श्लोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोक, ऋ ङ संघाते । वर्ज्जने । सर्ज्जने । इति कवि- कल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सक०-च-सेट् । मघात इह छन्दोविशिष्टवाक्यरचनम् । ऋ, अशश्लोकत् । ङ, श्लोकते कविः । इति दुर्गा- दासः ॥

श्लोकः, पुं, (श्लोक्यते इति । श्लोकसंघाते + घञ् ।) पद्यम् । यशः । इत्यमरः ॥ * ॥ (वाक् । इति निघण्टुः । १ । ११ ॥ “श्रुश्रवणे ‘इण् भीका- पाशल्यतिमचिभ्यः कन्’ इति कन्प्रत्ययो वाहुलकाद्भवति गुणः कविलकादित्वाल्लत्वम् । श्रूयते इति श्लोकः । यद्वा श्लोक संघाते ‘पुंसि सज्ञायां घः ।’ श्लोक्यते पद्यते रूपेण संहन्यते कविभिः श्लोकः ।” इति तट्टीका ॥) श्लोकनाम कारणम् । यथा, -- “मा निपाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । वत्क्रौञ्चमिथुनादेकमवधोः काममोहितम् ॥ तस्येन्थं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः । गोकार्त्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥ चिन्तयन् स महाप्राज्ञश्चकार मतिमान् मतिम् । शिष्यञ्जैवाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥ पादबन्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । गोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥” इति रामायणे वाल्मीकीये बालकाण्डे २ स्वर्गः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोक पुं।

कीर्तिः

समानार्थक:यशस्,कीर्ति,समज्ञा,प्रथा,ख्याति,श्लोक,भग

3।3।2।2।1

आकाशे त्रिदिवे नाको लोकस्तु भुवने जने। पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥

पदार्थ-विभागः : , गुणः, शब्दः

श्लोक पुं।

पद्यम्

समानार्थक:श्लोक,वृत्त,छन्दस्

3।3।2।2।1

आकाशे त्रिदिवे नाको लोकस्तु भुवने जने। पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोक¦ वर्द्धने संघाते च भ्वा॰ आ॰ म॰ सेट् ऋदित् चङि न ह्रस्वः। श्लोकते अश्लोकिष्ट।

श्लोक¦ पु॰ श्लोक--अच्। चतुःपदात्मके कविकृते

१ वाक्यभेदे

२ य-शसि च अमरः
“क उत्तमश्लोकगुणानुवादात्” भाग॰

१ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोक¦ m. (-कः)
1. A verse, a stanza.
2. A stanza written in Anush- [Page737-b+ 60] tub'h metre.
3. Praising, praise.
4. An object of praise.
5. A pro- verb, a saying.
6. Fame, celebrity. E. श्लोक् to compose, (as veses,) aff. अच्; according to the Ra4ma4yan4a, irrly. derived from शोक sorrow: the first verse ever composed, having been the involun- tary expression of VA4LMI4KI'S grief at beholding a bird killed by a fowler.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोकः [ślōkḥ], [श्लोक्-अच्]

Praising in verse, extolling.

A hymn or verse of praise.

Celebrity, fame, renown, name; as in पुण्यश्लोक q. v.; वैदेहि तावदमलो भुवनेषु पुण्यः श्लोकः प्रशस्तचरितैरुपगीयतां ते Mv.7.26; उत्तमश्लोक˚ Bhāg.2.1.9.

An object of praise.

A proverb or saying.

A stanza or verse in general; श्लोकत्वमापद्यत यस्य शोकः R.14.7; समक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा । सो$नुव्याहरणाद्- भूयः शोकः श्लोकत्वमागतः ॥ Rām.1.2.4.

A stanza or verse in the Anuṣṭubh metre.

The dear and beloved people (इष्टमित्र ?); यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते Bri. Up.1.4.7. -Comp. -कारः a composer of Ślokas; P.III.2.23. -भू a. appearing in sound; Ait. Ār.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोक m. (prob. connected with 1. श्रुR. i , 2 , 33 gives a fanciful derivation fr. शोक, " sorrow " , the first श्लोकhaving been composed by वाल्मीकिgrieved at seeing a bird killed) sound , noise (as of the wheels of a carriage or the grinding of stones etc. ) RV.

श्लोक m. a call or voice (of the gods) ib.

श्लोक m. fame renown , glory , praise , hymn of praise ib. AV. TS. Br. BhP.

श्लोक m. a proverb , maxim MW.

श्लोक m. a stanza , ( esp. ) a partic. kind of common epic metre (also called अनु-ष्टुभ्See. ; consisting of 4 पादs or quarter verses of 8 syllables each , or 2 lines of 16 syllables each , each line allowing great liberty except in the 5th , 13th , 14th and 15th syllables which should be unchangeable as in the following scheme , 8. 1. 8-8. , the dots denoting either long or short ; but the 6th and 7th syllables should be long ; or if the 6th is short the 7th should be short also) S3Br. KaushUp. MBh. etc.

श्लोक m. N. of a सामन्A1rshBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śloka, in the plural, is found enumerated after the Upaniṣads, and before the Sūtras, in the list of literary types given in the Bṛhadāraṇyaka Upaniṣad.[१] In the Taittirīya Upaniṣad[२] the Śloka-kṛt appears: he is rather the ‘poet,’ as Max Müller[३] renders it, than merely one who ‘calls aloud,’ as the St. Petersburg Dictionary explains the term.[४] Exactly what is meant cannot be said: ‘verses’ generally may be intended, several kinds being preserved in the Brāhmaṇas and called Ślokas.[५]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोक न.
एक साम का नाम, पञ्च.ब्रा. 5.4.1० सा.वे. 1.439 पर।

  1. ii. 4, 10;
    iv. 1, 6 (Mādhyaṃdina = iv. 1, 2 Kāṇva);
    5, 11.
  2. iii. 10, 6.
  3. Sacred Books of the East, 15, 69
  4. In Av. v. 20, 7, the word has the sense assigned to it by the Dictionary.
  5. E.g., Satapatha Brāhmaṇa, xi. 3, 1, 5;
    5, 4, 12;
    xiii. 7, 1, 15;
    Aitareya Brāhmaṇa, viii. 22, 3: Aitareya Āraṇyaka, ii. 3, 8;
    Pañcaviṃśa Brāhmaṇa, xxiv. 18, 4;
    Taittirīya Āraṇyaka, viii. 1;
    Kauṣītaki Upaniṣad, i. 6, etc.
"https://sa.wiktionary.org/w/index.php?title=श्लोक&oldid=505084" इत्यस्माद् प्रतिप्राप्तम्