस्य। माहा-त्म्यमाप वक्ष्यामि पञ्चम्यास्तव भारत!। जयेति या चविख्याता ब्रतिनां जयदायिनी। यस्माज्जया जया-शब्दं करोति व्रतिनो बुधाः!। परिपूर्णं व्रतं यस्यांसा ज्ञेया जयपञ्चमो। जया च विजया चैव जयन्तीपापनाशिनी”। जया, कार्त्तिकशुक्लपञ्चमी श्रवणेन यदायुक्ता शुक्लपक्षे तु पञ्चमी। उत्तराफाल्गुनी यस्यामि-न्दुवारसमागमः। आरभेत नरस्तस्यां व्रत पूर्वमुपोषितः।{??}र्थ्यामेकभक्ताशी ब्रह्मचारी जितेन्द्रियः। धृतिमान्कृतसकल्पो भवेन्नियमवान्नरः। ततःकल्यं समुत्थाय स्नात्वानियतमानसः। धृतसङ्कल्पया पत्न्या कुर्य्याद् बिल्वस्यचार्चनम्। बिल्वमूले ततः कुर्य्याद् वेदिं पुष्पाक्षतैर्यु-ताम्। स्थापयेत् कलसानष्टौ तस्यामष्टसु दिक्षु वा। तन्मध्ये बिल्वमूले तु स्थापयेच्च महाघटम्। सौवर्णंराजतं ताम्रं मार्त्तिकं वा शुभान्वितम्” इत्यादि। व्रीप्राप्तिव्रतं विष्णुधर्मोत्तरोक्तं
“श्रीविहीनस्य लोकेऽस्मिन्जीवितस्यापि किं फगम्। तस्माद्व्रतं समाचक्ष्व येमस्याच्छ्रीयुतो नरः”। मार्कण्येत जताच
“वैशाख्यां[Page5060-b+ 38] समतीतायां प्रतिपत्प्रभृति क्रमात्। पूर्ववत् पूजयेद्देवंश्रीसहायं दिने दिने”। पूर्ववदिति चैत्र्यादिरूपावाप्ति-व्रतवत्।
“पुष्पमूलैः फलैश्चैव जुहुयादक्षतानि च। बिल्वांश्च वह्नौ सततं गोरसैर्भोजयेद् द्विजान्। त्रि-रात्रोपोषितो ज्यैष्ठ्यां कनकं प्रतिपादयेत्। वस्त्रयुग्मञ्चराजेन्द्र! तेन साफल्यमश्नुते। कृत्वा ब्रतं मासमिदंयथोक्तमासाद्य मासं सुचिरं मनुष्यः। मनुष्यमासाढ्यविवृद्धतेजाः श्रिया युतः स्याज्जगति प्रधानम्”। श्रीवृक्षनवमीव्रतं भविष्योत्तरे
“तस्माद्भाद्रपदे चैव शुक्लपक्षेकुरूत्तम!। नवम्यामर्चयेद्भक्त्या ईषत्सूर्य्योदयेऽनध!। श्रीवृक्षं विविधैरत्नैरनग्निपतितैः फलैः। तिलपिष्टान्न-गोधूमैर्धूपगन्धानुलेपनैः। ईषद्भानुकराक्रान्त! श्रीतरोवै नभस्तले। मन्त्रेणानेन राजेन्द्र! पूजयेद्भक्तिसंयुतः। सप्तकृत्वस्ततोऽभ्यर्च्य श्रीवृक्षं प्रणिपत्य च। ब्राह्मणा{??}भोजयेद्भक्त्या श्रीदेवी प्रीयतां मम। ततो भुञ्जीत मौ-नेन तैलाहारविवर्जितम्। अनग्निपक्वं मृत्पात्रे दधि-धान्यफलं शुभम्। एवं यः कुरुते पार्थ! श्रीवृक्षाभ्य-र्चनं नरः। नारी व दुःखशोकाभ्यां मुच्यते नात्रसंशयः”। श्रीव्रतं विष्णुधर्मोत्तरे चैत्रशुक्लस्य पञ्चम्यां पूजयित्वा तथाश्रियम्। सकृदेवाप्लुयादेतत् फलं संवत्सरोदितम”।
“अथातः संप्रवक्ष्यामि श्रीव्रतं नाम ते व्रतम्। चेत्र-शुक्लतृतीयायां स्नानमभ्यङ्गपूर्वकम्। कृत्वा शुक्लाम्बरोराजच्छ्रक्लमाल्यानुलेपनः। तिष्ठेद् घृतोदनाहारोभूमौ सुप्यान्निशां च ताम्। चतुर्थ्याञ्च तथा स्नानंबहिरेव समाचरेत्। पञ्चम्याञ्च विशेषेण शुक्लाम्बरधरःशुचिः। लक्ष्मीं संपूजयेत् पद्मैः कृतकेऽकृतकेऽपि वा। शुक्लेन गन्धमाल्येन घृतदीपेन वाप्यथ” इत्यादि। षष्ठीव्रतं ब्रह्मपु॰
“कृतोपवासः पञ्चम्यां षष्ठ्यां योऽर्चयते र-विम्। नियमव्रतचारी च रवेर्भक्तिसमन्वितः। सप्तम्यां वामहाभाग! सोऽश्वमेघफलं लभेत्”। विष्णुधर्मोत्तरे
“षष्ठ्याञ्च शुक्लवक्षस्य ये नरा भौमवासरे। व्रतञ्चरतियत्नेन तथा तासां पृथव् पृथक्। न तेषां दुर्लभं किञ्चित् भविष्यति सुरोत्तम!। द्वियोगे हि गुणं तेषाफलं स्कन्द! भविष्यति। त्रियोगे पूजनं कृत्वा मासेषुसुरसत्तम!। अक्षयं जायते पुण्यं नात्र कार्य्या विचा-{??}णा”। संवत्सरव्रतं विष्णुधर्मोत्तरे
“इदमन्पत् प्रुवक्ष्यामि पञ्च-[Page5061-a+ 38] मूर्त्तिव्रतं तव। संवत्सरः स्मृतो वह्निस्तथार्कः परिवत्सरः। इदापूर्वस्तथा सोमो ह्यनुपूर्वः प्रजापतिः। उत्पूर्वश्चतथा प्रोक्तो देवदेवो महेश्वरः। तेषां मण्डलविन्यासःप्रान्वदेव विधीयते”। प्राग्यदिति नीलश्वेतरक्तपीतकृष्णकैः मण्डलविन्थासाः कर्त्तव्याः
“प्राग्वत् प्रपू-जनं कार्य्यं होमः कार्य्यो यथाविधि। तिलैर्ब्रीहिय-वैश्चैव घृतेन सितसर्षपैः। तल्लिङ्गैरथ वा मन्त्रैर्न्नामभिःप्रत्यहं क्रमात्। नक्ताशनस्तथा तिष्ठेत् प्राग्बद्दिवसपञ्च-कम्। चैत्रशुक्लं समारभ्य पञ्चमीप्रभृतिक्रमात्। संवत्-सराख्ये वर्षेतु व्रतमेतत् समाचरेत्। पूजावसाने दातव्याःसुवर्णाः पञ्च यादव!। चतुर्वेदविदे देयं शाखाभेदेनयादव!। एकैकं पञ्चकं देयं यथाकालमिदं भवेत्। यथेष्टं लोकमाप्नोति कामचारी विहङ्गमः”। स{??}आटकव्रतं वराहपु॰
“शृणुष्वैकमना भद्रे! सङ्घाटकमिदंव्रतम्। कथयामि महा पूर्वं ब्रह्मणा कथितं मम। मासस्य कार्त्तिकस्यापि शुक्लप्रतिपदि व्रतम्। गृह्णीया-देकभक्तन्तु कृत्वा दन्तादिशोधनम्। सायं सङ्कल्पमाधायद्वितीयायामुपावसेत्। तृतीयायामपि तथा चतुर्थ्यांपारणं भवेत्। शिवं संपूजयेद्भक्त्या उपवासद्वयेऽपि च। यत्र विनोपचारेण रात्रौ दद्यात्ततो भुवि। स्वपेत् प्रातःसमुत्थाय स्मृत्वा देवं समर्चयेत्”। सन्तानदव्रत भविष्योत्तरोक्तम्
“कार्त्तिक्यामुपवासी यःकन्यां दद्यात् स्वलङ्कृताम। स्वकीयां परकीयां वानदीसङ्गमके शुभे। एतत सन्तानदं नाम व्रतं सुगति-दायकम्”। सन्तानाष्टमीव्रतं विष्णुधर्मोत्तरे
“कृष्णाष्टम्यां चैत्रमासेस्नातो नियतमानसः। कृष्णमभ्यर्च्य पूजाञ्च देवक्याःकुरुते च यः। निराहारो नरः पश्चात् कृष्णास्य जगतःपतेः। उपोषितो जपन्मन्त्रं रात्रौ प्रयतमानसः। पूजायाञ्चापि कृष्णस्य सप्त वारान् प्रकीर्त्तयेत्। पाषण्डि-नोविकर्मस्थान् वैडालान् वकनास्तिकान्। प्रभाते चततः स्नातो दत्त्वा विप्राय दक्षिणाम्। भुञ्जीत कृतपूजस्तु कृष्णस्यैव जगत्पतेः। वैशाखज्यैष्ठयोश्चैव पारणंहि त्रिमासिकम्। उपोष्य देवदेवेशं घृतेन स्नापये-द्धरिम्। आषाढे श्रावणे चैव मासि भाद्रपदे तथा। उपोषितो द्वितीयं वै पारणं पूर्ववद्भवेत्। आश्विनेकार्त्तिके सौम्ये तृतीयं पारणं तथा। पौषे माघेक्रालगुगे च चतुर्थं द्विजसत्तप!। पारणे वारणे पूर्णे[Page5061-b+ 38] घृतेन स्नापयेद्धरिम्। ब्राह्मणेभ्यो घृतं दद्यात्तथैव प्रति-पारणम्। कृत्वा व्रतं नाकमनुप्रयाति मानुष्यमासाद्यच निर्वृतः स्यात्। सन्तानवृद्धिञ्च तथाप्नुतेऽसौ याव-न्महीं सागरमेखलान्ताम्। सप्तर्षिव्रतं विष्णुधर्मोत्तरे
“चैत्रशुक्लादथारभ्य प्रत्यहं दिन-सप्तकम्। मराचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम्। वशिष्ठञ्च महाभागं पूजयेत् दिवसक्रमात्। कालोद्भवैःफलैः पुष्पैः गोरसैश्च फलान्वितैः। आचरेत् प्रत्यहंस्नानं बहिर्नक्ताशनो भवेत्। महाव्याहृतिभिर्होमंतिलैर्नित्यं समाचरेत्। तर्पयेद्ब्राह्मणांश्चात्र फलमूलैश्चगोरसैः। वारिधान्यश्च दातव्याः क्षीरपूर्णा द्विजातिषु। एवं संवत्सरं कृत्वा व्रतान्ते चाहिताग्नये। दद्यात्कृष्णाजिनं राजन्! यथापूर्वं मयेरितम्। व्रतमेतन्नरःकृत्वा मोक्षोपायञ्च विन्दति”। सप्तसारस्वतव्रतंविष्णु धर्मोत्तरोक्तम्
“चैत्रशुक्लादथारभ्यु प्रत्यहंदिनसप्तकम्। सुप्रभां काञ्चनाक्षीञ्च विशालां मानसो-द्भवाम्। मेघनादां सुवेणुञ्च तथैव विमलोदकाम्। नित्यं संपूजयेद्भक्त्या बहिःस्नानं समाचरेत्। तासाञ्चप्रत्यहं नाम्ना दध्ना होमं समाचरेत्। ब्राह्मणान्भोजयेच्चात्र दध्ना युक्तं सुभोजनम्। घृतोदनं तथा-श्नीयात्सकृदेव तथा निशि। एवं संवत्सरं कृत्वा व्रतंसारस्वतं नरः। तत्रोष्य सुचिरं कालं मानुष्ये जा-यते यदा” इत्यादि। सप्तसुन्दरकव्रतं भविष्योत्तरोक्तम्
“एकभक्ता च सप्ताहंपौरिणीरत्र भोजयेत्। संपूज्य पार्वतीं भक्त्या गन्ध-पुष्पविलेपनैः। ताम्बूलसिन्दूरवरैर्नारिकेलफलेन च। प्रीयतां कुमुदा देवी प्रण्णिपत्य विसर्जयेत्। एकैकां पूज-येद्देवीं सप्ताहं यावदेव तु। पुनश्च सप्तमे प्राप्ते ताःसप्तैव निमन्त्रयेत्। षड्भ्यः सम्भोजयित्वान्नं यथा-शक्त्या विभूषणैः। भूषयित्वा माल्यवस्त्रैः कर्णवेष्ठा-ङ्गुलीयकैः। कुमुदा माधवी गौरी भवानी पार्वतीउभा। अम्बिका चेति संपूज्या दर्पणं दापयेत् पृथक्। ब्राह्मणं पूजयेत्त्वेकं वाच्यं सम्पन्नमस्तु मे। सप्तसुन्दरकंनाम व्रतं पापहरं शुभम्। कृत्वा प्राप्नोति सौन्दर्य्यंसौभाग्यमतुलं तथा”। समुद्रव्रतं विष्णुधर्मोत्तरे
“अथातः सप्रवक्ष्यामि समुद्रव्रत-मेव ते। चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्तकम्। लवणंक्षीरं सघृतं दधिम{??} सुरोदकम्। तथैवे{??}रसोद{??}[Page5062-a+ 38] स्वादुदध्नैब पूजयेत्। आचरेत् प्रत्यहं स्नानं शुचिर्भूत्वातथा बहिः। घृतेन होमं कुर्वीत सप्तम्याञ्च प्रदापयेत्हविष्याशी भबेन्नक्तं कुर्य्यात् संवत्सरं व्रतम्। संवत्स-रान्ते दद्याक तथा धेनुं पयस्विनीम्। व्रतेनानेनचीर्णेन सप्तसागरमेखलाम्। भुवक्ति बसुधां राजा!सप्तजन्मान्तराणि तु”। सम्पूर्णव्रतं भविष्योत्तरे
“संपूर्णं नाम तच्चापि व्रतं सम्यक्फलप्रदम्। यच्चीर्णं नरनारीभिर्य्यावत् संपूर्णकालकम्। अवश्यन्तच्च कर्त्तव्यं संपूर्णफलकाङ्खिभिः। किञ्चिद्भग्नंप्रमादेन यद्व्रतं व्रतिनां भवेत्। तत् संपूर्णं भवेत्सर्वं व्रतेनानेन पाण्डव!। उपद्रवैर्बहुविधैर्महामो-हाच्च पार्थिव!। यद्भग्नं किञ्चिदेव स्यात् व्रतं विघ्न-विनायकैः। तत् संपूर्णं भवेत् सर्वं सत्ये सत्यं नसंशयः। काञ्चनं रौप्यकं रूपं शिल्पिना तु धटापयेत्। भग्नव्रतस्य योदेवस्तत् स्वरूपं सुनिर्मितम्। रूपं स्त्री-पुंसयोर्वापि प्रारब्धं तद्व्रतं किल। न च निष्पादितंकिञ्चिद्दैवात् सर्वं तथा स्थितम्। द्विभुजं पङ्कजारूढंसौम्यं प्रहसिताननम्”। द्विभुजादीनि स्त्रीपुंसयोरूपस्यविशेषणम् तच्च रूपमज्ञातेषु व्रतेषु, जन्मान्तरकृ-तानां विस्मृतानाञ्च ज्ञातत्वे तेष्वपीदं प्रायश्चित्तमिति।
“निष्पादितं शिल्पिना च तस्मिन्नेव दिने पुनः। तस्मा-न्मासे पुनः प्राप्ते ब्राह्मणो विधिना गृहे। तापयेत्पयसा दध्ना घृतक्षीररसाम्बुभिः। गन्धचन्दनपुष्पैस्तुपूजयेत् कुसुमादिना। तोयपूर्णस्य कुम्भस्य मुखे विन्यस्यचन्दनैः। धूपदीपाक्षतैर्वस्त्रैर्नानाबल्युपहारकैः। अर्घ्यंदद्याच्च तन्नाम्ना मन्त्रेणानेन पाण्डव!। उपवामेनहीनस्य प्रायश्चित्तं कृताञ्जलेः। शरणञ्च प्रपन्नस्य कुरु-ष्वाघ दयां पुनः। परत्र भयभीतस्य भग्नवर्ज्यव्रतस्यच। कुरु प्रसादं संपूर्णमस्तु मे त्वत्प्रसादतः”। सम्भोगव्रतं भविष्यपु॰
“द्वे पञ्चम्यौ हि मासस्य द्वे च प्रति-पदौ नरः। सोपबासः सुगन्धाश्चः शयीत प्रियया सह। खगनिश्चलचित्तस्तु रतिप्रीतिविवर्जितः”। खगनिश्चल-चित्तः सूर्य्यध्यानपरः
“समश्च स्मृतिशीलश्च तस्य पुण्यफलं शृणु। दिव्यं वर्षसहस्रं तु दिव्यं वर्षशतं तथा। ततस्तु भावयत्येनं महादेवं न संशयः”। सर्पञ्चमीव्रतं भविष्यपु॰
“पयोव्रतन्तु पञ्चम्यां दत्त्वा नागंद्विजातये। सौवर्णं सर्पजनितं भयं तस्य न जायते। एतत् सर्पव्रतं प्रोक्तं सपेमैत्रीकरं परम्”। [Page5062-b+ 38] सर्पविषापहपञ्चमीव्रतं स्कन्द॰ प्रभासख॰
“श्रावणे मासिपञ्चम्यां शुक्लपक्षे वरानने!। आरभ्योभयतो लेख्याःगोमयेन विषोल्वणाः। कृत्वा च कौसुर्मान्नागान्निद्रालींच प्रपूजयेत्। घृतोदकाभ्यां पयसा स्नापयित्वा वरा-नने!। गोधूमैः पयसा पूज्य लाजाद्यैर्विविधैस्तथा। पूजयेत् विधिवद्देवि! दधिदूर्वाङ्कुरैः क्रमात्। गन्ध-पुष्पोपहारैश्च ब्राह्मणानाश्च तर्पणम्। अथ वा श्रावणेमासि पञ्चम्यां श्रद्धयान्वितः। यश्चालेख्य नरो नागान्कृष्णवर्णादिवर्णकैः। गुरुकल्पान् तथा वीश्यां स्वगृहेविलिखेत् बुधः। पूजयेद्गन्धधूपैश्च पयसा पायसेन च। तस्य तुष्टिं समायान्ति पद्मकास्तक्षकादयः। आसप्तमात्कुलं तस्य न मयं नागतो भवेत्। प्रजप्यते तत्र मन्त्रोविषस्य प्रतिषेधकः। तस्य प्रजपमात्रे तु न विषं क्रमतेसदा”। सर्वकामव्रतं विष्णुधर्मोत्तरोक्तम्
“अङ्गारकं तथा सूर्य्यंनिरृतिं वा खगेश्वरम्। हवनं वेश्वरं मृत्युं कपाल-कषकिङ्किणीम्। तत्र वैकादशान् यस्तु देवान् त्रिभु-वनेश्वरान्। एकादश्यां सोपवासः सोमं सम्पूजयेत्तथा। गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा। मार्शशीर्षादथा-रभ्य यावत् संवत्सरं भवेत्। संवत्सरान्ते दद्याच्चब्राह्मणाय पयस्विनीम्। कृत्वा व्रत वत्सरमेतदिष्टं रुद्र-त्वभाप्नोति नरस्तु राजन्!। रुद्रेण सार्द्धं सुचिरंवसित्वा कामानप्राप्नोति मनोऽभिरामान्। तथा सर्व-गतान् रुद्रान् सुदा सर्वत्र पूजयेत्। सर्वकामानवाप्नोतिसर्वगानपराजितान्”। विष्णुधर्मोत्तरे
“माघमासे चतु-र्दस्यां कृष्णपक्षे विशेषतः। तथा पितृगणान् राजन्!क्षीणचन्द्रे च पूजयेत्। सर्वकामसमृद्धस्य यज्ञस्य फलम-श्रुते। श्राद्धं कृत्वा तथा राजन्! सर्वकामानवाप्नुयात्”। सर्वकामाप्तिव्रतं विष्णु धर्मोत्तरे
“कृत्तिकास्वर्चद्देवं कार्त्तिकी-प्रभृतिक्रमात्। यावत् स्यात् कार्त्तिकी भूयो नरमिंह-मुपोषितः। अनुलेपनपुष्पाद्यैः सर्वरत्नैः सदैव तु। व्रताक-लाने दद्याद् गां तथा श्वेतां द्विजातये। श्वेतवत्सयुता-श्चैव रजतञ्च तथा नृप!। उपोषितः सदा कुर्य्याद्व्रतंस्याच्छत्रुवर्जितः”। सर्वव्रतं सौरपु॰
“मन्दवारयुता पुण्या श{??}पक्षे त्र्योदशी। तस्वामुपो{??} विधिवत् सम्पूज्य निरिजापतिम्। ब्रह्म-हस्यादिमिः पावैर्सुक्तो भवति मातवः”। सर्वाप्तिसप्तषीव्रतं भविष्यपु॰
“कृच्छपक्षे{??}[Page5063-a+ 38] द्वप्तमीं शृणु। यामुपोष्य समाप्नोति सर्वान् कामान्धराधर!। पाषण्डादिभिरालापमकुर्वन् भानुतत्परः। पूजयेत् प्रणतो देवमेकाग्रमतिरंशुपम्। माघादि पारणंमासैः षड्भिः शुच्यन्तकं स्मृतम्”। शुच्यन्तकम् आषा-ढान्तकम्।
“मार्त्तण्डः प्रथमं नाम द्वितीयोऽर्कः प्रकी-र्त्तितः। तृतीयं चित्रभानुस्तु विभावसुरतःपरम्। भगेति पञ्चमो ज्ञेयः षष्ठो हंसः प्रकीर्त्तितः। पूर्वेषुषट्सु मासेषु स्नानप्राशनयोस्तिलाः। श्रावणादिषुमासेषु पञ्चनव्यमुदाहृतम्। स्नाने च प्राशने चैव प्र-शस्तं पापनाशनम्। प्रतिमासन्तु देवस्य कृत्वा पूजांयथाविधि। विप्राय दक्षिणां दद्यात् श्रद्दधानः स्त्र-शक्तितः। पारणान्ते च देवस्य प्रीणनं भक्तिपूर्वकम्। कुर्वीत शक्त्या विधिवद्रविं भक्त्या दिवस्पतिम्” सर्वावाप्तिव्रतं विष्णुधर्मोत्तरोक्तम्
“इदमन्यत् प्रवक्ष्यामिचतुर्मूर्त्तिव्रतं तव। बलं ज्ञानं तथैश्वर्य्यं शक्तिश्च यदु-नन्दन!। विख्यातं देवदेपस्य तस्य मूर्त्तिचतुष्टयम्। यदेव रूपं कूर्मस्य वलस्योक्तं तथैव तु। रूपं ज्ञानस्य तेप्रोक्तं नारसिंहं तथा नृप!। रुद्ररूपं तथैश्वर्य्यं कथि-तन्तु मया तव। पूर्वं बलमुखं तस्य वासुदेवमुस्यं भवेत्। दक्षिणं वदनं ज्ञानं देवं सङ्कर्षणं विदुः। ऐश्वर्य्यं पश्चिमंवक्त्रं रौद्रं पापहरं तथा। वाराहञ्च तथा वक्त्रमनिरुद्धंप्रकीर्त्तितम्। त्रिरात्रोपोषितश्चैत्रे पूर्वं रंपूजयेनुखम्शुक्लपक्षप्रतिपदि वैशास्वे मासि दक्षिणम्। ज्यैष्ठे च प-श्चिमं वक्त्रमाषाढे च तथोत्तरम्। गृहोपयोगि दातव्यं चैत्रेमासे द्विजातये। रणोपयोगि दातव्यं वैशाखे यादवो-त्तम!। योगोपयोगि दातव्यं ज्यैष्ठे मासि द्विजातये। यज्ञोपयोगि दातव्यं मास्याषोढे तथैव च। व्रतमेतन्नरःकृत्वा पूर्णमासचतुष्टयम्। पारण प्रथमं कृत्वा स्वर्गलोकेमहीयते। श्रावणादिषु मासेषु द्वितीयं पारणं भवेत्। दशवर्षसहस्राणि स्वर्गं भुक्त्वा यथोदितम्। सौभाग्या-दिषु भोगेषु तृतीयं पारणं भवेत्। तृतीयं पारणंकृत्वा भोजयेद्ब्राह्मणाञ्छुचिः। भोजनं गोरसप्रायंमृद्वीकाशर्करायुतम्। प्राप्ते द्वितीये व्रतपारणे तुप्राप्नोति देवस्य सलोकतां सः। स्वर्गेन्द्रलोके च यथोक्तकार्ण भुङ्क्ते सुखं सर्वसमृद्धिकामः”। सर्षपसप्तमीव्रतं भविष्यपु॰
“संपूज्य विधिवद्देवं पुष्पधूपादिभिर्बुधः। यथाशक्ति ततः पणा{??}पेद्यं भक्तितो न्यमेत्। पु{??}आणां प्रवरा जातिर्धूपानां विलवः परः। नन्धानां[Page5063-b+ 38] कुङ्कुमं श्रेष्ठं लेपानां रक्तचन्दनम्। दोपदाने धृतश्रेष्ठं नैवेद्यं मोदकं परम्। एतैस्तुष्यति देवेशः सा-न्निध्यं चापि गच्छति। एवं संपूज्य विधिवत् कृत्वाचापि प्रदक्षिणम्। प्रणम्य शिरसा देव! देवदेवं दिवा-करम्। सुखासीनस्ततः पश्येद्रवेरभिमुखस्थितः। एवसिद्धार्थकं कृत्वा हस्ते पानीयसंयुतः”। सिद्धार्थकंपश्ये दित्यन्ययः
“कामं यथेष्टं हृदये कृत्वा तं वाञ्छितनरः। पिवेत् सन्तोषयन् विप्रमस्पृ शन् दशनैः सकृत्”। रात्राविति शेषः
“द्वितीयायान्तु सप्तम्यां द्वौ गृहीत्वातु सुव्रत!। तृतीयायां तु सप्तम्यां पातव्यास्त्रय एवहि। चतुर्थ्यां वापि चत्वारः पञ्चम्यां पञ्च एव च। षट् पिवेच्चापि षष्ठ्यां तु इतीयं वैदिकी श्रुतिः। सप्तम्यांवारिसंयुक्तां सप्त चैव पिबेन्नरः”। बारिशब्दः द्रववाचीपञ्चगव्यस्य वक्ष्यमाणत्वात्
“उदकप्रभृतिं यावत् पञ्च-गव्येन सप्तमी। एकं तोयेन सहितं द्वौ वापि घृत-संयुतौ। तृतीयं मधुना सार्द्धं दध्नापि च चतुष्टयम्। युक्तास्तु पयसा पञ्च षट् च गोमयसंयुताः। पञ्चगव्येनवै सप्त पिवेत् सिद्धार्थकान् द्विज!। अनेन विधिना यस्तुकुर्य्यात् सर्षपसप्तमीम्। बहुपुत्रो बहुधनः सिद्धार्थश्चापिसर्वदा। इह लोके नरो भूत्वा प्रेत्य याति विभावसुम्”।{??}आगरध्रतं विष्णुधर्मोत्तरोक्तम्
“इदमन्यत् प्रवक्ष्यामि चतु-र्मूर्त्तिव्रतन्तव। नित्यञ्चतुर्षु मासेषु श्रावणाद्येषुबादव!। चतुःसागरचिह्नानि पूर्णकुम्भांस्तु पूजयेत्। चतुरात्मा हरिर्ज्ञेयः सागरात्मा विचक्षणैः। स्नानंणमाचरेन्नित्यं नदीतोयेन यादव!। होमञ्च प्रत्यहंकुर्य्यात् सततं तैलवर्जितम्। कार्त्तिकस्यावसामाह्निपूजयित्वा द्विजोत्तमान्। तैलं दत्त्वा तु विप्राय नाक-पृष्ठे महीयते। सर्वकामसमृद्धस्य यज्ञस्य लभते फलम्”। साध्यव्रतं विष्णुधर्मोत्तरोक्तम्
“मनोमनस्तथा पाणो नरोजातश्च वीर्य्यवान्। वीतिर्हयोऽनघश्चैव हंसो नारा-यणस्तथा। विभुश्चापि प्रभुश्चैव साध्या द्वादश कीर्त्तिताः। पूजयेच्छुक्लपक्षे तान द्वादश्यां मार्गशीर्षतः। कृत्वा वतंवत्सरमेतदिष्ट प्राप्नोति तेषां तु स सलोकमेव। तत्रोष्यकालं सुचिरं मनुष्यो राजा भवेद्व द्विजपुङ्गवो वा”। सामव्रतं पद्मपु॰
“धृतेन स्नापनं कृत्वा केशषस्य शिवस्य च। ब्रह्मणो मास्करस्यापि गौर्य्या मम्बोदरस्य च। कण-तै{??} शुभं कुर्य्यात् पद्मं{??}ण्डले।{??}षान्ते{??}-{??}।
“{??}द्ध्वपष्ठा-[Page5064-a+ 38] ङ्गुलं दद्याच्छिवलोके महीयते। साम गापयतश्चैतत्सामव्रतमिहोच्यते”। सारस्वतपञ्चमीव्रतं पद्मपु॰
“सम्यक् पृष्टं त्वया राजन्!शृणु सारस्वतं व्रतम्। यस्य सङ्कीर्त्तनादेव तुष्यतीहसरस्वती। यो यद्भक्तः पुमान् कुर्य्यादेतद्ब्रतमनुत्तमम्। तद्वासरादौ संपूज्य विप्रानेतत् समारभेत्। अथवादि-त्यवारेण ग्रहतारावलेन च। पायसम्भोजयित्वा तु कु-र्य्याद् ब्राह्मणवाचनम्। शुक्लवस्त्राणि दद्याच्च सहि-रण्यानि शक्तितः। गायत्रीं पूजयेद्भक्त्या शुक्लमाल्या-नुलेपनैः। एभिर्मन्त्रपदैः पश्चात् सर्वं कुर्य्यात् कृता-ञ्जलिः। एवं संपूज्य गायत्रीं वीणाक्षमणिधारिणीम्। शुक्लपक्षेऽक्षतैर्भक्त्या सकमण्डलुपुस्तकाम्। मौनव्रतेनभुञ्जीत सायं प्रातश्च धर्मवित्। पञ्चम्यां प्रतिप्रक्षे चपूजयित्वा सुवासिनीः। तस्यां तु तण्डुलप्रस्यं घृत-पात्रेण संयुतम्। क्षीरं दद्यात् हिरण्यञ्च गायत्रीप्रीयतामिति। सन्ध्ययोश्च तथा मौनमेतत् कुर्वन् समार-भेत्। नान्तरा भोजनं कुर्य्याद् यावन्मासास्त्रयोदश। स-माप्ते तु व्रते दद्यात् भाजनं शुभतण्डुलैः। पूर्णं सव-स्त्रयुम्मन्तु गां सवत्सां सुशोभनाम्। विप्राय वेदवि-दुषे। वाचकायाथ पार्थिव! अनेन विधिना यस्तु कु-र्य्यात् सारस्वतं व्रतम्। विद्यावान् धनयुक्तश्च रक्त-कण्ठश्च जायते। सरस्वत्याः प्रसादेन व्यासवत् स क-विर्भवेत्। नारी वा कुरुते या तु सापि तत्फलभागिनी”। सारस्वतव्रतं पद्मपु॰
“सन्ध्यामौनं नरः कृत्वा समान्ते घृत-कुम्भकम्। वस्त्रयुग्मं तिलान् धण्टां ब्राह्मणाय निवे-दयेत्। लोकं सारस्वतं याति पुनरत्रैव जायते। एतत्सारस्वतं नाम रूपविद्याप्रदायकम्”। सार्वभौमव्रतं वराहपु॰
“सार्वभौमव्रतं चान्यत् कथयामिममासतः। येन सम्यक्कृतेनाशु सार्वभौमो भवेन्नरः। कार्त्तिकस्य तु मासस्य दशमी शुक्लपक्षगा। तस्यांनक्ताशनोमर्त्त्योदिक्षु शुद्धबलिं हरेत्”। शुद्धबलिः पवित्र-द्रव्यैः पूजोपहारः।
“विचित्रैर्कुसुमैर्भक्ष्यैः पूजयेच्च द्वि-जांस्तथा। सर्वा भवत्यः सिध्यन्तु मम जन्मनि जन्मनि। एवसुक्त्वा वलिं तासु दत्त्वा शुद्धेन चेतसा। ततोद्धि-पत्रे भुञ्जीत दध्यन्नञ्च सुसंस्कृतम्। सर्वं पश्चाद्यथेष्टञ्चएवं मंवत्सरं नृपः। यः करोति नृपोनित्यं तस्यदिम्बिजयो भवेत्”।{??}तसप्तषोततं विष्णुधर्मोत्तरे
“{??}[Page5064-b+ 38] नराधिप!। सोपवासन्तु सप्तम्यां कमलैः पूजयेद्रविम्। अर्चायां वा स्थले वापि शुक्लैः पुष्पैर्यथाविधि। चन्द-नेन तु शुक्लेन वटकैः पूरकेण च”। सिद्धार्थकादिसप्तमोव्रतं मविष्यपु॰
“वैनतेय! शृणुष्व त्वंविधानं सप्तमीव्रतम्। एतद्धि परमं गुह्यं रवेराराधनंपरम्। सिद्धार्थकैस्तु प्रथमा द्वितीया चार्कसम्पुटैः। तृतीया मरिचैः कार्य्या चृतुर्थी निम्बसप्तमी। षड्युतापञ्चमी कार्य्या षष्ठी च फलसप्तमी। सप्तम्यनोदना वीर!सप्तमी परिकीर्त्तिता”। षड्युता इति सिद्धार्थकादि-षद्भिः प्रकारैर्युता”। इत्येताः सप्तसप्तम्यः कर्त्तव्याभूतिमिच्छता। तथा चानुक्रमेणासाङ्करणं कथयाम्य-हम्। माघे वा मार्गशीर्षे वा कार्य्या शुक्ला तु सप्तमी। न च स्यान्नियमभ्रंशः पक्षमासकृतो भवेत्”। आर्त्ति-वशादन्यस्मिन् मासे पक्षे च कार्य्येत्यर्थः” इत्यादिसिद्धिविनायकचतुर्थीव्रतं स्कन्दपु॰
“गजवक्त्रन्तु शुक्लायां च-तुर्थ्यां पूजयेन्नृप!। यदा वोत्पद्यते भक्तिर्मासे पूज्योगणाधिपः। प्रातः शुक्लतिलैः स्नात्वा मध्याह्ने पूज-येन्नृप!। स्वशक्त्या गणनाथस्य स्वर्णरौप्यां तथाकृ-तिम्। कृत्वा पूजां प्रयत्नेन स्नाप्य पञ्चामृतैः पृथक्” इत्यादि। सुकलत्रप्राप्तिव्रतं विष्णु धर्मोत्तरे
“यज्ञं परिसमासाद्य नारीहसुखमेधते। दुःशीलेऽपि हि कामार्थौ नारी प्राप्नोतिभर्त्तरि। अनाहारा जगन्नाथं सर्वलोकेश्वरं हरिम्। कथमाप्नोति चेन्नारी सर्वलोकगुणान्वितम्। सुकलत्र-युतन्तस्माद्व्रतमच्युततुष्टिदम्। कर्त्तव्यं लक्षणं तस्यश्रूयतां वरवर्णिनि!। यच्चीर्त्वा सर्वनारीणां श्रेयः प्रा-प्नोत्यसंशयम्। ऐहिकञ्च सुखं प्राप्य मृता स्वर्गसुखा-न्यपि। अनुज्ञाप्य स्वपितृती मातृतश्च कुमारिका। पूजयेत्तु जगन्नाथं भक्त्या पापहरं हरिम्। त्रिषु-त्तरेष्वथर्क्षेषु पतिकामा कुमारिका। माधवायेति वैनाम जपेन्नित्यमतन्द्रिता। प्रियङ्गुणा रक्तपुष्पैर्मधुकैःकुसुमैस्तथा। समभ्यर्च्याच्युते दद्यात् कुङ्कुमेनानुलेषनम्। सर्वौषधिभिः सुस्नाता तमाराध्य जगत्पतिम्। नमोऽस्तुमाधवायेति होमयेन्मधुसर्पिषा। सदैवमुत्तरायोगे सम-भ्यर्च्य जनार्दनम्। शोभनं पतिमाप्नोति प्रेत्य स्वर्गञ्चग{??}ति। अतिबाल्ये च यत्किसित् तया पापमनुष्ठि-तम्। त{??}द्विमुचाते पाधात्{??} चैव जायते। दैनै{??} तस्मप्ति! व्रतं प्ताप्य यदिच्छति। तदेप{??}-[Page5065-a+ 38] प्नुयाद्भद्रे! नारायणपरायणा। षण्मासप्रीणनं कार्य्यंयथाशक्त्या च वै हरेः। पारणान्ते महाभागे! भोज-येद् ब्राह्मणोत्तमान्”। सुकुलत्रिरात्रव्रतं विष्णुधर्मोत्तरे
“त्र्यहस्पृग्दिवसं प्राप्यत्रिरात्रोपोषितो नरः। मार्गशीर्षात्तथारभ्य पूजयेत् तु{??}इविक्रमम्। त्रिवर्णैः कुसुमैर्देवं त्रिभिः प्रयतमानसः”। त्रिवर्णैः श्वैतपीतरक्तैः
“त्रयोऽनुलेपना देयास्त्रिसारंधूपमे च”। त्रिसारं गुग्गुलुकटुकश्रीवेष्टकाः
“वलिंत्रिमधुरं दद्यात् त्रींश्च दीपान्नरोत्तम!। यवैस्तिलै-स्तथा होमः कर्त्तव्यः सर्षपान्वितैः। दद्यात्रिलोहञ्चतथा द्विजेभ्यः ताम्रं सुवर्णं रजतञ्च राजन्!। न के-वलं सुकुलदं वतन्तु यथेष्टकामाप्तिकरं प्रदिष्टम्”। सुकृतद्वादशीव्रतं विष्णुधर्मोत्तरे
“तथेयं द्वादशी शस्तानृणां सुकृतकर्मणाम्। यामुपोष्प द्विजश्रेष्ठ! न याति{??}रकं नरः। फाल्गुनामलपक्षस्य एकादस्यामुपोषितःद्वादश्यां च द्विजश्रेष्ठ! पूजयेन्मघुसूदनम्। एकादश्यांसमुत्तिष्टन् विष्णोर्नामानुकीर्त्तनम्। पूजायां वासुदेवस्यकुर्वीत सुसमाहितः”। सुखव्रतं भविष्यपु॰
“कृष्णाष्टमीं तु नक्तेन यस्तु कृष्णां चसप्तमीम्”। उपवसेदिति शेषः
“इहैव सुखमाप्तोतिपरत्र च शुभां गतिम्”। विष्णुधर्मोत्तरे
“देवानां मा-नवानां वा तत्पक्षाये तथा परे। तेषां संपूजनं कृत्वाचतुर्दश्यां सुखी भवेत्”। भविष्यपु॰ चतुर्थी तु चतुर्थीतु यदाङ्गारकसंयुता। उपोष्य तत्र तत्रैव प्रदेयो वि-धिवत् कुजः। उपोष्य नक्तेन विभो! चतस्रः कुज-संयुताः। चतुर्थ्यान्तु चतुर्थ्यान्तु विधानं शृणु यादृ-शम्”। एकश्चतुर्थीशब्दः तिथिविशेषवचनः, अपरस्तत्संख्यापर इति
“दशसौवर्णिके मुख्यं दशार्द्धार्द्ध मथापिवा। सौवर्णपात्रे रौप्ये वा भक्त्या ताम्रमयेऽपि वा। विंशत्पलानि पात्राणि विंशत्यर्द्धपलानि च। विंशत्-कर्षाणि वा वीर! अतीहीनं न कारयेत्। शक्त्यावित्तस्य भक्त्या च पात्रे ताम्रभयेऽपि वा। प्रतिष्ठाप्यकुजपात्रे रक्तवस्त्रेण वेष्टयेत्। पुष्पमण्डपिकां कृत्वादिव्यैर्धूपैस्तु धूपिताम्। तत्तत्स्थमर्चयेद्देवं पूर्वमन्त्रैःक्रमेण तु”। सुखषष्ठीव्रतं विष्णुधर्मोत्तरे
“अषी{??} पूजनं समा षष्ठ्यांसुस्तमवाप्नुयात्”।{??}णमुप्तिक्रवं{??}दित्यपु॰
“अमावास्यान्तु देवाश्च{??}र्त्तिके[Page5065-b+ 38] मासि केशवम्। अभयं प्राप्य सुप्तास्तु सुखात् क्षो दसानुषु। लक्ष्मीर्दैत्यभयान्म्रक्ता सुखं सुप्ता भुजोदरे। चतुर्भूजस्य हस्तान्ते ब्रह्मा सुप्तस्तु पङ्कजे। अतोऽर्थंविधिवत् कार्य्या मनुष्यैः सुखसुप्तिका। दिवा तत्रन भोक्तव्यमृते बालातुरान् जनान्। प्रदोषसमयेलक्ष्मीं पूजयित्वा ततः क्रमात्। दीपवृक्षाश्च दातव्याःशक्त्या देवगृहेषु च। चतुष्पथे श्मशानेषु नदीपर्वत-वेश्मसु। वृक्षमूलेषु गोष्ठेषु चत्वरेषु गुहासु च। वस्त्रैःपुष्पैः शोभितव्याः क्रयविक्रयभूमयः। दीपमालापरि-क्षिप्ते प्रदैशे तदनन्तरम्। ब्राह्मणान् भोजयित्वादौविभज्य च बुभुक्षितान्। स्वलङ्कृतेन भोक्तव्यं नववस्त्रो-पशोमिना। स्निग्धैर्मुग्धैर्विदग्धैश्च बान्धवैर्निभृतैःसह। शङ्करस्तु पुरा द्यूतं ससर्ज सुमनोहरम्। का-र्त्तिके शुक्लपक्षे तु प्रथमेऽहनि सुव्रत!। जितश्च शङ्क-रस्यत्र जयं लेभे च पार्वती। अतोऽर्थं शङ्करो दुःखीउमा नित्यं सुखोषिता। तस्माद् द्यूतं प्रकर्त्तव्यं प्रा-भाते तत्र मानवैः। तस्मिन् भवेज्जयोयस्य तस्य संवत्-सरं शुभम्। पराजये विरुद्धन्तु लब्धनाशस्ततो भ-वेत्। श्रोतव्यं गीतवाद्यादि स्वनुलिप्तैः स्वलङ्कृतैः। विशेषवच्च मोक्तव्यं प्रशस्तैर्बान्धवैः सह। तस्यां नि-शायां कर्त्तव्यं शय्यास्थानं सुशोभनम्। गन्धपुष्पैस्तथावस्त्रैरत्नैर्माल्यैरलङ्कृतम्। दीपमालापरिक्षिप्तं तथाधूपेन धूपितम्। दयिताभिश्च सहितैर्नेया सा च भ्रवे-न्निशा। नवैर्वस्त्रैश्च संपूज्य द्विजसम्बन्धिबान्घवान्” इत्यादि। सुगतिव्रतं पद्मपु॰
“नक्ताशी त्वष्टमीषु स्याद् वत्सरान्ते तुगोप्रदः। पौरन्दरपदं याति सुगतिव्रतमुच्यते”। सुगतिद्वादशीव्रतं विष्णुधर्मोत्तरे
“एकादश्यां शुक्लपक्षे फा-ल्गुने मासि यो नरः। जपन् कृष्णेति देवस्य नामभक्त्या पुनः पुनः। देवार्च्चनं वाष्टशतं कृत्वैतत्तुजपेच्छुचिः। स्नाने प्रस्थानकाले च उत्थाने स्खलितेक्षये। पाषण्डान्! पतितांश्चैव तथैवान्त्यावसायिनः। नालपेत्तु तथा देवमर्चयेच्छ्रद्धयान्वितः। इदञ्चोदाहरेत्मन्त्रं मनश्चाधाय तत्परः। चैत्रवैशाखयोश्चैवं तद्द्वज्ज्यैष्ठेच पूजयेत्। मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य! प्राप्तीतिवै नरः। उत्क्रान्तिकाले कृष्णस्य अरणञ्च तथाप्नुयात्। आषाढे श्रावणे चैव मासि भाद्रपदे तथा। तथैवाश्व-युजे देवमनेन विधिना नरः। उपोष्य संपूज्य तथा[Page5066-a+ 38] केशवेति च कीर्त्तयेत्। गोमूत्रप्राशनात् पूतः स्वर्गलोकेमहीयते। आराधितस्य जगतामीश्वरस्य महात्मनः। उत्क्रान्तिकाले स्मरणं केशवस्य तथाप्नुयात्। क्षीरस्यप्राशनं श्रेष्ठं विधिनेदं यथोदितम्। कार्त्तिकादियथान्यायं कुर्य्यान्मासचतुष्टयम्। तेनैव विधिना ब्र-ह्मन्! तत्र विष्णु प्रकीर्त्तयेत्। स याति विष्णुसा-लोक्यं विष्णुं स्मरति तत्क्षये। प्रतिमासं द्विजातिभ्योदद्याद्दानं यथेच्छया। सुगतिद्वादशीमेतां श्रद्दधानश्च योनरः। उपोष्येति तथा नारी प्राप्नोति त्रिविघां गतिम्”। सुजन्मद्वादशीव्रतं विष्णुधर्मोत्तरे
“पौषे मासि सिते पक्षेद्वादश्यां शक्रदैवते। नक्षत्रयोगगे विष्णुं प्रथमं तु सम-चयेत्। ततः प्रभृति विप्रेन्द्र! मासि सासि जनार्द-नम्। उपोषितः पूजयेत यावत् संवत्सरं गतम्। मासेच मासे विघिनोदितेन तस्यां तिथौ दानमिति ब्रवीमि। प्राश्यं यथावद्विधिवत् क्रमेण तदुच्यमानं निखिलं नि-बोध। घृतं तथा व्रीहियवं हिरण्यं यवान्नमम्भश्चणका-न्नपानम्। छत्रं पयोऽन्नं गुडफाणिताद्यं सुचन्दनं वस्त्र-मनुक्रमेण। एकैकमासोक्तमथैकदानं गोमूत्रमम्भो घृत-मामशाकम्। दूर्वादधिव्रीहियवं तिलांश्च सूर्य्यांशुतप्तंजलमम्बु दार्भम्”। सुजन्मावाप्तिव्रतं विष्णुधर्मोत्तरे
“मेषसंक्रमणे भानोः सोप-वासो नरोत्तम!। पूजयेद्भार्गवं देवं रामं शक्त्या यथा-विधि। वृषसंक्रमणे प्राप्ते तथा कृष्णञ्च पूजयेत्। तथामिथुनसंक्रान्तौ पूजयेद्भोगशायिनम्। तथा कुलीरसं-क्रान्तौ वराहमपराजितम्। नरसिंहं तथा देवं सिंह-संक्रमणे बिभुम्। कन्यासंक्रमणे देवं तथाश्वशिरसं य-जेत्। तुलासंक्रमणे कूर्मं पूजयेत् भक्तिभावतः। अलि-संक्रमणे कल्कि देवं संपूजयेत् नरः। धनुःसंक्रमणे बुद्धंदेवमभ्यर्चयेत् बुधः। तथा मकरसंक्रान्तौ रामं दशरथात्म-जम्। कुम्भसंक्रमणे राजन्! रामं यादवनन्दनम्। मी-नसंक्रमणे मत्स्यं वासुदेवन्तु पूजयेत्। पटे वा यंदि वा-र्च्चायां गन्घमाल्यान्नसम्पदा। प्रादुर्भावस्य नाम्ना चच होमं कुर्वीत पार्थिव!। व्रतान्ते जलधेनुन्तु छत्रो-पानत्समन्विताम्। वस्त्रयुग्मयुतां दद्यात् प्रतिमासंमकाञ्चनाम्। रात्रौ तु दीपमालाभिर्देवदेवं प्रपूजयेत्। कृत्वा व्रतं वत्सरमेतदिष्टं म्लेच्छेषु तिर्य्यक्ष न चापिजन्म। प्राप्नोत्यवाप्नोति चिरञ्च नाकं कामन्तथाप्नोति{??}नो{??}मिरामम्”। [Page5066-b+ 38] सुदर्शनषष्ठीव्रतं गरुडपु॰
“अथ षष्ठ्यान्तु राजन्यः समुपोमायथाविधि। चक्राब्जमण्डलं कृत्वा कर्णिकायां सुदर्श-नम्। दलेषु लोकपालानामायुधानि समर्चयेत्”। चक्राब्जं चक्रनाभिघटिताब्जम्।
“स्वान्यायुधानि पुरतःप्रतिष्ठाप्य प्रपूजकः। रक्तचन्दनसिद्धार्थरक्तपद्माङ्कुरै-रपि। रक्तवस्त्रैः सुगन्धाट्यैर्भूषणादिभिरर्चयेत्” इत्यादि। सुनामद्वादशीव्रतं वह्निपु॰
“शृणुष्वैकमना भूप! सुनाम-द्वादशी शुभा। सर्वपापहरा स्वर्ग्या भुक्तिमुक्तिप्रदा-यिका। मनसा च चिकीर्षन्ति द्वादशीं ये नरोत्तमाः। तेऽपि घोरं न पश्यन्ति पुनः ससारसागरम्। आद्यंसर्वव्रतानां तु वैष्णवानां नृपोत्तम। ! नरैस्त्रिभिश्च कर्त्तव्यंविष्णोस्तुष्टिकरं परम्। मार्गशीषे शुभे मासि शुक्ल-पक्षे यतव्रतः। प्रथमञ्चैव गृह्णीयाद् द्वादशीं विधिव-न्नरः। मनोवाक्वायचेष्टाभिः सुविशुद्धो जितेन्द्रियः। दशम्यां नियतः स्नात्वा प्रणिपत्य जनार्दनम्। हविष्यान्न-कृताहारः श्रुचिर्भूत्वा भवेद्व्रती। उपलिप्ते शुचौदेशे भक्षयेद्दन्तधावनम्। उपोष्यैकादशीं सम्यक् पूजयित्वाजनार्दनम्। सुनामद्वादशीं देव! अहं भोक्ष्ये परेऽहनि। एवं सकल्प्य नियमं प्रणम्य गरुडध्वजम्। दशम्या-मेकभक्त्वाशी संयतः संवसेन्निशाम्। एकादश्यां ततः प्रा-तरेकचित्तः समाहितः। पूर्वं संपूजयेत् सूर्य्यं ततो देवंप्रपूजयेत्” वर्षसाध्यमिदम्। सुरूपद्वादशीव्रतम् उमामहेश्वरसंवादे
“पौषमासं तु संप्राप्यपुष्यर्क्षे तु सुशोधयेत्। तस्यां रात्रौ संयतात्मा ध्यात्वाविष्णुं सनातनम्। श्वेता गौरेकवर्णा च तस्या ग्राह्यञ्चगोमयम्। अन्तरिक्षात् प्रपतितं शुचिर्मौनमवास्थितः। तस्याः कृत्वाहुतीनाञ्च शतमष्टोत्तरं तिलैः। प्रतीच्यैका-दशीं कृष्णामुपवासपरायणैः। भाव्यं नियमसंयुक्तैर्विशेषात् संयतात्मभिः। स्नात्वा नद्यां तडागे वा विष्णुमेवाथ चिन्तयेत्। सौवर्णकं हरिं कृत्वा रौप्यं वामस्वशक्तितः। तिलपात्रोपरिस्थे च न्यसेत् कुम्भेसद्रव्यके” इत्यादि।
“एवं यः कुरुते देवि!सुरूपद्वादशीव्रतम्। नरो वा यदि वा नारी तस्यपुण्यं शृणुष्व मे। दौर्भाग्य नश्यते तस्य अपि जन्मा-न्तराजितं। अपि भुव्यस्य सम्पर्को जायत कारणान्त-रात्। तस्यापि न भवेद् दुःखं वैरूप्यं तस्य जन्मनि”। सूर्य्यव्रतं विष्णुधर्मोत्तरे
“शिरसोवपनं कृत्वा योऽर्चयेत[Page5067-a+ 38] दिवाकरम्। तपनस्तोषमायाति वह्निष्टोमञ्च विन्दति। अपूपैः सगुडैर्भक्त्या तथा लवणपाचितैः। सहिरण्यैःसमभ्यर्च्य वह्निष्टामफलं लभेत्। सूर्य्याह्नि यस्तु नक्ताशीसंपूजयति भास्करम्। इष्टान् कामानवाप्नोति सूर्य्य-लोकञ्च गच्छति”। कालोत्तरे
“आश्विन्यादित्यवारे तुयदि शुक्ला चतुर्दशी। स्नानं विशेषतः कार्य्यं शिवस्यपरमात्मनः। अङ्गरागं रोचनया रक्तपुष्पैः प्रपूजयेत्। कपिलाज्यं तथा क्षीरं नैवेद्यं परिकल्पयेत्”। पद्मपु॰
“माघमास्युषसि स्नानं कृत्वा दम्पत्थमर्चयेत्। भोजयित्वायथाशक्त्या बालवस्त्रविभूषणैः। सौभाग्यपदमाप्नोति श-रीरारोग्यमुत्तमम्। सूर्य्यलोकप्रदं नूनं सूर्य्यव्रतमिदंस्मृतम्”। भविष्यपु॰
“कृच्छ्रैकभक्तं हेमन्ते माघमास-मतन्द्रितः। मासान्ते च रथं कुर्य्याच्चित्रवस्त्रोपशोभि-वम्। श्वेतैश्चतुर्भिर्यु क्तन्तु तुरगैः समलङ्कृतम्। श्वेतध्वजपताकाभिः छत्रचामरदर्पणम्। तण्डुलाढकपिष्टेनकृत्वा भानुं नराधिप!। विन्यस्य तं रथप्रस्थे संज्ञया सहभूपते! तं रात्रौ राजमार्गेण शङ्खभेर्यादिभिः स्वनैः। भ्रामयित्वा शनैः पश्चात् सूर्य्यायतनमानयेत्। तत्र चागु-रुपिष्ठेन प्रदीपाद्युपशोभितम्। प्रेक्षणीयप्रदानैश्च क्ष-पयित्वा शनैः शनैः। प्रभाते स्नपनङ्कृत्वा पयसा वाघृतेन वा। दीनान्धकृपणानाञ्च यथाशक्त्या च दक्षिणाम्। रथं संवाहनोपेतं भास्कराय निवेदयेत्। भुक्त्वाच ब्राह्मणैः सार्द्धं प्रणम्यार्कं गृहं व्रजेत्”। सौर-धर्मोत्तरे
“शृणु राजन्! प्रवक्ष्यामि यद्गुह्यं व्रतमुत्तमम्। सर्वकामप्रदं पुंसां कुष्ठादिव्याधिनाशनम्। भानोस्तुष्टि-करं राजन्! भुक्तिमुक्तिप्रदायकम्। तस्य देवस्य व-क्ष्यामि व्रत राजन्! सविस्तरम्। पूजार्घ्यप्राशनंदानं नैवेद्यं शृणु तत्त्वतः। सर्वतीर्थेषु यत् पुण्यंसर्वयज्ञेषु यत्फलम्। सर्वदानेन तपसा यत् पुण्यं सम-वाप्यते। प्रातः स्नानेन यत् पुण्यं यत् पुण्यं रविवासरे। मार्गशीर्षादिमासेषु द्वादशस्वपि भूपतें!। सूर्य्यव्रतं करि-ष्यमि यावद्वर्षं दिवाकर!। व्रतं संपूर्णतां यातु त्वत्-प्रसादात् प्रभाकर!” इत्यादि। सूर्य्यनक्तव्रतं मत्स्यपु॰
“तस्मादादित्यवारेण सदा नक्ताशनोभवेत्। यदा हस्तेन संयुक्तमादित्यस्य च वासरम्। उत्पद्यते यदा भक्तिर्भानोरुपरि शाश्वती। तदादित्य-दिने कुर्य्यादेकभक्तं विमत्सरः। तदारभ्य सदा कार्य्यंतकमादि यवासरे। नक्तमादित्यवारेण भोजयित्वा द्वि-[Page5067-b+ 38] जोत्तमान्। ततोऽस्तसमये भानो रक्तचन्दनपङ्कजम्। विलिख्य द्वांदशदलं पूज्य सूर्य्येति पूर्वतः”।
“इत्यनेनविधानेन वर्षमेकन्तुंयो नरः। नक्तमादित्यवारेण कु-र्य्यात् स नीरुजो भवेत्। धनधान्यसमायुक्तः पुत्रषौत्र-समन्वितः। मर्त्त्ये स्थित्वा चिरं कालं सूर्य्यलोकमवा-प्नुयात्”। सूर्य्यषष्ठीव्रतं भविष्योत्तरे
“मासि भाद्रपदे शुक्ले एकभक्ता-शनो भवेत्। दन्तधावनपूर्वन्तु षष्ठ्यामुपवसेन्नरः। गौ-रसर्षपकल्केन स्नायात् कायविशुद्धये। रोचनाकृष्ण-गोमूत्रमुस्ताचन्दनगोसकृत्। दधिकालागुरुञ्चैव ललाटेतिलकं न्यसेत्। शिलारुणदलैश्चैव सौभाम्बारोग्यकृद्-यतः। स्रजं कुङ्कुमताम्बूलं सिन्दूरं रक्तमासली। वितरेत् सोपवासा हि नारी मङ्गल्यवर्द्धनम्। षिधवा{??}विरक्तानि कुमारी शुक्लवासली। ततः स्यभवमे भा{??}ंपूजयेत् शीतलोदकैः। अपराह्ले ततः स्नात्वा सुनौनीनियतव्रतः। प्रतिमां स्तपयेद्भानोः पञ्चगन्ध्येन वा-रिणा। रक्तचन्दनपङ्केन कुङ्कुमेन समाभेत्। अग-स्त्यकुसुमैरक्तैः करवीरैः प्रपूजयेत्”। सूर्य्यसप्तमीव्रतं विष्णुधर्मोत्तरे
“चैत्रे शु{??}स्य पक्षे तु{??}-म्यक् षष्ठ्यामुपोषितः। सप्तम्यामर्चनं कुर्य्याद्देवदेवस्यर्भूपते!। वहिःस्नानं नरः कृत्वा गोमयेनोपलेपितः। लेपयेत्स्थण्डिलं सम्यक् ततो गौरमृदा नृप!। तत्राष्ट-दलकमलं वर्णकैस्तु समं लिखेत्” इत्यादि। सोमद्वितीयाव्रतं पद्मपु॰
“दद्यात्सितद्वितीयायां सिन्धोर्कवण-भोजनम्। समाप्ते गोप्रदो याति विप्राय शिवगन्दिरम्” विप्राय सिन्धोर्लवणभोजनं दद्यादित्यन्वयः। सोषश्चात्रदेवता सोमव्रतमिदं स्मृतमिति सोमस्य देवतात्वं गम्यते।
“कल्पान्ते राजराजस्य मोमव्रतमिदं स्मृतम्”। सोमव्रतं कालोत्तरे
“चन्द्राष्टम्यां रोहिणी स्यात्तदा चन्द्रव्रतञ्चरेत्। शिवं सम्पूज्य विधिवत् स्नानेः पञ्चामृता-दिभिः। विलेपनन्तु चन्द्रेण चन्दनेन तु वा हितम्। शुक्लवस्त्रैस्तथा पुष्पैः पूजयेत् परमेश्वरम्। नैवेद्यं क्षीर-कुम्भन्तु सितशर्करया युतम्। प्राशनं चन्दनेनैव रात्रीजागरणं हितम्। आयुःकामैः सदा कार्य्यं कीर्त्ति-श्रीसाधने हितम्। इति चन्द्रव्रतं नामोदारदानेन जायते”। कालिकापु॰
“वारे सोमस्य वाष्टम्यां पक्षोभौ साम-मर्चयेत्। विधिना चन्द्रचूडाङ्के प्राज्यान्नेन सचन्द्रकम्”। पक्षोभौ अत्रोभयत्र पक्षे नियभोऽष्ठमीसोमयारयोः संयो-[Page5068-a+ 38] गमात्रं विवक्षितं, प्राज्यान्नं आज्थबहुलमन्नम्।
“दक्षिणार्द्धं हरन्ध्यायेद्वामोर्द्धन्तु हरिं विभुम्”। इत्यादि
“अष्टम्यां पितरावर्च्य विधिनानेन सुव्रत!”। पितरौतावेव देवीदेवौ
“वत्सरन्तु तदन्ते तु कर्त्तव्यं यन्निबो-धत। प्रागुक्तविधिना पूज्य सितं पीतं युगद्वयम्। दद्या-द्वितानके चैव पताकाथण्टिके तथा। धूपसञ्चारणेचाषि दीपवृक्षौ सुशोभिनौ”। भविष्यपु॰
“ता-म्रपात्र पयःपूर्णं कृत्वा तत्स्थञ्च शङ्करम्। प्रच्छा-द्योपरिवस्त्रेण गन्घपुष्पार्चितं महत्। शिवभक्ते द्विजेदद्याद्भोजयित्वा विधानतः। प्राच्यां समुदिते सोमेगतोच्याञ्च रवा गते। पौर्णमास्यां तु वैशाख्यां गृहपात्रंशिषाय तु। प्रीयतां मे महादेवः सोममूर्त्तिर्जगत्पातः। त{??}ऐ विप्राय तत्पात्रमर्चयेद्भक्तितः शनैः। एवं सोमव्रतंनाम कृत्वा सोमान्तिकं व्रजेत्”। सोमवारव्रतं मविष्योत्तरे
“तद्वच्चित्रासु संप्राप्य सोमवारंविचक्षणः। नक्तोक्तविधिना सर्वं कुर्य्यात् पूजादिकंविधोः। सप्तमे तु ततः प्राप्ते दत्त्वा ब्राह्मणभोजनम्। कांस्यपात्रे तु संस्थाप्य सोमं रजतसम्भवम्”। सोमरूपन्तुचतुर्दशीस्थमहाराजव्रतोक्तं वेदितव्यम्
“पात्रे कृत्वा सो-मराज श्वेतवस्त्रैः प्रपूजितम्। पादुकोपानहच्छत्रभा-जनासनसंयुतम्। होमं घृततिलैः कुर्य्यात् सोमनाम्रा तुमन्त्रवित्। समिधोऽष्टोत्तरशतमष्टाविंशतिरेव वा। हो-तव्या मधुसर्पिभ्यां दध्ना चेव घृतेन तु” इत्यादि।{??}ओमाष्टमीव्रतं स्कन्दपु॰
“वारे सोमस्य चाष्टम्यां पक्षयो-रुमर्यारपि। विधिवच्चन्द्रचूडाभं सोमं सम्पूजयेन्निशि”। सोमं उमासहितम् रूपन्तु कृष्णाष्ठम्यामेव व्याख्या-तम्।
“तिलसर्षपकल्केन स्नातोऽमलजलाशये। गृहेयायतने वापि शिवैकाहितमानसः। ब्रह्मकूर्चेन देवेशंप्राशयित्वा ततो व्रती”। ब्रह्मकूर्चं पञ्चगव्यम
“वामा-दियाममन्त्रैश्च देवं देवीं तथार्चयेत्। चन्दनेनेन्दु-युक्तेन् दक्षिणार्द्धं विलेषयेत्” इत्यादि। सौण्यव्रतं भविष्यपु॰
“एकादश्यां माषमासे चतुर्दश्यष्ट-मीषु च। एकभक्तेन यो दद्यात् चेलकान्यर्जुनानि च। उपानही कम्बलञ्च पात्रं चित्रं तथोदकम्। करपात्रा-दिकं वत्स! यथाशक्त्यार्थिने नृप!। आर्त्तत्राणपरोनित्यमञ्चमेधफलं लभेत्। एतत्सीख्यव्रतं नाम आर्त्तत्राणकरं परम्”। सौगन्ध्यव्रतं पद्मपु॰
“वर्जयेद् यस्तु पुष्पाणि हेमन्तमिशिरे[Page5068-b+ 38] व्रती। पत्रत्रयञ्च फाल्गुन्यां कृत्वा शक्त्या च काञ्च-नम्। दद्याद्वैकालवेलायां प्रीयेतां शिवकेशवौ। शिरः-सौमन्ध्यजननं सदानन्दप्रद नृणाम्। कृत्वा परं पदंयाति सौगन्ध्यव्रतमुत्तमम्”। सौभाग्यतृतीयाव्रतं वराहपु॰
“अतःपरं महाराज! सौभा-ग्यकरणं व्रतम्। शृणु येनाशु सौभाग्यं स्त्रीपुं सामभि-जायते। फालगुनस्य तु मामस्य तृतीया शुक्लपक्षतः। उपोषितेन नक्तेन शुचिनासत्यभाषिणा। सश्रीकञ्च हरिंपूज्य रुद्रं वा उमया सह” इत्यादि। गरुडपु॰
“फाल्गुनादिवृतीयायां लवणं यस्तु वर्जयेत्। समान्तेशयनं दद्यात् गृहं सोपस्करान्वितम्”। समान्ते वत्-सरान्ते
“संपूज्य विप्रमिथुनं भवानी प्रीयतामिति। गौ-रीलोकप्रदं नित्यं सौभाग्यव्रतमुच्यते”। सौभाग्यव्रतं भविष्यपु॰
“पौर्णमास्यां तु यः सोमं पूज-येद् भक्तिमान्नरः। सौभाग्यञ्च भवेत्तस्य इति मे निश्चितमतिः। मूलमन्त्राः स्रसंज्ञाभिरङ्गमन्त्राश्च कीर्त्तिताः” इत्यादि। सौभाग्यशयनव्रतं मत्स्यपु॰
“तथैवान्यत् प्रवक्ष्यामि सवकामफलप्रदम्। सौभाग्यशयनं नाम यत् पुराणविदो-बिदुः”। इत्युपक्रमे
“वसन्तमासमासाद्य तृतीयायांजनप्रियाम्। शुक्लपक्षस्य पूर्वाह्णे तिलैःस्नानं समा-चरेत्। तस्मिन्नहनि सा देवी किल विश्वात्मना सती। पाणिग्रहणकैः मन्त्रैरुदूवा वरवर्णिनी। तया सहैवदेवेशं तृतीयायां समर्चयेत्” इत्यादि।
“एवं संवत्सरांयावत् तृतीयायां सदा मनो!। प्राशने दानमन्त्रे चविशेषोऽयं निसाध मे। गोशृङ्गोदकमाढ्यं स्याद् वै-शाखे गोमयं पुनः। ज्यैष्ठे मन्दारकुसुमं विल्वपत्रंशुचौ स्मृतम्। श्रावणे दधि मम्प्राश्य नभस्ये च कुशो-दकम्। क्षीरमाश्वयुजे मासि कार्त्तिके पृषदाज्यकम्”। पृषदाज्यं दधिमिश्रं धृतम्
“मार्गशीर्षे तु गोमूत्रं पौषेसम्प्राशयेद् वृतम्। माषे कृष्णतिलांस्तद्वत् पञ्चगव्यञ्चफाल्गुले। लचिता विजया भद्रा भवानी कुमुदाशिवा। वासुदेवी तथा गौरी मङ्गला कमला सती। उभा च दानकाले तु प्रीयतामिति कीर्त्तयेत्। मल्लिका-ऽशोककमलकदम्बोत्पलमालतीम्। कुलत्थं करवीरञ्चवाणमम्लानकुङ्कुमम्। सिन्दुवारञ्च सर्वेषु मासेषु क्रभतः स्मृतम्” इत्यादि।{??}भाव्यसक्रान्तिव्रत स्कन्दपु॰
“अथार्म्या पव{??} सौः[Page5069-a+ 38] भाग्यसंक्रान्तिमुत्तमाम्। शृणु नारद! यत्नेन धनै-श्वर्य्यप्रदायिनीम्। अयने विषुवे युक्ते व्यतीपातेन भा-नुना। संक्रान्तिदिवसे कुर्य्यादेकभक्तं बिमत्सरः। पूर्ववद्भानुमभ्यर्च्य तथा चैव सुवासिने। सौभाग्याष्टक-संयुक्तं वस्त्रयुग्मं सयोषिते। विप्राय वेदविदुषे भक्त्यातत् व्रतिपादयेत्। एवं संवत्सरे पूर्णे कृत्वा ब्राह्मण-भोजनम्। पर्वतं लवणं कृत्वा यथाविभवसारतः। काञ्चनं कमलं कृत्वा भास्करञ्चैव कारयेत्। गन्धपुष्या-दिना पूज्य विप्राय प्रतिपादयेत्”। सौभाग्यावाप्तिव्रतं विष्णुधर्मोत्तरे
“माघ्यान्तु समतीतायांपतिपत्प्रभृतिक्रमात्। पटे वा यदि वार्च्चायां कृष्णंसंपूजयेत् सदा। पूर्बोक्तं सकल कुर्य्याद् विधिं चात्रनराधिष!”। पूर्वोक्तमिति चैत्रमाससम्बन्धिरूपामापि-व्रतोक्तमित्यर्थः।
“नित्यं समाचरेत् स्नान तथा गन्धप्रिय-ङ्गुणा। चरुं प्रियङ्गुणा कुर्य्याद्धोमं कुर्य्यात् प्रियङ्गणा”। षियङ्गुः कङ्गुसदृशगन्धद्रव्यम्
“कालगुन्यान्तु ततो दद्यात्त्रिरात्रोपोषितो नरः। वस्त्रे च देये नृप! कुङ्कुमाक्तेक्षाद्रस्य पात्रञ्च तथैव कांस्यम्। सौभाग्यद ह्येतदनुत्तमन्ते व्रतं ममैतत्कथित नृवोर। ”। सौरनक्तव्रतं नृसिंहपु॰
“हस्तयुक्ते वार्कदिने सौरनक्तव्रतंचरेत्। स्नाव्वाभ्यर्च्य तु विप्रान् वै विरोगो जायतेनरः”। सौरसप्तमीव्रतं पद्मपु॰
“यश्चोपबासी सप्तम्यां समान्ते हेम-पङ्कजम्। गाश्चैव शक्तितोदद्याद्धोमान्ते घटसंयुताः। एतत् सौरव्रतं नाम सूर्य्यलोकप्रदायकम्”। स्त्रीपुत्रकामावाप्तिव्रतं भविष्यपु॰
“एकभक्तेन या नारीकार्त्तिकन्तु क्षपेन्नृप!। क्षमाहिंसादिनियमैः सञ्जाताब्रह्मचारिणी। गुडान्नमिश्रं शाल्यन्नं भास्कराय नि-वेदयेत्। पुष्पाणि करवीराणि गुग्गुलं साज्यमादरात्। सप्तम्याञ्चाथ षष्ट्या वा उपवासरतिर्भवेत्। पक्षयोरुभयो-रेव श्रद्धया परयान्वितः। इन्द्रनीलप्रतीकाशैर्विमानैःसार्वकामिकैः। नारी युंनशतं साग्रं सूर्य्यलोके महीयते” वर्षसाध्यमिदम्। स्नेहव्रतं पद्मपु॰
“आषाढादिचतुर्मासानभ्यङ्गं वर्जयेन्नरः। पारिते च पुनर्दद्यात्तिलतैलयुत घटम्। भोजनं पायसा-ज्यञ्च स याति भवनं विभोः। लोकप्रीतिकरं ह्येतत्स्नेहव्र{??}तिहोच्यते”। हयपञ्चमीव्रतं शालिहोत्रे
“अश्वराडमृताज्जातो वातरंहा[Page5069-b+ 38] मनोजवः। उच्चैःश्रवाः पूजनीयश्चैत्रशुकुस्य पञ्चमी। तत्रैव पूज्या गन्धर्वास्तुरङ्गाणान्तु बान्धवाः। पत्रवाणधराः केचित् केचित् पत्रैश्च संयुताः। भीमश्चित्ररथ-श्चैव विख्यातः सर्वविदयम्। तथा सालिशिराः श्री-मान् प्रद्युम्नश्च महायशाः। नारदश्च कलिन्दश्च गन्ध-र्वश्च हाहा हुहूः। सुवाहुस्तुम्बुरुश्चैव तथा चित्र-रथः प्रभुः। चित्राङ्गदश्च विख्यातश्चित्रसेनश्च वीर्य्य-वान्। सिद्धपूर्णश्च वदरी पर्णाशश्च महायसाः। ब्रह्म-चारी रतिगुणः सुपर्णोऽतिबलस्तथा। विश्वावसुः सुरे-न्द्रश्च गन्धर्वोऽविपराक्रमः। इत्येते पूजनीयाः स्यु-गीर्तिरुच्चावचैः शुभैः। मोदकैः पोलिकाभिश्च परमान्नेनचाक्षतैः। दध्ना गुडेन पयसा शालिपिष्टेन भूरिशः। धूपैर्माल्यैस्तथा दीपैर्द्विजानां स्वास्तवाचनैः। एवं हि{??}ताः सम्यक् तुरगाणां हि यान्धवाः। बलमायुःप्रयच्छन्ति संग्रामेष्वपराजयम्। आरोग्यं परमा पुष्टि-स्तथैव च विधीयते”। हरतृतीयाव्रतं स्कन्दपु॰
“माघे शुक्लतृतीवायामुपवासन्तुकारयेत्। रात्रौ सम्भारमाहृत्य{??}रीवागस्य मण्डपे। अथ पत्र लिखेत् पद्मं मण्डपे मुनिपुङ्गव!। उमा-महेश्वरं तत्र पूजयेत् सुसमाहितः। पूर्वपत्रे न्यसेद्गौरीमाग्नेय्यां ललितां न्यसेत्। दक्षिणे तु दमां नामनैरृत्यां च स्वधां तथा। पश्चिमे वामदेवीन्तु वायव्यांमूलगौरिकाम्। उत्तरे तु सुभगान्तु ऐचाम्यां गिरिजांतथा। उमामहेश्वरं मध्ये गन्धपुष्पैः प्रपूजयेत्। भृङ्गा-रञ्चैव संस्थाप्य तण्डुलैः परिपूरयेत्। एवं कृत्वा वि-धानेन मुने! वर्षचतुष्टयम्। आराधनन्तु देव्याश्च सौ-भाग्यजननं परम्। उद्यापनं ततः कुर्य्यात् तस्मिन्नेवततो दिने। उमामहेश्वरं हैमं स्वच्छन्दे मञ्चके स्थि-तम्। वस्त्रैर्गन्धैश धूपश्च दीपमालादिभिस्तया। भक्ष्यै-तांनाविधैः सम्यक् पूज्य भक्त्या ततो मुने!। तद्वद्गुरुंसभार्य्यञ्च पूजयेत् द्विजसत्तमम्। गाञ्चैव गुरवे तद्वत्यस्त्रालङ्कारर्सयुताम्। मिथुनानीह चत्वारि भोजयेत्सुसमाहितः। उमामहेश्वरं हैमं दत्त्वा भक्त्या क्षमा-पयेत्”। हरव्रतं भविष्यपु॰
“अष्टम्यां पूजितो देवी गोश्रुताभरणोहरः। ज्ञानं ददातिं विपुलां कान्तिं जातिं बल तथा”। गोश्रुताभरणः चक्षुःश्रवोभूषः शिव इत्यर्थः।
“मृव्युहाज्ञानदश्चैव पापहाः वापपूजतः। मू{??}मन्त्रः स्वसज्ञाभि[Page5070-a+ 36] रङ्गमन्त्राश्च कीर्चिताः। पूर्ववत् पद्मपत्रस्थः कर्त्तव्यश्च-तिथोश्वर। गन्धपुष्पोपहारैश्च यथाशक्ति विधीयते”। हरिव्रते वराहपु॰
“त्रैलोक्यगामिनी देवी लक्ष्मीस्तेऽस्तुसदा प्रिया। द्वादशी च तिथिस्तेऽस्तु कामरूपी च जा-यते”। हरिं प्रतीदं बचनम्
“घृताशनो भवेद् यस्तुद्वादश्यां तत्परायणः। स स्वर्गवासी भवति पुमान् स्त्रीना विशेषतः”। हरिकालोव्रतं भविष्योत्तरे
“शुक्ले भाद्रपदस्यैवं तृतीयायांसमाचरत्। रत्नधान्यैः सवैरूढैः कृत्वा विहितशाद्वले।{??}रैर्नारिकेलैश्च फलैश्च मधुरैस्तथा। मातुलाङ्गकुसु-र्मैधा{??}कैर्जम्बुकैस्तथा। गन्धैः पुष्पैः फलैर्धूपैर्नैवे-द्यैर्मोदकादिभिः। प्रीणयित्वा समासाद्य पद्मरागेणभाविता। घण्टावाद्यादिभिर्गीतैः शुभैर्दिव्यैः कथानकैः। पूजनीया महाराज! मन्त्रेणानेन भक्त्रितः। हरेर्नाम्नःसमुत्पन्ने! हरिकालि! हरिप्रिये!। सर्वदा शस्यमूर्त्तिस्थे!प्रणतार्त्तिहरे! नमः। इत्थं संपूज्य तां देवीं दद्याद्वि-प्राय दक्षिणाम्। कृत्वा जानरणं रात्रौ प्रभात किञ्चि-दु{??}ते। रात्रौ मुवासिनीभिश्च सा नेया तु जलाशये। ततो जलापये रम्ये मन्त्रेणैव विसर्जयेत्। अचिता चमया भक्त्या गच्छ देवि! सुरालयम्। मम दौर्भाग्य{??}आशाय{??}मरागमनाय च। एवं यः पाण्डवश्रेष्ठ!हंरिकावीव्रतं चरेत्। प्रतिवर्षं विधानेन नारी वाभक्तिग{??}रा। वीत्वा यत् फलमाप्नोति तदन्येन न{??}ते”। परिशिष्टम्। आभ{??}कैकादशोधतं स्कन्दपु॰ प्रभासख॰
“फाल्गुनस्य सितेपक्षे एकादश्यामुपोषितः। स्नात्वा नद्यां तडागे वावाप्यां कूपे गृहेपि वा। गत्वा गिरौ वने वापि यत्रसा प्राप्यते शिवा। क्षोरोदे मथ्यमाने तु यदा वृक्षःसमुत्थितः। आमर्दन्देवदैत्यानां तेन सामलकी स्मृता। तस्मिन् वृक्षे स्थिता लक्ष्मीः सदा पितृगृहे नृप!। शिवालक्ष्मीस्थिनो वृक्षः मेव्यते सुरसत्तमैः। देवैर्ब्रह्मा-दिभिः सर्वैर्वृक्षोऽसौ वैष्णवः कृतः। तत्र गत्वा हरिःपूज्यो वृक्षमूलेऽथ वा शिवा। पूज्या पुम्बैः शुभैरात्रौकार्य्यं जागरणं नरैः। अष्टाधिकशतैः कार्य्या फलै-सस्याः{??}दक्षिणा। प्रदक्षिणीकृत्य ततो॰ भोक्तव्यं तु[Page5070-b+ 38] फलं नरैः। करकं जलपूर्णं तु कर्त्तव्यं पात्रसंयुतम्। हविष्या{??}न्तु कर्त्तव्यं कथाश्रवणतत्परैः। मुच्यन्ते दे-हिनः पापैः कलिजैः कायसम्भवैः। देहान्ते ये नराःपूर्वं पूज्यन्ते हरिमन्दिरम्”। एतानि व्रतानि प्रायेण हेमाद्रिव्रतखण्डोक्तानि प्रसङ्गां-गतान्यपि कानिचिदुक्तानि। अन्यान्यपि व्रतार्कादावु-क्तानि दृश्यानि नैमित्तिकानि प्राजापत्यादीनि व्रतानितु तत्तच्छब्दे उक्तानि दृश्यानि।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रत¦ mn. (-तः-तं)
1. Any meritorious act of devotion, the voluntary or vowed observance, or imposition of any penance, austerity, or privation, as fasting, continence, exposure to heat and cold, &c.
2. Eating.
3. Design, plan.
4. Vow, resolution.
5. Course of con- duct. E. वृ to choose, aff. अतच्, र substituted for the vowel; or व्रज् to go, (to heaven by it,) घ aff. and ज changed to त |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रतः [vratḥ] तम् [tam], तम् [व्रज्-घ जस्य तः]

A religious act of devotion or austerity, vowed observance, a vow in general; अभ्यस्यतीव व्रतमासिधारम् R.13.67;2.4,25; (there are several vratas enjoined in the different Purāṇas; but their number cannot be said to be fixed, as new ones,e. g. सत्यनारांयणव्रत, are being added every day).

A vow, promise, resolve; सो$भूद् भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन् R.17.42; so सत्यव्रत, पुण्यव्रत, दृढव्रत &c.

Object of devotion or faith, devotion; as in पतिव्रताः (पतिर्व्रतं यस्याः सा); यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः Bg.9.25.

A rite, an observance, practice, as in अर्कव्रत q. v.; Śabaraswāmin difines it as पुरुषाणां क्रियार्थानां शरीरधारणार्थो बलकरणार्थश्चायं संस्कारो व्रतं नाम ŚB. on MS.4.3.8.

Mode of life, course of conduct; अथ तु वेत्सि शुचि व्रतमात्मनः Ś.5.27.

An ordinance, a law, rule.

Sacrifice.

An act, deed, work.

A design, plan.

Mental activity; व्रतमिति च मानसं कर्म उच्यते ŚB. on MS.6.2.2.

Celibacy; व्रतलोपनम् Ms.11.61 (com. ब्रह्मचारिणो मैथुनम्); Mb.12.11.22. (com. व्रतं ब्रह्मचर्याद्युपेतमध्ययनम्). -Comp. -आचरणम् the observance of a vow. -आदेशः investiture of a youth (of any one of the three classes) with the sacred thread. -उपवासः a fast for a vow. -ग्रहणम् initiation into a vow for a religious performance. -चर्यः a religious student; see ब्रह्मचारिन्. -चर्या observance or practice of a religious vow. -धारणम् the fulfilling of a religious observance. -पारणम्, -णा conclusion of a vow or fast, eating after a fast. -प्रतिष्ठा performance of a religious vow voluntarily undertaken.

भङ्गः breach of a vow.

breach of a promise. -भिक्षा begging alms as part of the ceremony of investiture with the sacred thread. -रुचि a. delighting in religious observances, devout. -लोपनम् breaking a vow.-वैकल्यम् the incompletion of a religious vow. -संग्रहः initiation into a vow. -संपादनम् fulfilling a religious vow. -स्थ a. practising any vow. -स्थः a celibate; व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् Ms.3.234. -स्नात a. one who has bathed after completing a religious vow.-स्नातकः a Brāhmaṇa who has completed the first stage of his religious life, i. e. that of a Brahmachārin or religious student; see स्नातक:; Ms.4.31.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रत n. ( ifc. f( आ). ; fr. 2. वृ)will , command , law , ordinance , rule RV.

व्रत n. obedience , service ib. AV. A1s3vGr2.

व्रत n. dominion , realm RV.

व्रत n. sphere of action , function , mode or , manner of life( e.g. शुचि-व्र्, " pure manner of life " S3ak. ), conduct , manner , usage , custom RV. etc.

व्रत n. a religious vow or practice , any pious observance , meritorious act of devotion or austerity , solemn vow , rule , holy practice (as fasting , continence etc. ; व्रतं-चर्, " to observe a vow " , esp. " to practise chastity ") ib.

व्रत n. any vow or firm purpose , resolve to( dat. loc. , or comp. ; व्रतात्or व्रत-वशात्, " in consequence of a vow " ; See. असि-धारा-व्रतand आसिधारं व्रतम्) MBh. Ka1v. etc.

व्रत n. the practice of always eating the same food(See. मधु-व्र्) L.

व्रत n. the feeding only on milk (as a fast or observance according to rule ; also the milk itself) VS. Br. Ka1tyS3r.

व्रत n. any food (in अ-याचित-व्र्See. )

व्रत n. = महा-व्रत( i.e. a partic. स्तोत्र, and the day for it) Br. S3rS. ;

व्रत n. (with gen. or ifc. )N. of सामन्s A1rshBr. ( L. also " month " ; season ; year ; fire ; " = विष्णु" ; " N. of one of the seven islands of अन्तर-द्वीप")

व्रत m. (of unknown meaning) AV. v , 1 , 7 A1pS3r. xiii , 16 , 8

व्रत m. N. of a son of मनुand नड्वलाBhP.

व्रत m. ( pl. )N. of a country belonging to प्राच्यL.

व्रत mfn. = वेद-व्रत, one who has taken the vow of learning the वेदGr2ihya1s. ii , 3 ( Sch. )

"https://sa.wiktionary.org/w/index.php?title=व्रत&oldid=303603" इत्यस्माद् पुनः प्राप्तिः