शत्रुः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • शत्रुः, रिपुः, अरिः, विद्विष्, वैरिन्, परिपन्थिकः, प्रतिपक्षः, रिशः, कैरवः, द्विषः, अप्रियः, अभिघातिन्, अभियातिः, अभियोक्तृः, अरातिः, अलिः, असहनः, आरातिः, इभ्यः, ॠतिः, कणिकः, कल्लोलः, केतुः, जिघांसुः, जीवदः, दभीतिः, परः, परपक्षः, पारक्यः, परिपन्थकः, पृतनायुः, पृतन्युः, पूतनारिः, पूतनसूदनः, भट्टः, प्रतिघः, प्रतिसामन्तः, प्रतिशत्रुः, प्रत्यमित्रः, प्रत्यनीकः, भ्रातृव्यः, युधानः, वचलुः, वध्यः, वनुः, वारकिन्, वैरिः, वृषः, शतेरः, शत्रुजनः, शत्रुकः, हिंसनः, स्तरुः, प्लवः, विमतः, सृणिः, विपक्षः, सपत्नः, अमित्रः, अहितः।


नामम्[सम्पाद्यताम्]

  • शत्रुः नाम प्रतिपक्षः।

अरिः

अनुवादाः[सम्पाद्यताम्]

  1. तमिल्-ശത്രു
  2. അരി


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शत्रुः, पुं, (शद् शातने + “रुशदिभ्यां क्रुन् ।” उणा० ४ । १०३ । इति क्रुन् ।) स्वदेशादनन्त- रोऽव्यवहितैकविषयाभिनिवेशिराजः । यथा, -- “विषयानन्तरो राजा शत्रुर्मित्रमतः परम् ॥” इति, शातकः । निपातकारीत्यर्थः । तत्पर्य्यायः । रिपुः २ वैरिः ३ सपत्नः ४ अरिः ५ द्विशः ६ द्वेषणः ७ दुर्हृद् ८ द्विट् ९ विपक्षः १० अहितः ११ अमित्रः १२ दस्युः १३ शात्रवः १४ अभि- घाती १५ परः १६ अरातिः १७ प्रत्यर्थी १८ परिपन्थी १९ । इति चामरः ॥ वृषः २० प्रति- पक्षः २१ । इति जटाधरः ॥ द्विषन् २२ घातकः २३ द्वेषी २४ विद्विषः २५ हिंसकः २६ विद्विट् २७ अप्रियः २८ अभिघातिः २९ अहितः ३० दौर्हृदः ३१ । इति शब्दरत्ना- वली ॥ तस्य जयोपायो यथा, -- मत्स्य उवाच । “सर्व्वेषामप्युपायानां दानं श्रेष्ठतमं मतम् । स्वदत्तेनेह भवति दानेनोभयलोकजित् ॥ न सोऽस्ति राजन् दानेन वशयोगो न जायते । दानेन वशगा देवा भवन्तीह सदा वृणाम् ॥ दानमेवोपजीवन्ति प्रजाः सर्व्वा नृपोत्तम । प्रियो हिदानवान् लोके सर्व्वस्यैवोपजायते ॥ दानवानचिरेणैव तथा राजा परान् जयेत् । दण्डस्य भीतैस्त्रिदशैः समेतै- र्भागो धृतः शूलधरस्य यज्ञे । भवस्य पुत्त्रं ध्वजिनीपतिञ्च वरं शिशूनाञ्च भयात्तु दुस्थम् ॥” इति मात्स्ये १९९ अध्यायः ॥ सामभेदौ तत्तच्छब्दे द्रष्टव्यौ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शत्रुः [śatruḥ], [शद्-त्रुन् Uṇ.4.13]

An overthrower, a destroyer, conqueror.

An enemy, a foe, an adversary; क्षमा शत्रौ च मित्रे च यतीनामेव भुषणम् Subhāṣ; ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ Subhāṣ.

A political rival, a rival neighbouring king. -Comp. -उपजापः the secret whisperings of a foe, treacherous overtures of an enemy. -कर्षण, -दमन, -निबर्हण a. subduing, overpowering, or destroying enemies. -कुलम् the house of an enemy; शत्रुकुलं गच्छेत् Ms.8.93. -गृहम् N. of the 6th astrological mansion.-घ्नः 'destroyer of enemies', an epithet of a brother of Rāma and twin brother of Lakṣmaṇa, being a son of Sumitrā. He killed the demon Lavaṇa and colonized Mathurā. He had two sons named Subāhu and Bahusruta; see R.15. -निबर्हण a. foe-destroying.

पक्षः the party or side of an enemy.

an opponent, antagonist.

मर्दनः an epithet of Śatrughna.

a kind of pavilion. -लाव a. killing foes. -विग्रहः a hostile invasion. -विनाशनः an epithet of Śiva. -सह, -साह a. withstanding an enemy. -सेविन् a. serving a hostile prince; शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् Ms.7. 186. -हत्या foe-slaughter. -हन् a. foe-slayer.

"https://sa.wiktionary.org/w/index.php?title=शत्रुः&oldid=506990" इत्यस्माद् प्रतिप्राप्तम्