केश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केशः, पुं, (के मस्तके शेते । शी + अच् । अलुक्- समासः ।) मज्जजातोपधातुविशेषः । चुल् इति भाषा । स तु गर्भस्थबालकस्य अष्टाभिर्मासै- र्जायते । इति सुखबोधः । (केशादयस्तु पितृतो जायन्ते । यथा, सुश्रुते शारीरस्थाने तृतीये- ऽध्याये । “गर्भस्य केशश्मश्रुलोमास्थिनखदन्त- सिरास्नायुधमनीरेतःप्रभृतीनि स्थिराणि पितृ- जानि” ॥ भावप्रकाशे च । “केशाः श्मश्रु च लोमानि नखा दन्ताः सिरास्तथा । धमन्यः स्नायवः शुक्रमेतानि पितृजानि हि” ॥) तत्पर्य्यायः । चिकुरः २ कुन्तलः ३ वालः ४ कचः ५ शिरोरुहः ६ । इत्यमरः । २ । ६ । ९५ ॥ शिर- सिजः ७ मूर्द्धजः ८ अस्रः ९ वृजिनः १० । इति जटाधरः ॥ (रोगविशेषेणास्योत्पाटनानन्तरमुद्भ- वोपायाश्च । यथा, -- “वटावरोहकेशिन्योश्चूर्णेनादित्यपाचितम् । गुडूचीस्वरसेतैलमभ्यङ्गात्केशरोहणम्” ॥ इति आदित्यपाकगुडचीतैलम् ॥ * ॥ “मधुकेन्दीवरमूर्व्वा तिलाज्यगोक्षीरभृङ्गलेपेन । अचिराद्भवन्ति घनकेशा दृढमूलायतानृजवः” ॥ “चन्दनं मधुकं मूर्व्वा त्रिफला नीलमुत्पलम् । कान्तावटप्ररोहश्च गुडचीविषमेव च ॥ लौहचूर्णं तथाकेशी शारिवे द्वे तथैव च । मार्क्कवस्वरसेनैव तैलं मृद्वग्निना पचेत् ॥ शिरस्युत्पतिताः केशा जायन्ते घनकुञ्चिताः । दृढमूलाश्च स्निग्धाश्च तथा भ्रमरसन्निभाः ॥ नस्येनाकालपलितं निहन्यात्तैलमुत्तमम्” ॥ इति चन्दनाद्यं तैलम् ॥ * ॥ “तैलं सयष्टीमधुकैः क्षीरे धात्रीफलैः शृतम् । नस्ये दत्तं जनयति केशान् श्मश्रूणि चाप्यथ” ॥ पक्कावस्थापन्नस्यास्य कृष्णीकरणोपाया यथा, -- “त्रिफलाचूर्णसंयुक्तं लौहचूर्णं विनिक्षिपेत् । ईषत्पक्वे नारिकेले भृङ्गराजरसान्विते ॥ मासमेकन्तु निःक्षिप्य सम्यग्गर्मात् समुद्धरेत् ततः शिरो मुण्डयित्वा लेपं दद्याद्भिषग्वरः ॥ सम्बेष्ट्य कदलीपत्रै-र्मोचयेत्सप्तमे दिने । क्षालयेत्त्रिफलाक्वाथैः क्षीरमांसवसाशिनः ॥ कपालरञ्जनञ्चैव कृष्णीकरणमुत्तमम्” ॥ “उत्पलं पयसा सार्द्धं मासं भूमौ निधापयेत् । केशानां कृष्णकरणं स्नेहनञ्च विधीयते” ॥ इति वैद्यकचक्रपाणिसंग्रहे क्षुद्ररोगाधिकारे ॥) तत्समूहार्थवाचकाः शब्दाः यथा, -- “वालाः स्युस्तत्पराः पाशो रचनाभार उच्चयः । हस्तः पक्षः कलापश्च केशभूयस्त्ववाचकाः” ॥ इति हेमचन्द्रः ॥ * ॥ (कस्य जलस्य ईशः ।) वरुणः । ह्रीवेरम् । इति मेदिनी ॥ (अस्य पर्य्याया यथा, -- “वालं ह्रीवेरवर्हिष्ठोदीच्यं केशोऽम्बुनाम च” ॥ इति वैद्यकरत्नमालायाम् ॥) दैत्यविशेषः । इति हेमचन्द्रः ॥ (कस्य ब्रह्मणोऽपि ईशः । के जले शेते वा ।) विष्णुः । इति शब्दरत्नावली । (काशते प्रका- शते लोके लोकं काशयति वा । काश + अच् पृषोदरात् एत्वे साधुः । सूर्य्याग्निप्रभृतिरश्मिः । “ब्रह्म-विष्णु-रुद्र-संज्ञाः शक्तयः केशसंज्ञिताः” ॥ इति भागवतोक्तेः परब्रह्मशक्तिः । ब्रह्मा । “केशो योनौ तथा भावे हावलावण्ययोरपि । लम्पटे पुरुषे चैव प्रमदायां विशेषतः” ॥ “प्रजापतौ कचे चैव केशशब्दः प्रकीर्त्त्यते” ॥ इति महाभारतटीकाकृन्नीलकण्ठः ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केश पुं।
केशः
समानार्थक:चिकुर,कुन्तल,बाल,कच,केश,शिरोरुह,वृजिन,अस्र
2।6।95।2।5
उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्. चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥
अवयव : कचोच्चयः
: कुटिलकेशाः, ललाडगतकेशाः, शिखा, शिरोमध्यस्थचूडा, तपस्विजटा, रचितकेशः, निर्मलकेशः, केशात्कलापार्थः
पदार्थ-विभागः : अवयवः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केश¦ पु॰ क्लिश्यते क्लिश्नाति वा क्लिश--अच् ललोपश्च कस्यजलस्य ब्रह्मणो वा ईशोवा।
१ वरुणे, विश्वः।
२ ह्री-वेरे(वाला)
३ दैत्यभेदे, केशिनि
४ विष्णौ, हेम॰ काशतेकाश अच् पृपो॰।
५ सूर्य्याग्निप्रभृतिरश्मौ (केशिन्)शब्दे विवृतिः
“ब्रह्मविष्णुरुद्रसंज्ञाःशक्तयः केशसं-ज्ञिताः” इत्युक्ते ब्रह्मादौ
६ परब्रह्मशक्तिभेदे केशवशब्देविवृतिः। के शिरसि शेते शी--ड अलुक्स॰।
७ चिकुरं[Page2245-a+ 38] च। अस्थिवातुजातोपधातुविशेषोऽयं केशः। अस्मात्परवर्त्तिनः पाशादिशब्दाः केशभूयस्त्ववाचिनः।
“वालास्तु तत्पराः पाशो रचना भारौच्चयः। हस्तःपक्षः कलापश्च केशभूयस्त्ववाचकाः” हेमचन्द्रोक्तेः। केशस्तु पितृतोजायते यथाह सुश्रुतः
“गर्भस्य केशश्म-श्रुलोमास्थिनखदसिरास्नायुधमनीरेतःप्रभृतीनि स्थि-राणि पिपृजानि”
“केशाः श्मश्रु च लोमानि नखादन्ताः सिरास्तथा। धमन्यः स्नायवः शुक्रमेतानि पितृजानिहि” भावप॰। तस्य सर्व्वदा वृद्धिमत्त्वमाह तत्रैव
“शरीरे क्षीयमाणेऽपि बर्द्धेते द्वाविमौ सदा। स्वभावंप्रकृतिं कृत्या नखकेशाविति स्थितिः” चेतनानामधि-ष्ठानं मनोदेहश्च सेन्द्रियः केशलोमनखाग्रान्तर्मलद्रव्य-गुणैर्विना” तस्योत्पत्तिप्रकारः भावप्र॰ दर्शितो यथा
“ततोऽस्थ्यग्निना पुनः पच्यमानं पञ्चाहोरात्रात् सार्द्धंदण्डञ्च यावदस्थिवेव तिष्ठति। ततः पच्यमानात् तस्मा-त् मलो र्निगच्छति। स च व्यानवायुना प्रेरितः सिरा-मिः मार्गेणागत्याङ्गुलिषु नखाः तनौ लोमानि च भ-भन्तीति” अत्र लीमसाम्यात् केशस्यापि तनौ प्ररो-हादस्थिधातुजत्वमुन्नेयम्। एवं गर्भे षष्ठे मासि तस्यलोमसाम्यात् प्रादुर्भावः
“षष्ठे बलस्य वर्णस्य नखलोम्नांच सम्भवः” या॰ उक्तेः। जनानां केशवत्त्वे कारणम्शत॰ ब्राह्मणे उक्तं तद्वाक्यञ्च (केशिन्) शब्दे वक्ष्यते। केशनाशकारणञ्च इन्द्रलुप्तशब्दे दर्शितम् केशकौक्ल्यहे-तुस्तु
“क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः। पित्तंच केशान् पचति पलितं तेन जायते” सुश्रुतेनोक्तः
“लताप्रतानोद्ग्रथितैः स केशैः”। रघु॰
“अलक्तकाङ्कानि पदानि पादयोः”
“विकीर्णकेशासु परेतभूमिषु” कुमा॰
“केशः काशस्तवकविकाशः” सा॰ द॰
“केशेषु चमरीं हन्ति” सि॰ कौ॰।
“क्लुप्तकेशनखश्मश्रुः” मनुः
“केशश्मश्रु घारयतामग्र्या भवति सन्ततिः” शु॰त॰ दानधर्म्मे। केशश्मश्रु इत्यत्र श्मश्रुशब्दस्य घ्यन्तत्वेऽपिराजद॰ परनिपातः। तस्य मूलं कर्णा॰ जाहच्। केशजाह तन्मूले न॰। अस्य स्वाङ्गत्वात् उपसर्जनत्वेअतिकेशी सुकेशीत्यादौ स्त्रियां वा ङीष्। केशेषुप्रसितः(तत्परः) कन्। केशक तद्रचनातत्परे त्रि॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केश¦ m. (-शः)
1. Hair.
2. A name of VARUNA.
3. A kind of perfume: see वाला,
4. The name of a demon.
5. A name of VISHNU. f. (-शो)
1. A lock of hair on the crown of the head.
2. The indigo plant
3. Indian spikenard. E. क्लिश् to bind, अण् affix, and ल rejected; or क the head, and ईश् to rule, affix अच्; again, क water or hap- piness, and ईश the lord or master.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केशः [kēśḥ], [क्लिश्यते क्लिश्नाति वा क्लिश्-अन् लो लोपश्च Uṇ 5.33]
Hair in general; विकीर्णकेशासु परेतभूमिषु Ku.5.68.
Especially, the hair of the head; केशेषु गृहीत्वा or केश- ग्राहं युध्यन्ते Sk.; मुक्तकेशा Ms.7.91; केशव्यपरोपणादिव R.3.56;2.8.
The mane of a horse or lion.
A ray of light.
An epithet of Varuṇa.
A kind of perfume.
An epithet of Viṣṇu.
शी A lock of hair (on the crown of the head.)
An epithet of Durgā.
Comp. अन्तः the tip of the hair.
long hair hanging down, a lock of tuft of hair.
cutting of the hair as a religious ceremony; केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्वयधिके ततः ॥ Ms.2.65. -अन्तिक a.
extending to the end of the hair as far as the forehead.
relating to the ceremony of final tonsure. -अरिः m. N. of a plant (Mar. नागकेशर). -अर्हा f. N. of a plant (Mar. थोरनीली).-उच्चयः much or handsome hair. -कर्मन् n. dressing or arranging the hair (of the head) -कलापः a mass or quantity of hair. -कारम् a sort of sugar-cane.-कारिन् a. dressing or arranging the hair of the head; निहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिणीम् Mb.4.14.34. -कीटः a louse.
गर्भः a braid of hair.
an epithet of Varuṇa. -गृहीत a. seized by the hair. -ग्रन्थिः m. a tie of hair; Bhāg.1.39.14. -ग्रहः, -ग्रहणम् pulling the hair, seizing (one) by the hair (both in amorous sports and in fighting); केशग्रहः खलु तदा द्रुपदात्मजायाः Ve.3.11, 29; Me.52; so यत्र रतेषु केशग्रहाः K.8 (that is, not in battles). -घ्न morbid baldness. -छिद् m. a hair-dresser, barber. -जाहम् the root of the hair. -धारणम् keeping (not cutting) the hair; दूरेवार्ययनं तीर्थं लावण्यं केशधारणम् Bhāg.12.2.6. -प्रसारः cleaning the hair; Bhāg.1. 59.46. -पक्षः, -पाशः, -हस्तः much (or ornamented) तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः Ku.1.48;7. 57; Śi.8.27. 'the hair for a hand' (केशहस्तः) is another interpretation; cf. कचपक्ष, कचहस्त &c.
बन्धः a hair-band; (विराजसे) मुकुटेन विचित्रेण केशबन्धेन शोभिना Mb. 4.6.12.
a particular position of hands in dancing.-भूः, -भूमिः f. the head or any other part of the body on which hair grows. -प्रसाधनी, -मार्जकम्, -मार्जनम् a comb. -रचना dressing the hair; कुर्वन्ति केशरचनामपरा- स्तरुण्यः Ṛs.4.15. -लुञ्चकः a Jaina ascetic. -वपनम् shaving or cutting the hair. -वेशः a tress of fillet of hair. -वेष्टः the parting of the hair. -व्यपरोपणम् putting the hair; चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव R.3.56.-शूला a harlot (वेश्या); केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये Mb.3.19.52. -शूलम् disease of the hair; Mb.3; hair on the head and face केशश्मश्रु वपति Mbh. on I.3.1.-संवाहनम् dressing of hair; cf. पादसंवाहने वज्री केशसंवाहने फणी । अहो भाग्यं पुरन्ध्रीणां दधिसंमथने रविः ॥ Subh. Ratn. (स्त्रीप्रशंसा 17).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केश m. ( क्लिश्Un2. ; ifc. आor ईPa1n2. 4-1 , 54 )the hair of the head AV. VS. S3Br. etc.
केश m. the mane (of a horse or lion) MBh. i , 8008 S3ak. Sch.
केश m. a kind of perfume( ह्रीवेर) L.
केश m. N. of a mineral VarBr2S. lxxvii , 23
केश m. N. of वरुणL.
केश m. of विष्णुL.
केश m. of a दैत्यL.
केश m. of a locality Romakas.
केश m. ( pl. )the tail (of the Bos grunniens) Pa1n2. 2-3 , 36 Ka1s3. ( v.l. वाल)
केश/ के n. " whose lord is प्रजा-पति(See. 3. क)" , the lunar mansion रोहिणी.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Keśa, ‘hair of the head,’ is repeatedly mentioned in the later Saṃhitās and Brāhmaṇas.[१] The hair was a matter of great care to the Vedic Indian, and several hymns of the Atharvaveda[२] are directed to securing its plentiful growth. Cutting or shaving (vap) the hair is often referred to.[३] For a man to wear long hair was considered effeminate.[४] As to modes of dressing the hair see Opaśa and Kaparda; as to the beard see Śmaśru.
- ↑ Av. v. 19, 3;
vi. 136, 3, etc.;
Vājasaneyi Saṃhitā, xix. 22;
xx. 5;
xxv. 3;
Śatapatha Brāhmaṇa, ii. 5, 2, 48, etc. - ↑ vi. 136. 137. Cf. Zimmer, Altindisches Leben, 68;
Bloomfield, Hymns of the Atharvaveda, 536, 537. - ↑ Av. viii. 2, 17;
Satapatha Brāhmaṇa, v. 5, 3, 1, etc. Cf. Oldenberg, Religion des Veda, 425 et seq. - ↑ Śatapatha Brāhmaṇa, v. 1, 2, 14. But cf. Vincent Smith, Indian Antiquary, 34, 203.