काञ्चनम्
दिखावट

संस्कृतम्
[सम्पाद्यताम्]- काञ्जनम्, हाटकम्, स्वर्णम्, हेमन्, कनकम्, जातरूपम्, हिरण्यम्, सुरार्हम्, अग्निबीजम्, अग्निविर्यम्, अग्निसिखम्, अग्निभम्, अमृतम्, अरुणम्, अर्जुनम्, आग्नेयम्, आपिञ्जरम्, उज्ज्वलम्, उज्ज्वलनम्, औजसम्, कर्चूरम्, कर्बुरम्, कार्तस्वरम्, केसरम्, कृशनम्, कुसुम्भम्, गाङ्गेयम्, गारुडम्, गैरिकम्, गौरम्, चामीकरम्, चन्द्रम्, चारुचारम्, जाम्बवम्, तपनीयकम्, तामरसम्, तापनम्, तिरीटम्, दिप्तकम्, दीप्तम्, द्रव्यम्, नारजीवनम्, पिञ्जानम्, पिञ्जरम्, पीतम्, पुरटम्, पुरुदम्, भद्रम्, भर्मम्, भास्करम्, भस्मकम्, भूत्तमम्, मङ्गल्यम्, महाधनम्, महारजनम्, महारजतम्, मनोहरम्, रजतम्, रक्तवर्णम्, रत्नवरम्, लोभनम्, लोहवरम्, रिक्थम्।
नाम
[सम्पाद्यताम्]लिङ्ग्म्-
[सम्पाद्यताम्] काञ्चनम् इत्यस्य शब्दस्य रुपाणि
| एकवचनम् | द्विवचनम् | बहुवचनम् | |
|---|---|---|---|
| प्रथमा विभक्तिः | काञ्चनम् | काञ्चने | काञ्चनानि |
| सम्बोधनप्रथमा | काञ्चन | काञ्चने | काञ्चनानि |
| द्वितीया विभक्तिः | काञ्चनम् | काञ्चने | काञ्चनानि |
| तृतीया विभक्तिः | काञ्चनेन | काञ्चनाभ्याम् | काञ्चनैः |
| चतुर्थी विभक्तिः | काञ्चनाय | काञ्चनाभ्याम् | काञ्चनेभ्यः |
| पञ्चमी विभक्तिः | काञ्चनात् | काञ्चनाभ्याम् | काञ्चनेभ्यः |
| षष्ठी विभक्तिः | काञ्चनस्य | काञ्चनयोः | काञ्चनानाम् |
| सप्तमी विभक्तिः | काञ्चने | काञ्चनयोः | काञ्चनेषु |
अनुवादाः
[सम्पाद्यताम्]कोशप्रामाण्यम्
[सम्पाद्यताम्]यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काञ्चनम्, क्ली, (काञ्चते दीप्यते इति । कचि ङ दीप्तौ + ल्युः ।) स्वर्णम् । इत्यमरः । २ । ९ । ९५ ॥ (यथा मनुः । २ । २३९ । “अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्” ॥) पद्मकेशरम् । इति मेदिनी ॥ धनम् । नागकेशर- पुष्पम् । इति राजनिर्घण्टः ॥ (भावे ल्युट् । दीप्तिः । काञ्चनमये त्रि, यथा, सनुः । ५ । ११२ । “निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति” ॥)
