कुमुदम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

[[en: [[ml:

[[de: [[en: [[es: [[et: [[eu: [[fr: [[hi: [[hr: [[hu: [[li: [[lt: [[mg: [[ml: [[ne: [[nl: [[no: [[pt: [[ru: [[ta: [[tr:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमुदम्, क्ली, (कौ मोदते । मुद् “इगुपधेति” । ३ । १ । १३५ । कः ।) श्वेतोत्पलम् । हेला सु~दि इत्यादि भाषा ॥ (यथा, रामायणे ५ । ५५ । १ । “सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् । पुष्पश्रवणकादम्बमभ्रशैवलशाद्वलम्” ॥) तत्पर्य्यायः । कैरवम् २ । इत्यमरः । १ । १० । ३७ । चन्द्रकान्तम् ३ गर्द्दभम् ४ कुमुत् ५ । इति रत्नमाला ॥ धवलोत्पलम् ६ कह्लारम् ७ शीत- लकम् ८ शशिकान्तम् ९ इन्दुकमलम् १० चन्द्रि- काम्बुजम् ११ गन्धसोमम् १२ । इति शब्द- रत्नावली ॥ अपि च । “श्वेतं कुवलयं प्रोक्तं कुमुदं कैरवं तथा । कुमुदं पिच्छिलं स्निग्धं मधुरं ह्लादि शीतलम्” ॥ इति भावप्रकाशः ॥ अस्य गुणाः । शीतलत्वम् । स्वादुत्वम् । पाके तिक्तत्वम् । कफरक्तदोषदाह- श्रमपित्तनाशित्वञ्च । इति राजनिर्घण्टः । रक्त- पद्मम् । इति मेदिनी ॥ रूप्यम् ॥ इति हेम- चन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=कुमुदम्&oldid=506656" इत्यस्माद् प्रतिप्राप्तम्