दुहितृ

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुहिता, [ऋ] स्त्री, (दोग्धि विवाहादिकाले धनादिकमाकृष्य गृह्णातीति । यद्बा, दोग्धि गा इति । आर्षकाले कन्यासु एव गोदोहनभार- स्थितेस्तथात्वम् । दुह + “नप्तृनेष्टृत्वष्टृहोतृ- पातृभ्रातृजामातृमातृपितृदुहितृ ।” उणां । २ । ९६ । इति तृच् । निपातनात् गुणाभावः ।) कन्या । इत्यमरः । २ । ६ । २८ ॥ कन्यादान- पात्रापात्रं यथा, -- “कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् । वराय गुणहीनाय वृद्धायाज्ञानिने तथा ॥ दरिद्राय च मूढाय योगिने कुत्सिताय च । अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च ॥ चापलायाङ्गहीनाय चान्धाय बधिराय च । जडाय चैव मूर्खाय क्लीवतुल्याय पापिने ॥ ब्रह्महत्यां लभेत् सोऽपि यः स्वकन्यां ददाति च । शान्ताय गुणिने चैव यूने च विदुषेऽपि च ॥ वैष्णवाय सुतां दत्त्वा दशवापीफलं लभेत् ॥” * ॥ कन्याविक्रये दोषो यथा, -- “यः कन्यापालनं कृत्वा करोति विक्रयं यदि । विपदा धनलोभेन कुम्भीपाकं स गच्छति ॥ कन्यामूत्रपुरीषञ्च तत्र भक्षति पातकी । कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्द्दश ॥ मृतश्च व्याधयोनौ च स लभेज्जन्म निश्चितम् । विक्रीणीते मांसभारं वहत्येवं दिवानिशम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ कन्यादानफलं यथा, -- “दशवापीसमा कन्या दीयते ब्राह्मणाय तत् । वेदज्ञाय पवित्राय चाप्रतिग्रहशालिने ॥ सन्ध्यायज्ञवेदपाठकारिणे सत्यवादिने । अस्मै प्रदत्ता कन्या च दशवापीफलप्रदा ॥ त्रिसन्ध्याकारिणे सत्यवादिने गृहशालिने । वेदज्ञाय च विप्राय दत्तार्द्धफलदायिनी ॥ प्रतिग्रहगृहीताय सन्ध्याहीनाय नित्यशः । मूर्खाय दत्ता कन्या च सा चतुःफलदायिनी ॥ परदारगृहीताय याजकाय द्बिजाय च । शठाय सन्ध्याहीनाय वाप्येकफलदा सुता ॥ सर्व्वसन्ध्यास्वगायत्त्रीविहीनाय शठाय च । विप्रोद्भवाय दत्ता या वाप्यर्द्धफलदा सुता ॥ पापिने शूद्रजाताय विप्रक्षेत्रोद्भवाय च । दत्ता चाण्डालतुल्याय कन्या सा नरकप्रदा ॥ विष्णुभक्ताय विदुषे विप्राय सत्यवादिने । जितेन्द्रियाय दत्ता या विंशद्बापीफलप्रदा ॥ षष्टिवर्षसहस्राणि दिव्यरूपं विधाय च । एवम्भूताय दत्ता च मोदते विष्णुमन्दिरे ॥ दत्त्वा कन्यां सुशीलाञ्च हराय हरयेऽथवा । नारायणस्वरूपञ्च भवेदेव श्रुतौ श्रुतम् ॥ विष्णुभक्तो यदा कन्यां ददाति विष्णुप्रीतये । स लभेद्धरिदास्यञ्च ध्रुवं विप्रोद्भवाय च ॥” * ॥ विवाहानन्तरं कन्याया भर्त्तृगृहगभनसमये पित्रादीनां रोदनं शास्त्रसिद्धम् । यथा दुर्व्वा- ससा सह और्व्वकन्यायाः कन्दल्या विवाहे । “कन्यासमर्पणं कृत्वा मोहादुच्चै रुरोद च । मूर्च्छामवाप स मुनिः स्वकन्याविरहातुरः ॥ अपत्यभेदशोकौघः स्वात्मारामं न मुञ्चति । क्षणेन चेतनां प्राप्य बोधयामास कन्यकाम् ॥ मूर्च्छितां तातविच्छेदाद्रुदन्तीं शोकसंयुताम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डश्रीकृष्णजन्मखण्डे ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुहितृ¦ स्त्री दुह--दह वा तृच्।
“नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ” उणा॰ नि॰। स्वज-न्यस्त्रियां स्त्रीसन्ततौ ऋदन्तत्वेऽपि स्वस्रादित्वात् नङीप्। तृणन्तत्वाभावात् सर्वनामस्थाने परे न वृद्धिःदुहितरौ दुहितर इत्यादि प्रियादिषु पाठात् अस्मिन्शब्देपरे पूर्व्रस्थितस्य उक्त पुंस्कस्त्रीलिङ्गस्य विशेषणशब्दस्यन पुंवत् जातादुहितृकः।
“मातुर्दुहितरः शेषमृणा-त्ताभ्य ऋतेऽन्वथः” याज्ञ॰।
“मात्रा स्वस्रा दुहित्रा वान विविक्तासनो भवेत्” मनुः। कन्याशब्देऽनुक्तं तद्दान-पात्रफलादिकमधिकमुच्यते। (
“कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम्। वराय गुणहीनाय वृद्धाय ज्ञानिने तथा। दरिद्रायच मूर्खाय रोगिणे कुत्सिताय च। अत्यन्तकोपयुक्तायचात्यन्तदुर्मुखाय च। जडाय चैव मूर्खाय क्लीव-तुल्याय पापिने। ब्रह्महत्यां लभेत् सोऽपि यः स्वकन्यांददाति च। शान्ताय गुणिने चैव यूने च विदुषेऽपिच। वैष्णवाय सुतां दत्त्वा दशवापीफलं लभेत्”। कन्याविक्रये दोषो यथा
“यः कन्यापालनं कृत्वाकरोति विक्रयं यदि। विपत्तौ धनलोभेन कुम्भीपाकंस गच्छति। कन्यामूत्रपुरीषञ्च तत्र भक्षति पा-तकी। कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश। मृ-तश्च व्याधयोनौ च स लभेज्जन्म निश्चितम्। विक्रीणीत[Page3654-a+ 38] मांसभारं वहत्येव दिवानिशम्” कन्यादानफलं यथा
“दशवापीसमा कन्या दीयते व्राह्मणाय या। वेद-ज्ञाय पवित्राय चाप्रतिग्रहशालिने। सन्ध्यावते वेदपाठकारिणे सत्यवादिने। अस्मै प्रदत्ता कन्या च दशवापीफलप्रदा। त्रिसन्ध्याकारिणे सत्यवादिने गृह-शालिने। वेदज्ञाय च विप्राय दत्ताष्टफलदायिनी। प्रतिग्रहगृहीताय सन्ध्याहीनाय नित्यशः। मूर्खायदत्ता कन्या च सा चतुःफलदायिनी। परदारगृही-ताय याजकाय द्विजाय च। शठाय सन्ध्याहीनायवाप्येकफलदा सुता। त्यक्तसन्ध्याय गायत्रीविही-माय शठाय च। विप्रोद्भवाय दत्ता सा वाप्यर्द्धफलदासुता। पापिने शूद्रजाताय विप्रक्षेत्रोद्भवाय च। दत्ताचाण्डालतुल्याय कन्या सा नरकप्रदा। विष्णुभक्तायविदुषे विप्राय सत्यवादिने। जितेन्द्रियाय दत्ता याविंशद्वापीफलप्रदा। षष्टिवर्षसहस्राणि दिव्यरूपंविधाय च। एवम्भूताय दत्त्वा च मोदते विष्णुमन्दिरे। दत्त्वा कन्यां सुशीलाञ्च हराय हरयेऽथ वा। नारा-यणस्वरूपञ्च भवेदेव श्रुतौ श्रुतम्। विष्णुभक्तो यदाकन्यां ददाति विष्णुप्रीतये। स लभेद्धरिदास्यञ्च ध्रुवंविप्रोद्भवाय च” ब्रह्म॰ वै॰ प्र॰ ख॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुहितृ(-ता)¦ A daughter. E. दुह् to milk, (the mother,) Unadi affix तृच्, and इट् inserted.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुहितृ [duhitṛ], f. [दुह् दह् वा तृच्] A daughter- -Comp. -पतिः a son-in-law (also दुहितुः पतिः).

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुहितृ f. a daughter (the milker or drawing milk from her mother [ cf. Zd. dughdar , Gk. ? , Goth. dauhtar , Lith. dukte , Slav. dushti]).

"https://sa.wiktionary.org/w/index.php?title=दुहितृ&oldid=455875" इत्यस्माद् पुनः प्राप्तिः