शर्करा

विकिशब्दकोशः तः
Jump to navigation Jump to search

शर्करा

स्थूलाक्षरैः युक्तः भागः==संस्कृतभाषा==

  • खण्डमोदकः, उपला, शुक्लोपला, माक्षिकशर्करा, शर्करा, दृढगात्रिका।

अर्थः[सम्पाद्यताम्]

  • शर्करा नाम खण्डमोदकः।

आङ्ग्लभाषा[सम्पाद्यताम्]

  • शर्करा - Sugar.
  • खण्डमोदकः - Candy.

अनुवादाः[सम्पाद्यताम्]

  • कन्नड - ಸಕ್ಕರೆ.
  • तेलुगु - చెక్కర, పంచదార.
  • हिन्दी - शकर. शक्कर.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्करा, स्त्री, खण्डविकृतिः । चिनी इति भाषा । तत्पर्य्यायः । सिता २ । इत्यमरः ॥ शुक्लोपला ३ शुक्ला ४ सितोपला ५ । इति रत्नमाला ॥ मीनाण्डी ६ श्वेता ७ मत्स्यण्डिका ८ अहि- च्छत्रा ९ सुसिकता १० गुडोद्भवा ११ । अस्या गुणाः । मधुरत्वम् । शीतत्वम् । पित्तदाह- श्रमरक्तदोषभ्रान्तिकृमिकोपनाशित्वञ्च । इति साधारणशर्करागुणाः ॥ * ॥ अथ शर्कराविशेषगुणाः । “स्निग्धा पुण्ड्रकशर्करा हितकरी क्षीणे क्षये- ऽरोचके चक्षुष्या बलवर्द्धनी सुमधुरा रूक्षा च वंशे- क्षुजा । वृष्या तृप्तिबलप्रदा श्रमहरा श्यामेक्षुजा शीतला स्निग्धा कान्तिकरी रसालजनिता रक्तेक्षुजा पित्तजित् ॥” इति पञ्चेक्षुशर्करागुणाः ॥ * ॥ “यावनाली हिमोत्पन्ना हिमाली हिमशर्करा । क्षुद्रशर्करिका क्षुद्रा गुडजा जलबिन्दुजा ॥ हिमजा शर्करा गौल्या सोक्ता तिक्ताति- पिच्छिला । वातघ्नी सारिका रुच्या दाहपित्तास्रदायिनी ॥” इति यावनालशर्करागुणाः ॥ * ॥ “शीतजान्या कर्करजा माधवी मधुशर्करा । माक्षिका शर्करा प्रोक्ता सिताखण्डश्च खण्डकः ॥ सिताखण्डोऽतिमधुरश्चक्षुष्यश्छर्द्दिनाशनः । कुष्ठव्रणकफश्वासहिक्कापित्तास्रदोषनुत् ॥ यवासशर्क्करा त्वन्या सुधामोदकमोदकः । तवराजः खण्डसारः खण्डजा खण्डमोदकः ॥” इति राजनिर्घण्टः ॥” * ॥ अपि च । “मत्स्यण्डिकाः खण्डसिता गुणश्रेष्ठा यथोत्तरम् । विमलाः शीतलाः स्निग्धा गुर्व्व्यः स्वादुतराः सराः ॥ वृष्यास्तृषाक्षतक्षीणरक्तपित्तानिलापहाः । मत्स्यण्डी ग्राहिणी बल्या कषाया वातजिद्- गुरुः ॥ खण्डं गुरु सरं रुच्यं वातघ्नं बलपुष्टिदम् । सितोपला सरा गुर्व्वी वातघ्नी न कफप्रदा ॥” इति पथ्यापथ्यविवेकः ॥ * ॥ अन्यच्च । “शर्करा ज्वरपित्तासृङ्मूर्च्छाछर्दितृषापहा । तृष्णाघ्नस्तवराजस्तु ज्वरदाहास्रपित्तनुत् ॥ लसिकाफाणितगुडखण्डमत्स्यण्डिकासिताः । निर्म्मला लघवो क्षेयाः शीतवीर्य्या यथोत्तरम् । यथा यथैषां वैमल्यं भवेच्छैत्यं तथा तथा ॥” इति राजवल्लभः ॥ * ॥ किञ्च । “खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता । सिता सुमधुरा रुच्या वातपित्तास्रदाहजित् । मूर्च्छाछर्दिज्वरान् हन्ति सुशीता शुक्र- कारिणी ॥ * ॥ भवेन्मधुसिता शीता रक्तपित्तहरी लघुः । सितोपला सरा लघ्वी वातपित्तहरी हिमा ॥ * ॥ मधुजा शर्करा रूक्षा कफपित्तहरी गुरुः । छर्द्यतीसारतृड्दाहरक्तकृत्तुवरा हिमा ॥ यथा यथैषां नैर्म्मल्यं मधुरत्वं तथा तथा । स्नेहलाघवशैत्यानि रसत्वञ्च तथा तथा ॥” इति भावप्रकाशः ॥ * ॥ उपला । कर्परांशः । (यथा, महाभारते । ३ । ५५ । २ । “ततो वायुर्म्महान् शीघ्रो नीचैः शर्क्करवर्षणः ॥”) शर्करान्वितदेशः । रोगभेदः । शकलम् । इति मेदिनी ॥ शर्करारोगस्य निदानचिकित्सादि- र्मूत्रकृच्छ्रशब्दे द्रष्टव्यः ॥ (कूर्म्मचक्रस्य पुच्छदेश- स्थितदेशविशेषः । यथा, मार्कण्डेये । ५८ । ३५ । “तारक्षुरा ह्यङ्गतकाः शर्कराः शाल्म- वेश्मकाः ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्करा स्त्री।

अश्मप्रायमृदधिकदेशः

समानार्थक:शर्करा,शर्करिल

2।1।11।1।1

स्त्री शर्करा शर्करिलः शार्करः शर्करावति। देश एवादिमावेववमुन्नेयाः सिकतावति॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

शर्करा स्त्री।

शर्करा

समानार्थक:शर्करा,सिता,उपला

2।9।43।2।4

सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके। मत्स्यण्डी फाणितं खण्डविकारः शर्करा सिता॥

 : फाणितम्

पदार्थ-विभागः : पक्वम्

शर्करा स्त्री।

कर्परांशः

समानार्थक:शर्करा

3।3।176।1।1

शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ। इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्करा¦ स्त्री शॄ--करन् कस्य नेत्त्वम्।

१ खण्डविकारे (चिनि)अमरः।

२ उपलखण्डे

३ कर्परखण्डे च (खापरा) मेदि॰। शर्कराः सन्तस्य मतुप् तस्य लुक्।

४ बहुशर्करायुते देशेअमरः।

५ रोगभेदे अश्मरीशब्दे

४९

५ पृ॰ दृश्यम्।

६ शकले च मेदि॰। शर्कराभेद गुणा राजनि॰ उक्ता यथा
“स्निग्धा पण्ड्रकशर्करा हितकरी क्षीणे क्षयेऽरोचकेचक्षुष्या बलवर्द्धनी सुमधुरा रूक्षा च वंशेक्षुजा। वृष्यातृप्तिबलप्रदा श्रमहरा श्यामेक्षुजा शीतला स्निग्धा कान्तिकरीरसालजनिता रक्तेक्षुजा पित्तजित्”
“यावनाली हि-मोत्पन्ना हिमाली हिमशर्करा। क्षुद्रशर्करिका क्षुद्रागुडजा जलबिन्दुजा। हिमजा शर्करा गौल्या सोक्ता॰तिक्ताऽतिपिच्छला। वातघ्नी सारिका रुच्या दाहपि-त्तास्रदायिनी।
“शीतजान्याकर्करजा माध्वी च मधु-शर्करा। माक्षिका॰ शर्करा प्रोक्ता सिताखण्डश्च ख-ण्डकः। सिताखण्डोऽतिमधुरश्चक्षुष्यश्छर्दिनाशनः। कुष्ठव्रणकफश्वासहिक्कापित्तास्नदोषनुत्। यवासशर्करात्वन्या सुधामोदकमोदकः। तवराजः खण्डसारःखण्डजा खण्डमोदकः”।
“मत्स्यण्डीकाः खण्ड-सिता गुणश्रेष्ठा यथोत्तरम्। विमलाः शीतलाःस्निग्धाः गुर्व्यः स्वादुतराः सराः। वृष्यास्तृषाक्षतक्षोणरक्तपित्तानिलापहाः। मत्स्यण्डी ग्राहिणी बल्याकषाया वातजित् गुरुः। खण्डं गुरु सरं रुच्यं वातघ्नंवलपुष्टिदम्। सितोपला सरा गुर्वी वातघ्नी न कफ-प्रदा”। पय्यापथ्यविवेकः
“शर्करा ज्वरपित्तासृङ्मूर्च्छाच्छर्दितृषापहा। तृष्णाघ्नस्ववराजस्तु ज्वरदाहास्रपित्त-नुत्। लसिका फाणितगुडखण्डमत्स्यण्डिकासिताः। निर्मला लषवो ज्ञेयाः शीतवीर्य्या यथोत्तरम्। यथा यथैषांवेमल्यं भवेच्छैत्यं तथा तथा” राजवल्लभः।
“खण्डन्तुसिकतारूपं सुश्वेतं शर्करा सिता। सिता सुमधुरा रुच्यावातपित्तास्रदाहजित्। मूर्च्छाच्छर्दिज्वरान् हन्ति सु-शीता शुक्रकारिणी। भवेन्मधुसिता शीता रक्तपित्त-हरो गुरुः। छर्द्यतीसारतृडदाहरक्तकृत्तुवरा हिमा। यथा यथैषां नैर्मल्यं मधुरत्वं यथा तथा। स्नेहलाघव[Page5088-b+ 38] शेत्यानि रसत्वञ्च तथः तथा” भावप्र॰ गुणग्रन्थे।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्करा¦ f. (-रा)
1. A potsherd, the fragrant of a broken pot.
2. A stony nodule, or gravel.
3. A soil or spot abounding in stony or gritty fragments.
4. Clayed or candid sugar.
5. A part, a piece.
6. Gravel, (the disease.) E. शॄ to injure, Una4di aff. करन् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्करा [śarkarā], [शॄ-करन् कस्य नेत्वम् Uṇ.4.3]

Candied sugar; द्राक्षा म्लानमुखी जाता शर्करा चाश्मतां गता । सुभाषित- रसस्याग्रे सुधा भीता दिवं गता ॥ Subhāṣ.

A pebble, gravel, small stone; पादुकान्तरप्रविष्टेव शर्करा Mk.5.

Gravelly mould; Mb.12.192.1 (com. शर्कराः कर्करसहिता मृत्).

Soil abounding in stony fragments, sand; अशर्करामविभ्रंशां समतीर्थामशैवलाम् (पुष्करिणीम्) Rām.3.73.11; सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् Mb.5.152.7; Bhāg.7.15.17.

A piece, fragment; कठिनकुचतटाग्रपाति पश्चादथ शतशर्करतां जगाम तासाम् Śi.7.69.

A potshered.

Any hard particle, as in जलशर्करा a nodule of water; i. e. hail.

The disease called gravel.

Golden earth; ह्रद इव तिमिनागसंवृतः स्तिमितजलो मणिशङ्खशर्करः Rām.2.81.16. (com. शर्कराः सुवर्ण- खनिमृत्तिकाः).

Comp. अचलः the ceremonial 'mountain of sugar' (a heap measuring eight Bhāras) given away by pious donors together with four smaller mountains called Viṣkambhaparvata. Three golden trees are planted on the mountain, while on the smaller mountains are placed idols of Cupid, Kubera and Brahmā as well as a golden image of the Surabhi cow. It was customary to give away similar mountains of butter, salt, paddy, cotton and sesamum seeds; दानान्तः- श्रुतशर्कराचलमथः खेनामृतान्धाः स्मरः N.21.154.

a sugarloaf (conical). -उदक sugar-water, water sweetened with sugar. -धेनुः a gift of sugar moulded in the shape of a cow; see शर्कराचल. -सप्तमी N. of an observance on the 7th day in the bright half of Vaiśākha.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्करा f. ( ifc. f( आ). )gravel , grit. pebbles , shingle , gravelly mould or soil (mostly pl. ) AV. etc.

शर्करा f. gravel (as a disease) Sus3r.

शर्करा f. hardening of the flesh ib.

शर्करा f. hardening of the ear-wax ib.

शर्करा f. ground or candied sugar Ka1v. VarBr2S. Sus3r.

शर्करा f. a fragment or piece of broken earthenware , potsherd Naish.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--sugar; फलकम्:F1: M. 7. १३.फलकम्:/F an article for श्राद्ध. फलकम्:F2: Ib. १७. ३०; ९२. 2; २६६. ५१; २७९. 9.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śarkarā, fem. plur., denotes in the later Saṃhitās[१] and the Brāhmaṇas[२] ‘grit’ or ‘gravel.’

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्करा स्त्री.
(बहु.व.) कंकड़, मा.श्रौ.सू. 1.5.2.15; जिससे अन्त्येष्टि स्थान = श्मशान का निर्माण किया जाता है, भा.पि.मे. 1.1०.9, एवं मृत के भस्मीकृत अस्थियों से युक्त कलश (जिससे) मूंदा जाता है, 2.4.15; श्रौ.को. (सं.) II.514 (प्रवर्ग्य)।

  1. Av. xi. 7, 21;
    Taittirīya Saṃhitā, v. 1, 6, 2;
    2, 6, 2;
    6, 4, 4, etc.
  2. Taittirīya Brāhmaṇa, i. 1, 3, 7;
    2, 1, 4;
    iii. 12, 6, atapatha Brāhmaṇa, ii. 1, 1, 8, etc.
"https://sa.wiktionary.org/w/index.php?title=शर्करा&oldid=504815" इत्यस्माद् पुनः प्राप्तिः