शङ्कु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्कुः, पुं, (शङ्क्यतेऽस्मादिति । शङ्क + “खरुशङ्कु- पीयुनीलङ्गुगुलिगु ।” उणा० १ । ३७ । इति कुप्रत्यवेन निपातितः ।) स्थाणुः । मुडा गाछ इति भाषा । मत्स्यविशेषः । शा~कोच इति भाषा । शल्यास्त्रम् । शेल इति भाषा । इत्य- मरभरतौ ॥ संख्याविशेषः । स तु लीलावती- मते दशलक्षकोटिः । कीलः । गो~ज इति भाषा । (यथा, मनुः । ८ । २७१ । “निःक्षेप्योऽयोमयः शङ्कुर्ज्जलन्नास्ये दशाङ्गुलः ॥”) ईशः । कलुषः । इति मेदिनी ॥ पत्रशिरा- जालम् । मेढ्रः । इति हेमचन्द्रः ॥ राक्षसः । इति शब्दमाला ॥ नखीनामगन्धद्रव्यम् । इति जटाधरः ॥ दीपसूर्य्ययोश्छायापरिमाणार्थं काष्ठादिनिर्म्मितः क्रमेण सूक्ष्माग्रद्बादशाङ्गुल- परिमितः कीलकः । यथा । “अर्काङ्गुला तु सूच्यग्रा काष्ठी द्व्यङ्गुलमूलिका । शङ्कुसंज्ञा भवेच्चैव तच्छायां परिकल्पयेत् ॥ मध्याह्नहीनैरादित्ययुक्तैश्छायाङ्गुलैर्हरेत् । षट्पूरितदिवादण्डं लब्धं दण्डादिकं भवेत् ॥ पूर्ब्बाह्णच्छाययातीतं पराह्णच्छाययैष्यकम् । शून्यैकरामबाणेभदिशो रुद्राः । ० । १ । ३ । ५ । ८ । १० । ११ । क्रमोत्क्रमैः ॥ आषाढादिषु मासेषु च्छाया माध्याह्निकी मता । अयनांशजमासान्ते व्युत्क्रमेणादितो बुधैः । संख्योक्तान्यदिने भागहारे वृद्धीतरे तथा ॥” इति ज्योतिस्तत्त्वम् ॥ तस्य नामान्तरं नरः । यथा । अथ करणसूत्रम् । “शङ्कुः प्रदीपतलशङ्कुतलान्तरघ्न- श्छाया भवेद्विनरदीपशिख्यौच्च्यभक्तः ।” उदाहरणम् । “शङ्कुप्रदीपान्तरभूस्त्रिहस्ता दीपोच्छ्रितिः सार्द्धकरत्रया चेत् । शङ्कोस्तथार्काङ्गुलसंमितस्य तस्य प्रभा स्यात् कियती वदाशु ॥” न्यासः । शङ्कुः १२ भूः ३ दीपः ७ लब्धानि च्छायाङ्गुलानि १२ । इति लीलावत्यां छाया- व्यवहारः द्वादशाङ्गुलपरिमाणम् । यथा । विष्णु- धर्न्मोत्तरीयप्रथमकाण्डम् । “द्वादशाङ्गुलिकः शङ्कुस्तद्द्वयन्तु शयः स्मृतः । तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिकः ॥” इति तिथ्यादितत्त्वम् ॥ (जनमेजयस्य पुत्त्रः । यथा, महाभारते । १ । ९५ । ८६ । “भवतो वपुष्टमायां द्बौ पुत्त्रौ जज्ञाते शतानीकः शङ्कुश्च ॥” * ॥ उग्रसेनस्य पुत्त्रविशेषः । यथा, भागवते । ९ । २४ । २४ । “कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहुस्तथा । राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनयः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्कु पुं।

जलजन्तुविशेषः

समानार्थक:शिशुमार,उद्र,शङ्कु,मकर

1।10।20।2।3

तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः। तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

शङ्कु पुं।

शाखापत्ररहिततरुः

समानार्थक:स्थाणु,ध्रुव,शङ्कु

2।4।8।2।3

फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु। स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शङ्कु पुं।

बाणाग्रायुधविशेषः

समानार्थक:शल्य,शङ्कु

2।8।93।1।2

वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्. प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्कु¦ पु॰ शकि--उण्।

१ स्वाणौ।

२ भत्स्यभेदे।

३ शल्यास्त्रेअमरः।

४ कीलके।

५ दशकोटिसंख्यायाम्

६ तत्-सङ्क्याते।

७ महादेवे।

८ कलुषे मेदि॰।

९ पत्त्रशिरा-जाले

१० मेढ्रे हेमच॰।

११ नखीनामद्रव्ये जटा॰।

१२ छाथापरिभाणार्थे काष्ठादिनिर्मिते,
“अर्काङ्गुला तुसूच्यग्रा काष्ठी द्व्यङ्गुगमूलिका। शङ्कुसंज्ञा भवेच्चैवतच्छायां परिकल्पयेत्” इत्युक्ते

१३ कीलभेदे च ज्यो॰ त॰।

१४ जनमेजयपुत्रभेदे भा॰ आ॰

९५ अ॰।

१५ नवरत्नान्त-[Page5078-a+ 38] र्गतकविभेदे। दिक्साधनार्थं सू॰ सि॰ शङ्कुश्च दर्शितोयथा
“शिलातलेऽम्बुसंशुद्धं वज्रलेपेऽपि वा समे। तत्र शङ्क्व-ङ्गुलैरिष्टैः समं मण्डलमालिखेत्। तन्मध्ये स्थापयेच्छङ्कुंकल्पनाद्द्वादशाङ्गुलम्। तच्छायाग्रं स्पृशेद् यत्र वृत्तेपूर्वापरार्द्धयोः। तत्र विन्दू विधायोभौ वृत्ते पूर्वापराभिधौ। तन्मध्ये तिमिना रेखा कर्त्तव्या दक्षिणोत्तरा। याम्योत्तरदिशोर्मध्या तिमिना पूर्वपश्चिमा। दिङ्मध्य-मत्स्यैः संसाध्या विदिशस्तद्वदेव हि”। तत्र दिक्सा-धनोधक्रमे प्रथममम्बु संशुद्धे जलवत् समीकृते शिला-प्रदेशे अपि वाथ वा तदभावेऽन्यत्र वज्रलेपे चत्वरादौघुण्टनादिना समस्थाने कृते शङ्क्वङ्गुलैः शङ्कस्थाङ्गुलवि-भागमानगृहीतैरभीष्टसंख्याकाङ्गुलैर्व्यासार्द्धरूपैर्वृत्तभव-क्रमात् लिखेत्। सर्वतः केन्द्राद्वृत्तपरिधिरेखा तुल्यास्यात् तथेत्यर्थः। ततस्तन्मध्ये तस्य वृत्तस्य केन्द्ररूपमध्येकल्पनया द्वादशसंख्याकाङ्गुलानि तुल्यानि यस्मिंस्तंद्वादशविभागाङ्कितमित्यर्थः। शङ्कुं समतलमस्तकपरि-धिकाष्ठदण्डं स्थाषयेत्। ततः पूर्वापरार्द्धयोर्दिनस्यप्रथमद्वितीयभागयोस्तच्छायःग्रं स्थापितशङ्कोश्छायान्त-प्रदेशो मण्डलपरिधौ यस्मिन् विभागे स्पृशेत्। दिनस्यप्रथमविभागेऽनुक्षणं छायाह्राद्वृत्ते यत्र प्रविशति दिन-स्यापरार्द्धे छायानुक्षणवृद्धेर्वृत्तं यत्र निर्गच्छतीत्यर्थः। तत्र निर्गमनप्रवेशस्थानयोरुभौ द्वौ विन्दू पूर्वापरसञ्ज्ञौक्रमेण वृत्ते परिधिरेस्वायां कृत्वा तन्मध्वे पूर्वापरविन्द्व-न्तरमध्ये तिमिना मत्स्येन रेखा कार्य्या सा दक्षिणो-त्तररेखा भवति। मत्स्यस्तु विन्द्वन्तरालसूत्रमितेनव्यासार्द्धेन विन्दुद्वयकेन्द्रकल्पनेन वृत्तद्वयं निष्पाद्य वृत्त-{??}अयसंयोगाभ्यां वृत्तद्वयपरिधिविभागाभ्यामन्तर्गतं मत्स्या-{??}रं स्थानं भवति। तत्रैकः संयोगो मुखं बाह्यवृत्त-भागसम्मार्जनेनापरसंयोगस्तु पुच्छमितरवृत्तभागद्वयसम्मा-र्जनेन सुखपुच्छावध्यृज्वी रेखा दक्षिणोत्तररेखा। तत्र विन्दोः सव्यं रेखाग्रं दक्षिणा दिक्। पश्चिमविन्दोःसव्यं रेखाग्रमुत्तरा दिक्। अनन्तरं पूर्ववृत्तं मत्स्यश्चसम्मार्जनीयः। शङ्कुरपि तत्स्थानान्निष्कास्य इतिकेवला दक्षिणोत्तररेखा स्थितेति तात्पर्य्यम्। दक्षिणो-त्तरदिशोर्मध्यस्थाने तिमिना दक्षिणोत्तररेखामितेत व्या-सार्द्धेन दक्षिणोत्तरस्थानाभ्यां पूर्ववत् प्रत्येकं वृत्तं वि-{??}य पूर्ववत् सिद्धेन मत्स्येतेत्यर्थः। पूर्वपसिमा रेखा[Page5078-b+ 38] कार्य्या। तत्र पूर्वविन्दोरासन्नं रेखाग्रं पूर्वा पश्चिम-विन्दोरासन्नं रेखाग्रं पश्चिमेति मत्स्यसम्मार्जने केवलापूर्वापररेखापि सिद्धा। अथ रेखासंयोगस्थानात् दिक्-साधनोपक्रमोक्तं पूर्ववृत्तमुल्लिखेत्। तद्वृत्तपरिधौ यत्ररेखा लग्ना तत्र दिगिति तद्वृत्तमध्यस्य दिक्चतुष्टयंवृत्ते सिद्धम्। तद्वत् यथा दक्षिणोत्तराभ्यां पूर्वापरासाधिता तत्प्रकारेणेत्यर्थः। एवकारोऽन्यप्रकारनिरा-सार्थकः। हि निश्चयेन। विदिशः कोणदिशो दिशांपूर्वादिसिद्धदिशां ये मध्यमत्स्या अघ्यवहितदिग्द्वयान्त-रोत्पन्ना लघवस्तैः संसाध्याः सम्यक्प्रकारेण साध्याः। रेखावृत्तसंयोगस्थत्वेन ज्ञेयाः” रङ्गना॰। छायाशब्दे

२९

८६ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्कु¦ m. (-ङ्कुः)
1. The trunk of a lopped tree.
2. A javelin, a spear.
3. A pin, a stake, a pale.
4. The gnomon of a dial, usually twelve fingers long.
5. A long thin column in front of a pagoda.
6. The penis.
7. A number.
8. The small fibres of a leaf.
9. The scate fish, (Raia Sankur, HAM.)
10. A sort of perfume, commonly Nak'hi.
11. A goose.
12. An ant-hill.
13. A goblin, a demon.
14. A Gand'harba attached to S4IVA.
15. A name of S4IVA.
16. KA4MA.
17. Sin.
18. Fear, terror.
19. The pointed head of an arrow, a shaft.
20. A measuring rod.
21. A large number “ten billions.”
22. Poison.
23. Sine of altitude, (in astro.) E. शकि to doubt or apprehend, aff. उण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्कुः [śaṅkuḥ], [शङ्क्-उण् Uṇ.1.36]

A dart, spear, spike, javelin, dagger; oft. at the end of comp; शोकशङ्कुः 'the dart of grief', i. e. sharp or poignant grief; तथैव तीव्रो हृदि शोकशङ्कुर्मर्माणि कृन्तन्नपि किं न सोढः U.3.35; R.8.93; Ki.16.15.

A stake, pillar, post, pale; महासुहयः सैन्धवः पड्वीशशङ्कून् संवृहेत् Bri. Up.6.1.13; निखातशङ्कुसंबद्धसैन्धवश्रेणिसंयुतम् Siva B.2. 53.

A nail, pin, peg; बभूवु सप्त दुर्धर्षाः खादिरैः शङ्कुभि- श्चिताः Mb.3.284.3; अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे (अक्षिपत्) R.12.95.

The sharp head or point of an arrow, barb; Dk.1.1.

The trunk (of a lopped tree), stump, pollard.

The pin of a dial.

A measure of twelve fingers.

A measuring-rod.

The sine of altitude (in astr.).

Ten billions.

The fibres of a leaf; यथा शङ्कुना सर्वाणि पर्णानि संतृण्णानि Ch. Up. 2.23.3.

An ant-hill.

The penis.

The skate-fish.

A demon.

Poison.

Sin; crime.

An aquatic animal, particularly, a goose.

N. of Śiva.

The Sāla tree.

A kind of perfume (नखी).

N. of Kāma, the god of love. -Comp. -कर्ण a. spike-eared; महावृक्षगलस्कन्धः शङ्कुकर्णो बिभीषणः Mb.1.152.4. (-र्णः) an ass. -च्छाया the shadow of a gnomon. -जीवा (in astr.) the gnomon sine. -तरुः, -वृक्षः the Sāla tree. -धानम् a hole for a pin. -पुच्छम् the sting (of a bee etc.). -फला, -फलिका the Śamī tree.

मुखः a crocodile.

a kind of leech. -मूली the 15th day of the light half of मार्गशीर्ष.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्कु m. (for 2. See. col. 2) fear , terror W.

शङ्कु m. (of doubtful derivation) a peg , nail , spike RV. etc.

शङ्कु m. a stick Hariv.

शङ्कु m. a stake , post , pillar MBh.

शङ्कु m. an arrow , spear , dart( fig. applied to the " sting " of sorrow , pain etc. ; See. शन्का-, शोक-श्etc. ) Hariv. Ka1v. Ra1jat.

शङ्कु m. a partic. weapon or any weapon L.

शङ्कु m. the pin or gnomon of a dial (usually twelve fingers long) Col.

शङ्कु m. a kind of forceps (used for the extraction of a dead fetus) Sus3r.

शङ्कु m. the fibre or vein of a leaf. ChUp.

शङ्कु m. the measure of twelve fingers L.

शङ्कु m. (in astron. ) the sine of altitude , S3u1ryas.

शङ्कु m. a partic. high number , ten billions (compared to an innumerable collection of ants) MBh. R.

शङ्कु m. the clapper of a bell , Govardh. ( L. also the penis ; poison ; Unguis Odoratus ; a partic. tree or the trunk of a lopped tree ; a partic. fish [accord. to some " the skate fish "] or aquatic animal ; a goose ; a measuring rod ; a राक्षस; N. of शिव; of a गन्धर्वattendant on शिव; of काम; of a नाग; = अंश)

शङ्कु m. N. of a man g. गर्गा-दि

शङ्कु m. of a दानवHariv.

शङ्कु m. of a वृष्णि(son of उग्र-सेन) MBh. Hariv. Pur.

शङ्कु m. of a son of कृष्णHariv.

शङ्कु m. of a poet(= शङ्कुकSee. ) Cat.

शङ्कु m. of a. Brahman Buddh.

शङ्कु n. N. of a सामन्A1rshBr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAṄKU I : A son of Hiraṇyākṣa. Śambara, Śakuni, Dvimūrdhā, Śaṅku and Ārya were the sons of Hiraṇyā- ksa (Agni Purāṇa, Chapter 19).


_______________________________
*3rd word in right half of page 688 (+offset) in original book.

ŚAṄKU II : A Yādava King who was present at the wedding of Draupadī. (Ādi Parva, Chapter 185, Verse 19).

He was a member of the company of Yādavas, who carried Subhadrā's dowry at her wedding with Arjuna. He was a mahārathī also. (Sabhā Parva, Chapter 14 and Ādi Parva, Chapter 220).


_______________________________
*4th word in right half of page 688 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaṅku in the Rigveda[१] and later[२] denotes a ‘wooden peg.’ Thus the term is used of the pags by which a skin is stretched out in the Śatapatha Brāhmaṇa,[३] and of the pin of hobbles (Paḍbīśa).[४] In the Chāndogya Upaniṣad[५] it may mean ‘stalk’[६] or ‘fibre of a leaf.[७]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्कु पु.
(काष्ठीय) नोकदार खपची, मा.श्रौ.सू. 2.1.2.14 (पत्नी द्वारा पति को खुजलाने के लिए प्रयुक्त), इसे यजमान की पत्नी के वस्त्रों में बांध दिया जाता है, बौ.श्रौ.सू. 6.5; (दीक्षा); महावेदि, सदस् आदि के क्षेत्र को चिह्नित करने के लिए भूमि में गाड़ी गई कील या खूंटी, आप.श्रौ.सू. 11.4.12; का.श्रौ.सू. 83.7-11 (सोम); प्राचीनवंश के दक्षिणी द्वार के पूर्वी यूप के दक्षिण की अोर जड़ी गई कील (खूंटी) भी, जिसमें बछड़ा बांधा जाता है। एक और खूंटी अज के लिए जड़ी जाती है, मण्डप के भीतर एक (खूंटी) मेमने के लिए, भा.श्रौ.सू. 11.6.11-12 (प्रवर्ग्य); (रज्जु के प्रवर्धन के आधे पर) एक खम्भा या लट्ठा), मा.श्रौ.सू. 1०.1.1.11; न. एक साम का नाम, पञ्च.ब्रा. 11.1०.11 सा.वे. 1.581 पर आधृत।

  1. 1. 164. 48.
  2. Śatapatha Brāhmaṇa, iii. 5, 1, 1;
    2, 2;
    6, 1, 3;
    xiii. 8, 4, 1;
    Aitareya Brāhmaṇa, iii. 18, 6, etc.
  3. ii. 1, 1, 10.
  4. Bṛhadāraṇyaka, vi. 2, 13 (Mādhyaṃdina = vi. 1, 13 Kāṇva), etc.
  5. ii. 23, 4.
  6. Max Müller, Sacred Books of the East, 1, 35.
  7. Little, Grammatical Index, 149, But cf. Oertel, Journal of the American Oriental Society, 16, 228, who compares śūcī in Jaiminīya Brāhmaṇa, ii. 10;
    Jaiminīya Upaniṣad Brāhmaṇa, i. 10, 3.
"https://sa.wiktionary.org/w/index.php?title=शङ्कु&oldid=504757" इत्यस्माद् प्रतिप्राप्तम्