मार्जारः

विकिशब्दकोशः तः
मार्जारः

संस्कृतम्[सम्पाद्यताम्]

  • मार्जारः, बिडालकः, मार्जारीयः, मार्जालः, सूचकः, काहलः, कुन्दमः, क्रन्दनः, त्रिशङ्कुः, दिप्ताक्षः, दीनलो़चनः, नेत्रपिण्डः, परस्पः, बिडारकः, बिलालः, बिरालः, मन्दिरपशुः, मारजातकः, मार्जारकः, मूषकारातिः, विलालः, विरालः, वृषाहारः, व्याघ्रास्यः, शालावृकः।

नामम्[सम्पाद्यताम्]

  • मार्जारः नाम मार्जालः, जन्तुः। मनुजैः पाल्यमानः पशुः।

अन्यपदानि[सम्पाद्यताम्]

  1. अखुभुक्
  2. बिडालः
  3. वृषदम्शकम्
  4. ओतु

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्जारः, पुं, (मृज् + “कञ्जिमृजिभ्यां चित् ।” उणा० ३ । १३७ । इति आरन् चित् । “मृजे- र्वृद्धिः ।” इत्युज्ज्वलदत्तोक्तेर्वृद्धिश्च ।) रक्त- चित्रकः । इति राजनिर्घण्टः ॥ विडालः । इत्यमरः । २ । ५ । ६ ॥ (यथा, महाभारते । ५ । १५९ । १६ । “मार्ज्जारः किल दुष्टात्मा निश्चेष्टः सर्व्व- कर्म्मसु ॥”) खट्टासः । इति हेमचन्द्रः । ४ । ३६७ ॥ * ॥ मार्जारस्पर्शने दोषो यथा, -- “अभोज्यसूतिकाषण्डमार्जाराखुश्च कुक्कुरान् । पतितापविद्धचण्डालमृतहारांश्च धर्म्मवित् । संस्पृश्य शुध्यते स्नानादुदक्याग्रामशूकरौ ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥ * ॥ पारिभाषिकमार्जारो यथा, -- “दम्भार्थं जपते यश्च तप्यते यजते तथा । न परत्रार्थमुद्युक्तो मार्जारः परिकीर्त्तितः ॥” तस्यान्नमभोज्यं यथा, -- ‘अभोज्याः सूतिकाषण्डमार्जाराख्वश्वकुक्कुटाः ॥’ इति वामनपुराणे १५ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्जारः [mārjārḥ] लः [lḥ] , (लः) [मृज्-आरन् वा रस्य लः] A cat; कपाले मार्जारः पय इति कराँल्लेढि शशिनः K. P.1.

A pole-cat.

N. of some plants. -Comp. -कण्ठः a peacock.-करणम् a kind of coitus or mode of sexual enjoyment.-कर्णिका, -कर्णी N. of Chāmuṇḍā. -न्यायः a kind of doctrine held by a Vaiṣṇava sect. -लिङ्गिन् having the nature of a cat; ये च बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः । ते पतन्त्यन्धतामिस्रे Ms.4.197.

"https://sa.wiktionary.org/w/index.php?title=मार्जारः&oldid=506895" इत्यस्माद् प्रतिप्राप्तम्