सन्तति

विकिशब्दकोशः तः

हिन्दी[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अनुवादा:[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्ततिः, स्त्री, (सम् + तन + क्तिन् ।) गोत्रम् । इत्यमरः ॥ (यथा, रघुः । १ । ६९ । “सन्ततिः शुद्धवंश्याहि परत्रेह च शर्म्मणे ॥”) पंक्तिः । (यथा, कथासरित्सागरे । ११ । ५१ । “तत् श्रुत्वा नेत्रयुगलात् सरागादश्रुसन्ततिम् । हृदयाद्धीरताञ्चापि समं कन्या मुमोच सा ॥”) विस्तारः । (यथा, भागवते । १ । ४ । १९ । “व्यदधात् यज्ञसन्तत्यै वेदमेकं चतुर्व्विधम् ॥”) परस्पराभवः । पुत्त्रः । कन्या । इति विश्वः ॥ (यथा, स्मृतिः । “सन्तत्या पितॄणन्तु शोधयित्वा परिव्रजेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तति स्त्री।

वंशः

समानार्थक:सन्तति,गोत्र,जनन,कुल,अभिजन,अन्वय,वंश,अन्ववाय,सन्तान,अनूक,निधन

2।7।1।1।1

सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ। वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः॥

 : सगोत्रः, ब्राह्मणादिवर्णचतुष्टयवाचकः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तति¦ स्त्री सन्तन्यते सम् + तन--क्तिच्।

१ गोत्रे अमरः।

२ पुत्रे

३ कन्यायाञ्च विश्वः। भावे क्तिन्।

४ विस्तारे

५ पङक्तौ

६ अविच्छिन्नधःरायाञ्च विश्वः। मलतिश्च दैशिकी कालिकी च। तत्र दैशिकी तैलादीनां,कालिकी ज्ञानसुखादीनाम्। तत्र दैशिकसलतित्वं स्वा-धिकरणदेशीयनानावच्छेदकवृत्तिधर्मत्वं तच्च मूर्त्तानामेवकालिकसलतित्वञ्च नानाकालीनकार्य्यमात्रवृत्तिधर्मत्वम्,मुक्तिवादे गङ्गेशः तच्च मूर्त्तामूर्त्तयोरत एव वृक्ष दु स्व-ज्ञानादिसन्ततिर्भवतीति तदुक्तं तत्रैव
“दैवदत्तवृत्तिदुःखत्वंदुःखत्वं वा स्वाश्रयसमानकालीनध्वंसप्रतियोगिवृत्ति{??}र्य्यंमात्रवृत्तिधर्मत्वात् सन्ततित्वाद्वेत्युक्त्वा सन्ततित्वंच नानाकालीनकार्य्यमात्रवृत्तिधर्मत्वम्” इत्युक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तति¦ f. (-तिः)
1. Race, lineage.
2. A son, a daughter, offspring, progeny.
3. Descent, succession.
4. A continuous line, a row, a range.
5. Extent, expanse, spreading, stretching.
6. Heap, multi- tude. E. सम् with, equally, तन् to spread, aff. क्तिच्।

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तति स्त्री.
(सम् + तन् + क्तिन्) 1. यदि किसी व्यक्ति को पवित्र अगिन्यों का नवीनीकरण करने के बाद पुनः उनके (पवित्र अगिन्यों के) आधान की आवश्यक पड़ जाय, तो तीनों अगिन्यों, अर्थात् आहवनीय, गार्हपत्य एवं दक्षिण पर दी जाने वाली छः आहुतियों का नाम (इस प्रकार प्रत्येक अगिन् में दो आहुतियां दी जाती हैं), मा.श्रौ.सू. 1.6.5.8; श्रौ.को. (अं.) 1.77; 2. अग्निवेदि में चिनी जाने वाली ईंट का नाम, मा.श्रौ.सू. 6.2.2.17. इनकी संख्या नौ होती हैं एवं इनका चयन तह के अग्र एवं पश्च भाग में किया जाता है।

"https://sa.wiktionary.org/w/index.php?title=सन्तति&oldid=507020" इत्यस्माद् प्रतिप्राप्तम्