गृष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृष्टिः, स्त्री, (गृह्णाति सकृद्गर्भमिति । ग्रह ञ उपा- दाने + कर्त्तरि क्तिच् पृषोदरादित्वात् साधुः ।) एकवारप्रसूता गौः । तत्पर्य्यायः । सकृत्प्रसू- तिका २ । इति हेमचन्द्रः ॥ (यथा, महा- भारते । १३ । ९३ । ३३ । “प्रष्टौहीनां पीवराणाञ्च तावदग्य्रा गृष्ट्यो धेनवः सुव्रताश्च ॥” यथा च । “एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम् । रसे तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरं चतुर्गुणम् ॥ वीराद्विमाषकाकोली स्वयं गुप्तर्षभर्द्धिभिः ॥ मेदया च समैः कल्कैस्तत् स्यात् कल्याणकं महत् । बृंहणीयं विशेषेण सन्निपातहरं परम् ॥” इति वैद्यकचक्रपाणिसंग्रहे उन्मादाधिकारे ॥ सकृत्प्रसूतस्त्रीमात्रम् । इति शब्दार्थचिन्ता- मणिः ॥) वराहक्रान्ता । इत्यमरः । २ । ४ । १३५ ॥ वदरवृक्षः । इति मेदिनी । टे । १२ ॥ काश्मरी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृष्टि स्त्री।

वाराहीकन्दम्

समानार्थक:विष्वक्सेनप्रिया,गृष्टि,वाराही,बदरा

2।4।151।1।2

विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेत्यपि। मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृष्टि¦ स्त्री गृह्णाति सकृत् गर्भम् ग्रह--कर्त्तरि क्तिच्पृषो॰।

१ सकृत्प्रसूतायां गवि।
“गृष्टिः ससुव स्थविरंतवागाम्” ऋ॰

४ ।

१८ ।

१०
“आपीनभारोद्वहनप्रयत्नात्गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः” रघुः।
“भजमानश्चचपलो गृष्टीः स प्रचचार हं हरि॰ व॰

७ अ॰। जात्यासहास्य कर्म॰। विशेषणत्वेऽपि परनिपातः गोगृष्टिः। इदन्तत्वात् वा ङीप्।
“पृष्ठोहीनां पीवराणाञ्च ताव-दग्र्याः गृष्ट्योधेनवः सुव्रताश्च” भा॰ आनु॰

९३ अ॰।

२ सकृत्प्रसूतस्त्रोमात्रे अतएव गृष्टेर्गोमा-त्रपरत्वे
“चतुष्पादो गार्भिण्याः” पा॰ सूत्रान्तरमारब्धंशब्दार्थचि॰ गृष्टेरपत्यम् गृष्ट्यादि ढक्। गार्ष्टेयतदपत्ये पुंस्त्री। कर्मणि क्तिन्।

३ वराहक्रान्तायाम्अमरः।

४ वदरवृक्षे मेदि॰।

५ काश्मर्यां राजनि॰। स्वार्थेक तत्रार्थे। सप्तपर्णारग्बधेत्याद्युपक्रमे
“मधुकभूनिम्बगृष्टिका इति समभागाः कल्कः” सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृष्टि¦ m. (-ष्टिः)
1. A cow that has had one calf.
2. A yam.
3. The jujube (Zizyphus jujuba.) E. घृष् to grind, affix क्तिन् and घ changed to ग।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृष्टिः [gṛṣṭiḥ], f. [गृह्णाति सकृत् गर्भम्, ग्रह कर्तरि क्तिच् पृषो˚ Tv.]

A cow which has had only one calf, a young cow (सकृत्प्रसूता गौः) आपीनभारोद्वहनप्रयत्नाद् गृष्टिः R.2.18; स्त्री तावत्संस्कृतं पठन्ती दत्तनवनस्या इव गृष्टिः सूसूशब्दं करोति Mk.3.

(In comp. with the names of other animals) Any young female animal; वासितागृष्टिः 'a young sheelephant.'

A woman who has one child only.

A bulbous plant (Mar. डुकरकंद); Kau. A.2.1. -m. A boar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृष्टि f. a cow which has had only one calf , young cow RV. iv , 18 , 10 AV. Kaus3. MBh. etc.

गृष्टि f. ( ifc. with names of other animals Pa1n2. 2-1 , 65 )any young female animal( e.g. वासिता-ग्; a young female elephant MBh. xi , 642 )

गृष्टि f. Gmelina arborea L.

गृष्टि f. a variety of Dioscorea L.

गृष्टि m. for घृष्टि, a boar L.

गृष्टि m. N. of a man Uttarar. iv , 5/6 and 10/11.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gṛṣṭi, ‘a young cow,’ which has only calved once, occurs in the Rigveda[१] and the Atharvaveda,[२] as well as in the later Sūtra literature.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृष्टि स्त्री.
गलकम्बल पर झब्बा से युक्त ओसर, मा.श्रौ.सू. 6.5.2.1०,13

  1. iv. 18, 10.
  2. ii. 13, 3;
    viii. 9, 24;
    xix. 24, 5.
  3. Kauśika Sūtra, 19. 24, etc.
"https://sa.wiktionary.org/w/index.php?title=गृष्टि&oldid=478193" इत्यस्माद् प्रतिप्राप्तम्