दैव

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवम्, क्ली, (देवस्येदम् । देव + “तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।) देवतीर्थम् । तत् दक्षिण- हस्ताङ्गुल्यग्रवर्त्ति । इत्यमरः । २ । ७ । ५१ ॥ (यथा, मनुः । २ । ५९ । “काथमङ्गुलिमूलेऽग्रे दैवं पित्र्यं तयोरधः ॥”) देवसम्बन्धिनि, त्रि । यथा, -- “प्रमीतौ पितरौ यस्य देहस्तस्याशुचिर्भवेत् । नापि दैवं न वा पित्र्यं यावत् पूर्णो न वत्सरः ॥” इति शुद्धितत्त्वम् ॥ विवाहविशेषे, पुं । इत्युद्बाहतत्त्वम् ॥ अस्य विव- रणं उद्वाहशब्दे द्रष्टव्यम् । (दिवि भवः । दिव् + अण् ।) दिविभवे, त्रि ॥

दैवम्, क्ली, पुं, (देवात् नियतादागतम् । देव + अण् ।) भाग्यम् । इत्यमरः । १ । १ । २८ ॥ “दैवाधीनं जगत् सर्व्वं जन्मकर्म्मशुभाशुभम् । संयोगाश्च वियोगाश्च न च दैवात् परं बलम् ॥ कृष्णायात्तञ्च तद्दैवं स देवात् परतस्ततः । भजन्ति सततं सन्तः परमात्मानमीश्वरम् ॥ दैवं वर्द्धयितुं शक्तः क्षयं कर्त्तुं स्वलीलया । न दैवबद्धस्तद्भक्तश्चाविनाशी च निर्गुणः ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डम् ॥ * ॥ मनुरुवाच । “दैवे पुरुषकारे च किं ज्यायस्तद्ब्रवीतु मे । अत्र मे संशयो देव ! छेत्तुमर्हस्यशेषतः ॥ मत्स्य उवाच । स्वमेव कर्म्म दैवाख्यं विद्धि देहान्तरार्ज्जितम् । तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥ प्रतिकूलं यथा दैवं पौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थानशीलिनाम् ॥ येषां पूर्ब्बकृतं कर्म्म सात्त्विकं मनुजोत्तम् ! । पौरुषेण विना तेषां केशाञ्चिद्दृश्यते फलम् ॥ कर्म्मणा प्राप्यते लोके राजसस्य तथा फलम् । कृच्छ्रेण कर्म्मणा विद्धि तामसस्य तथा फलम् ॥ पौरुषेणाप्यते राजन् ! मार्गितव्यं फलं नरैः । दैवमेव विजानन्ति नराः पौरुषवर्ज्जिताः ॥ तस्मात्त्रिकालसंयुक्तं दैवेन सफलं भवेत् । पौरुषं दैवसम्पत्त्या काले फलति पार्थिव ! ॥ दैवं पुरुषकारश्च कालश्च मनुजोत्तम ! । त्रयमेव मनुष्यस्य पिण्डितं स्यात् फलावहम् । कृषेर्वृष्टिसमायोगात् दृश्यन्ते फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥ तस्मात् सदैव कर्त्तव्यं सधर्म्मं पौरुषं नृभिः । एवन्ते प्राप्नुवन्तीह परलोके फलं ध्रुवम् ॥ नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः । तस्मात् सदैव यत्नेन पौरुषे यत्नमाचरेत् ॥ त्यक्तालसान्दैवपरान् मनुष्या- नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः । अन्विष्य यत्नाद्वृणुते नृपेन्द्र ! तस्मात् सदोत्थानवता हि भाव्यम् ॥” इति मत्स्यपुराणे १९५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैव नपुं।

प्राक्तनशुभाशुभकर्मः

समानार्थक:दैव,दिष्ट,भागधेय,भाग्य,नियति,विधि,कृतान्त,अनय

1।4।28।1।1

दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः। हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्.।

अवयव : पापम्,शुभम्

पदार्थ-विभागः : , गुणः, अदृष्टम्

दैव नपुं।

देवतीर्थम्

समानार्थक:दैव

2।7।50।2।1

प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम्. अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैव¦ त्रि॰ देवादागतः अण्।

१ भाग्ये फलोन्मुखेशुभाशुभकर्मणि
“दैवाधीनं जगत्सर्वं जन्मकर्मशुभाशुभम्। संयोगाञ्च वियोगाश्च न च दैवात् वरंबलम्। कृष्णायत्तञ्च तद्दैवं स दैवात् परतस्ततः। भजन्ति सततं भक्ताः परमात्मानमीश्वरम्। दैवं वर्द्ध-यितुं शक्तुं क्षयं कर्तुं स्वलीलया। न दैवबद्धस्तद्भक्त-श्चाविनाशी च निर्गुणः” इति ब्र॰ वै॰ गणे॰। मनुरुवाच।
“दैवे पुरुषकारे च किं ज्यायस्तद्ब्रवीहि मे। अत्र मेसंशयो देव! छेत्तुमर्हस्यशेषतः” मत्स्य उवाच
“स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम्। तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः। प्रतिकूलं तथा दैवंपौरुषेण विहन्यते। मङ्गलाचारयुक्तानां नित्यमुत्थानशीलिनाम्। येषां पूर्वकृतं कर्म सात्विकं मनुजोत्तम!। पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम्। कर्मणाप्राप्यते लोके राजसस्य तथा फलम्। कृच्छ्रेण कर्मणाविद्धि तामसस्य तथा फलम्। पौरुषेणाप्यते राजन्!मार्गितव्यं फलं नरैः। दैवमेव विजानन्ति नराः पौरुषवर्जिताः। तस्माद्धि कालसंयुक्तं दैवेन सफलं भवेत्। पौरुषं दैवसम्पत्त्या काले फलति पार्थिव!। दैवं पुरुषकारश्च कालश्च मनुजोत्तम!। त्रयमेव मनुष्यस्य पि-ण्डितं स्यात् फलावहम्। कृषेर्वृष्टिसमायोगात् दृश्यन्तेफलसिद्धयः। तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन। तस्मात् सदैव कर्तव्यं सधर्मपौरुषं नृभिः। एवन्ते[Page3757-a+ 38] प्राप्नुवन्तीह परलोके फलं ध्रुवम्। नालसाः प्राप्नु-वन्त्यर्थान्न च दैवपरायणाः। तस्मात् सदैव यत्नेनपौरुषे यत्नमाचरेत्। त्यक्तालसान् दैवपरान् मनुष्या-नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः। अन्विष्य यत्नाद्-वृणुते नृपेन्द्रं तस्मात् सदोत्थानवता हि भाव्यम्” मत्स्यपु॰

१९

५ अ॰
“तृणं वज्रायते नूनं वज्रं चैव तृणायते। बलवान् बलहीनश्च दैवस्य गतिरीदृशी”
“उद्योगिनंपुरुषसिंहमुपैति लक्ष्मीर्देवेन देवमिति कापुरुषा वदन्ति” नीतिमाला
“दैवायत्तं कुले जन्म ममायत्तं हि पौरुषम्” वेणीसं॰ देवस्येदम् देवाद्यञञौ पा॰ अञ्।

२ देवसम्बन्धिनिस्त्रियां ङीप्।
“दैवी ह्येषा गुणमयी मम माया दुरत्यया” गीता।
“देवी विचित्रा गतिः” उद्भटः।

३ गीतोक्ते स-म्पद्भेदे स्त्री
“अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तपआर्जवम्। अहिंसासत्यमक्रोधस्त्यागः शान्तिरपैशुनम्। दया भूतेष्वलो-लुखं मार्द्दवं ह्रीरचापलम्। तेजः क्षमा धृतिः शौचमद्रोहोनाभिमानिता। भवन्ति सम्पदं दैवीमभिजातस्यपाण्डव!। दैवी सम्पद् विमोक्षाय निबन्धायासुरीमता” गीता देवस्येवायम् अञ्।

४ मनूक्ते विवाहभेदे पु॰
“ब्राह्मो दैवस्तथैवार्तः प्राजापत्यस्तथासुरः। गान्धर्वोराक्षसश्चैव पैशाचश्चाष्टमोऽधमः” इत्युद्दिश्य
“यज्ञे तुवितते सम्यगृत्विजे कर्म कुर्वते। अलङ्कृत्य सुतादानंदैवं धर्मं प्रचक्षते” इति लक्षितम्
“सुतादानं तन्निमित्तग्रहणमिति तात्पर्य्यार्थः। विवाहानां ब्रह्मदेवादिदेवता-कत्वाऽभावेन इवार्थगर्भितार्थकता कुल्लूकभट्टेनोक्ता। देवोदेवताऽस्य अञ्।

५ मनूक्ते अङ्गुल्यग्ररूपे आचमनाङ्गेतीर्थभेदे आचमनोपक्रमे
“अङ्गुष्ठमूलस्यतले ब्राह्मं तीर्थंप्रचक्षते। कायमङ्गुलिमूलेऽग्रे दैवतीर्थं तयोरधः” कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च। प्रजापतिपितृ-ब्रह्म दैवतीर्थान्यनुक्रमात्” याज्ञबल्क्यैकवाक्यत्वात् अङ्गु-ल्यग्रस्यैव तथात्वम्। इदमर्थे अञ्।

६ देवसम्बन्धिनि देव-सर्गरूपे सर्गभेदे दैवसर्गश्चाष्टविधो
“विबुधाः

१ पितरो

२ ऽमुराः

३ गन्धर्वाप्सरसः सिद्धा

४ यक्षरक्षांसि चारणानि

५ भूतप्रेतपिशाचाश्च

६ विद्याधूः

७ किन्नरादयः

८ भाग॰

३ ।

९० ।

२६ उक्तः साङ्ख्यतत्त्वकौमुद्यान्तु अन्यबिधैवाष्ट-विधतोक्ता यथा
“अष्टविकल्पो दैवस्तिर्य्यग्योनश्च पञ्चधाभवति। मानुष्यश्चैकविधः समासतो भौतिकः सर्गः” सा॰ का॰
“ब्राह्मप्राजापत्यैन्द्रगान्धर्वराक्षसपैशाच इत्य-[Page3757-b+ 38] ष्टविधो दैवः सर्गः” त॰ कौ। देवोदेवभेदो देवताऽस्यअञ्।

७ श्राद्धभेदे देवताभेदोद्देशेन कर्तव्ये श्राद्धभेदे न॰। तस्य पितृश्राद्धात् पूर्वं कर्त्तव्यता मनुनोक्ता यथा
“देवकार्य्यात् द्विजातीनां पितृकार्यं विशेष्यते। दैवं हिपितृकार्यस्य पूर्वमाप्यायनं स्मृतम्। तेषामारक्ष-भूतं तु पूर्वं दैवं नियोजयेत्। रक्षांसि हि विलुम्पन्तिश्राद्धमारक्षवर्जितम्। दैवाद्यन्तं तदीहेत पैत्राद्यन्तंन तद्भवेत्। पेत्राद्यन्तं त्वीहमानः क्षिप्रं नश्यति सा-न्वयः”। देवलोऽपि
“यत्तत्र क्रियते कर्म पैतृके ब्राह्म-णान् प्रति। तत्सर्वं तत्र कर्तव्यं वैश्वदेविकपूर्विकम्” आसनगन्धादिदाने दैवपूर्वकतां पैत्र्यश्राद्धे विधत्ते स्म। श्राद्धभेदे देवताभेदाश्च नि॰ सि॰ निरूपिताः कस्यचि-च्छ्राद्धस्य चादैवपूर्वकता चोक्ता यथा( हेमाद्रौ शङ्खवृहस्पती
“इष्टिश्राद्धे क्रतुदक्षौ सत्योनान्दीमुखे वसुः। नैमित्तिके कामकालौ काम्ये चघुरिलोचनौ। पुरूरवार्द्रवौ चैव पार्वणे समुदाहृतौ” तत्रैव
“उत्पत्तिं नाम चैतेषां न विदुर्ये द्विजातयः। अयमुच्चारणीयस्तैः श्लोकः श्राद्धासमन्वितैः। आगच्छन्तुमहाभागा विश्वेदेवा महाबलाः। ये यत्र विहिताःश्राद्धे सावधाना भवन्तु ते” इति। इष्टिश्राद्धं प्रतिरुचि-विहितमित्युक्तमिति कल्पतरुः। आधानादिकर्माङ्गमि-त्यन्ये। नैमित्तिकमेकोद्दिष्टम्
“एकोद्दिष्टन्तु यच्छ्राद्धं त-न्नैमित्तिकमुच्यते” भविष्योक्तेः एतद् यद्यपि
“एकोद्दिष्टंदैवहीनमिति” तत्र वैश्वदेवनिषेधस्तथापि
“नवश्राद्धेद्वादशमासिके च कामकाकालौ ज्ञेयौ
“नवश्राद्धं दशा-हानि नवमिश्रन्तु षड्क्रतून्। अतःपरं पुराणं वै त्रिविधंश्राद्धमुच्यते। यस्मिन्नेव पुराणे वा विश्वेदेवा न लेभिरे। आसुरं तद्भवेच्छ्राद्धं वृषलं मन्त्रवर्जितम्” इति बह्वृ-चपरिशिष्टात्। एतच्च बह्वृचानामेव। तेन तेषाने-वोक्तेः अन्येषां तु नात्र विश्वेदेवा कात्यायनोक्तेस्तन्निषेधएवेति पृथ्वीचन्द्रोदयः। अन्ये तु नैमित्तिकं सपिण्डी-करणमाहुः। भविष्ये यद्यप्येकोद्दिष्टं तच्छब्देनोक्तंतथापि
“तदप्यदैवं कर्तव्यमयुग्मान् भोजयेद्द्विजानिति” तत्रैव विश्वेदेवनिषेधात्। यद्यपि सपिण्डीकरणेऽशतएकोद्दिष्टत्वं तथापि
“सपिण्डीकरणं श्राद्धं देवपूर्वं नियो-जयेदिति” वचनात्तत्परत्वम्। हेमाद्रावादित्यपुराणे
“वि-श्वेदेवौ क्रतुर्दक्षः सर्वास्विष्टिषु कीर्त्तितौ। नित्यं ना-न्दीमुखे श्राद्धे वसुसत्यौ च पैतृके। नवान्नलम्भने देवौ[Page3758-a+ 38] कामकालौ सदैव हि। अपि कन्यागते सूर्ये काम्येच धुरिलोचनो। पुरूरवार्द्रवौ चैव विश्वेदेवौ तु पा-र्वणे”। क्वचित् विश्वेदेवापवादमाह हेमाद्रौ शातातपः
“नित्यं श्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च। मातुःश्राद्धं च युग्मेः स्याददैवं प्राङ्मुखैः पृथक्। योजये-द्दैवपूर्वाणि श्राद्धान्यन्यानि यत्नतः” नान्दीश्राद्धे भिन्न-प्रयोगपक्षे मातुः श्राद्धमदैवमिति हेमाद्रिः। तत्र देव-सम्बन्धिनि।
“होमोदैवो बलिर्भौतो नृयज्ञोऽतिथिपूज-नम्” मनुः। दिवि भवः अण्।

८ आकाशभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैव¦ mfn. (-वः-वी-वं) Of or relating to divinity or a deity, divine, celestial, &c. mn. (-वः-वं) Destiny, fate, fortune. n. (-वं)
1. The part of the hand sacred to the gods; the tips of the fingers, (some exclude the thumbs.)
2. One of the forms of marriage; the gift of a daughter at a sacrifice to the officiating priest. f. (-वी) a division of medicine, the medical use of charms, &c. E. देव a deity, and अण् affix of reference or relation.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैव [daiva], a. (-वी f.) [देवादागतः अण्]

Relating to gods, caused by or coming from gods, divine, celestial; संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः Kāv.1.33; दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् R.1.6; Y.2.235; Bg.4.25; 9.13;16.3; Ms.3.75.

Royal; दैवी वाग्यस्य नाभवत् Rāj. T.5.26.

Depending on fate, fatal.

Possessing the quality of सत्त्व.

वः (i. e. विवाहः) One of the eight forms of marriage, that in which the daughter is given away at a sacrifice to the officiating priest; यज्ञस्य ऋत्विजे दैवः Y.1.59 (for the eight forms of marriage see उद्वाह or Ms.3.21).

A worshipper of god (देवभक्त); दैवान् सर्वे गुणवन्तो भवन्ति Mb. 12.158.35.

वम् Fate, destiny, luck, fortune; पूर्वजन्म- कृतं कर्म तद्दैवमिति कथ्यते H. दैवमविद्वांसः प्रमाणयन्ति Mu.3; विना पुरुषकारेण दैवमत्र न सिध्यति 'God helps those who help themselves'; दैवं निहत्य कुरु पौरुषमात्मशक्त्या Pt.1.361. (दैवात् by chance, luckily, accidentally.)

A god, deity.

A religious rite or offering, an oblation to gods; उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् Rām.1.23.2.

A kind of Śrāddha ceremony.

Parts of the hands sacred to the gods, i. e. the tips of the fingers; cf. Ms.2.59.

Royal duties; न तु केवलदैवेन प्रजाभावेन रेमिरे Mb.1.222.1.

A science phenomena, unusuals (उत्पातs); Ch. Up. 7.1.2.

वी A woman married according to the form of marriage called daiva q. v. above.

a. Divine, super-human; दैवी संपद्विमोक्षाय निबन्धायासुरी मता Bg.16.5.

A division of medicine (the medical use of charms, prayers &c.). -Comp. -अत्ययः evil resulting from unusual natural phenomena. -अधीन, -आयत्त a. dependent on fate; दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् Ve.3.33.-अहोरात्रः a day of the gods i. e. the human year.-इज्य a. sacred to Jupiter (गुरु), -topaz. -उपहत a. illfated, unfortunate; दैवेनोपहतस्य बुद्धिरथवा सर्वा विपर्यस्यति Mu.6.8. -ऊढा a woman married according to the Daiva ritual. ˚ज the son of such a woman; दैवोढाजः सुतश्चैव सप्त सप्त परावरान् Ms.3.38. -कर्मन् n. offering, oblations to gods. -कृत a.

fated.

natural. -कोविद्, -चिन्तकः, -ज्ञः an astrologer, a fortune-teller, पुरोहित प्रकुर्वीत दैवज्ञमुदितोदितम् Y.1.313; Kām.9,25. -गतिः f. turn or course of fate; मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या Me.96.; Pt.3.174. -चिन्ता fatalism; astrology. -ज्ञ a. knowing fate or men's destinies. -तन्त्र a. dependent on fate. -दत्त a. innate, natural. -दीपः the eye. -दुर्विपाकः hardness of fortune, adverseness or unpropitiousness of fate, an evil turn of fate; U.1.4. -दोषः badness of fate. -पर a.

trusting to fate, fatalist.

fated. predestined.

प्रश्नः fortune-telling, astrology.

a voice from heaven. नक्तं निर्गत्य यत्किञ्चिच्छुभाशुभकरं वचः । श्रूयते तद्विदुर्धीरा दैवप्रश्नमुपश्रुतिम् ॥ -युगम् 'a Yuga of the gods' said to consist of 12 divine years, but see Kull. on एतद् द्वादशसाहस्रं देवानां युगमुच्यते Ms.1.71. -योगः a lucky coincidence, fortuitous combination, fortune, chance. (दैवयोगेन, दैवयोगात् fortunately, accidentally.)-रक्षित a. guarded by the gods; अरक्षितं तिष्ठति दैवरक्षितम् Subhāṣ. -लेखकः a fortune-teller, an astrologer. -वशः, -शम् the power of destiny, subjection to fate.

वाणी a voice from heaven.

the Sanskrit language; cf. Kāv.1.33. quoted above. -विद् m. an astrologer.-सभेयम् a variety of sandal-wood red and smelling like a lotus-flower; Kau. A.2.11. -हत a. ill-fated; सुरक्षितं दैवहतं विनश्यति Subhāṣ. -हीन a. ill-fated, unfortunate, unlucky.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैव mf( ई)n. or दैव(fr. देव)belonging to or coming from the gods , divine , celestial AV. Br. Mn. MBh. etc.

दैव mf( ई)n. sacred to the gods(596788.05 -तीर्थn. the tips of the fingers Mn. ii , 59 ; See. s.v. ; वीदिक्f. the north L. ; See. 2. दिश्)

दैव mf( ई)n. royal( वाच्) Ra1jat. v , 205

दैव mf( ई)n. depending on fate , fatal Ka1v.

दैव m. (with or without विवाह)a form of marriage , the gift of a daughter at a sacrifice to the officiating priest Mn. iii , 21 ; 28

दैव m. the knowledge of portents S3am2k.

दैव m. patr. of अथर्वन्S3Br.

दैव m. pl. the attendants of a deity Ta1n2d2Br. xvii , 1 , 1

दैव n. a deity(See. कुल-) BhP. iii , 1 , 35 etc.

दैव n. ( scil. कर्मन्, कार्यetc. ) a religious offering or rite Ya1jn5. MBh.

दैव n. divine power or will , destiny , fate , chance(596788.60 वात्ind. by chance , accidentally) AV. Mn. MBh. etc.

दैव वृद्धिform of देवin comp.

"https://sa.wiktionary.org/w/index.php?title=दैव&oldid=312256" इत्यस्माद् पुनः प्राप्तिः