कच्छपः
सम्स्कृतम्
[सम्पाद्यताम्]नाम
[सम्पाद्यताम्]- उरगविभागीयः जीविवर्गः. शास्त्रीय वर्गः- Testudinidae
अनुवादः
[सम्पाद्यताम्]यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कच्छपः, पुं, (कच्छं आत्मनो मुखसम्पुटं पाति स हि किञ्चिद्दृष्ट्वा शरीरे एव मुखसम्पुटं प्रवेशयति सम्पुटे हि कच्छशब्दः प्रसिद्धः । यद्वा कच्छे अनूप- देशे पाति आत्मानं रक्षतीति । कच्छ + पा + कर्त्तरि डः ।) स्वनामख्यातजलजन्तुः । काछिम् इति भाषा । तत्पर्य्यायः । कूर्म्मः २ कमठः ३ । इत्यमरः ॥ १ । १० । २१ । गूढाङ्गः ४ धरणीधरः ५ कच्छेष्टः ६ पल्वलावासः ७ कठिनपृष्ठकः ८ । पञ्चसुप्तः ९ क्रोडाङ्गः १० । इति शब्दरत्नावली ॥ पञ्चनखः ११ गुह्यः १२ पीवरः १३ जलगुल्मः १४ । इति जटाधरः । अस्य मांसगुणाः । वातहरत्वम् । शुक्रवृद्धिकारित्वम् । चक्षुर्हित- त्वम् । बलवर्द्धनत्वम् । मेधास्मृतिकारित्वम् । पथ्यत्वम् । शोथदोषनाशित्वञ्च । तस्य चर्म्म पित्त- नाशकम् । पादः कफहारकः । अण्डं स्वादु वाजी- करञ्च ॥ (अवतारविशेषः । यथाभागवते ८ । ७ । १० । “सुरासुरेन्द्रैर्भुजवीर्य्यवेपितं परिभ्रमन्तं गिरिमङ्गपृष्ठतः । बिभ्रत्तदावर्त्तनमादिकच्छपो मेनेऽङ्गकण्डूयनमप्रमेयः” ॥) नन्दीवृक्षः । इति राजनिर्घण्टः । कुवेरस्य निधि- विशेषः । मल्लस्य बन्धविशेषः । इति मेदिनी ॥ मदिरायन्त्रविशेषः । इति शब्दचन्द्रिका ॥ (ऋषि- विशेषः स तु विश्वामित्रपुत्त्रः ॥ यथा हरिवंशे २७ । ४७--५० ॥ “विश्वामित्रस्य पुत्त्रास्तु देवराजादयः स्मृताः । विख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु ॥ देवश्रवाः कतिश्चैव यस्मात् कात्यायनाः स्मृताः । शालावत्यां हिरण्याक्षो जज्ञे रेणौ तु रेणुमान् ॥ साङ्कतिर्गालवश्चैव मुद्गलश्चेति विश्रुताः । मधुच्छन्दादयश्चैव देवलश्च तथाष्टकः ॥ कच्छपः पूरितश्चैव विश्वामित्रस्य वै सुताः । तेषां ख्यातानि गोत्राणिकौशिकानां महात्मनां” ॥ नागविशेषः । यथा महाभारते १ । १२३ । ६८ । “कर्क्कोटकोऽथ सर्पश्च वासुकिश्च मुजङ्गमः । कच्छपश्चाथ कुण्डश्च तक्षकश्च महोरगः” ॥)