पलाश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलाशम्, क्ली, (पलं गतिं कम्पनमित्यर्थः । अश्नुते व्याप्नोतीति । पल + अश + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) पत्रम् । इत्यमरः । २ । ४ । १४ ॥ (यथा, महाभारते । ३ । ३५ । २५ । “बृहच्छाल इवानूपे शाखापुष्पपलाशवान् ॥” पलाशस्य पलाशवृक्षस्य इदम् । पलाशपुष्पादि । यथा कुमारे । ३ । २९ । “बालेन्दुवक्राण्यविकाशभावात् बभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन ममागतानां नखक्षतानीव वनस्थलीनाम् ॥”)
पलाशः, पुं, (पलाशानि पर्णानि सन्त्यस्य । “अर्श आदिभ्योऽच ।” ५ । २ । १२७ । इत्यच् ।) स्वनाम- ख्यातवृक्षः । स तु ब्रह्मणः स्वरूपः । यथा, -- सूत उवाच । “अश्वत्थरूपो भगवान् विष्णुरेव न संशयः । रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक् ॥ दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः । दुःखापद्व्याधिदुष्टानां विनाशकारिणो ध्रुवम् ॥ ऋषय ऊचुः । कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः । एतत् कथय सर्व्वज्ञ ! संशयोऽत्र महान् हि नः ॥ सूत उवाच । पार्व्वतीशिवयोर्देवैः सुरतं कुर्व्वतोः किल । अग्निं ब्राह्मणवेशेन प्रेष्य विघ्नं कृतं पुरा ॥ ततस्तु पार्व्वती क्रुद्धा शशाप त्रिदिवौकसः । रेतःसेकसुखभ्रंशकम्पमाना तदा रुषा ॥ पार्व्वत्युवाच । क्रिमिकीटादयोऽप्येते जानन्ति सुरतेः सुखम् । तस्मान्ममसुखभ्रंशाद्यूयं वृक्षत्वमाप्स्यथ ॥ सूत उवाच । एवं सा पार्व्वती देवी अशपत् क्रुद्धमानसा । तस्माद्वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ॥” इति पाद्मोत्तरखण्डे १६० अध्यायः ॥ तत्पर्य्यायः । किंशुकः २ पर्णः ३ वातपोथः ४ । इत्यमरः । २ । १ । २९ ॥ याज्ञिकः ५ त्रिपर्णः ६ वक्रपुष्पः ७ पूतद्रुः ८ ब्रह्मवृक्षकः ९ ब्रह्मोप- नेता १० काष्ठद्रुः ११ । अस्य गुणाः । कषा- यत्वम् । उष्णत्वम् । क्रिमिदोषविनाशित्वञ्च ॥ तद्- बीजगुणः । पामकण्डूतिदद्रुत्वग्दोषनाशित्वम् ॥ तत्पुष्पगुणः । उष्णत्वम् । कण्डूकुष्ठनाशित्वञ्च ॥ तत्पुष्पं चतुर्विधं यथा, राजनिर्घण्टे । “रक्तः पीतः सितो नीलः कुसुमैस्तु विभाव्यते । किंशुकैर्गुणसाम्योऽपि सितो विज्ञानदः स्मृतः ॥” “पलाशः किंशुकः पर्णो याज्ञिको रक्तपुष्पकः । क्षारश्रेष्ठो वातपोथो ब्रह्मवृक्षः समिद्वरः ॥ पलाशो दीपनो वृष्यः सरोष्णो व्रणगुल्मजित् । कषायः कटुकस्तिक्तः स्निग्धो गुदजरोगजित् ॥ भग्नसन्धानकृद्दोषग्रहण्यर्शःक्रिमीन् हरेत् । तत्पुष्पं स्वादु पाके तु कटु तिक्तं कषायकम् ॥ वातलं कफपित्तास्रकृच्छ्रजिद्ग्राहि शीतलम् । तृड्दाहशमनं वातरक्तकुष्ठहरं परम् ॥ फलं लघूष्णं मेहार्शःक्रिमिवातकफापहम् । विपाके कटुकं रूक्षं कुष्ठगुल्मोदरप्रणुत् ॥” इति भावप्रकाशः ॥ पलाशभेदा । यथा, -- “तद्भेदे स्यात् किंशुलुकः किञ्चलो हस्तिकर्णकः ॥” इति शब्दरत्नावली ॥ (पलाशस्य फलपुष्पादौ क्ली ॥) शटी । (पलं मांशं अश्नातीति । पल + अश् + अण् । यद्वा, पले मांसे आशा यस्य ।) राक्षसः । इति मेदिनी । शे, २४ ॥ हरितः । मगधदेशः । इति शब्दरत्नावली ॥
पलाशः, त्रि, (पलवद्धरिद्बर्णेन अश्यते व्याप्यते इति । अश + घञ् ।) हरिद्वर्णविशिष्टः । इति मेदिनी । शे, २४ ॥ निर्द्दयः । इति धरणिः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलाश नपुं।
पत्रम्
समानार्थक:पत्र,पलाश,छदन,दल,पर्ण,छद
2।4।14।1।2
पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्. पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्.।
: नूतनपत्रम्, हिङ्गुपत्रम्
पदार्थ-विभागः : अवयवः
पलाश पुं।
पलाशः
समानार्थक:पलाश,किंशुक,पर्ण,वातपोथ
2।4।29।2।1
अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः। पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
पलाश पुं।
कचूरः
समानार्थक:शटी,गन्धमूली,षड्ग्रन्थिका,कर्चूर,पलाश
2।4।154।2।2
संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि। कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलाश¦ न॰ पल--गतौ भावे घञर्थे क पलं गतिं कम्प्रनम-श्नुते अश--व्याप्तौ अण् उप॰ स॰।
१ पत्त्रे अमरः पलंमांससवर्णं ब्रह्ममांसोत्पन्नत्वेन कारणतया तद्वा अश्नुतेअश--व्याप्तौ अण् उप॰ स॰।
२ स्वनामख्याते वृक्षभेदेतस्योत्पत्तिः शत॰ ब्रा॰
१
३ ।
४ ।
४
“मांसेभ्य एवास्य प-लाशः समभवत्। तस्मात्स बहुरसो लोहितरसीलोहितमिव हि मांसंतेनैवैनं तद्रूपेण समर्धयन्तरेखादिरा भवन्ति बाह्ये पालाशा अन्तराणि ह्यस्थीनि[Page4272-b+ 38] बाह्यानि मांसानि स एवैनांस्तदायतने दधाति”। मच ब्रह्ममांसजत्वात् ब्रह्मरूपः यथोक्तं शत॰ब्रा॰
६६ ।
३७
“ब्रह्म वै पलाशः” इति
“अश्वत्थरूपो भगवान्विष्णुरेव न मंशयः। रुद्ररूपो वटस्तद्वत् पलाशीब्रह्मरूपदृक्” पह्योत्त
१६
० अ॰। तत्पर्य्यायगुणादिभावप्र॰ उक्तं यथा
“पलाशः किंशुकः षर्णो याज्ञिकोरक्तपुष्पकः। क्षारश्रेष्ठो वातपोथो ब्रह्मवृक्षः समि-द्वरः। पलाशो दीपनो वृष्यः सरोष्णो व्रणगुल्मजित्। भग्नसन्धानकृद्दोषग्रहण्यर्शःकिमीन् हरेत्। तत्पुष्पंस्वादु पाके तु कटुतिक्तं कषायकम्। वातलं कफपि-त्तास्रकृच्छ्रजिद् ग्राह शीतलम्। तृड्दाहशमनंवातरक्तकुष्ठहरं परम्। फलं लवूष्णं मेहार्शःक्रिमि-वातकफापहम्। विपाके कटुकं रूक्षं कुष्ठगुल्मोदर-प्रणुत्”।
“नवपलाशपलाशवनम्” माघः
३ स्त्रियां
४ शट्यांच स्त्री। पलं मांसमश्नाति अश--भोजये अण् उप॰स॰।
५ राक्षसे पुंस्त्री॰ मेदि॰ स्त्रियां जातित्वात् ङीष्। तस्य मांसभोजित्वात्तथात्वम्।
६ हरिद्वर्णे च
७ मग-धदेशे पु॰ शब्दरत्ना॰
८ लाक्षायां स्त्री राजनि॰ यौरा॰ङीष्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलाश¦ mfn. (-शः-शा-शं)
1. Green.
2. Unfeeling, unmerciful, cruel. n. (-शं) A leaf. m. (-शः)
1. A tree bearing red blossoms, (Butea frondosa.)
2. A demon, a goblin.
3. A sort of Curcuma, (C. re- clinata, Rox.)
4. Ancient Beha4r or Magad'ha. f. (-शी)
1. Lac.
2. A kind of creeper. E. पल going, or flesh, अश् to spread, to eat, aff. अण् or अच्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलाश [palāśa], a.
Green.
Unkind, cruel. -शः A demon.
N. of the Magadha country.
N. of a tree, Butea Frondosa (also called किंशुक); नवपलाशपलाशवनं पुरः Śi.6.2.
शम् The flower or blossom of this tree; बालेन्दु- वक्राण्यविकाशभावाद् बभुः पलाशान्यतिलोहितानि Ku.3.29.
A leaf or petal in general; भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् Mb.1.1.89; विभिन्नमम्भोजपलाशशोभया Ki.4.27; चलत्पला- शान्तरगोचरास्तरोः Śi.1.21;6.2.
The green colour.
A finger (?) Gīrvāṇa; यत्पादपङ्कजपलाशविलासभक्त्या Bhāg.4.22.39. -शी Lac.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलाश/ पला m. a राक्षसL.
पलाश/ पला mfn. cruel( lit. = next) L. 1.
पलाश n. (for 1. See. under पल)a leaf , petal , foliage( ifc. f( ई). ) S3Br. Gr2S3rS. MBh. etc.
पलाश n. the blade of a sharp instrument(See. परशु-प्)
पलाश n. the blossom of the tree Butea Frondosa Pan5c.
पलाश n. = श्मशानL.
पलाश n. = परिभाषणL.
पलाश m. ( ifc. f( आ). )the tree -BButea -FFrondosa (its older name is पर्णSee. ) Br. MBh. etc.
पलाश m. Curcuma Zedoaria L.
पलाश m. N. of मगधL.
पलाश m. ( ifc. it denotes beauty g. व्याघ्रा-दि)
पलाश m. cochineal L.
पलाश m. red lac L.
पलाश mfn. green L. ( w.r. for पालाश).
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Palāśa, like Parṇa, denotes ‘leaf’ in the Brāhmaṇas.[१] It also[२] designates the tree Butea frondosa, of which Parṇa is the early name.