किलास
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किलासम्, क्ली, (किलं वर्णं अस्यति क्षिपति विकृतिं करोति इति यावत् । किल + अस + “कर्म्म- ण्यण्” । ३ । २ । १ । इति अण् ।) रोगविशेषः । छुली इति भाषा । तत्पर्य्यायः । सिध्मा २ । इत्यमरः । २ । ६ । ५३ ॥ सिध्मम् ३ । इति भरतः ॥ त्वक्पुष्पम् ४ त्वक्पुष्पी ५ । इति हेमचन्द्रः ॥ (“कुष्ठैकसम्भवं श्वित्रं किलासं दारुणञ्च तत् । निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ॥ वाताद्रुक्षारुणं पित्तात्ताम्रं कमलपत्रवत् । सदाहं रोमविध्वंसि ककाच्छ्वेतं घनं गुरु ॥ सकण्डु च क्रमाद्रक्तमांसमेदः सुचादिशेत् । वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ॥ अशुक्लरोमाबहुलमसंसृष्टं मिथो नवम् । अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा” ॥ इति वामटे निदानस्थाने १४ अध्याये ॥ अस्यौषधं यथा ॥ “कुष्ठं तमालपत्रं मरिचं समनःशिलं सकाशीशम् । तैलेन युक्तमुचितं सप्ताहं भाजने ताम्रे ॥ तेनालिप्तं सिध्मं सप्ताहाद्व्येति तिष्ठतो घर्म्मे । मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः” ॥ इति सिध्मलेपः ॥ * ॥ “किलासहन्ता मूलान्यावल्गुजानि लाक्षा च । गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः” ॥ इति श्वित्रे प्रलेपः ॥ “दारुणं वारुणं श्वित्रं किलासं नामभिस्त्रिभिः । विज्ञेयं त्रिविधं तच्च त्रिदोषं प्रायशश्च तत् ॥ दोषे रक्ताश्रिते रक्तं ताम्रं माससमाश्रिते । श्वेतं मेदः श्रिते श्वित्रं गुरुता चोत्तरोत्तरम्” ॥ असाध्यलक्षणमस्य यथा, -- “यत्परस्परतो भिन्नं बहु यद्रक्तलोमवत् । यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति” ॥ अस्य निदानं यथा, -- “वचांस्यतथ्यानि कृतघ्नभावो निन्दा भुराणां गुरुधर्षणञ्च । पापक्रिया पूर्ब्बकृतञ्च कर्म्म हेतुः किलासस्य विरोधिचान्नम्” ॥ इति चरके चिकित्सास्थाने ६ अध्याये ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किलास नपुं।
सिध्मरोगः
समानार्थक:किलास,सिध्म
2।6।53।1।1
किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका। कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम्.।
पदार्थ-विभागः : , सामान्यम्, अवस्था
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किलास¦ न॰ किल वर्ण्णेककिलमस्यति अस + अण्।
१ सिध्मरोगे(छुली)तदस्यास्ति अच्।
२ तद्विशिष्टे त्रि॰
“चन्द्रमसे कि-लासम्” यजु॰
३० ,
२१ ,।
“किलासं सिध्मरोगवन्तम्” वेददी॰। सिध्म च क्षुद्रकुष्ठभेदः यथाह सुश्रुतः
“क्षुद्रकुष्ठमतऊर्द्ध्वं वक्ष्याम इत्युपक्रमे
“कण्ड्वन्वितं श्वेतमपाकि सिद्मविद्यात्तनु प्रायश ऊर्द्धकाये” इति तस्य लक्षणादिकमुक्त्वा
“किलासमपि कुष्ठविकल्पएव। तत्त्रिविधं वातेन पित्तेनश्लेष्मणा चेति। कुष्ठकिलासयोरन्तरन्त्वग्तमेव किलास-मपरिस्रावि च। तद्वातेन मण्डलमरुणं परुषं परिध्वंसिच; पित्तेन पद्मपत्रप्रतीकाशं सपरिदाहञ्च। श्लेष्मणापिश्वेतं स्निग्धं बहुलं कण्डूमच्च। तेषु सम्बद्धमण्डलमन्ते-जातं रक्तरोम चाऽसाध्यमग्निदग्धञ्च। कुष्ठेषु रुक्त्वक्-[Page2055-b+ 38] सङ्कोचस्वापस्वेदशोफभेदकौण्यस्वरोपघाता वातेन। पा-कावदरणाङ्गुलिपतनकर्ण्णनासाभङ्गाक्षिरोगसत्वोत्पत्तयःपित्तेन। कण्डूवर्णभेदशोफास्रावगौरवाणि श्लेष्मणा”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किलास¦ m. (-सः)
1. A blotch, a scab.
2. A white leprous spot. E. किल् to play, affix क; आस from आस् to reject or throw, with अच् affix; or अस् to be, with अण् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किलास [kilāsa], a. Ved. Leprous; चन्द्रमसे किलासम् Vāj.3.21.
सम् A white leprous spot; इदं रजनि रजय किलासं पलितं च यत् Av.1.23.1.
A blotch, scab.
A kind of leprosy. -सिन् a. Leprous; P.V.2.128.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किलास mfn. leprous VS. xxx , 21 Ka1t2h. Ta1n2d2yaBr.
किलास n. a white leprous spot AV. i , 23 , 1 and 2 ; 24 , 2
किलास n. (in med.) a species of leprosy (resembling the so-called white leprosy in which the skin becomes spotted without producing ulcers) Ka1tyS3r. Sus3r.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Kilāsa is the name of a disease, ‘white leprosy,’ in the Atharvaveda[१] and the Vājasaneyi Saṃhitā, etc.[२] It resulted in the appearance of grey (palita) and white (śukla, śveta) spots all over the skin. Haug gave the same sense to alasa in the Aitareya Brāhmaṇa,[३] but this is doubtful. The fem. Kilāsī is taken by Max Müller to mean a ‘spotted deer’ in one passage of the Rigveda.[४]
- ↑ i. 23, 24.
- ↑ xxx. 21;
Pañcaviṃśa Brāhmaṇa, xiv. 3, 17;
xxiii. 11, 11;
Taittirīya Āraṇyaka, v. 4, 12. Cf. Zimmer, Altindisches Leben, 391;
Bloomfield, Hymns of the Atharvaveda, 266;
Jolly, Medicin, 98;
Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 68. - ↑ vi. 33, 5.
- ↑ v. 53, 1.