तैल

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलम्, क्ली, (तैलं तैलवत् स्नेहोऽस्त्यस्येति । अच् ।) सिह्लकः । इति रत्नमाला ॥ (तिलस्य तत्- सदृशस्य वा विकारः । तिल + “तस्य विकारः ।” ४ । ३ । १३४ । इत्यण् ।) तिलादिजातस्नेहः । यथा, भावप्रकाशे । “तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम् ॥” तत्पर्य्यायः । म्रक्षणम् २ स्नेहः ३ अभ्य- ञ्जनम् ४ । इति हेमचन्द्रः । ३ । ८१ ॥ अस्य गुणाः । कषायत्वम् । मधुरत्वम् । त्वच्यत्वम् । उष्णत्वम् । व्यवायित्वम् । पित्तकारित्वम् । वद्ध- विन्मूत्रत्वम् । श्लेष्मावर्द्धकत्वम् । सर्व्ववात- विकारनाशित्वम् । मेधाग्निबलवर्द्धनत्वञ्च । “नास्ति तैलात् परं किञ्चित् भेषजं मारुता- पहम् ॥” इति राजनिर्घण्टः ॥ पक्वपुरातनतैलस्य गुणः । महद्गुणत्वम् । किञ्चिद्गन्धहीनत्वञ्च । द्रव्यसंयोगे संस्कृततैलस्य सर्व्वरोगनाशित्वम् ॥ अवगाहने युक्ततैलस्य गुणः । शरीरबलकारित्वम् । शिंरामुखरोम- कूपधमनीनाडीद्वारा तृप्तिकारित्वञ्च । नित्यं मस्तके अधिकतैलदानगुणाः । शिरःशूल- खालित्यपालित्यनाशित्वम् । केशमूलस्य दृढता- कारित्वम् । केशस्यापतनघनताकृष्णतादीर्घता- कारित्वम् । इन्द्रियप्रसन्नताग्निशुद्धिकारित्वञ्च ॥ नित्यं कर्णे तैलपूरणस्य गुणाः । मन्याहनु- संग्रहोच्चैःश्रुतिवाधिर्य्यकर्णवातजरोगाजनक- त्वम् ॥ मर्द्दने तैलस्य गुणः । घृतादष्टगुणगुरु- त्वम् । इति राजवल्लभादिः ॥ * ॥ “प्रातःस्नाने व्रते श्राद्धे द्वादश्यां ग्रहणे तथा । मद्यलेपसमं तैलं तस्मात्तैलं विवर्जयेत् ॥” इति कर्म्मलोचनम् ॥ “घृतञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम् । अदुष्टं पक्वतैलञ्च तैलाभ्यङ्गे च नित्यशः ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ वारविशेषे तैलग्रहणफलं यथा, -- रवौ हृद्रोगः सोमे कीर्त्तिलाभः कुजे मृत्युः बुधे पुत्त्राप्तिः गुरौ अर्थहानिः शुक्रे शोकः शनौ दीर्घायुः ॥ * ॥ अथ निषिद्धदिने तैलग्रहणदोषशान्त्यर्थदेय- द्रव्यनियमः । रवौ पुष्पं गुरौ दूर्व्वा कुजे भूमिः शुक्रे गोमयम् । अस्य प्रमाणं यथा, -- “अर्के नूनं दहति हृदयं कीर्त्तिलाभश्च सोमे भौमे मृत्युर्भवति नियतं चन्द्रजे पुत्त्रलाभः । मलकृद्रसतः स्वादु ग्राहि त्वग्दोषहृत् व्रणम् । वस्तौ पाने तथाभ्यङ्गे नस्ये कर्णस्य पूरणे ॥ अनुपानविधौ चापि प्रयोज्यं वातशान्तये ॥ * ॥ अथ वररैतैलगुणाः । कुसुम्भतैलमम्लं स्यादुष्णं गुरु विदाहि च । चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्रदम् ॥ * ॥ अथ खाखसवीजतैलगुणाः । तैलं खाखसवीजानां बल्यं वृष्यं गुरु स्मृतम् । वातहृत् कफकृच्छीतं स्वादुपाकरसञ्च तत् ॥ * ॥ अथ एरण्डतैलगुणाः । एरण्डतैलं तीक्ष्णोष्णं दीपनं पिच्छिलं गुरु । वृष्यं त्वच्यं वयःस्थायि मेधाकान्तिबलप्रदम् ॥ कषायानुरसं सूक्ष्मं योनिशुक्रविशोधनम् । विस्रं स्वादु रसे पाके सतिक्तं कटुकं सरम् ॥ विषमज्वरहृद्रोगपृष्ठगुह्यादिशूलहृत् । हन्ति वातोदरानाहगुल्माष्ठीलाकटीग्रहान् ॥ वातशोणितविड्बन्धव्रध्नशोथामविद्रधीन् । आमवातगजेन्द्रस्य शरीरवनचारिणः । एक एव निहन्तायमेरण्डस्नेहकेशरी ॥ * ॥ अथ रालतैलगुणाः । तैलं सर्ज्जरसोद्भूतं विस्फोटव्रणनाशनम् । कुष्ठपामाकृमिहरं वातश्लेष्मामयापहम् ॥ * ॥ अथ सर्व्वतैलगुणाः । तैलं स्वयोनिगुणकृद्वाग्भटेनाखिलं मतम् । अतः शेषस्य तैलस्य गुणा ज्ञेयाः स्वयोनिवत् ॥ इति भावप्रकाशे तैलवर्गः ॥ * ॥ अथ पुराणतैलगुणाः । “यामं कल्ककषायवीर्य्यमखिलं चूर्णञ्च पक्षत्रयं षण्मासान् घृतमोदकौ सहगुडौ मासत्रयं गुग्गुलोः । सिद्धानां रसभस्मनां सुविपुलं वीर्य्यन्तु वर्षत्रयं किञ्चिद्गन्धविवर्ज्जितं गुणपरं तैलं पुराणं महत् ॥” इति नारायणदासकृतपरिभाषा ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैल नपुं।

तैलम्

समानार्थक:म्रक्षण,अभ्यञ्जन,तैल

2।9।50।2।3

यवागूरुष्णिका श्राणा विलेपी तरला च सा। म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः। गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैल¦ न॰ तिलस्व तत्सदृशस्य वा विकारः अञ्। तिलसर्षपादि-जनिते स्नेहद्रव्यभेदे। तल्लक्षणादिकं भावप्र॰ उक्तं यथा
“तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम्। तत्तुवातहरं सर्वं विशेषात्तिलसम्भवम्। अथ तिलतैलगुणाः[Page3351-a+ 38]
“तिलतैलं गुरु स्थैर्य्यवलवर्णकरं सरम्। वृष्यं विकाशिविशदं मधुरं रसपाकयोः। सूक्ष्मं कषायानुरसं-तिक्तं वातकफापहम्। वीर्य्येणोष्णं हिमं स्पर्शे वृंहणंरक्तपित्तकृत्। लेखनं बद्धविण्मूत्रं गर्भाशयविशो-धनम्। दीपनं बुद्धिदं मेध्यं व्यवायि व्रणमेहनुत्। श्रोत्रयोनिशिरःशूलनाशनं लघुताकरम्। त्वच्यंकेश्यञ्च चक्षुष्यमभ्यङ्गे भोजनेऽन्यथा। छिन्नभिन्नच्यु-तोत्पिष्टमथितक्षतपिच्चिटे। भग्नस्फुटितविद्धाग्निदग्ध-विश्लिष्टदारिते। तथाभिहितमिर्भुग्ने मृगव्याघ्रादिविक्षते। वस्तौ पानेऽन्नसंस्कारे नस्ये कर्णाक्षिपूरणे। सेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते”। ननु वृंहणलेखनयोः कथं सामानाधिकरण्यमित्यत आह।
“रूक्षा-दिदुष्टः पवनः स्रोतः सङ्कोचयेद्यदा। रसोऽसम्यग्वहन्कार्श्यं कुर्य्याद्रक्ताद्यवर्द्धयन्। तेषु प्रवेष्टुंसरता सौक्ष्म्यस्निग्धत्वमार्दवैः। तैलं क्षमं रसं नेतुं कृशानां तेन-वृंहणम्। व्यवायि सूक्ष्मतीक्ष्णीष्ण सरत्वैर्मेदसः क्षयम्। शनैः प्रकुरुते तैलं तेन लेखनमीरितम्। द्रुतं पुरीषंवध्नाति स्खलितं तत्प्रवर्त्तयेत्। ग्राहकं सारकञ्चापितेन तैलमुदीरितम्। घृतमव्दात्परं पक्वं हीनवीर्य्यंप्रजायते। तैलं पक्वमपक्वं वा चिरस्थायि गुणाधिकम्”। सर्षपतैलगुणाः।
“दीपनं सार्षपं तैलं कटुपाकरसंलघु। लेखनं स्पर्शवीर्य्योष्णं तीक्ष्णं पित्तास्रदूषकम्। कफमेदोऽनिलार्शोघ्नं शिरःकर्णामयापहम्। कण्डूकुष्ठ-कृमिश्वित्रकोठदुष्टकृमिप्रणुत्”। राजिकातैलगुणाः
“तद्वद्राजिकयोस्तैलं विशेषान्मूत्रकृच्छकृत्”। राजिकयोः (कृष्णाराई) (आरक्तराई) द्वयोः। तुवरी (तोरी) तैलगुणाः
“तीक्ष्णोष्णं तुवरीतैलं लघु ग्राहिकफास्रजित्। वह्निकृद्विषनुत्कण्डूकुष्ठकोठकृमिप्रणुत्। मेदोदोषापहञ्चापि व्रणशोथहरं परम्”। अतसीतैल-गुणाः
“अतसीतैलमाग्नेयं स्निग्धोष्णं कफपित्तकृत्। कटुपाकमचक्षुष्यं वल्यं वातहरं गुरु। मलकृद्रसतःस्वादु ग्राहि त्वग्दोषनुद्थनम्। वस्तौ पाने तथाभ्यङ्गेनस्ये कर्णस्य पूरणे। अनुपानविधौ चापि प्रयोज्यंवातशान्तये। वररोः तैलगुणाः
“कुसुम्भतैलमम्लं स्यादुष्णंगुरुविदाहि च। चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्र-दम्। अथ (खाखस) वीजतैलस्य गुणाः।
“तैलं तुखसवीजानां बल्यं वृष्यं गुरु स्मृतम्। वातहृत्कफहृच्छीतंस्वादुषाकरसं च तत्”। एरण्डतैलगुणाः
“एरण्डतैलं[Page3351-b+ 38] तीक्ष्णोष्णं दीपनं पिच्छिलं गुरु। वृष्यं त्वच्यं वयः-स्थापि मेधाकान्तिबलप्रदम्। कषायानुरसं सूक्ष्मंयोनिशुक्रविशोधनम्। विस्रं स्वादु रसे पाके सतिक्तंकटुकं सरम्। विषमज्वरहृद्रोगपृष्टगुह्यादिशूलनुत्। हन्ति वातोदरानाहगुल्माष्ठीलाकटीग्रहान्। वात-शोणितविड्बन्धव्रध्नशोथामविद्रधीन्। आमबातग-जेन्द्रस्य शरीरवनचारिणः। एक एव निहन्तायमेरण्डस्नेहकेशरी”। रालतैलगुणाः
“तैलं सर्जरसोद्भूतंविस्फोटव्रणनाशनम्। कुष्ठपामक्रिमिहरं वातश्लेष्मामयापहम्”। सर्वतैलगुणाः
“तैलं स्वयोनिगुणकृद्वाग्भटेनाखिलंमतम्। अतःशेषस्य तैलस्य गुणाज्ञेयास्वयोनिवत्”।
“प्रातः स्नाने व्रते श्राद्धे द्वादश्यां ग्रहणे तथा। मद्य-लेपसमं तैलं तस्मात्तैलं विवर्जयेत्” कर्म्मलोचन॰।
“घृतञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम्। अदुष्टं पक्व-तैलञ्च तैलाभ्यङ्गे च नित्यशः” तिथ्या॰ त॰ वारवि-शेषे तैलग्रहणफलं यथा।
“अर्के नूनं दहति हृदयं कीर्त्तिलाभश्च सोमे भौमेमृत्युर्भवति नियतं चन्द्रजे पुत्रलाभः। अर्थग्लानि-र्भवति च गुरौ भार्गवे शोकयुक्तस्तैलाभ्यङ्गात्तनयमरणंसूर्य्यजे दीर्घमायुः” ज्यो॰ त॰।
“घृतादष्टगुणं तैलं मर्दयेन्नतु खादयेत्” वैद्यक॰। अल्पे कन्। तैलक स्वल्पतैले न॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैल¦ n. (-लं)
1. Oil, expressed oil, prepared from sesamum, mustard, &c.
2. Storax, gum benzoin, incense. E. तिल sesamum, and अण् aff. तिलस्य तत्सदृशस्य वा विकारः |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलम् [tailam], [तिलस्य तत्सदृशस्य वा विकारः अण्]

Oil; लभेत सिकतासु तैलमपि यत्नतः पीडयन् Bh.2.5; Y.1.284; R.8.38.

Benzoin. -Comp. -अटी a wasp. -अभ्यङ्गः anointing the body with oil. -अम्बुका, -पकः, -पका, -पा, -पायिका a cockroach; Ms.12.63. -कल्कजः oil-cake.-कारः an oil-man. -किट्टम् oil cake. -क्षौमम् a kind of oily cloth (whose ash is applied to the wound); Mb. 5.155.9. -चौरिका a cockroach. -द्रोणी an oil-tub.

पर्णिका, पर्णी, र्णिकम् sandal.

incense; Kau. A.2.11.

turpentine. -पायिन् m.

a kind of cockroach; यस्तु चोरयते तैलं नरो मोहसमन्वितः । सो$पि राजन्मृतो जन्तुस्तैलपायी प्रजायते ॥ Mb.13.111.111.

a sword; तामापतन्तीं चिच्छेद शकुनिस्तैलपायिना Mb.7.155.31. -पिञ्जः the white sesamum. -पिपीलिका the small red ant.-पीत a. one who has drunk oil. -पूर a. (lamp) that wants no oil-filling; cf. भवन्ति यत्रैषधयो रजन्यामतैलपूराः सुरतप्रदीपाः Ku.1.1. -प्रदीपः an oil-lamp; Ks.99.4.

फलः the Iṅgudi tree.

the sesamum plant.-भाविनी Jasmine. -माली the wick of a lamp; (also मालिन् m.) -यन्त्रम् an oil-mill; Bhāg.5.21.13. -स्फटिकः a kind of gem.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैल n. (fr. तिल)sesamum oil , oil AV. i , 7 , 2(?) Kaus3. Gobh. Mn. etc. ( ifc. Pa1n2. 5-2 , 29 Va1rtt.4 Pat. ; ifc. f( आ). Kum. vii , 9 )

तैल n. olibanum VarBr2S. lxxvii , 4 and 6.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Taila, ‘sesamum oil,’ is mentioned in the Atharvaveda,[१] where[२] reference is made to keeping such oil in jars. In the Śāṅkhāyana Āraṇyaka,[३] reference is made to anointing with sesamum oil.

  1. i. 7, 2 (all the manuscripts have taula, which must be wrong;
    the Paippalāda MS has tūla: see Whitney, Translation of the Atharvaveda, 7).
  2. xx. 136, 16.
  3. xi. 4.

    Cf. Zimmer, Altindisches Leben. 240, 241.
"https://sa.wiktionary.org/w/index.php?title=तैल&oldid=500051" इत्यस्माद् प्रतिप्राप्तम्