तन्त्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तन्त्रम्, क्ली, (तनोति तन्यते इति वा । तन + कर्त्त्रादौ यथायथं ष्ट्रन् । तत्रि कुटुम्बधारणे + घञ् वा ।) कुटुम्बकृत्यम् । (कुलप्रतिष्ठादिक- स्थितिः । यथा, महाभारते । १३ । ४८ । ६ । “सर्व्वानुपायानथ सम्प्रधाय समुद्धरेत् स्वस्य कुलस्य तन्त्रम् ॥”) सिद्धान्तः । ओषधिः । प्रधानम् । तन्त्रवायः । परिच्छदः । श्रुतिशाखाविशेषः । हेतुः । उभ- यार्थप्रयोजकम् । इतिकर्त्तव्यता । इति मेदिनी ॥ राष्ट्रम् । परच्छन्दः । करणम् । अर्थसाधकः । तन्तुः । सैन्यम् । स्वराष्ट्रचिन्ता । इति हेम- चन्द्रः ॥ (यथा, माघे । २ । ८८ । “तन्द्रावापविदा योगैर्मण्डलान्यधितिष्ठता ॥”) प्रबन्धः । इति शब्दरत्नावली ॥ शपथः । इति विमलबोधः ॥ “इह तन्त्रं वासनाजालम् ।” इति नीलकण्ठः ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तन्त्र नपुं।
परिच्छदः
समानार्थक:परीवाप,परीवार,तन्त्र
3।3।185।2।1
दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ। तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे॥
पदार्थ-विभागः : उपकरणम्
तन्त्र नपुं।
प्रधानम्
समानार्थक:लक्ष्मन्,प्रथम,तन्त्र
3।3।185।2।1
दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ। तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे॥
पदार्थ-विभागः : , गुणः, परिमाणः
तन्त्र नपुं।
सिद्धान्तः
समानार्थक:सिद्धान्त,राद्धान्त,कृतान्त,समय,तन्त्र
3।3।185।2।1
दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ। तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे॥
पदार्थ-विभागः : , पौरुषेयः
तन्त्र नपुं।
सूत्रवायः
समानार्थक:तन्त्र
3।3।185।2।1
दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ। तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तन्त्र¦ न॰ तन्यते तनोति वा कर्त्त्रादौ यथायथं ष्टुन् तन्त्रि-कुटम्बभरणे घञ् वा।
१ कटुम्बभरणादिकृत्ये
२ सिद्धान्ते
३ औषधे
४ प्रधाने
५ परिच्छदे
६ वेदशाखाभेदे
७ हेतौ
८ उभ-यार्थैकप्रयोगे।
९ इतिकर्त्तव्यतायाञ्च मेदि॰।
१० तन्तुवायेशब्दमाला
११ राष्ट्रे
१२ परच्छन्दानुगमने
१३ स्वराष्ट्रचिन्ता-याम हेमच॰।
१४ प्रवन्धे शब्दरत्ना॰
१५ शपथे, धरणिः[Page3223-b+ 38]
१६ धने
१७ गृहे
१८ वयनसाधने (तां त)
१९ कुले च ना-नार्थमञ्जरी।
२० शिवाद्युक्तशास्त्रभेदे तल्लक्षणभेदादिकंयथा
“सर्गश्च प्रतिसर्गश्च मन्त्रनिर्णय एव च। देवतानाञ्चसंस्थानं तीर्थानाञ्चैव वर्णनम्। तथैवाश्रमधर्मश्च विप्रसंस्थानमेव च। संस्थानञ्चैव भूतानां यन्त्राणाञ्चैवनिर्णयः। उत्पत्तिर्विबुधानाञ्च तरूणां कल्पसंज्ञितम्। संस्थानं ज्योतिषाञ्चैव पुराणाख्यानमेव च। कोषस्यकथनञ्चैव ततानां परिभाषणम्। शौचाशौचस्य चा-ख्यानं नरकाणाञ्च वर्णनम्। हरचक्रस्य चाख्यानंस्त्रीपुंसोश्चैव लक्षणम्। राजधर्मो दानधर्मो युगधर्म-स्तथैवच। व्यवहारः कथ्यते च तथा चाध्यात्मवर्णनम्। इत्यादिलक्षणैर्युक्तं तन्त्रमित्यभिधीयते”। तस्य प्रशंसा।
“विष्णुर्वरिष्ठो देवानां ह्रदानामुदधिर्यथा। नदी-नाञ्च यथा गङ्गा पर्वतानां हिमालयः। अश्वत्थः सर्ववृक्षाणां राज्ञामिन्द्रो यथा वरः। देवीनाञ्च यथा दुर्गावर्णानां ब्राह्मणो यथा। तथा समस्तशास्त्राणां तन्त्रशास्त्रमनुत्तमम्। सर्वकामप्रदं पुण्यं तन्त्रं वै वेदसम्मितम्। कीर्त्तनं देवदेवस्य हरस्य मतमेव च। पावनं श्रद्दधानानामिह लोके परत्र च”। तस्य श्लोकसंख्या यथा
“न शक्यं विस्तराद्वक्तुमपि वर्षशतैरपि। संक्षेपाद्वै प्रवक्ष्यामि लोककल्पोक्तवर्त्मना। दिविदेवि! नवलक्षं पाताले ब्रह्मशासने। लक्षमात्रं भारतेच क्षितौ तन्त्राणि यानि च। आगमं त्रिविधं प्रोक्तंचतुर्थमैश्वरं स्मृतम्। कल्पश्चतुर्विधः प्रोक्त आगमोडामरस्तथा। यामलञ्च तथा तन्त्रं तेषां भेदाः पृथक्पृथक्। मुक्तकाख्यं सप्रपञ्चम् सारदाख्यञ्च नारदम्। महार्णवश्च कपिलो योगः कल्पः कपिञ्जलः। अमृतशुद्धिर्वीरश्च सिद्धसंवरणस्तथा। प्रथमोऽष्टसहस्रन्तुश्लोका दश प्रकीर्त्तिताः। द्वितीयोमुक्तकस्तत्र षट्सहस्राणिसंख्यया। श्लोकाः शतार्द्धसंख्यातास्तृतीयस्त्रिसह-स्रकः। शतद्वयं साधिकञ्च श्लोकानां पञ्चविंशतिः। त्रिंशो,त्तरसहस्राणि श्लोकानां भानुसंख्यया। प्रपञ्चः प्रथमेतन्त्रे द्वितीये वसुसंख्यया। सहस्राणि तथा श्लोकाःसप्तविंशतिसंख्यया। भूतनेत्रसहस्राणि तृतीयेऽब्धिसहस्र-कम्। शतद्वयं पङ्क्ति
१० श्लोकाः प्रपञ्चः कथितस्त्रिधा। कला
१६ संख्या सहस्राणि सारदायाः प्रकीर्त्तिताः। पञ्चविंशाधिकाः श्लोका वसुश्लोकाश्च नारदे। विंशतिश्चसहस्राणि षट्सहस्राणि संख्यया। वसुश्लोकाश्च कथिताः[Page3224-a+ 38] कपिलः श्लोकसंख्यया। त्रयोदश सहस्राणि कलोत्तरशतत्रयम्। श्लोकसंख्या समुद्दिष्टा योगे कल्पे च सं-ख्यया। वाणसंख्या सहस्राणि श्लोका नवतिः कीर्त्तिताः। श्लोकानान्तु सहस्राणि अष्टाविंशतिसंख्यया। श्लोकाश्चभानु
१२ संख्याता स्तन्त्रेऽपि च कपिञ्जले। अमृतशुद्धौसहस्राणि पञ्चश्लोकाधिकानि च। पञ्चैव कथिता नेत्रसंख्यातानि यथार्थतः। वीरागमे षडधिकानि शतानिपरिसंख्यया। सहस्राणि च तावन्ति श्लोकानान्तुययार्थतः। पञ्चाधिकसहस्राणि श्लोकानामृतुसंख्यया। सिद्धसंवरणोक्तानि ईश्वरेण यथा पुरा। डामरःषड्विधोज्ञेयः प्रथमो योगडामरः। श्लोकास्तत्र त्रयस्त्रिंशत्तथा पञ्च शतानि च। त्रिविंशतिसहस्राणि श्लोकानिचेह संख्यया। एकादश सहस्राणि संख्यया शिवडामरे। श्लोकाःसप्तैव निश्चित्य इश्वरेणैव भाषिताः। तावच्छ्र्लोक-सहस्राणि पञ्च श्लोकशतानि च। गुणोत्तराणि दुर्गायाडामरे कथितानि च। नव श्लोकसहस्राणि नव श्लोकशतानि च। सारस्वते तथा श्लोकाः पञ्चैव परिकी-र्त्तिताः। स्वर
७ संख्यसहस्राणि श्लोकानां ब्रह्मडामरे। पञ्चोत्तरशतान्यत्र संख्यातानि शिवेन तु। षष्टिः श्लोक-सहस्राणि गन्धर्वडामरोत्तरे। श्नोकाश्च षष्टिसंख्याता ब्र-ह्मणाऽव्यक्तयोनिना। यामलाः षट् समाख्यातास्तन्त्रादावा-दियामले। द्वात्रिंशच्च सहस्राणि त्रयस्त्रिंशत् शतानि च। द्वितीये ब्रह्मसंज्ञे तु द्वाविंशतिश्च संख्यया। सहस्राणिशतान्यत्र तान्येव कथितानि च। तावत्संख्यसहस्राणिशतानि परिसंख्यया। विंशतिश्च तथा संख्या श्लोकाश्चविष्णुयामले। कालसंख्यसहस्राणि वेदसंख्यशतानिच। पञ्चषष्टि स्तथा श्लोका कनिष्ठे रुद्रयामले। नव श्लोक-सहस्राणि त्रयोदश शतानि च। द्वाविंशतिस्तथा श्लोकागणेशयामलोत्तमे। रविसंख्यसहस्राणि आदित्याख्येतु यामले। तन्त्रे नीलपताकायां सहस्राणि च पञ्चच। पञ्चविंशतिः श्लोकाश्च कथिता वामकेश्वरे। त्रयोदशसहस्राणि द्वे शते विंशतिस्तथा। श्लोकामृत्युञ्जये तन्त्रेसंख्यातास्तन्त्रवेदिभिः। गजसंख्यसहस्राणि त्रिकसंख्या-शतानि च। सप्त श्लोकास्तथैवात्र तन्त्रयोगार्णवोत्तमे। दश श्लोकसहस्राणि तावन्त्येव शतानि च। मायाख्येच महातन्त्रे यथार्थतः प्रकीर्त्तिताः। पञ्च श्लोकसहस्राणितावन्त्येव शतानि च। शतार्द्धसंख्यया श्लोका दक्षि-णामूर्त्तितन्त्रके। दश श्लोकसहस्राणि तावन्त्येव शतानि[Page3224-b+ 38] च। त्रयोदश तथा श्लोकाः कालिकाख्ये च तन्त्रके। कालेश्वर्य्यास्तन्त्रवरेस हस्रतित्रयं महत्। श्लोकानां संख्ययाचात्र तन्त्रराजे च संख्यया। नव श्लोकसहस्राणि नव श्लोक-शतानि च। द्वाविंशतिः सहस्राणि हरगौर्य्याख्यतन्त्रके। तथा च विंशतिः श्लोकास्तन्त्रेऽस्मिन् परिकीर्त्तिताः। अर्कसङ्ख्यसहस्राणि द्वितीये तन्त्रवेदिभिः। अष्टाविंश-तिश्च श्लोकाः संख्यातान्तन्त्रनिर्णये। कुब्जिकाख्ये महातन्त्रेश्लोकाश्च दशसंख्यया। सहस्राणि तथा सप्त संख्यातानि-मनीषिभिः। द्वितीये षट्सहस्राणि तदर्द्धञ्च कनिष्ठके। अर्कसंख्यसहस्राणि तथाङ्कुशशतानि च। तावद्देव्यामहातन्त्रे संख्यातानि द्विजोत्तमैः। द्वाशिंशतिःसहस्राणि द्वाविंशतिः शतानि च। कात्यायन्यास्तु तन्त्रस्यसंख्यातानि मनीषिभिः। वसुश्लोकसहस्राणि तावन्त्येवशतानि च। प्रत्यङ्गिराथास्तन्त्रे च निश्चितानि यथार्थतः। भूतसंख्या सहस्राणि तथा तावच्छतानि च। महालक्ष्म्यास्तन्त्रराजे पञ्च श्लोकाश्च कीर्त्तिताः। गजसंख्यसहस्राणिश्लोकका सप्तसंख्यया। त्रिपुरार्णवे महातन्त्रे लिखिताःपरमर्षिभिः। सरस्वत्याः सहस्रे द्वे द्वे शते संख्यया स्मृते। पञ्च श्लोकास्तथैवात्र विज्ञातव्या द्बिजातिभिः। द्वाविं-शतिः सहस्राणि आद्ये तन्त्रोत्तमोत्तरे। अङ्ग-संख्या शतान्यत्र श्लोकाः पञ्चदशैव तु। द्वाविंशतिः सह-स्राणि तथा नव शतानि च। द्वात्रिंशच्च तथा श्लोकायोगिन्यास्तन्त्रराजके। द्वितीये षट् सहह्राणि तथा चत्रिशतानि च। त्रयः श्लोकास्तथैवात्र वाराह्यास्तन्त्रउत्तमे। ऊर्म्मिसंख्यासहस्राणि तत्वसंख्यशतानि च। गवाक्षे तन्त्रराजेऽस्मिन् श्लोकाहि तत्वसंख्यया। वर्णसंख्यसहस्राणि द्वे शते परिनिश्चिते। श्लोकास्तयश्चसंख्यातास्तन्त्रे नारायणीयके। वेदसंख्यसहस्राणितान्येव च शतानि च। श्लोका नवतिःसंख्याता मृडानीतन्त्रराजके। तृतीये त्रिसहस्राणि त्रिशतानि कनि-ष्ठके। त्रिंशत् श्लोकाश्च संख्याताज्ञातव्यास्तन्त्रवे-दिभिः”। वराहोत॰उपतन्त्राणि यथा
“सैद्धीक्तान्युपतन्त्राणि कपिलोक्तानियानि च। अद्भुतानि च एतानि जैमिन्युक्तानि यानिच। वशिष्ठः कपिलश्चैव नारदो गर्ग एव च। पुलस्त्यो-भार्गवः सिद्धो याज्ञवल्क्योभृगुस्तथा। शुक्रो वृहस्पति-श्चैव अन्ये ये मुनिसत्तमाः। एभिः प्रणीतान्यन्यानिउपतन्त्राणि यानि च। विसंख्यातानि तान्यत्र धर्मविद्भि-[Page3225-a+ 38] र्महात्मभिः। सारात् सारतराण्येव संख्यातानिनिबोधत”। वाराहीत॰। शिवोक्तं चतुःषष्टिसङ्ख्यकं तन्त्रं यथा
“सिद्धीस्वरं महा-तन्त्रं कालीतन्त्रं कुलार्णवम्। ज्ञानार्णवं नीलतन्त्रंफेत्कारीतन्त्रमुत्तमम्। देव्यागमं उत्तराख्यं श्रीक्रभंसिद्धियामलम्। मत्स्यसूक्तं सिद्धसारं सिद्धिसाराह्वयंतथा वाराहीतन्त्रं देवेशि! योगिनीतन्त्रमुत्तमम्। गणेशविमार्षणीतन्त्रं नित्यातन्त्रं शिवागमम्। चामु-ण्डाख्यं महेशानि! मुण्डमालाख्यतन्त्रकम्। हंसमाहे-श्वरं तन्त्रं निरुत्तरमनुत्तमम्। कुलप्रकाशकं देवि!कल्पं गाथात्मकं शिवे!। क्रियासारं निवन्धाख्यं स्वतन्त्रंतन्त्रमुत्तमम्। सम्मोहनं तन्त्रराजं ललिताख्यं तथा-शिवे!। राधाख्यं मालिनीतन्त्रं रुद्रयामलमुत्तमम्। वृहच्च श्रीक्रमं तन्त्रं गवाक्षं सुकुमुदिनि!। विशुद्धेश्वरतन्त्रञ्च मालिनीविजयं तथा। समयाचारतन्त्रञ्चभैरवीतन्त्रमुत्तमम्। योगिनीहृदयं तन्त्रं भैरवं पर-मेश्वरि!। सनत्कुमारकं तन्त्रं योनितन्त्रं प्रकीर्त्तितम्। तन्त्रान्तरञ्च देवेशि! नवरत्नेश्वरं तथा। कुलचूडामणि-तन्त्रं भावचूडामणीयकम्। मन्त्रदेवप्रकाशञ्च कामाख्या-नामकं तथा। कामचेनुकुमारी च भूतडामरसंज्ञकम्। मालिनीविजयं तन्त्रं यामलं व्रह्म यामलम्। विश्वसारंमहायन्त्रं महाकालं कुलामृतम्। कुलोड्वीशं कुब्जि-काख्यं यन्त्रचिन्तामणीयकम्। एतानि तन्त्ररत्नानिसकलानि युमे युगे। कालीविलसकादीनि तन्त्राणिपरमेश्वरि!। कालकल्पे सुसिद्धानि अश्वक्रान्तासु भूमिषु। महाचीनादितन्त्राणि अविकल्पे महेश्वरि!। सुसिद्धानिवरारोहे! रथक्रान्तासु भूमिषु” इति महासिद्धिसार-तन्त्रम्।
“चतुःषष्टिश्च तन्त्राणि यामलादीनि पार्व्वति। सकलानीह वाराहे विष्णुक्रान्तासु भूमिषु। कल्पभेदेन तन्त्राणि कथितानि च यानि च। पाषण्डमोहनायैव विफलानीह सुन्दरि!” विश्वसारतन्त्रम्। अन्यत्र च
“दैत्यानां मीहनार्थं तु तन्त्रशास्त्रं शिवोदितम्” तत्र स्वराष्ट्रचिन्तायां औषधे च
“तन्त्रावापविदा योगैः” माघः। शास्त्रे
“इदानीं तत्प्रवक्ष्यामि तन्त्रमुत्तरमुत्त-मम्” सुश्रुतः अनेकोद्देन सकृत्प्रयोगे
“द्वौ दैवे प्राक् त्रयःपित्र्ये उदगैकैकमेव वा। मातामहानामप्येवं तन्त्रं वावैश्वदैविकम्” याज्ञ॰।
“पिवृश्राद्धे मातामहश्राद्धे च वैश्व-दैविकं तन्त्रेण कार्य्यमिति” मिता॰।
२१ विध्यन्ते अङ्ग-[Page3225-b+ 38] समुदाये
“दर्शपौर्णमासौ तु पूर्वं व्याख्यास्यामस्तन्त्रस्यतत्राम्नातत्वात्” आश्व॰ श्वौ॰
१ ।
१ ।
३ । तन्त्रमङ्गसंहतिःविध्यन्त इत्यर्थः स चावस्थानादिसंस्थाजपान्तःप्रधानस्य तन्त्रणात् तन्त्रमित्युच्यते” कर्कः। तन्त्रल-क्षणादिकं कात्यां॰ श्रौ॰ उक्तं यथा
“कर्मणां युग-पद्भावस्तन्त्रम्” कात्या॰ श्रौ॰
१ ।
७ ।
१
“यत्र प्रधानकर्मणां युगपद्भावः सह प्रयोगः तत्रारा-दुपकारकाणामङ्गानां तन्त्रं सकृदनुष्ठानं भवति। नप्रतिप्रधानं पृथक् पृथक् यद्धि सकृत् कृतं बहूनामुप-करोति तत्तन्त्रमित्युच्यते यथा बहूनां मध्ये कृतःप्रदीपः। कुतस्तन्त्रमिति हेत्वाकाङ्क्षायां त्रीन् हेतू-नाह” कर्कः।
“शक्यपुरुषार्थकृतत्वैकार्थसमवायश्रुतिभ्यः”
२ सू॰।
“प्रधानकर्मणां सह प्रयोगे सति तद-ङ्गानां सकृदनुष्ठानमुक्तम्। तत् कुतः शक्यत्वात् सकृदप्य-नुष्ठितैरारादुपकारकैरङ्गैर्बहूनामपि प्राधानानामुप-कारस्य कर्तुं शक्यत्वात् शक्नुवन्ति ह्यारादुपकारकाणिबहूनामुपकर्तुम्, अगृह्यमाणविशेषत्वात् प्रदीपवत्यथा एक एव प्रदीपो बहूनां मध्ये कृतः सन् सर्वेषा-मुपकरोति एवमेतान्यपीति। यद्यप्यङ्गानां प्रत्येकमेवविनियोगस्तथापि विधिना तावदनुष्ठानं सकृदेवोपकारकंभवति यथैव हि षट्सु भावनासु लिङ्पदेनैव कथम्भाव-मपेक्षमाणास्वपि सकृदाम्नाता एवाङ्गविधयः षण्णामपिप्रत्येकमङ्कानि समर्पयन्ति सत्यपि च कस्यचित् प्रधानो-त्पत्तिविधिसन्निधौ प्रकरणवशेन संनिधिर्बाध्यते तथैवसंहतानां प्रधानानां फलसाधनत्वात् कर्तृदेशकालैक्याच्चयुगपत् सर्वेष्वनुष्ठातुं प्रारब्धेषु सकृत्कृतमेवाङ्गं सर्व-चिकीर्षया कृतत्वात् सन्तमपि केनचित् संनिधिं बाधित्वाप्रकरणवशेन सर्वार्थं भवति। किं च पौर्णमास्यां यजेतेतित्रयाणां युगपदनुष्ठानमवगतं पृथक् पृथक् साङ्गे-ष्वनुष्ठीयमानेषु बाध्यते तस्मात् सकृदेवाङ्गानामनुष्ठा-नम्। तथा पुरुषार्थकृतत्वाच्च यतः सकृदनुष्ठितैरप्यङ्गैःपुरुषार्थः कृत एव भवति पुरुषार्थः पुरुषस्याभीष्टंफलम् तद्धि आग्नेयादिभिरङ्गोपकृतैः क्रियते आरा-दुपकारकाणि चाङ्गान्यनेकघटादिप्रकाशकप्रदीपवत् सर्वेषांसहैवोपकुर्वन्ति सकृत्कृतैरपि पुरुषार्थः कृतएव भवति। तथा एकार्थसमवायश्रुतेश्चाङ्गानां तन्त्रं भवति एको-ऽर्थो यस्य एकार्थ एकफलो यः प्रधानानां समवायःसमूहः स एकार्थसमवायः तत्र एकार्थे समवाये एकफले[Page3226-a+ 38] प्रधानसमूहे अङ्गानां तन्त्रश्रुतेः अङ्गानां सकृदनुष्ठानंश्रूयते यतः। तथाहि
“ता एकविंशतिराहुतयोद्वावा-धारौ पञ्च प्रयाजा द्वावाज्यभागावाग्नेयः पुरोडाशस्त-द्दशाग्नीषोमीय उपांशुयाजोऽग्नीषोमीयः पुरोडाशोऽग्निःस्विष्टकृदिडा त्रयोऽनुयाजाः सूक्तवाकश्च शम्योर्वाक्-श्चाथ यदेवादः पत्नीसंयाजेषु सम्प्रगृह्णाति समिष्टयजुश्चेति तत्राग्नेयोपांशुयाजाग्नीषोमीयलक्षण एक-फले प्रधानसमवाय आहुतीनामेकविंशतिसंख्या श्रूयतेसा चाङ्गानां सकृत्करणपक्ष एवोपपद्यते न प्रतिप्रधानंपृथगनुष्ठानपक्षे। तस्मात् प्रधानानां सहप्रयोगे सकृ-देवारादुपकारिका क्रिया सन्निपत्योपकारकाणां प्रति-प्रधानमावृत्तिरिति तु प्रागुक्तमेव। अथ प्रधानानां सहप्रयोगे कारणान्याह” कर्कः।
“फलकर्मदेशकालद्रव्य-देवतागुणसामान्ये”
३ सू॰। यत्रैकेन वाक्येन बहूनिप्रधानकर्माणि एकफलसाधनत्वेन विधीयन्ते तत्र तेषा-मितरेतरापेक्षाणां साधनत्वेन विधानात् सहप्रयोगःतद्यथा मित्राविन्दाश्रीराष्ट्रमित्रायुष्कामस्येति वैश्वदेवेनप्रजाकामं याजयेदिति अत्र मित्रविन्दाशब्देन समुदाय-वचनेन दशानां हविषां सहप्रयोगः वैश्वदेवशब्देन चसमुदायवचनेनाष्टानां हविषाम्। सूत्रार्थस्तु सामान्यशब्दः प्रत्येकं सम्बध्यते फलसामान्ये कर्मसांमान्येदेशसामान्ये कालसामान्ये द्रव्यसामान्ये देवतागुणयोःसामान्य इति एकवाक्येनैकफलसाघनत्वेन विधानेऽपिफलादिसामान्ये सत्येव प्रधानानां सहप्रयोगो भवतिफलं स्वर्गादि कर्म पञ्चप्रयाजता त्र्यनुयाजतेत्यादि। देशःसमप्राचीनप्रवणादिः। कालः पूर्वाह्णापराह्णादिः। द्रव्यंदक्षिणाद्रव्यम् न तु हविर्द्रव्यम् अनेकेषु प्रधानकर्मसुतद्भेदस्यावश्यम्मावात् देवता प्रजापतीन्द्रादिः। तद्गुणउपांशुत्वाश्राव्यत्वादिः तस्मिन् सति प्रधानमपि सहैवभवति न पृथक्” कर्कः
“तद्भेदे भेदः”
४ सू॰। तेषांफलादीनां भेदस्तद्भेदः तद्भेदे तेषां फलादीनां सहप्रयोगकारणानां भेदे सति प्रधानानां प्रयोगभेदोभवति तत्र प्रयोगवचनभेदान्मित्रविन्दाप्रीतिकामा-ग्नेययोर्न सहप्रयोगः फलभेदाच्च श्रीकामराष्ट्रकाम-मित्रकामायुष्काममित्रविन्दानां पृथक् प्रयोगः। कर्म-भेदेऽपि प्रयोगभेदो भवति तद्यथा कस्यचित् पञ्चप्रया-जता कस्यचिन्नवप्रयाजता यथा च क्रैडिनीया महा-हविषोस्तन्त्रसहत्वे इतरेतरस्य विगुणत्वं भवति। [Page3226-b+ 38] देशभेदेऽपि तन्त्रभेदो भवति यथा वरुणप्रयासेषुमारुत्याः क्रैडिनीमहाहविषोश्च क्रैडिन्याः समदेशःमहाहविषस्तु प्राचीनप्रवणः। कालभेदेऽपि सह-प्रयोगो न भवति यथा दर्शस्य पौर्णमासस्य च
“पौर्ण-मास्यां पौर्णमास्या यजेतामावास्यायाममावास्यया यजे-तेति वचनेन कालभेदेन तयोर्विधानात्। यथा वा आनी-कवतीसान्तपनीययोः पूर्वाह्णमध्याह्नरूपकालभेदात्तन्तभेदः। दक्षिणाद्रव्यैक्ये सति सहप्रयोगो यथाराजसूये त्रयाणां त्रिषंयुक्तानां येषां मते चत्रिषंयुक्तानां त्रयाणामप्येकस्मिन्नेवाहन्यनुष्ठानम्तेषां दक्षिणाद्रव्यभेदेन त्रयाणां त्रयाणां पृथग-नुष्ठानम् न सर्वेषां सहप्रयोगः दक्षिणाभेदश्चत्रयाणां वामनः त्रयाणां श्यामः त्रयाणां बभ्रुरितितत्र दक्षिणाभेदादानतिभेदः तद्भेदात्तत्कृतस्य स्वरूपस्यभेदः वामनानतैर्हि पूर्वं कर्म कर्त्तव्यम् श्यामानतै-रुत्तरम् तन्त्रत्वे तूभाभ्यामानता उभयं कुर्य्युः। तत्रदक्षिणाव्यवस्था गम्यमाना बाध्येत। तस्मात् प्रतिदक्षिणंतन्त्रभेदः। अत्र एकवाक्येनेकफलार्थमेव विधाने देश-कालकर्मैक्ये सत्यपि दक्षिणाभेदात्तन्त्रभेदः। देवतायादेवतागुणस्य च सामान्ये सति उच्चारणमपि तस्यादेवताया आवाहनत्यागादौ तन्त्रेण भवति यथा सप्त-दशप्राजापत्येषु राजपेये प्रजापतेर्देवतायाः समानत्वा-द्गुणस्योपांशुत्वस्य च समानत्वादनुवचनादौ तन्त्रेणो-च्चारणं भवति यागोऽपि तन्त्रेणैव भवति। तथा चप्राजापत्यान् प्रकृत्य श्रूयते एकानुवाक्या भवत्येक-याज्यैकदेवत्या हि प्राजापत्या इत्युपांशुत्वाच् छागानांहविषोऽनूब्रूहोति अत्रानुवाक्याद्येकत्वे एकदेवतत्वंहेतुं ब्रुवन्ती एकदेवताकानां सिद्धं तन्त्रोच्चारणं दर्श-यति। दर्शपूर्णमासयोरेव द्रव्यभेदेऽपि दध्नः पयसश्चदेवताया इन्द्रस्य तद्गुणस्य चाश्राव्यत्वस्य समानत्वात्त-न्त्रेणैव याग उच्चारणं भवति। देवतायां समानाया-मपि देवतागुणस्योपाशुत्वादेर्भेदे सति सहोच्चारणं नभवति यथा प्रकृतावेवापांशुजापाग्नीषोमयोः पुरोडाशा-ग्नीषोमयोश्च। इह देवतातद्गुणयोः सामान्ये यागस्यतन्त्रेणानुष्ठानमुच्यते अत्र सिद्धमेव देवतागुणसामान्येतन्त्रेण यागानुष्ठानमुपजीव्य भेदो यागस्य भेदेनानु-ष्ठानपूर्वं निषिद्धः न द्रव्यभेदे गुणयोगादिति वा तस्यइति न पुनरुक्तिदोषादि। ” कर्कः। [Page3227-a+ 38] तल्लक्षणविषयादिकं जैमिनिना एकदशाध्याये न्यरूपि ततएवागन्तव्यं संक्षेपतश्च जैमिनिशब्दे माधवेनोक्तं
३१
४१ पृ॰ दर्शितम्। तत्र शास्त्रे
“आसुरिरपि पञ्चशिखायतेन बहुधा कृतं तन्त्रम्”
“सप्तत्यां किल येऽर्थास्तेऽर्थाःषष्टितन्त्रस्य” सा॰ का॰।
२२ नीत्यवयवे।
“तन्त्रैः पञ्चभि-रेतच्चकार मनोरमं शास्त्रम्” पञ्चत॰। तदवय-पाश्च मित्रभेदमित्रप्राप्तिकाकोलूकीयलब्धाप्रणाशपरीक्षित-कारकाख्याः। तन्त्रं वेत्ति ठक्। तान्त्रिक तन्त्रवेत्तरि त्रि॰। तन्त्र विहितः ठक्। तान्त्रिक तन्त्रविहिते त्रि॰ स्त्रियांङीप्
“वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोःगत” तन्त्रसा॰ तान्त्रिकी दीक्षा
२३ वशे च स्वतन्त्रः परतन्त्रः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तन्त्र¦ mfn. (-न्त्रः-न्त्रा-न्त्रं) Dependant, subsarvient. m. (-न्त्रः) A weaver. f. (-न्त्री)
1. Any string or rope.
2. The wire or string of a lute.
3. Any tubular vessel of the body.
4. A plant, (Menispermum glabrum:) see गूडुची।
5. The name of a river.
6. A young woman. n. (-न्त्रं)
1. A Tantra, a religious treatise teaching peculiar and mystical formulæ and rites for the worship of the deities, or the attainment of superhuman power: it is mostly in the form of a dialogue between SIVA and DURGA, who are the peculiar gods of the Tantrikas: there is a great number of these works, and their authority, in many parts of India, seems to have, in a great measure, superseded that of the Vedas: according to one account, a Tantra comprises five subjects, the creation and destruction of the world, the worship of the gods, the attainment of all objects, magical rites for the acquirement of six (superhuman) faculties, and four modes of union with spirit by meditation; a variety of subjects are, however, introduced many of them, whilst some are limited to a single topic, as the mode of breathing in certain rites, the language of birds, beasts, &c.
2. A branch of the Vedas, that which teaches Mantra or mystical and magical formulæ.
3. Demon- stration, clear and right conclusion.
4. Raiment, vesture.
5. A me- dicament, a drug.
6. A principal medicament, or perhaps a charm considered as producing medicinal effects.
7. Providing for a fami- ly.
8. A cause, a motive.
9. Cause common to two or more results; the instruments or means of more than one effect.
10. Necessary or indispensable act or provision; the right way of doing any thing.
11. Chief, principal.
12. A royal retinue, a court, a train.
13. An army.
14. A royal property: that of providing for the security and prosperity of the kingdom.
15. A realm, a country.
16. A thread,
17. Subservience, service, dependance.
18. Oath or ordeal.
19. De- corations, hanging with trophies, garlands, &c.
20. Heap, multitude.
21. Wealth.
22. A house.
23. An implement or weaving a loom.
24. Happiness, felicity. E. तन to spread or extend, affix ष्ट्रन्; or तत्रि to spread, to support a family, &c. affix क, fem. affix ङीप्; or तन्त्र with ई Unadi aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तन्त्रम् [tantram], 1 A loom; तदा$पश्यत् स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ Mb.1.3.144.
A thread.
The warp or threads extended lengthwise in a loom; सिरीस्तन्त्रं तन्वते अप्रजज्ञयः Rv.1.71.9.
Posterity.
An uninterrupted series.
The regular order of ceremonies and rites, system, framework, ritual; कर्मणां युगपद्भावस्तन्त्र Kāty.; अशक्यं हि उत्तरं तन्त्रं कर्तुम् । ŚB. on MS.1.2.57.
Main point; प्रकर्षतन्त्रा हि रणे जयश्रीः Ki.3.17.
Principal doctrine, rule, theory, science; विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवम् Bhāg. 11.3.47; जितमनसिजतन्त्रविचारम् Gīt.2.
Subservience, dependence; as in स्वतन्त्र, परतन्त्र; दैवतन्त्रं दुःखम् Dk.5.
A scientific work.
a chapter, section, as of a work; तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् Pt.1.
A religious treatise teaching magical and mystical formularies for the worship of the deities or the attainment of superhuman power; Ks.23.63; Bṛi. S.16.19.
The cause of more than one effect.
A spell.
A chief remedy of charm; जानन्ति तन्त्रयुक्तिम् Ms.2.1.
A drug, medicament.
An oath, ordeal.
Raiment.
The right way of doing anything.
Royal retinue, train, court.
A realm, country, authority.
(a) Government, ruling, administration; लोकतन्त्रविधानम् Mb.3.162.1;13.63.5; लोकतन्त्राधिकारः Ś.5. (b) Arrangement or machinery of government; सर्वमेव तन्त्रमाकुली- भूतम् Mu.1;2.1.
An army; पराजिताः फल्गुतन्त्रैः Bhāg.1.54.15.
A heap, multitude.
A house.
Decoration.
Wealth.
Happiness.
Model.
Supporting a family; Mv.2.17.
Providing for the security and prosperity of a kingdom; Mb.1.13. 26.
A group of acts or subsidiaries common to several प्रधानकर्मs or things; यत् सकृत्कृतं बहूनामुपकरोति तत् तन्त्रमित्युच्यते । तथा बहूनां ब्राह्मणानां मध्ये कृतः प्रदीपः ŚB. on MS.11.1.1; तन्त्रं साधारणो धर्मग्रामः । ŚB. on MS.12.1.1. (Opp. आवापः)
The order of the world; यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति Mb.14.2.14.
A detail (matter or thing) which is subservient to (i. e. serves the purpose of) several things simultaneously; साधारणं भवेत् तन्त्रम् ŚB. on MS.12.1.1. -Comp. -काण्ठम् = तन्तु- काष्ठ q. v. -ज्ञः an expert, scientist; Bhāg.1.36.28.-भावः Simultaneity; यथा एकैकस्य सत्त्वस्य हस्तिनो$श्वस्य वा दर्शनमेकैकेन कृत्स्नमभिनिर्वर्त्यते एवमेव सत्रे तन्त्रभावो भवेत् । ŚB. on. MS.6.2.2. -युक्तिः The plan of a treatise; Kau. A. 15.
वापः, पम् weaving.
a loom.
वायः a spider.
a weaver; (तन्त्रवापः also).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तन्त्र n. ( Pa1n2. 7-2 , 9 Ka1s3. )a loom , v , 2 , 70
तन्त्र n. the warp RV. x , 71 , 9 AV. x , 7 , 42 TBr. ii Ta1n2d2yaBr. x , 5 S3Br. xiv Kaus3. MBh. i , 806 and 809
तन्त्र n. the leading or principal or essential part , main point , characteristic feature , model , type , system , framework S3Br. xii Ta1n2d2yaBr. xxiii , 19 , 1 La1t2y. Ka1tyS3r. etc. ( e.g. कुलस्य त्, " the principal action in keeping up a family i.e. propagation " MBh. xiii , 48 , 6 ; ifc. " depending on " See. आत्म-, स्व-, पर-, etc. )
तन्त्र n. doctrine , rule , theory , scientific work , chapter of such a work ( esp. the 1st section of a treatise on astron. VarBr2S. i , 9 ; पराशर's work on astron. , ii , 3 ; vii , 8 ) MBh. etc. (See. षष्टि-etc. )
तन्त्र n. a class of works teaching magical and mystical formularies (mostly in the form of dialogues between शिवand दुर्गाand said to treat of 5 subjects , 1. the creation , 2. the destruction of the world , 3. the worship of the gods , 4. the attainment of all objects , esp. of 6 superhuman faculties , 5. the 4 modes of union with the supreme spirit by meditation Page436,2 ; See. RTL. pp. 63 , 85 , 184 , 189 , 205ff.) VarBr2S. xvi , 19 Pan5cat. Das3. Katha1s. xxiii , 63 Sarvad.
तन्त्र n. a spell HYog. i , 5 Vcar.
तन्त्र n. oath or ordeal L.
तन्त्र n. N. of a सामन्(also called " that of विरूप") A1rshBr.
तन्त्र n. an army(See. त्रिन्) BhP. x , 54 , 15
तन्त्र n. ifc. a row , number , series , troop Ba1lar. ii f. , vi
तन्त्र n. = राज्य-त्, government Das3. xiii S3is3. ii , 88
तन्त्र n. ( पर त्, " the highest authority ") Subh.
तन्त्र n. a means which leads to two or more results , contrivance Hariv. ii , 1 , 31
तन्त्र n. a drug ( esp. one of specific faculties) , chief remedySee. त्रा-वाप
तन्त्र n. = परिच्छदL.
तन्त्र n. = अन्तL.
तन्त्र n. wealth L.
तन्त्र n. a house L.
तन्त्र n. happiness W.
तन्त्र etc. See. cols. 1 , 2.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--आगम s4a1stra in which yogins were learned; फलकम्:F1: भा. I. 3. 8; IV. २४. ६२; वा. १०४. ८६.फलकम्:/F prescribes rules for the worship of Hari; फलकम्:F2: भा. XI. 3. ४७.फलकम्:/F known in द्वापर yuga, फलकम्:F3: Ib. XI. 5. २८ and ३१; २७. २६.फलकम्:/F deals with the विभूतिस् of Hari. फलकम्:F4: भा. XII. ११. 4 and २०.फलकम्:/F
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Tantra means, like Tantu, the ‘warp’ of a piece of weaving, or more generally the ‘web’ itself. It is found in the Rigveda[१] and later.[२]
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तन्त्र न.
(तन् + ष्ट्रन्) यज्ञ का प्रक्रियात्मक अनुष्ठान (‘आगन्ेयस्य तन्त्रं प्रक्रमयति’ अगिन् के लिए यज्ञ के अनुष्ठान के साथ प्रक्रिया प्रारम्भ करता है), भा.श्रौ.सू. 5.12.1, साधारण प्रक्रिया (किसी इष्टि का, जैसे-बर्हिराहरण, इत्यादि), आप.श्रौ.सू. 1०.21.1; ‘इष्टि’ का ढाँचा, मा.श्रौ.सू. 1.5.5.4; बहुतायत चीजों के लिए केवल एक बार उनके अनुष्ठान के द्वारा तत्सदृश कृत्यों का समावेशन, ‘कर्मणां युगपद्भावः तन्त्रम्’, का.श्रौ.सू. 1.71 (प्रधानकर्मणां यत्र युगपद्भावः = सहानुष्ठानं तत्र अङ्गानामपि सकृदेवानुष्ठानं भवति), आवश्यक वैशिष्ट्य (अङ्ग) उदाहरणार्थ-यज्ञ के प्रयाज आदि, स.वृ. जिनका अनुष्ठान केवल एक बार होता है किन्तु सम्पूर्ण यज्ञ का उपकार करता है अौर यह ढाँचा बन जाता है, आप.श्रौ.सू. 14.5.3; इसी के आधार पर ‘दर्श’ को अन्य इष्टियों के ऊपर प्राथमिकता दी जाती है, आश्व.श्रौ.सू. 1.1.3; इसका तात्पर्य सम्पूर्ण याग से भी है, आप.श्रौ.सू. 24.1.29; ‘भिन्नतन्त्र’ भी देखें, 2०.2.6; बौ.श्रौ.सू. 24.3; ‘आवाप’ जो सामन्यरूप से तन्त्र में निविष्ट किये जाते हैं, के विरुद्ध के रूप में साधारण वैशिष्ट्य (तन्त्र) की बात करता है।
- ↑ x. 71, 9.
- ↑ Av. x. 7, 42;
Taittirīya Brāhmaṇa, ii. 5, 5, 3;
Pañcaviṃśa Brāhmaṇa, x. 5;
Śatapa ha Brāhmaṇa, xiv. 2, 2, 22.
Cf. Zimmer, Altindisches Leben, 254.
- यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
- यन्त्रोपारोपितकोशांशः-अमरकोशः
- यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्
- यन्त्रोपारोपितकोशांशः-शब्दसागरः
- यन्त्रोपारोपितकोशांशः-Apte
- यन्त्रोपारोपितकोशांशः-Monier-Williams
- यन्त्रोपारोपितकोशांशः-Purana index
- संस्कतशब्दाः
- यन्त्रोपारोपितकोशांशः-Vedic Index of Names and Subjects
- यन्त्रोपारोपितकोशांशः-Vedic Rituals Hindi