सामग्री पर जाएँ

दूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूतः, पुं, (दूयते वार्त्तावहनादिनेति । दू + “दूत- निभ्यां दीर्घश्च ।” उणां । ३ । ९० । इति क्तः दीर्घश्च ।) वार्त्ताहरः । तत्पर्य्यायः । सन्देश- हरः २ । इत्यमरः । २ । ८ । १६ ॥ सन्दिष्ट- कथकः ३ । इति शब्दरत्नावली ॥ तस्य लक्षणं यथा, -- “यथोक्तवादी दूतः स्याद्देशभाषाविशारदः । शक्तः क्लेशसहो वाग्मी देशकालविभागवित् ॥ विज्ञातदेशकालश्च दूतः स्यात् स महीक्षितः । वक्ता नयस्य यः काले स दूतो नृपतेर्भवेत् ॥” इति मत्स्यपुराणम् ॥ अपि च । “मेधावी वाक्पटुः प्राज्ञः परचित्तोपलक्षकः । धीरो यथोक्तवादी च एष दूतो विधीयते ॥” इति चाणक्ये । १०६ ॥ अन्यच्च । “परेङ्गितज्ञः परवाग्व्यङ्ग्यार्थस्यापि तत्त्ववित् । सदोत्पन्नमतिर्घीरो दूतः स्यात् पृथिवीपतेः ॥ दूतञ्चैव प्रकुर्व्वीत सर्व्वशास्त्रविशारदम् । इङ्गितज्ञं तथा सभ्यं दक्षं सत्कुलसम्भवम् ॥ अनुरक्तः शुचिर्द्दक्षः स्मृतिमान्देशकालवित् । वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥ दूत एव हि सम्मत्तो भिनत्त्येव हि सङ्गतान् । विमृष्यार्थो मितार्थश्च तथा शासनहारकः ॥ वदते शान्तया वाचा वैद्यलाभश्च शान्तये ॥ योऽभिवाद्यापि वैद्यस्य क्षेमं संपृच्छते पुनः । फलं ददाति पुष्पं वा रोगिणाञ्च सुखावहम् ॥ तस्य सौख्यं रुजां शान्तिर्यस्य दूता इदं विदुः । किमत्र बहुनोक्तेन रम्यो दूतः सुखावहः ॥” इति हारीते द्वितीयस्थाने षष्ठेऽध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूत पुं।

दूतः

समानार्थक:सन्देशहर,दूत

2।8।16।2।2

लिखिताक्षरविन्यासे लिपिर्लिबिरुभे स्त्रियौ। स्यात्सन्देशहरो दूतो दूत्यं तद्भावकर्मणी॥

स्वामी : राजा

वृत्ति : दूतकर्मः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूत¦ त्रि॰ दु--गतौ
“दुतनिभ्यां दीर्घश्च” उणा॰ त कित् दीर्घश्चदू--परितापे कर्त्तरि क्त वा दीर्घान्तस्य न नत्वम्
“दुग्वो-र्दीर्वश्च” पा॰ सूत्रेण दुनोतेरेव नत्वदीर्घयोर्विधानात्।

१ सन्देशहरे अमरः।

२ उपतप्ते च
“चारेक्षणो दूतमुखः पुरुषःकोऽपि पार्थिवः” माघःतत्र साधारणदूतलक्षणं तद्भेदाश्च सा॰ द॰ उक्ता यथानिसृष्टार्थो मितार्थश्च तथा सन्देशहारकः। कार्य्य-प्रेष्यस्त्रिधा दूती दुत्यश्चापि तथाविधाः” तत्र कार्यप्रेष्यीदूत इति लक्षणम्। तत्र
“उभयोर्भावमुन्नीय स्वयंवदति चोत्तरम्। सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस्तुस स्मृतः” उभयोरिति येन प्रेषितो यदन्तिकं प्रेषितश्च।
“मितार्थभाषी कार्यस्य सिद्धिकारी मितार्थकः”। नृपतिदूतलक्षणं युक्तिकल्पतरावुक्तं यथा(
“परेङ्गितज्ञः परवाग्व्यङ्ग्यार्थस्यापि तत्त्ववित्। सदोत्पन्नमतिर्धीरो दूतः स्यात् पृथिवीपतेः। दूतञ्चैवप्रकुर्वीत सर्वशास्त्रविशारदम्। इङ्गितज्ञं तथा सभ्यंदक्षं सत्कुलसम्भवम्। अनुरक्तः शुचिर्दक्षः स्मृतिमा-न्देशकालवित्। वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञःप्रशस्वते। दूत एव ह्यसम्मत्तो भिनत्त्येव हि सङ्ग-तान्। विमृष्यार्थो

१ मितार्थश्च

२ तथा शासनहारकः

३ । दूतास्त्रयोऽमात्यगुणैः समैः पादार्द्धवर्जितैः। विमृष्यार्थंकार्यवशात् शासनं तु करोति यः

१ । मितार्थः

२ कार्य-मात्रोक्तौ स कुर्य्यादुत्तरोत्तरम्। यथोक्तवादी सन्देशहारको लेखहारकः

३ । तत्र दूतो व्रजन्नेव चिन्तयेदु-त्तरोत्तरम्। वार्त्ताविशेषं भूपाय झटित्येवान्यवेश्मनि। दूतो हि न लिखेत् किञ्चित् निर्णेता वा विनिर्णयम्। पृच्छ्यमानोपि न ब्रूयात् स्वामिनः क्वापि वैशसम्” कामन्द॰ शास्त्रे च राजदूततद्भेदचरलक्षणं चोक्तं यथा
“कृतमन्त्रस्तु मन्त्रज्ञो मन्त्रिणां मन्त्रसम्मतम्। यात-व्याय प्रहिणुयाद्दूतं दूत्याभिमानिनम्। प्रगल्भःस्मृतिमान्वाम्मी शास्त्रे चास्त्रे च निष्ठितः। अभ्यस्त-कर्मा नृपतेर्दूतो भवितुमर्हति। निसृष्टार्थो

१ मितार्थश्च

२ तथा शासनवाहकः

३ । सामर्थ्यात्पादतो हीनो दूतस्तुत्रिविधः स्मृतः। स भर्त्तुः शासनाद्गच्छेद्गन्तव्यमुत्तरो-[Page3655-b+ 38] त्तरम्। स्वराष्ट्रपरराष्ट्राणामिति चेति च चिन्तयन्। अन्तःपालांस्तु कुर्वीत मित्राण्याटविकांस्तथा। जल-स्थलानि मार्गांश्च विद्यात् स्वबलसिद्धये। नाविज्ञातःपुरं शत्रीः प्रविशेच्च न संसदि। कालमीक्षेत कार्य्यार्थ-मनुज्ञातश्च निष्पतेत्। सारवत्ताञ्च राष्ट्रस्य दुर्गं तद्गुप्ति-मेव च। छिद्रं शत्रोर्विजानीयात् कोषमित्रबलानि च। उद्यतेष्वपि शस्त्रेषु यथोक्तं शासनं वदेत्। रागाप-रागौ जानीयात् प्रकृतीनाञ्च भर्त्तरि। भृत्यपक्षस्य चा-पायं कुर्य्यादनतिलक्षितः। पृच्छ्यमानोऽपि न ब्रूयात्स्वस्वामिप्रकृतिच्युतिम्। ब्रूयात् प्रसृतया वाचा सर्वंवेद भवानिति। फलेन नाम्ना द्रव्येण कर्म्मणा चमहीयसा। कुर्य्याच्चतुर्विधं स्तोत्रं पक्षयोरुभयोरपि। विद्याशिल्पोपदेशेन संश्लिष्योभयवेतनैः। भृत्यपक्षञ्चजानीयात्तद्भर्तुश्च विचेष्टितम्। तीर्थाश्रमाश्रयस्थानेशास्त्रविज्ञानहेतुना। तपस्विव्यञ्जनोपेतैः स्वचरैः सहसंवसेत्। सन्तापं कुलमैश्वर्य्यं त्यागमुत्थानसौष्ठवम्। अक्षुद्रतां भद्रताञ्च भर्त्तुर्भेद्येषु दर्शयेत्। सहेतानिष्ट-वचनं कामक्रोधञ्च वर्जयेत्। नान्यैः शयीत, भावं स्वंरक्षेद्विद्यात्परस्य च। काले व्रजति मेधावी न खिद्ये-तात्मसिद्धये। क्षिप्यमाणञ्च बुध्येत कालं नानार्थ-लोभनैः। एतेष्वहःसु गच्छत्सु न तत्र पृथिवीपतेः। पश्यति व्यसनं किञ्चित्स्वयं वा कर्तुमिच्छति। स्वान्तः-प्रकोपमथ वा विनेतुं नीतिवित्तमः। सस्यादेः संग्रहंकर्तुं स्वदुर्गे दुर्गसत्क्रियाम्। स्वपक्षाभ्युदयाकाङ्क्षीदेशकालावुदीक्षते। तत्र यात्रास्वयं चित्तमाश्वास्यैवसमीहते। यात्राकालक्षयार्थी वा तत्र चायं विलम्बते। काले विक्षिप्यमाणे तु तर्कयेदिति पण्डितः। कार्य्यकाल-विपत्तिञ्च व्यक्तां ज्ञात्वा विनिष्पतेत्। तिष्ठन् वार्त्ता-विशेषार्थान् भर्तुः सर्वान्निवेदयेत्। रिपोः शत्रुपरि-च्छेदः सुहृद्बन्धुविभेदनम्। दुर्गकोषबलज्ञानं भृत्यपक्षोप-संग्रहः। राष्ट्रात् व्यपेतपालानामात्मसात्करणं तथा। युद्धापसारभूज्ञानं दूतकर्मेति कथ्यते। दूतेगैब नरेन्द्रस्तुकुर्वीतारिविकर्षणम्। स्वपक्षे च विजानीयात् परदूत-विचेष्टितम्। तर्केङ्गितज्ञः स्मृतिमान् मृदुर्लघुपरिक्रमः। क्लेशायाससहो दक्षश्चरः स्यात् प्रतिपत्तिमान्। तपस्वि-लिङ्गिनो धूर्त्ताः पण्यशिल्पोपजीविकाः। चराश्चरेयुःपरितः पिबन्तो जगतां मतम्। निर्गच्छेयुर्विशेयुश्चसर्ववार्त्ताविदोऽन्वहम्। चराः सकाशान्नृपतेणक्षुर्दूर-[Page3656-a+ 38] तरं हि ते। सूक्ष्मं सूत्रप्रचारण पश्येद्वै विनिचेष्टि-तम्। स्वपन्नपि च जागर्त्ति चारचक्षुर्महीपतिः। विवस्वानिव तेजोभिर्नभस्वानिव चेष्टितैः। राजा चरै-र्जगत् कृत्स्नं व्याप्नुयाल्लोकसम्मतैः। चारचक्षुर्नरेन्द्रःस्यात्सम्पतेत्तेन भूयसा। अनेनासम्पतन्मौढ्यात्पतत्यन्धःसमेऽपि हि। सर्वसम्पत्समुदयं सर्वावस्थाविचेष्टितम्। चरेण द्विषतां विद्यात्तद्देशप्रार्थनानि च। प्रकाशश्चाप्र-काशश्च चरस्तु द्विविधः स्मृतः। अप्रकाशोऽयमुद्दिष्टःप्रकाशो दूत उच्यते। चरेण प्रचरेद्राजा सूत्रेणर्त्त्वि-गिवाध्वरे। दूते सन्धानमायाते चरचर्य्या प्रतिष्ठिता। तीक्ष्णः प्रव्रजितश्चैव सत्री वनग एव च। एते ज्ञेयास्तुसच्चाराः सर्वे नान्योन्यवेदिनः। संस्थानवत्यः संस्थाश्चकार्य्याः कार्य्यप्रसिद्धये। तिष्ठेयुः पार्श्वे सच्चाराः परि-चर्य्यापवादिनः। बालः कृषीबलो लिङ्गी भिक्षुकोऽध्या-पकस्तथा। संस्थाः स्युश्चारसंस्थित्यै दत्तदायाः शुभा-शयाः। सर्वस्मिंस्तत्र सच्चारास्तिष्ठेयुश्चित्तवेदिनः। स्व-पक्षे परपक्षे च यो हि वेद चिकीर्षितम्। जाग्रदपिसुषुप्तोऽसौ न भूपः प्रतिबुध्यते। कारणाकारणक्रुद्धान्बुध्येत स्वपरिग्रहे। पापानकारणक्रुद्धांस्तूष्णीं दण्डेनसाधयेत्। ये तु कारणतः क्रुद्धास्तान् बशीकृत्य संवसेत्। शमयेद्दानमानाभ्यां छिद्रञ्च परिपूरयेत्। अणुनापि विज-यते छिद्रेण बलवत्तरम्। निःशेषं मज्जयेद्राष्ट्रं पानपात्र-मिवोदकम्। जडमूकान्धबधिरच्छद्मानः षण्डकास्तथा। किराता वामनाः कुब्जास्तद्विधा ये च कारकाः। भिक्षु-काश्चारणा दास्यो नानाकार्य्यकलाविदः। अन्तःपुरगतांवार्त्तामाहरेयुरलक्षिताः। छत्रव्यजनभृङ्गारयानवाहन-धारिणः। महामात्रे बहिर्वार्त्तां विदुरन्ये च तद्विधाः। सूदव्यञ्जनकर्त्तारस्तल्पका व्ययकास्तथा। प्रसाधका भोज-काश्च गात्रसंवाहका अपि। जलताम्बूलकुसुमगन्धभूषण-दायकाः। कर्त्तव्याश्च सदा ह्येते ये चान्येऽभ्यास-वर्त्तिनः। सञ्ज्ञाभिर्मूर्च्छितैर्लेख्यैराकारैरिङ्गितैरपि। सुसञ्चरेयुरव्यग्राश्चराश्चर्य्यां परस्परम्। समापिवन्तोजगतां मतानि जलानि भूमेरिव सूर्य्यपादाः। अनेक-शिल्पाध्ययनप्रवीणाश्चराश्चरेयुर्बहुलिङ्गिरूपाः। येनप्रकारेण परानुपेयात् परापरज्ञश्च समृद्धिहेतोः। तमा-त्मनि स्वस्थमतिस्तु तज्ज्ञैर्वियुज्यमानं परतो हि विद्यात्”।

३ प्रेष्यमात्रे त्रि॰ ततः भावे कर्मणि च
“दूतबणिग्-भ्याञ्च पा॰ यत्। दूत्य तद्भावे तत्कर्मणि च
“दूत्यं[Page3656-b+ 38] तद्भावकर्मणोः” अमरः। कामन्द॰ वाक्ये उदा॰ ष्यञ्दौत्य तत्रार्थे
“न प्रयाति च दौत्येन” हितो॰
“द्विषां हसैर्दौत्यपथः सितीकृतः” नैष॰। लिङ्गविशिष्टपरि-भाषया दूतीशब्दादपि यत् ष्यञ् च। दूत्य दौत्य दूतीनांकर्मणि भावे च। स्वार्थे क। दूतक तत्रार्थे स्त्रियांकापि अत इत्त्वम् दूतिका दूत्याम्। भावे क्त!

४ उप-तापे न॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूत¦ mfn. (-तः-ता-तं) Sent, despatched. m. (-तः)
1. A messenger or envoy, a news-carrier.
2. An ambassador. f. (-तिः-ती) A female messenger, a confidante, a procuress, a go-between. &c. E. दु to go, Unadi affix क्त, and the vowel made long; or दू to suffer, affix क्त fem. affix क्तिन् or क्तिच् and optionally ङीप् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूतः [dūtḥ] दूतकः [dūtakḥ], दूतकः [cf. Uṇ.3.9]

A messenger; अर्था- नर्थान्तरे बुद्धिर्निश्चितापि न शोभते । घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ Rām.5.3.38.

An envoy, an ambassador; Chāṇ.16. दूतयति Denom. To send as a messenger; अधिस्त्रि तं दूतयताम् N.9.22. -Comp. -मुख a. speaking by an ambassador; Śi.2.82. -संपातः, -संप्रेषणम् Sending a messenger; स दारकस्य कारणाद् दूतसंपातं करोति Svapna.1; Ms.7.153.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूत m. (prob. fr. 1. दु; See. दूर)a messenger , envoy , ambassador , negotiator RV. AV. S3Br. MBh. etc. ( तयNom. P. यति, to employ as -mmessenger or -aambassador , Naish. )

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a messenger: to report as he has been told and to be skilled in languages of different countries; one who can adjust according to time and place; फलकम्:F1: M. २१५. १२-4; २५४. २४.फलकम्:/F of Indra to तारक [page२-108+ २६] to get him ready for war after the birth of कार्त्तिकेय; फलकम्:F2: M. ३८. १९; १५९. २४.फलकम्:/F of पौण्ड्रक. फलकम्:F3: Vi. V. ३४. 6.फलकम्:/F

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dūta, ‘messenger’ or envoy,' is found several times in the Rigveda[] and later,[] used metaphorically. The Sūta seems to have performed the duties later assigned to the Dūta.

  1. iii. 3, 2;
    vi. 8, 4;
    vii. 3, 3;
    x. 14, 12.
  2. Av. viii. 8, 10, etc.;
    Satapatha Brāhmaṇa, iii. 5, 1, 6;
    Kauṣītaki Upaniṣad, ii. 1, etc. The feminine form Dūtī is found in Rv. x. 108, 2, 3, in the story of Saramā's mission to the Paṇis. Dūtya, ‘mission,’ occurs in Rv. 1, 12, 4;
    161, 1;
    iv. 7, 8;
    8, 4, etc.
"https://sa.wiktionary.org/w/index.php?title=दूत&oldid=500315" इत्यस्माद् प्रतिप्राप्तम्