कोश

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोशः, पुं, (कुश्यते संश्लिष्यते । कुश संश्लेषणे + घञकर्त्तरि चेति अधिकरणादौ घञ् ।) अण्डम् । इति शब्दरत्नावली ॥ कुष्यते आकृष्यते आय- स्थानेभ्यः कोषः । कुष ग निष्कर्षे घञ् कोषो मूर्द्धन्यान्तः तालव्यान्त इत्यन्ये । इति भरतः । कृताकृतं हेमरूप्यम् । तत्पर्य्यायः । हिरण्यम् २ । इत्यमरः । २ । ९ । ९१ ॥ कृताकृतं हेम- रूप्यञ्च मिलितं प्रत्येकञ्च कोशादिद्वयवाच्यम् । कृतमावर्त्तितं अकृतमाकरोत्थं चूर्णं घटिताघ- टितमिति स्वामी ॥ कृतमाभरणीकृतं अकृतं चूर्णादिरूपमाकरोत्थमिति केचित् । (आवरण- विशेषः । यथा, भागवते । २ । १ । ३४ । “अव्यक्तमाहुर्हृदयं मनश्च स चन्द्रमाः सर्व्वविकारकोशः” ॥ मुकुलम् । यथा, रघौ । ३ । ८ । “तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम्” ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोश पुं-नपुं।

अण्डम्

समानार्थक:पेशी,कोश,अण्ड

2।5।37।2।2

प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः। पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

कोश पुं।

भण्डारम्

समानार्थक:कोश,कोश,कोष

2।8।17।2।4

अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

कोश पुं।

घटिताघटितहेमरूप्यकम्

समानार्थक:कोश,हिरण्य

2।9।91।1।1

स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते। ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम्.।

पदार्थ-विभागः : धनम्

कोश पुं-नपुं।

नूतनकलिका

समानार्थक:क्षारक,जालक,जाल,कोश,कोष

3।3।219।1।1

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

पदार्थ-विभागः : अवयवः

कोश पुं-नपुं।

खड्गपिधानम्

समानार्थक:परीवार,कोश,कोष

3।3।219।1।1

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

कोश पुं-नपुं।

भण्डारम्

समानार्थक:कोश,कोश,कोष

3।3।219।1।1

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

कोश पुं-नपुं।

दिव्यम्

समानार्थक:कोश,कोष

3।3।219।1।1

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोश(षं)¦ पुंन॰ अद्धच्चादि कुश्(ष)--आधारादौ घञ्[Page2268-b+ 38] कर्त्तरि अच् वा।

१ अण्डे शब्दर॰। कृताकृतयोः

२ हेमरूप्ययोः अमरः।

३ कुट्मले मुकुले

४ खङ्गपिधाने। (खाप)

५ समूहे

६ दिव्यभेदे अमरः। मूर्द्धन्यमध्यस्तुअभिधानरूपे

७ शब्दपर्य्यायज्ञापकग्रन्थे मेदि॰

८ धना-द्यागारे

९ पानपात्रे चषके

१० शिम्बायां हेमच॰। षनसादिमध्यस्थे (कोया) ख्याते

११ पदार्थे धर॰। शब्दान्तरपूर्व्वस्तु गोलकाकारे

१२ पदार्थे यथा
“नेत्र-कोषः” क्षीरस्वामी। तत्र खङ्गपिधाने
“वैयाघ्रकोषेनिहितो हेमचित्रत्सरुर्म्महान्”।
“पृथुलश्चित्रकोशश्च” तस्य हेममये कोषे सुतप्ते षावकप्रभे” भा॰ वि॰

४२ अ॰। बहुशः प्रयोगः। धनागारे
“निःशेषविश्राणितकोषजातम्” मुकुले
“मामक्षिणोद् यत्र विभिन्नकोशैः”
“भिन्नाद्रिगैरिक-तटा इव दन्तकोशाः” रघुः

१३ त्वगाद्यावरणे कोषवदाव-रकत्वात्
“शरीरकोशाद्यत्तस्याः पार्वत्यानिःसृताम्बिका। कौशिकीति समाख्याता ततोलोकेषु गीयते” देवीमा॰।

१४ पिधानमात्रे
“सुजातयोः पङ्कजकोशयोः श्रियम्” रघु।
“कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात्” सुश्रु॰
“योवा अयंद्वीपः कुवलयकमलकोषाभ्यन्तरकोशः:” भाग॰

५ ।

१६ ।

६ । कोश(ष)पानदिव्यञ्च वीरमि॰ दर्शितोयथा
“अथकोश(ष)विधिः। तत्र
“अतः पं प्रवक्ष्यामि कोश(ष)स्यविधिमुत्तमम्। शास्त्रविद्भिर्यथा प्रोक्तं सर्वकाला-विरोधिनम्। पुर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्यच। सशङ्कस्याऽव्यसनिनः कोशपानं विधीयते। इच्छतःश्रद्दधानस्य देवव्राह्मणसन्निधाविति”। सशङ्कस्य असत्येनदिव्यकरणेऽनिष्टशङ्कायुक्तस्य कोशपानम्। उग्रदेवता-स्नानोदकषानं देवतास्नानोदकञ्च प्रसृतित्रर्य ग्राह्यमित्याहचिष्णुः
“उग्रान् देवान् समभ्यर्च्य तत्स्नानोदकात्प्रसृ-तित्रयं पिबेदिदम्मया न कृतमिति व्याहरन् देवतामिमुखः” इति। याशवक्ल्योऽपि
“देवानुग्रान् समभ्यर्च्य तत्स्ना-नोदकमाहरेत्। संश्राव्य पाययेत्तस्माज्जलात्तु प्रसृतित्रय-मिति”। उग्रान्देवान्दुर्गादित्यादीन्। तेषामन्यतमं देवंप्राड्विवाकः सोपवासो गन्धपुष्पादिभिः सम्प्रूज्य स्नापयि-त्वा तत्स्नानोदकं दिव्यदेशन्नयेदित्यर्थः। नीत्वा च तत्रनिधाय धर्मावाहनादि शोध्यशिरसि पत्रारोपणार्न्तं सर्व-दिव्यसाधारणविधिं विधाय देवतायतनसमीपे मण्डलञ्चविधाय तत्र शोध्यं प्राङमुखं स्थापयित्वा तमसत्येनैतद्दि-व्यकरणेऽनिष्टं संश्राव्य जलविधानोक्तेन
“तोय! त्वंप्राणिनांप्राणः” इत्यादिना मन्त्रेणाभिमन्त्र्य पूर्वनिहितोदवात् प्र[Page2269-a+ 38] सृतित्रयं पाययेत्। शोध्यश्च जलविधानोक्तेन
“सत्यानृत-विभागस्य” इत्यादिना मन्त्रेणाभिमन्त्र्य पिवेत्। तथा चनारदः
“तमाहूयाभिशस्तन्तु मण्डलाभ्यन्तरे स्थितम्। आ-दित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयमिति”। पिताम-होऽपि
“प्राङ्मुखं कारिणं कृत्वा पाययेत् प्रसृतित्रयम्। पूर्व्वोक्तेन विधानेन स्नानमात्रोचितं शुचिमिति”। का-रिणं दिव्यकारिणं शोध्यमिति यावत्। पूर्व्वोक्तेन लक-लदिव्यसाधारणतया प्रागुक्तेनेत्यर्थः। नारदोऽपि
“अर्च-यित्वा तु तं देवं प्रक्षाल्य सलिलेन तु। एनश्च श्रावयि-त्वा तु पाययेत् प्रसृतित्रयमिति”। एनः पापम्। तच्च तत्-प्रलापाभिधानमुखेन तेनैव दर्शितम्।
“स्वेच्छया यः पिबेत्को-शन्न क्वचिद्दूषितो नरः। न संवदेन्नरो लोभात् क्षवी भ-वति दुर्मतिः। जानानः कामकारेण कोशम्पोत्वा विसंव-देत्। दरिद्रो व्याधितो मूर्खः सप्तजन्मनि जायते” इति। सशिरस्केऽभियोगे अभियोक्तुः श्राव्यमनिष्टमप्याह सए-ब
“बलात्कोर्श हि यो दत्त्वा हितमिच्छेत चात्मनः। स विनाशो भवेत्तस्य तच्च कार्य्यंन सिह्यतीति”। एवं यस्यकस्यचिदुग्रदेवस्य स्नानोदकमाहृथ कोशानुष्ठाने प्राप्ने नि-यमार्थमाह पितामहः
“भक्तो यो यस्य देवस्य पाययेत्त-स्य तज्जलम्। समभावे तु देवानामादित्यस्य तु पाय-येत्। दुर्गायाः पाययेच्चौरान् ये च शस्त्रोपजीविनः। भास्करस्य तु यतोयं ब्राह्मणं तन्न पाययेदिति”। उग्रदे-वतायुधानि स्नापयित्वा तदुदकं स्वल्पेऽपराधे षाययेत्। तथा च कात्यायनः
“स्वल्पेऽपराधे देवानां पाययि-स्वायुधीदकम्। पाय्योविकारे चाशुद्धो नियम्यः शुचिर-न्यथेति। पाय्यः पाययितत्यः। नियम्यो दण्ड्यः। आ-युधग्रहणं ताम्रादिनिर्मितादित्यमण्डलस्याप्युपलक्षणम्अतएव वृहस्पतिः
“यद्भक्तः सोऽभियुक्तः स्यात्तदेवायुधम-ण्डलम्। प्रक्षाल्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयमिति” अत्र विशेषमाह पितामहः
“दुर्गायाः पाययेच्छूलमा-दिव्यस्य तु मण्डलम्। अन्येषागपि देवानां स्नापयेदा-युधानि त्विति”। कृतकोशपानस्य किं तत्कालमेव शुद्धि-र्नेत्याह कात्यायनः
“अथ दैवविसंवादस्तिसप्ताहात्तुदापयेत्। अभियुक्तं प्रयत्नेन तमर्थं दण्डमेवचेति”। दैव-विसंवादः दैविकव्याध्युद्भवः। दैविकव्याध्यादीनपि सएव दर्शयति
“ज्वरातिसारविस्फोटाः शूलास्थिपरिपी-डनम्। नेत्ररुग्भालरोगश्च तथोन्मादः प्रजायते। सि-रोरुभुजभङ्गश्च दैविका व्याधयोनृणामिति”। शुद्धिकाला-[Page2269-b+ 38] वधिं विष्णुरप्याह
“यस्य पश्येद्द्विसप्ताहात् त्रिसप्ताहा-दयापि वा। रोगोऽग्निर्ज्ञातिमरणं राजदण्डमयापि वा। तमशुद्धं विजानीयात् तथा शुद्धं विवर्द्धयेत्। दिव्ये चशुद्धं पुरुषं सत्कुर्य्याद्धार्मिको नृपः” इति। पितामहोऽ-पि
“त्रिरात्रात्सप्तरात्राद्वा द्विसप्ताहादथापि वा। वैकृतंयस्य दृश्येत पापकृत्स तु मानवः। तस्यैकस्य न सर्व्वस्यजनस्य यदि तद्भवेत्। रोगोऽग्निर्ज्ञातिमरणं सैव तस्यविभावनेति”। तदोगवैकृतं कृतकोशपानस्यैकस्य यदि भ-वेत् तदैव स पापकृदिति न, किन्तु तदीयसर्व्वस्य जनस्यमध्येऽपि यदि कस्यचिद्भवेत् तदापीत्यर्थः। अतएव वृहस्पतिः
“सप्ताहाद्वा द्विसप्ताहाद्यस्यार्त्तिर्न प्रजायतेपुत्रदारधनानाञ्च स शुद्धः स्यान्न संशयः” इति। याज्ञव-ल्क्योऽपि
“अर्वाक्चतुर्दशाद{??}नो यस्य नो राजदैविकम्। व्यसनञ्जायते घोरं स शुद्धः स्यान्न संशयः” इति। एतेषाञ्चत्रिरात्रादीनां पक्षाणाम् अभियीगाल्पत्वमहत्त्वाभ्यां व्य-वस्था ज्ञातव्या। अवधेरूर्द्धन्तु रोगाद्युद्भवेऽपि न परा-जयः तथा च नारदः
“ऊर्द्ध्वं यस्य द्विसप्ताहाद्वैकृतन्तुमहद्भवेत्। नाभियोज्यस्तु विदुपा कृतकालव्यतिक्रमादि-ति”। अत्र द्विसप्ताह इत्यवत्बिकालमात्रोपलक्षणम् कृत-कालव्यतिक्रमहेतोरभिधानात्। तेनैकविंशतिरात्रस्याव-धिकालत्वाश्रयणे चतुर्दशरात्रादूर्द्धमपि वैकृतोत्पत्तौ प-राजयः एवं त्रिरात्रसप्तरात्रात् प्रागपि वैकृतोत्पत्तौ-पराजय इति सिद्धम्

१५ कोषवदारकेषु वेदान्त प्रसिद्धेषु अन्नमयादिषु पञ्चसु पदार्थे-वु अन्नमय प्राणमयः मनोमयः विज्ञानमयः आनन्दमयःइत्येते पञ्च पदार्था अनात्मकाः तेषाप्तात्मतोविवेकार्थं वेदा-न्तिभिः कल्पिताः। तत्र पञ्चकोषविवृतिः विवेकचूडामणौ
“देहोऽयमन्नमवनोऽन्नमयस्तु कोषश्चान्नेन जीवति वि-नश्यति तद्विहीनः। त्वक्चर्म्ममांसरुधिरास्थिपुरीषराशिर्नायं स्वयं भवितुमर्हति नित्यशुद्धः। पूर्व्वं जनेरपिमृतेरधुनायमस्ति जातक्षणः क्षणगुणीऽनियतस्वभावः। नैकोजडश्च घटवत्परिदृश्यमानः स्वात्मा कथं भवति भाव-विकारवेत्ता। पाणिपादादिमान् देहो नात्मा व्यङ्ग्योऽपिजीवनात्। तत्तच्छक्तेरनाशाच्च न नियम्योनियामकः। देहतद्धर्म्मतत्कर्म्मतदवस्थादिसाक्षिणः। स्वतएव स्वतःसिद्धं तद्वैलक्षण्यमात्मनः। शल्यराशिर्मांसलिप्तो मल-पूर्णोऽतिकश्मलः। कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः। त्वङ्मांसमेदोऽस्थिपुरीषराशावहंमतिं मूढजनः करोति। [Page2270-a+ 38] विलक्षणं वेत्ति विचारशीली निजस्वरूपं परमार्थ-भूतम्। देहोऽहमित्येव जडस्य बुद्धिर्देहे च जीवा-ऽविदुषस्त्वहंधीः। विवेकविज्ञानवतोमहात्मनो व्रह्माह-मित्येव मतिः सदात्मनि। अत्रात्मबुद्धिं त्यज मूढवुद्धे!त्वङ्मासमेदोस्थिपुरीषराशौ। सर्व्वात्मनि ब्रह्मणि नि-र्विकल्पे कुरुष्व शान्तिं परमां भजस्व। देहेन्द्रियादा-वसति भ्रमोदितां विद्वानहन्तां न जहाति यावत्। ता-वन्न तस्यास्ति विमुक्तिवार्त्ताप्यस्त्येष वेदान्तनयान्तदर्शः। छायाशरीरे प्रतिविम्बगात्रे यत् स्वप्नदेहे हृदि कल्पिता-ङ्गे। यथात्मबुद्धिस्तव नास्ति काचित् जीवच्छरीरे च तथैव मास्तु। देहात्मवीरेव नृणामसद्धियां जन्मादिदुःख-प्रभवस्य वीजम्। यतस्ततस्त्वं जहि तां प्रयत्नात् त्यक्तेतु चित्ते न पुनर्भवाशा। कर्म्मेन्द्रियैः पञ्चभिरन्वितोऽयंप्राणो भवेत् प्राणमयस्तु कोषः। येनात्मवानन्नमयोऽन्नपूर्णात् प्रवर्त्त तेऽसौ सकलक्रियासु। नैवात्मापि प्राण-मयो वायुविकारो गन्ता गन्ता वायुवदन्तर्व्धहिरेषः। यस्मात् किञ्चित् क्वापि न वेत्तीष्टमनिष्टं स्वं वान्यं वाकिञ्चन नित्यं परतन्त्रः। ज्ञानेन्द्रियाणि च मनश्चमनोमयः स्यात् कोषोममाहमिति वस्तुविकल्पहेतुः। संज्ञादिभेदकलनाकलितो बलीयांस्तत्पूर्ब्बकोषमभिपूर्य्यंविजृम्भते यः। पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीय-मानोविषयाज्यधारया। जाज्वल्यमानो बहुवासनेन्धनैर्म-नोमयाग्निर्दहति प्रपञ्चम्। न ह्यस्त्यविद्या मनसोऽतिरिक्तामनोह्यविद्या भवबन्धहेतुः। तस्मिन् विनष्टे सकलंविनष्टं विजृम्भितेऽस्मित् सकलं विजृम्भते। स्वप्नेऽर्थशू-न्ये सृजति स्वशक्त्या भोक्त्रादि विश्वं मनएव सर्व्वम्। तथैव जाग्रत्यपि नो विशेषस्तत्सर्व्वमेत्न्मनसो विजृम्भ-णम्। सुषुप्तिकाले मनसि प्रलीने नैवास्ति किञ्चित्सकलप्रसिद्धेः। अतो मनःकल्पितएव पुंसः संसारएतस्य न वस्तुतोऽस्ति। वायुना चीयते मेघः पुनस्ते-वैव लीयते। मनसा कल्प्यते बन्धोमोक्षस्तेनैव कल्प्यते। देहादिसर्व्वविषये परिकलप्य रागं बध्नाति तेन पुरुषंपशुवद्गुणेन। वैरस्यमत्र विषवत् सुविधाय पश्चादेनं विमो-चयति तन्मन एव बन्धात्। तस्मान्मन कारणमस्यजन्तोर्बन्धस्य मोक्षस्य च वा विधाने। बन्धस्य हेतुर्मलिनंरजोगुणैर्मोक्षस्य शुद्धं विरजस्तमस्कम्। विवेकवैराग्य-गुणातिरेकाच्छुद्धत्वमासाद्य मनोविमुक्त्यै। भवत्यतो-वुद्धिमतो मुमुक्षोस्ताभ्यां दृढाभ्यां भवितव्यमग्रे। मनो[Page2270-b+ 38] नाम महाव्याघ्रो विषयारण्यभूमिषु। चरत्यत्र नगच्छन्तु साधवो ये मुसुक्षवः। मनः प्रसूते विषयानशेषान्स्थूलात्मना सूक्ष्मतया च भोक्तुः। शरीरवर्णाश्रमजा-तिभेदान् गुणक्रियाहेतुफलानि नित्यम्। असङ्गचिद्रू-पममुं विमोह्य देहेन्द्रियप्राणगुणैर्निबध्य। अहंममेतिभ्रमयत्यजस्रं मनः स्वकृत्येषु फलोपभुक्तिषु। अध्या-सदोषात् पुरुषस्य संसृतिरध्यासबन्धस्त्वमुनैव कल्पितः। रजस्तमोदोषवतोऽविवेकिनो जन्मादिदुःखस्य निदानमे-तत्। अतः प्राहुर्भनोऽविद्यां पण्डितास्तत्त्वदर्शिनः। येनैव भ्राम्यते विश्वं वायुनेवाब्भ्रमण्डलम्। तन्मनःशोधनं कार्य्यं प्रयत्नेन मुमुक्षुणा। विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते। मोक्षैकसक्त्या विषयेषु रागंनिर्मूल्य संन्यस्य च सर्वकर्म्म। सच्छ्रद्धया यः श्रवणा-दिनिष्ठो रजःस्वभावं स धुनोति बुद्धेः। मनोमयोनापि भवेत् परात्मा ह्याद्यन्तवत्त्वात् परिणामिभावात्। दुःखात्मकत्वाद्विषयत्वहेतोर्द्रष्टा हि दृश्यात्मतया न दृष्टः। बुद्धिवुद्धीन्द्रियैः सार्द्धं सवृत्तिः कर्त्तृलक्षणः। विज्ञान-मयकोषः स्यात् पुंसः संसारकारणम्। अनुव्रजेच्चित्प्रति-विम्बशक्तिर्विज्ञानसंज्ञः प्रकृतेर्विकारः। ज्ञानक्रियावान-हमित्यजस्रं देहेन्द्रियादिष्वभिमन्यते भृशम्। अनादि-कालोऽयमहंस्वभावो जीवः समस्तव्यवहारवोढा। करोति कर्म्मा{??}यथ पूर्ववासनः पुण्यान्यपुण्यानि च तत्फ-लानि। भुङ्क्ते विचित्रास्कपि योनिषु व्रजन्नायातिनिर्यात्यध ऊर्द्ध्वमेषः। अस्यैव विज्ञानमयस्य जाग्रत्स्व-प्नाद्यवस्थासुखदुःखभोगाः। देहादिनिष्ठाश्रमधर्म्मकर्म्मगुणाभिमानः सततं ममेति। विज्ञानकोषोऽथमतिप्रकाशःप्रकृष्टसान्निध्यवशात् परात्मनः। अतोभवत्येव उपाधिरस्ययदात्मधीः संसरति भ्रमान्न। योऽयं विज्ञानमयःप्राणेषु हृदि स्फुरत्ययं ज्योतिः। कूटस्थः सन्नात्माकर्त्ता भोक्ता भवत्युपाधिस्थः। स्वयं परिच्छेदमुपेत्यबुद्धेस्तादात्म्यदोषेण परं मृषात्मनः। सर्व्वात्मकःसन्नपि वीक्षते स्वयं स्वतः पृथक्त्वेन मृदोघटानिव। उपाधिसम्बन्धवशात् परात्मा ह्युपाधिधर्म्माननुयातितद्गुणः। अयोविकारानविकारिबह्निवत् सटैकरूपोऽपिपरः स्वभावात्। शिष्य उवाच। भ्रमेणाप्यन्यथा वाऽस्तुजीवभावः परात्मनः। तदुपाधेरनादित्वान्नानादेर्नाशै-ष्यते। अतोऽस्य जीवभावेऽपि नित्या भवति संसृतिः॥ न निवर्त्तेत, तन्मोक्षः कथं? भे श्रीगुरो! वद॥ [Page2271-a+ 38] श्रीगुरुरुवाच। सम्यक् पृष्टं त्वया विद्वत्! सावधानेनतत् शृणु। प्रामाणिकी म भवति भ्रान्त्या मोहितक-ल्पना। भ्रान्तिंविना त्वसङ्गस्य निष्क्रि यस्य निराकृतेः। न वटेतार्थसम्बन्धो नभसो नीलतादिवत्। स्वस्य द्रष्टु-र्निर्गुणस्याक्रियस्य प्रत्यगबोधानन्दरूपस्य बुद्धेः। भ्रान्त्याप्राप्तो जीवमावो न सत्यो मोहापाये नास्त्यवस्तुस्वभावः। यावद्भ्रान्तिस्तावदेवास्य सत्ता मिथ्याज्ञानो-ज्जृम्मितस्य प्रमादात्। रज्ज्वां सर्पोभ्रान्तिकालीनएवभ्रान्तेर्नाशे नैव सर्पोऽपि तद्वत्। अनादित्वमविद्यायाःकार्य्यस्यापि तथेष्यते। उपन्नायान्तु विद्यायामाविद्यिक-मनाद्यपि। प्रबोधे स्वप्नवत् सर्व्वं सहमूलं विनश्यति। अनाद्यपीदं नो नित्यं प्रामभाव इव स्फुटम्। अना-देरपि विध्वंसः प्रागभावस्य वीक्षितः। यद्बुद्ध्युपाधि-सन्बन्धात् परिकल्पितमात्मनि। जीवत्वं न ततोऽन्यस्तत्-स्वरूपेण विलक्षणः। सम्बन्धः स्वात्मनो बुद्ध्यामिय्याज्ञानपुरःसरः। विनिवृत्तिर्भवेत्तस्य संम्यग्ज्ञानेननान्यथा। ब्रह्मात्मैकत्वविज्ञानं सम्यक् ज्ञानं श्रुतेर्म्मतम्। तदात्मानामनोः सम्यग्विवेकेनैव सिध्यति। ततोविवेकःकर्त्तव्यः प्रत्यगात्मसदात्मनोः। जलं पङ्कवदत्यन्तं पङ्का-पाये जलं स्फुटम्। यथा भाति, तथात्मापि दोषाभावेस्फुटप्रभः। असन्निवृत्तौ तु सदात्मना स्फुटं प्रतीतिरेतस्यभवेत् प्रतीचः। ततो निरासः करणीय एव सदात्मनःसाध्वहमादिवस्तुनः। अतीनायं परात्मा स्याद्विज्ञान-मयशब्दभाक्। विकारित्वाज्जडत्वाच्च परिच्छिन्नत्व-हेतुतः। दृश्यत्वात् व्यभिचारित्वात् नानित्योनित्य इष्यते”। आनन्दमयकोषस्तु आनन्दमयकोषशब्दे

७२

६ पृ॰ उक्तःधननिचयात्मककोषस्य राज्याङ्गतामाह
“स्वाम्यमात्यौपुरं राष्ट्रं कोषदण्डौ सुहृत्तथा। सप्त प्रकृतयोह्येताःसप्ताङ्गं राज्यमुच्यते। सप्तानां प्रकृतीनां तु राज्यस्यासांयथाक्रमम्। पूर्व्वं पूर्व्वं गुरुतरं जानीयाद्व्यसनं महत्” मनुः
“स्वामी राजा अमात्योमन्त्र्यादिः। पुरं राज्ञः कृतदुर्ग-निवासनगरं, राष्ट्रं देशः, कोषोवित्तनिचयः, दण्डो हस्त्य-श्वरथपादातं, मित्रं त्रिविधं सप्तमाध्यायोक्तमित्येतेसप्त प्रकृतयोऽङ्गानि सप्ताङ्गमिदं राज्यमित्युच्यते। ततः किमत{??}ह सप्तानामिति। आसां राज्यस्यप्रकृतीनां सप्तानां क्रमिकोक्तानामुत्तरस्याविनाशमपेक्ष्यपूर्व्वस्वाविनाशरूपं व्यसनं गरीयोजानीयात्। तथाहिमित्रव्यसनात् स्वबलव्यसनं गरीयः सम्पन्नबलस्यैव मित्रा-[Page2271-b+ 38] नुग्रहे सामर्थ्यात्। एवं वलात् कोषोगरीयान् कोषनाशेबलस्यापि नाशात्। कोषाद्राष्ट्रं गरीयः राष्ट्रनाशे कुतःकोषोत्पत्तिः। एवं राष्ट्राद्दुर्गं गरीयः दुर्गादेवयवसेन्धनादिसम्पन्नाद्राज्यरक्षासिद्वेः। दुर्गादमात्योगरीयान् प्रधानामात्यनाशे सर्वाङ्गवैकल्यात्। अमात्या-दपि आत्मा सर्वस्यात्मार्थत्वात्” कुल्लू॰कोषसञ्चयस्यावश्यकता युक्तिकल्पतरौ दर्शिता यथा
“कोषो महीपतेर्जीवो न तु प्राणाःकथञ्चन। द्रव्यं हिदेहो भूपस्य न शरीरभिति स्थितिः। धर्म्महेतोःसुखार्थाय भृत्यानां भरणाय च। आपदर्थञ्च संरक्ष्यःकोषः कोषवता सदा। धनात् कुलं प्रभवति धनाद्धर्म्मःप्रवर्त्तते। नाधनस्य भवेद्धर्म्मः कामश्चैव कथञ्चन। अधर्म्मान्निधनं कुर्य्यातद्धनं गृह्यते परैः। स्वयं पापस्यपात्र स्यात्सिंहो हस्तिबधादिव। तादात्मिको मूलहरःकदर्य्यस्त्रिबिधो ऽर्जकः। उत्पन्नार्थव्ययकरो यो मवि-ष्यद्धनाशया। स तादात्मिक आख्यातः कल्याणी तस्य ना-यतिः। यः पित्राव्यर्ज्जितं वित्तमन्यायेन तु भक्षयेत्। स मूलहर आख्यातस्तदुदर्को ऽपि चाशुभः। स कदर्य्यस्तुभृत्यात्मपीडनैरर्थसञ्चयी। तद्वनं राजदायादतस्कराणांनिधिर्भवेत्।{??}क्षा च राजकोषश्च स्तोकस्तोवेन वर्द्धते। अञ्जनञ्च धनञ्चैव स्तोकस्तोकेन हीयते। कोषस्य साध-नोपायो मुख्यं राष्ट्रमिति स्मृतम्। भूगुणैर्वर्द्धते राष्ट्रंतद्वृद्धिर्नृपवृत्तता। राज्ञोपायेन संरक्ष्या ग्रामे ग्रामे कृषी-वलाः। तेभ्यः कृषिस्ततश्चार्था अर्थेभ्यः सर्वसम्पदः। शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा। तथावर्षेषु वर्षेषु कर्षणात् भूगुणक्षयः। एकस्यां गुणहीनायांकृषिमन्यत्र कारयेत्”। तत्सञ्चयोपायाश्च भा॰ शा॰

८८ अ॰ दर्शिताः यथा
“यदा राजासमर्थोऽपि कोषार्थे स्यान्महामते!। ” इत्यादियुधिष्ठिरप्रश्ने भीष्मोक्तिः
“यथादेशं यथाकालं यथा-बुद्धि यथाबलम् अनुशिष्यात् प्रजा राजा धर्म्मार्थीतद्धिते रतः। यथा तासाञ्च मन्येत श्रेय आत्मन एव च। तथा कर्म्माणि सर्व्वाणि राजा राष्ट्रेषु वर्त्तयेत्” इत्यु-पक्रमे
“मदुदोहमित्याद्युक्तं” तच्च करशब्दे

१६

८७ पृ॰दर्शितम्। तत्र

९० अ॰ इत्युक्तिः प्रामादिकी

८८ अ॰इत्येव साधु। ततः परं कियदन्तरे
“प्रयोगं कारयेयुस्तान् यथा बलिकरांस्तथा। कृषिगोरक्ष-बाणिज्यं यच्चान्यत् किञ्चिदीदृशम्। पुरुषैः कारयेत्[Page2272-a+ 38] कर्म्म बहुभिः कर्म्मभेदतः। नरश्चेत् कृषिगोरक्षाबा-णिज्यञ्चाप्यनुष्ठितौ। संशयं लभते किञ्चित्तेन राजाविगर्ह्यते। धनिनः पूजयेन्नित्यं पानाच्छादनभोजनैः। बक्तव्याश्चानुगृह्णीध्वं प्रजाः सह मयेति वै। अङ्गमेत-न्महद्राज्ये धनिनो नाम भारत!। ककुदं सर्वभूतानांधनस्थो नात्र संशयः। प्राज्ञः शूरो धनस्थश्च स्वामीधाम्मि क एव च। तपस्वी सत्यवादी च बुद्धिमांश्चापिरक्षति। तस्मात् सर्वेषु भूतेषु प्रीतिमान् भव पार्थिव!। सयमार्ज्जवमक्रोधमानृशंस्यञ्च पालय। एवं दण्डञ्चकोषञ्च मित्रं भूमिञ्च लप्स्यसे। सत्यार्ज्जवपरो राज-न्मित्रकोषबलान्वितः”।

१६ तदाधारे गृहे जटा॰ (खाज-नाघर)
“तस्मात्द्विजेन्धोदत्त्वार्द्धमर्द्धं कोषे निवेशयेत्” मनुः।

१७ भेघे निघ॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोश¦ m. (-शः)
1. An egg.
2. Wrought or unwrought gold or silver plate, jewellery.
3. An ordeal, &c. f. (-शी)
1. shoe, a sandal.
2. The bread of corn. E. कुश् or कुष् to issue, घञ् affix, fem. affix ङीष्; see कोष।

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोश m. ( n. L. ; in class. literature कोश, or कोष; fr. कुश्or कुष्? , related to कुक्षिand कोष्ठ?) , a cask , vessel for holding liquids , (metaphorically) cloud RV. AV. Sus3r.

कोश m. a pail , bucket RV.

कोश m. a drinking-vessel , cup L.

कोश m. a box , cupboard , drawer , trunk RV. vi , 47 , 23 AV. xix , 72 , 1 S3Br.

कोश m. the interior or inner part of a carriage RV.

कोश m. ( ifc. ) MBh. viii , 1733

कोश m. a sheath , scabbard , etc. MBh. R. VarBr2S.

कोश m. a case , covering , cover AV. ChUp. Mun2d2Up. TUp. Pa1rGr2. BhP.

कोश m. store-room , store , provisions Mn. MBh. etc.

कोश m. a treasury , apartment where money or plate is kept , treasure , accumulated wealth (gold or silver , wrought or unwrought , as plate , jewellery , etc. ) ib.

कोश m. (in surg. ) a kind of bandage Sus3r.

कोश m. a dictionary , lexicon or vocabulary

कोश m. a poetical collection , collection of sentences etc. Ka1vya7d. i , 13 Sa1h.

कोश m. a bud , flower-cup , seed-vessel(See. बीज-) R. Ragh. BhP. Dhu1rtas.

कोश m. the sheath or integument of a plant , pod , nut-shell Ma1rkP.

कोश m. a nutmeg L.

कोश m. the inner part of the fruit of Artocarpus integrifolia and of similar fruits L.

कोश m. the cocoon of a silk-worm Ya1jn5. iii , 147 Veda7ntas.

कोश m. the membrane covering an egg (in the womb) Sus3r. VarBr2. Ma1rkP.

कोश m. the vulva L.

कोश m. a testicle or the scrotum Sus3r. VarBr2S.

कोश m. the penis W.

कोश m. an egg L.

कोश m. (in वेदा-न्तphil. ) a term for the three sheaths or succession of cases which make up the various frames of the body enveloping the soul (these are , 1. the आनन्द-मय क्or " sheath of pleasure " , forming the कारण-शरीरor " causal frame " ; 2. the विज्ञान-मयor बुद्धि-म्or मनो-म्or प्रा-ण-म् क्, " the sheath of intellect or will or life " , forming the सूक्ष्म-शरीरor " subtile frame " ; 3. the अन्न-म् क्, " the sheath of nourishment " , forming the स्थूल-शरीरor " gross frame ") Veda7ntas.

कोश m. ( ifc. )a ball or globe( e.g. सूत्र-, a ball of thread L. ; नेत्र-, the eye-ball R. iii , 79 , 28 )

कोश m. the water used at an ordeal or judicial trial (the defendant drinks thrice of it after some idol has been washed in it) Ya1jn5. ii , 95

कोश m. an oath Ra1jat. v , 325

कोश m. a cup used in the ratification of a treaty of peace( शं-पा, to drink from that cup) Ra1jat. vii , 8 ; 75 ; 460 and 493 ; viii , 283

कोश m. N. of a conjunction of planets VarBr2S.

कोश m. of the 2nd astrological mansion , VarYogay.

कोश m. (with Buddh. )of a collection of गाथाverses Ka1ran2d2. Hcar.

"https://sa.wiktionary.org/w/index.php?title=कोश&oldid=298539" इत्यस्माद् पुनः प्राप्तिः