दर्श

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शः, पुं, (दृश्येते उपर्य्यधोमावापन्नसमसूत्रपात- न्यायेन राश्येकांशावच्छेदेन सहावस्थितौ चन्द्र- सूर्य्यौ यत्र । दृश् + अधिकरणे घञ् ।) अमा- वस्या । इत्यमरः । १ । ४ । ८ ॥ “अन्योऽन्यं चन्द्रसूर्य्यौ तु दर्शनाद्दर्श उच्यते ॥” इति मत्स्यपुराणम् ॥ (अयं शिनीवाल्यां विधातृपत्न्यां तस्मात् जातः । यथा, भागवते । ६ । १८ । ३ । “धातुः कुहूः शिनीवाली राका चानुमतिस्तथा । सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ॥” दृश + भावे घञ् ।) अवलोकनम् । इति मेदिनी । शे, ७ ॥ (यथा, महाभारते । १३ । १४४ । ४५ । “दुर्द्दर्शाः केचिदाभान्ति नराः काष्ठमया इव । प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥”) पक्षान्तकृतयागविशेषः । स यागत्रयात्मकः । यथा । “आग्नेयाष्टाकपालैन्द्रदध्यैन्द्रपयोयागा- स्त्रयोऽमावास्यायां स च यावज्जीवं कर्त्तव्यः कौण्डपायिकर्त्तव्यो माससाध्यश्च ।” इति मल- मासतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्श पुं।

अमावासी

समानार्थक:अमावास्या,अमावस्या,दर्श,सूर्येन्दुसङ्गम

1।4।8।2।3

कलाहीने सानुमतिः पूर्णे राका निशाकरे। अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः॥

 : चतुर्दशीयोगाद्दृष्टचन्द्रा_अमावासी, अदृष्टचन्द्रामावासी

पदार्थ-विभागः : , द्रव्यम्, कालः

दर्श पुं।

दर्शयागः

समानार्थक:दर्श

2।7।48।1।1

दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक्. शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्श¦ पु॰ दृश्येते शास्त्रदृष्ट्या सूर्य्यचन्द्रौ एकत्र स्थितौ यत्र। दृश--आधारे घञ्।

१ सूर्य्येन्दुसङ्गमकाले अमावास्या-तिथौ
“एकत्रस्थौ चन्द्रसूर्य्यो दर्शनात् दर्श उच्यते” मत्स्यपु॰ कुहूशब्देऽस्य विवृतिः। स निमित्ततया-ऽस्त्यस्य अच्।

२ दर्शकालकर्त्तव्ये यागभेदे। आग्नेया-ष्टापालैन्द्रदध्यैन्द्रपयोरूपयागत्रयात्मकोदर्शयागः। काती-यशब्दे तदितिकर्त्तव्यता दृश्या।
“सर्वेभ्यो दर्शपौर्ण-मासौ” श्रुतिः भावे घञ्। दर्शने

३ चाक्षुषज्ञाने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्श¦ m. (-र्शः)
1. Sight, seeing.
2. Day of new moon when it rises in- visible.
3. Half monthly sacrifice, performed at the change of the moon, by persons maintaining a perpetual fire. E. दृश् to see, affix आधारे घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्श [darśa] दर्शक [darśaka] दर्शन [darśana], दर्शक दर्शन &c. See under दृश्.

दर्श [darśa], a. [दृश्-भावे घञ्] Seeing, looking

र्शः Sight, view, appearance (usually in comp.); दुर्दर्शः, प्रियदर्शः &c. दुर्दर्शा केचिदाभान्ति नराः काष्ठमया इव । प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥ Mb.13.144.45.

Ocular evidence or proof.

The day of the new moon (अमावास्या); एकत्र- स्थितचन्दार्कदर्शनाद् दर्श उच्यते; शक्यते च चन्द्रस्यादर्शनेन अमावास्या दर्श इति लक्षयितुम् । यथा चक्षुषोरभावे सति चक्षुष्मान् इति चक्षुर्भ्यां लक्ष्यते । ŚB. on MS.4.4.36.

The new moon.

The half-monthly sacrifice, a sacrificial rite performed on the day of the new moon. It comprises of the आग्नेय, ऐन्द्राग्न and सांनाय्य यागs. -दर्शे-दर्शम् ind. At every sight; Ks.-Comp. -पः a god. -पूर्णमासन्यायः The rule according to which the same act can be said to yield all desired objects but only one at a time (and not simultaneously). This is established by जैमिनि and शबर in MS.4.3. 25-28 (see योगसिद्धिन्याय). -यामिनी the night of the new moon. -विपद् m. the moon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्श mfn. ( द्रिस्) ifc. " looking at , viewing "See. अवसान-, आदिनव-, and वधू-दर्श, तत्त्व-

दर्श mfn. " showing "See. आत्म-

दर्श m. " appearance "See. चदिर्-दर्श, दुर्-, प्रित्य्-

दर्श m. ( g. पचा-दि)the moon when just become visible , day of new moon , half-monthly sacrifice performed on that day AV.

दर्श m. ( parox. ) TS. TBr. and S3Br. ix Kaus3. A1s3vGr2. etc. ( n. MBh. iii , 14206 )

दर्श m. (Day of) New Moon (son of धातृBhP. vi , 18 , 3 ; of कृष्ण, x , 61 , 14 ; N. of a साध्यVa1yuP. ii , 5 , 6 )

दर्श m. du. = पूर्णमासTS. Sch.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of धाता and सिनीवालि. भा. VI. १८. 3.
(II)--a son of कृष्ण and कालिन्दि. भा. X. ६१. १४.
(III)--a son of ब्रह्मा and मन्त्रसरीर: a Jayadeva. Br. III. 3. 6; 4. 2; वा. ६६. 6; ६७. 5.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Darśa (‘appearance’) denotes the new moon day,[१] usually in opposition to the day of full moon (pūrṇa-māsa).[२] Most frequently the word occurs in the compound[३] darśa-pūrṇamāsau, ‘new and full moon,’ the days of special ritual importance.[४] The order of the first two words here is worthy of note, for it distinctly suggests, though it does not conclusively prove, that the month was reckoned from new moon to new moon, not from full moon to full moon. See Māsa.

  1. Av. vii. 81, 3, 4;
    Taittirīya Brāhmaṇa, i. 2, 1, 14;
    Śatapatha Brāhmaṇa, xi. 2, 2, 1.
  2. Taittirīya Saṃhitā, iii. 4, 4, 1, etc.
  3. Ibid., i. 6, 7, 1;
    9, 3;
    ii. 5, 6, 1;
    Taittirīya Brāhmaṇa, ii. 2, 2, 1;
    Aitareya Brāhmaṇa, i. 1;
    Śatapatha Brāhmaṇa, i. 3, 5, 11, etc.
  4. Hillebrandt, Das altindische Neuund Vollmondsopfer, Jena, 1880;
    Rituallitteratur, 111-114;
    Oldenberg, Religion des Veda, 439.
"https://sa.wiktionary.org/w/index.php?title=दर्श&oldid=500163" इत्यस्माद् प्रतिप्राप्तम्