कृकलास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकलासः, पुं, (कृकं कण्टं लासयति शोभान्वितं करोतीति । कृक + लस + णिच् अच् ।) जन्तु- विशेषः । का~कलास् इति भाषा ॥ (यथा, भागवते । ८ । १० । ११ । “शिवाभिराखुभिः केचित् कृकलासैः शशैर्नरैः” ।) तत्पर्य्यायः । सरटः २ । इत्यमरः । २ । ५ । १२ ॥ वेदारः ३ क्रकचपात् ४ तृणाञ्जनः ५ प्रतिसूर्य्यः ६ । इति त्रिकाण्डशेषः ॥ प्रतिसूर्य्यकयानकः ७ वृत्तिस्थः ८ कण्टकागारः ९ दुरारोहः १० द्रुमा- श्रयः ११ । इति राजनिर्घण्टः ॥ (सूर्य्यवंशोद्भवो- नृगनामको राजा ब्रह्मगोहरणेन कृकलासत्वं गतस्तद्विवरणं महाभारते १३ । ७० अध्याये । उक्तं यथा, -- “अत्रैव कीर्त्त्यते सद्भिर्ब्राह्मणस्वाभिमर्षणे । नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह ! ॥ अदृश्यत महाकूपस्तृणवीरुत्समावृतः । प्रयत्नं तत्र कुर्व्वाणास्तस्मात् कूपाज्जलार्थिनः ॥ श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते । ददृशुस्ते महाकायं कृकलासमवस्थितम् ॥ तस्य चोद्धरणे यत्नमकुर्व्वंस्ते सहस्रशः । प्रग्रहैश्चर्म्मपट्टैश्च तं बद्ध्वा पर्व्वतोपमम् । नाशक्नुवन् समुद्धर्त्तुं ततो जग्मुर्जनार्द्दनम् । खमावृत्योदपानस्य कृकलासः स्थितो महान् । तस्य नास्ति समुद्धर्त्तेत्येतत् कृष्णे न्यवेदयन्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकलास पुं।

सरटः

समानार्थक:सरट,कृकलास

2।5।12।3।2

उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका। सरटः कृकलासः स्यान्मुसली गृहगोधिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकलास¦ पुंस्त्री कृकं कण्ठं लासयति लस--णिच् अच्। सरटे(कां कलास) पक्षिणि अमरः स्त्रियां जातित्वात् ङीष्। कृकलासस्यानिष्टसूचकत्वं तच्छान्तिश्च शान्तिशब्दे दृश्यात्रिका॰ तालव्यान्तः पाठः पृषो॰।
“ददृशुस्ते महाकायंकृकलासमवस्थितम्”।
“खमावृत्योदपानस्य कृकलासःस्थितोमहान्” भा॰ आनु॰

७० अ॰। स्वार्थे क तत्रार्थे। स्त्रियां ङीष्। पृषो॰ कृकुलासोऽप्यत्र अमरटीका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकलास¦ m. (-सः) A lizard, chameleon. E. कृक the throat, and लस् to play, &c. affix अण्; also कृकलाश।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकलास m. a lizard , chameleon MaitrS. VS. S3Br. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛkalāsa denotes the ‘chameleon’ mentioned in the list of sacrificial victims at the horse sacrifice in the Yajurveda[१] and later.[२] The female chameleon, Kṛkalāsī, is also referred to in the Brāhmaṇas.[३] See Godhā and Śayaṇḍaka.

  1. Taittirīya Saṃhitā, v. 5, 19, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 21;
    Vājasaneyi Saṃhitā, xxiv. 40.
  2. Bṛhadāraṇyaka Upaniṣad, i. 5, 22.
  3. Jaiminīya Brāhmaṇa, i. 221 (Journal of the American Oriental Society, 18, 29), Sāṭyāyanaka in Sāyaṇa on Rv. viii. 91.

    Cf. Zimmer, Altindisches Leben, 95.
"https://sa.wiktionary.org/w/index.php?title=कृकलास&oldid=497027" इत्यस्माद् प्रतिप्राप्तम्