सप्तमः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सप्तमः, त्रि, (सप्तन् + “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् । “नान्तादसंख्यादेर्मट् ।” ५ । २ । ४९ । इति डटो मडागमः ।) सप्तानां पूरणः । सातै इत्यादि भाषा । यथा, -- “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥” इति शुद्धितत्त्वम् ॥