कमठः

विकिशब्दकोशः तः

आम्गलम्[सम्पाद्यताम्]

कमठः

नाम[सम्पाद्यताम्]

कूर्मःकच्छपः

अनुबादः[सम्पाद्यताम्]

फलकम्:विक्कीपीडिया

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमठः पुं, (के जले मठति वसतीति । क + मठ वासे + पचाद्यच् ।) कच्छपः । इत्यमरः । १ । १० । २१ ॥ (यथा महानाटके । “कमठपृष्ठकठोरमिदं धनु- र्मधुरमूर्त्तिरसौ रघुनन्दनः” ॥ मकठात्कामठं मांसं रामठेन समन्वितम् । यदि सर्पिःसमायुक्तं का सुधा वसुधातले” ॥ इत्युद्भटः ॥ * ॥ गुणादयोऽस्य कच्छपशब्दे ज्ञातव्याः ॥ भगवद्विष्णोर्द्वितीयावतारः । यथा हटयोगदीपिकायाम् । १ । १० । “अशेषतापतप्तानां समाश्रयमठो हठः । अशेषयोगयुक्तानामाधारकमठो हटः” ॥) वंशः । इति शब्दरत्नावली ॥ दैत्यविशेषः । मुनि- भाजनम् । इति हेमचन्द्रः ॥ शल्लकी इति धरणी ॥ (नृपविशेषः । यथा महाभारते । २ । ४ । २२ । “कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः । काम्बोजराजः कमठः कम्पनश्च महाबलः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमठः [kamaṭhḥ], [Uṇ.1.1]

A tortoise; संप्राप्तः कमठः स चापि नियतं नष्टस्तवादेशतः Pt.2.192.

A bamboo

A water-jar. -ठी A female tortoise or a small tortoise.-Comp. -पतिः a king of tortoises.

"https://sa.wiktionary.org/w/index.php?title=कमठः&oldid=461734" इत्यस्माद् प्रतिप्राप्तम्