दाक्षायण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षायण¦ पुंस्त्री दक्षस्य गोत्रापत्यम् इञ्
“यञिञोश्च” पा॰यूनि फल
“इञः प्राचामिति” पा॰ विशेषणात् न युव-प्रत्ययस्य लुक् तस्य प्रागदेशस्थितत्वाभावदिति” सि॰ कौ॰

१ दक्षस्ययूनि गोत्रापत्ये। दाक्षायणस्य विषयो देशः ऐषुकार्या॰ भक्तल। दाक्षायणभक्त तदीये देशरूपे विषये पु॰। दक्षस्येदस दाक्षं तच्च तदयनञ्चेति।

२ सुवर्णादावलङ्कारेच।
“दाक्षायणं दक्षिणा” कात्या॰ श्रौ॰

४ ।

४ ।

२८ । [Page3512-b+ 38]
“दाक्षायणं सुवर्णमुच्यते” कर्कः।
“यो विभर्त्ति दाक्षायणंहिरण्यम्” यजु॰

३४ ।

५१ ।
“दाक्षायणशब्दीऽलङ्कारार्थःवेददी॰ उक्तेः

३ भूषणे च। तत्र दक्षस्य यून्यपत्ये
“यदाबध्नान्दाक्षायणा हिरण्यम्” यजु॰

३४ ।

५२ । स्त्रियां ङीप्।
“भोः कश्यपस्य पुत्रोऽहं माता दाक्षायणी च मे” भा॰ शा॰

१७

० अ॰
“दाक्षायण्योऽश्विनीत्याद्याः” अमरः। दक्ष एव दाक्षः तस्यायनं तत्कृतो यज्ञभेदः संज्ञात्वात्पूर्वपदाण्णत्वम्।

४ दक्षकृते यज्ञभेदे स च यज्ञः शत॰ व्रा॰

२ ।

४ ।

४ ।

२ उक्तो यथा
“प्रजापतिर्ह वा एतेनाग्रे यज्ञेनेजे प्रजाकामो बहुःप्रजया पशुभिः स्यां श्रियं गच्छेयं यशस्व्येवमन्नादःस्यामिति। स वै दक्षो नाम। तद्यदनेन सोऽ-यजत तस्माद्दाक्षायणयज्ञो नाम” तद्विधिर्यथा
“दाक्षायणयज्ञः प्राजापश्वन्नयशस्कामस्य” कात्या॰ श्रौ॰

४ ।

४ ।

१ । इत्यादिषु

३० सूत्रेषूक्तः।
“तत्रैवं प्रथमं पौर्णमास्यांश्राद्धान्वारम्भणीयपूर्वकोऽग्नीषोमीययागः पुनरुद्धृत्यसांनाय्यवदुपक्रमः। प्रतिपद्याग्नेयेन पुरोडाशेनै-न्द्रेण दधा पयसा च यागः, पक्षे वैमृधः। मांसमैथुनवर्जनसङ्कल्पः। पुनरुद्धृत्य तस्मिन् प्रतिपद्दिन एवैन्द्रा-ग्नयागः पुनरुद्धृत्य मैत्रावरुण्याः पयस्याया उपक्रमः। प्रातर्द्वितोयायामाग्नेयेन मैत्रावरुण्या च यागो यथोक्तपक्षे आदित्यश्चरुः तदानीमेव पुनरुद्धृत्याग्नीषोमीययागः। ततः पुनरुद्धरणादिदधियागप्रक्रमः। प्रातस्तृ-तीयायामाग्नेयसांनाय्ययागः पक्षे वैमृधः। तदानीमेवोद्धृत्यैन्द्राग्नयागः। पुनरुद्धृत्य मैत्रावरुण्या उपक्रमःतदनन्तरमादित्यो वा इत्येवम्प्रकारेण संवत्सरं यावत्प्रत्यहं कर्त्तव्यम्” कर्कः। तत्पद्धतिश्च तत्र भाष्येदृश्या।
“ऋक्षेष्ट्याग्रयणञ्चैव चातुर्म्मास्यानि चाहरेत्। उत्तरायणञ्च क्रमशो दाक्षस्यायनमेव च” मनुः। सुवर्णे
“दाक्षायणी व्रह्मसूत्री वेणुमान् सकमण्डलुः” याज्ञ॰
“दाक्षायणं सुवर्णं तदस्यास्तीति इनि। दाक्षा-यणी” मिता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षायण¦ mfn. (-णः-णी-णं) Of or relating of DAKSHA, a descendant, &c. n. (-णं) Gold, or a gold ornament, as an ear-ring, &c. E. दक्ष, and फक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षायण [dākṣāyaṇa], a. (-णी f.) Coming from the Dakṣa family.

णः A son of Dakṣa.

A particular sacrifice. -णम् Gold or a golden ornament.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षायण mf( ई)n. coming from or relating to दक्षVS.

दाक्षायण m. a son or descendant of -D दक्षVS. S3Br. etc.

दाक्षायण m. a partic. sacrifice(See. -यज्ञ)

दाक्षायण m. Croton Polyandrum L.

दाक्षायण n. the posterity of -D दक्षBhP. iv , 1

दाक्षायण n. gold or a gold ornament(See. -हस्त, below)

दाक्षायण n. = दाक्षस्या-यन(under दाक्ष).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dākṣāyaṇa, ‘descendant of Dakṣa.’ The Dākṣāyaṇas are mentioned in the Atharvaveda and the Yajurveda Saṃhitās[१] as having given gold to Śatānīka. In the Śatapatha Brāhmaṇa[२] the word is actually used to denote ‘gold.’ The Dākṣāyaṇas appear there[३] as a race of princes who, because of performing a certain rite, prospered down to the time of the Brāhmaṇa itself.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षायण पु.
दर्शपूर्णमास का एक संशोधित रूप (विकृति), जिसका आचरण ‘दाक्षायणी’ द्वारा किया गया था, आप.श्रौ.सू. 3.17.4; काम्येष्टि में अन्तर्निविष्ट, आश्व.श्रौ.सू. 2.14.7; पूर्णमास के दिन अगिन्ष्टोमके लिए एक पुरोडाश का एवं दर्श (अर्थात् अमावस्या) में भी एक पुरोडाश का इन्द्रागनी के विधान लिए है। ‘पूर्णमास’ के ‘प्रतिपत्’ के दिन सान्नाय्य की तरह व्यवहार होता है, अर्थात् अगिन् के लिए पुरोडाश एवं इन्द्र के लिए दही। ‘अमावस्या’ के लिए ‘पयस्या’ विहित है, का.श्रौ.सू. 4.4.1-6; श.ब्रा.2.4.4.6-1०.

  1. Av. i. 35, 1, 2;
    Vājasaneyi Saṃhitā, xxxiv. 51, 52;
    Kaṭha, cited by von Schroeder, Tūbinger Kaṭha-Handschriften, 36;
    Khila, iv. 7, 7, 8.
  2. vi. 7, 4, 2: dākṣāyaṇa-hasta, ‘goldenhande.’ Eggeling, Sacred Books of the East, 41, 283, n. 2, seems unnecessarily doubtful as to this.
  3. ii. 4, 4, 6. Cf. Artareya Brāhmaṇa, iii. 40.

    Cf. Weber, Indische Studien, 1, 224;
    4, 358;
    Ludwig, Translation of the Rigveda, 3, 195;
    Whitney, Translation of the Atharvaveda, 35;
    Lévi, La Doctrine du Sacrifice, 138.
"https://sa.wiktionary.org/w/index.php?title=दाक्षायण&oldid=500187" इत्यस्माद् प्रतिप्राप्तम्