नाग

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागम्, क्ली, (नगे पर्व्वते भवम् । नग + अण् ।) रङ्गम् । सीसकम् । (अस्य पर्य्यायो यथा, -- “नागं महाबलं चीनं पिष्टं योगेष्टसीसकम् ॥” इति वैद्यकरत्नमालायाम् ॥) करणविशेषः । इति मेदिनी । गे, ९ ॥ नाग- करणजातफलम् । तथा, -- “नागोद्भवो नागधनाभिलाषी वक्रोक्तिजालो नितरां कुशीलः । क्रोधाग्निसन्तापितबन्धुवर्गो भर्गोपमः स्यात् किल रङ्गभूमौ ॥” इति कोष्ठीप्रदीपः ॥ रङ्गसीसकार्थे क्वचित् पुंलिङ्गोऽपि दृश्यते । पाक- हीनयोस्तयोर्दोषो यथा, -- “पाकहीनौ नागवङ्गौ कुष्ठगुल्मरुजाकरौ । मेहपाण्डुकरौ वातकफमृत्युकरौ पुनः ॥” तयोर्मारणं यथा, -- “अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत् । मृत्पात्रे विद्रुते नागे लौहदर्व्या च चालयेत् ॥ यामैकेन भवेद्भस्म तत्तुल्याञ्च मनःशिलाम् । काञ्जिकेन द्वयं पिष्ट्वा पचेद्दृढपुटेन च ॥ स्वाङ्गशीतं पुनः पृष्ट्वा शिलया काञ्जिके न च ॥ पुनः पुटेच्छरावाभ्यामेवं षड्भिः पुटैर्मृतिः ॥” नागः सिन्दूरवर्णाभो म्रियते सर्व्वकार्य्यकृत् । सतिक्तमधुरो नागो मृतो भवति भस्मसात् ॥ आयुःकीर्त्तिं वीर्य्यवृद्धिं करोति सेवनात् सदा । रोगान् हन्ति मृतो नागो वङ्गवद्गुणकारकः ॥” इति सुखबोधः ॥

नागः, पुं, (नगे भवः । नग + अण् । यद्बा, दह- त्यस्मात् विषाग्निनेति । दह + “दहेर्गो लोपो- दश्च नः ।” उणां ५ । ६१ । गः । अन्तलोपः । दस्य नः । बाहुलकात् नकारस्य ना ।) पन्नगः । (यथा, विष्णुपुराणे । १ । ९ । ९६ । “जगृहुश्च विषं नागाः क्षीरोदाच्च समुत्थितम् ॥”) हस्ती । (यथा, रघुः । ४ । ८३ । “भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः ॥”) क्रूरचारी । मेघः । नागकेशरः । पुन्नागः । नागदन्तकः । मुस्तकः । देहानिलप्रभेदः । “उद्गारे नाग इत्युक्तो नीलजीमूतसन्निभः ॥” इति शारदातिलकटीका ॥ उत्तरपदस्थिते श्रेष्ठः । इति मेदिनी । गे, १० ॥ (सीसकम् । अस्योत्पत्तिर्नामानि गुणाश्च । यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत् । वीर्य्यं जातस्ततो नागः सर्व्वरोगापहो नृणाम् ॥” “नागस्तु नागशततुल्यबलं ददाति व्याधिं विनाशयति जीवनमातनोति । वह्निं प्रदीपयति कामबलं करोति मृत्युञ्च नाशयति सन्ततसेवितः सः ॥ पाकेन हीनौ किलवङ्गनागौ कुष्ठानि गुल्मांश्च तथातिकष्टान् । कण्डूं प्रमेहानिलसादशोथः भगन्दरादीन् कुरुतः प्रयुक्तौ ॥”) ताम्बूली । देशभेदः । इति नानार्थटीकायां भरतः ॥ पर्व्वतविशेषः । (यथा, विष्णुपुराणे । २ । २ । २८ । “शङ्खकूटोऽथ ऋषभो हंषो नागस्तथापरः । कालाञ्जराद्याश्च तथा उत्तरे केसराचलाः ॥”) नगे गिरौ चन्दनादितरौ वा भवः । न गच्छ- यथा नान्यस्य भूर्लोके पाताले वापि पन्नग ! ॥ प्रणेतारौ भवन्तौ च सर्व्वस्यास्य भविष्यतः । पाताले देवलोके च भूर्लोके चैव पन्नगौ ॥ इत्युक्ता सा तदा देवी सर्व्वजिह्वा सरस्वती । जगामादर्शनं सद्यो नागस्य कमलेक्षणा ॥” इति मार्कण्डेयपुराणम् ॥ कालियवंशनागहनने दोषो यथा, -- “तद्वंशजातान् सर्पांश्च हन्ति यो मानवाधमः । ब्रह्महत्यासमं पापं भविता तस्य निश्चितम् ॥ मत्पादपद्मचिह्ने यः करोति दण्डताडनम् । द्बिगुणं ब्रह्महत्याया भविता तस्य किल्विषम् ॥ लक्ष्मीर्यास्यति तद्गेहात् शापं दत्त्वा सुदारुणम् । वंशायुर्यशसां हानिर्भविता तस्य निश्चितम् ॥ ध्रवं वर्षशतं कालसूत्रं यास्यति मद्भिया ॥” इति ब्रह्मवैवर्त्तपुराणे श्रीकृष्णजन्मखण्डे १९ अः ॥ वास्तुनागशुद्धिर्यथा, -- “वास्तुप्रमाणेन तु गात्रकेण वामेन शेते खलु नित्यकालम् । त्रिभिस्तु मासैः परिवृत्य पार्श्वं तं वास्तुनागं प्रवदन्ति सिद्धाः ॥ भाद्रादिके वासवदिक्शिराः स्या- न्मार्गादिकेषु त्रिषु याम्यमूर्द्धा । प्रत्यक्शिराः स्यात् खलु फाल्गुनादौ ज्यैष्टादिकौवेरशिराः स नागः ॥ मूर्द्ध्निं घाते भवेन्मृत्युः पृष्ठे स्यात् पुत्त्रभार्य्ययोः । जघनेऽर्थक्षयं विद्यात् सर्व्वसम्पत्तथोदरे ॥ एकं नागोडुसंशुद्धौ द्वे चेद्दक्षिणपश्चिमे । त्रिशालं पूर्ब्बतो हीनं कुर्य्याद्बा सौम्यवर्ज्जितम् ॥ केचिद्दक्षिणभागे तु वदन्त्येकं गृहं बुधाः । न कोणेषु गृहं कुर्य्यान्नाप्यन्त्ये नापि मध्यतः ॥ कोणे च धनहानिः स्यादन्ते रिपुभयं भवेत् । मध्ये च सर्व्वनाशः स्यात्तस्मादेतद्विवर्ज्जयेत् ॥” इति ज्योतिस्तत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाग पुं।

नागाः

समानार्थक:नाग,काद्रवेय,गज,भोगवती

1।8।4।1।2

विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वराः। शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे॥

स्वामी : नागराजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

नाग पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

2।8।34।2।3

दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

नाग पुं।

सीसकम्

समानार्थक:नाग,सीसक,योगेष्ट,वप्र

2।9।105।2।1

डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम्. नागसीसकयोगेष्टवप्राणि त्रपु पिञ्चटम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाग¦ न॰ नगे पर्वते भवः अण् न गच्छति अगः न अगोवा।

१ वङ्गे

२ सीसके

३ तिथ्यर्द्धरूपकरणभेदे च मेदि॰करणशब्दे

१६

९० पृष्ठे दृश्यम्। सीसके पुंस्त्वमपोतिवैद्यकम्। अस्योत्पत्तिर्भावप्र॰ दर्शिता यथा
“दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत्। वीर्य्यंजातस्तती नागः सर्वरोगापहो नृणाम्। सीसं वङ्ग-गुणं ज्ञेयं विशेषान्मेहनाशनम्”।
“नागस्तु नागशततुल्य-[Page4009-b+ 38] बलं ददाति व्याधिं विनाशयति जीवनमातनोति। वह्निंप्रदीपयति कामवलं करोति मृत्युञ्च नाशयति सन्तत-सेवितः सः”। भावप्र॰ पाकहीनयोर्वङ्गसीसयोर्दोषो यथा
“पाकेन हीनौ किल वङ्गनागौ कुष्ठानि गुल्मांश्च तथा-तिकष्टान्। कण्डूप्रमेहानलमान्द्यशोथभगन्दरादीन्कुरुतः प्रभुक्तौ”। नागभस्मप्रकारो यथा
“ताम्बूलर-ससंपिष्टं शिलालेपात् पुनःपुनः। द्वात्रिंशद्भिः पुटै-र्नागो निरुत्थं भस्म जायते”। प्रकारान्तरेण यथा
“अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत्। मृत्-पात्रे विद्रुतो नागो लौहदर्व्या च चालितः। यामै-केन मवेद्भस्म तत्तुल्या स्यान्मनःशिला। काञ्जिकेन समंपिष्ट्वा पचेद् दृढपुटेन च। स्वाङ्गशीतं पुनः पिष्ट्वा शि-लायां काञ्जिकेन च। पुनः पुटशरावाभ्यामेवं षड्भिःपुटैः मृतिः। नागः सिन्दूरवर्णाभो म्रियते सर्वका-र्यकृत्। सतिक्तमधुरो नागो मृतो भवति भस्मसात्। आयुः कीर्तिं वीर्यवृद्धिं करोति सेवनात् सदा। रोगान् हन्ति मृतो नागो वङ्गवद्गुणकारकः”

४ सर्पे

५ हस्तिनि

६ मेघे

७ नागकेशरे

८ पुन्नागे

९ नागदन्तिके

१० मुस्तके

११ देहस्थेऽनिलभेदे च पु॰

१२ क्रूराकारे त्रि॰। मेदि॰
“उद्गारे नाग इत्युक्तो नीलजीमूतसन्निभः” सा॰ति॰ टीका पदार्थादर्शे। अत्र नागशब्दस्य सर्पगजजाति-वाचकत्वे द्विलिङ्गत्वम्। तत्र जातिवाचकत्वात् स्त्रियांङीष्। जानपदादिसूत्रे स्थौल्यगुणयोगादन्यत्र प्रयोगेस्त्रियां ङीष्। दीर्घगुणयोगादन्यत्र प्रयोगे स्त्रियां टाप्इति भेदः।

१३ देशभेदे

१४ ताम्बूल्यां च पु॰ भरतः। मनुष्याकारः फणालाङ्गूलयुक्तः कर्कोटादिर्नागः देवयो-निभेदः। तेषामुत्पत्त्यादिकं वराहपु॰ उक्तं यथा
“सृजता ब्रह्मणा सृष्टिं मरीचिः सूतिकारणम्। प्रथमं मनसां ध्यातस्तस्य पुत्रस्तु कश्यपः। तस्य दाक्षा-यणी भार्य्या कद्रुर्नाम शुचिस्मिता। मारीचो जनया-मास तस्यां पुत्रान् महाबलान्। अनन्तं वासुकिञ्चैवकम्बलञ्च महाबलम्। कर्कोटकञ्च राजेन्द्र! पद्मं चान्यंसरीसृपम्। महापद्मं तथा शङ्खं कुलिकञ्चापराजि-तम्। एते कश्यपदायादाः प्रधानाः परिकीर्त्तिताः। एतेषान्तु प्रसूत्या तु इदमापूरितं जगत्। कुटिला-हीनकर्माणस्तीक्ष्णास्योत्थविषोल्वणाः। दृष्ट्या संदृश्यमनुजान् भस्म कुर्युः क्षणाद्ध्रुवम्” एवं प्रजानाशे ब्रह्मणआदेशात् ते पातालस्थानं जन्मुः यथाह तत्रैव[Page4010-a+ 38]
“अहं करोमि वो नागाः समयं मनुजैः सह। तदेकमनसः सर्वे शृणुध्वं मम शासनम्। पातालं वितल-ञ्चैव सुतलाख्यं तृजीयकम्। दत्तं वै वस्तुकामानां गृहंतत्र गमिष्यथ। तत्र भोगान् बहुविधान् भुञ्जध्वं ममशासनात्। तिष्ठध्वं सप्तमं यावद्रात्र्यन्ततः पुनःपुनः। ततो वैवस्वतस्यादौ काश्यपेया भविष्यथ। दायादाः सर्वदेवानां सुपर्णस्य च धीमतः। तदा प्रसूतिर्वः सर्वाभोक्ष्यते चित्रभानुना। भवतां नैव दोषोऽयं भविष्यतिन संशयः। ये वै क्रूरा भोगिनो दुर्विनीतास्तेषामन्तोभविता नान्यथैतत्। कालं प्राप्तं भक्षयध्वं दशध्वंतथा परान् चापकृतोमनुष्यान्। भन्त्रौधघैर्गारुडमण्डलैश्च बुद्धैर्दृष्टा मानवा ये चरन्ति। तेषां भीतैर्व-र्त्तितव्यं न चान्या चिन्ता कार्या चान्यथा वो विनाशः। इतीरिते ब्रह्मणा ते भुजङ्गा जग्मुःस्थानं क्ष्मातलाख्यंहि सर्वे। तस्थुर्भोगान् भुञ्जमानाः समग्रान् रसातलेलीलया संस्थितास्ते। एवं शापं ते तु लब्ध्वा प्रसा-दञ्च चतुर्मुखात्। तस्थुः पातालनिलये मुदितेनान्तरा-त्मना। एतत् सर्वञ्च पञ्चम्यां तेषां जातं महात्मनाम्। अतस्त्वियं तिथिर्धन्या सर्वपापहरी शुभा। एतस्यांसंयतो यस्तु अम्लन्तु परिवर्जयेत्। क्षीरेण स्नापये-न्नागांस्तस्य यास्यन्ति मित्रताम्”। नागाश्च प्रा{??}नभा॰ आ॰

३५ अ॰ दर्शिता ततएवावसेयाः। तेषां केषाञ्चित्जनमेजयस्य सर्पसत्रे नाशो भविष्यतीति मातृशापकथाभा॰ आ॰

२० अ॰
“ततः पुत्रसहस्रन्तु कद्रुर्जिह्मं चि-कीर्षती। आह्वयामास च तदा बाला भूत्वाऽञ्जनप्रभाः। आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा। नाभ्य-पद्यन्त ये वाक्यं तान् शशाप भुजङ्गमान्। सर्पसत्रेवर्त्तमाने पावको वः प्रधक्ष्यति। जनमेजयस्य राजर्षेःपाण्डवेयस्य धीमतः। शापमेनन्तु शुश्राव स्वयमेवपितामहः। अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि। सार्द्धं दैवगणैः सर्वैर्वाचं तामन्वमोदत। बहुत्वं प्रेक्ष्यसर्पाणां प्रजानां हितकाम्यया। तिग्मवीर्यविषा ह्येतेदन्दशूकाः महाबलाः। तेषां तीक्ष्णविषत्वाद्धि प्रजा-नाञ्च हि{??}। युक्तं मात्राकृतं तेषां परपीडोप-सर्पिणामु अन्येषामपि सत्वानां नित्यं दोषपरास्तुये। तेषां प्राणान्तिकौ दण्{??} देवेन विनिपात्यते। एवंसम्भाष्य देवैस्तु पूज्य कद्रूञ्च तां तदा। आहूय कश्यपंदेव इदं वचनमब्रवीत्। यदेते दन्दशूकाश्च सर्पा जाता-[Page4010-b+ 38] स्त्वयाऽनघ। विषोल्वणा महाभोगा मात्रा शप्ताःपरन्तप। तत्र मन्युस्त्वया तात न कर्त्तव्यः कथञ्चन। दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्। इत्युक्त्वासृष्टिकृद्देवस्तं प्रसादा प्रजापतिम्। प्रादाद्विषहरींविद्यां कश्यपाय महात्मने!” कम्बलाश्वतरनागयोः स-रस्वत्या गानवरप्राप्तिर्यथा
“एवं स्तुता तदा देवी वि-ष्णोर्जिह्वा सरस्वती। प्रत्युवाच महात्मानं नागमश्व-तरं ततः” सरस्वत्युवाच
“वरन्ते कम्बलं भ्रातःग्रयच्छाम्युरगाधिप!। तदुच्यतां प्रदास्यामि यत्ते मनसिबर्त्तते”। अश्वतर उवाच
“सहायं देहि देवि! त्वं पूर्बंकम्बलमेव मे। समस्तस्वरसम्बद्धमुभयोः संप्रयच्छ च” सरस्वत्युवाच
“सप्तस्वरा ग्रामरागाः सप्त पन्नगसत्तम। गीतकानि च सप्तैव तावत्यश्चापि मूर्च्छनाः। तानाश्चै-कोनपञ्चाशत्तथा ग्रामत्रयञ्च यत्। एतत् सर्वं भवान्गाता कम्बलश्चैव ते सखा। ज्ञास्यते मत्प्रसादेन भुज-ङ्गेन्द्र! परन्तथा। चतुर्विधं ददे तालं त्रिःप्रकारं लय-त्रयम्। यतित्रयं तथातोद्यं मया दत्तं चतुर्विधम्। एतद्भवान् मत्प्रसादात् पन्नगेन्दापरञ्च यत्। अस्यान्त-र्गतमापन्नं स्वरव्यञ्जनयोश्च यत्। तदशेषं मया दत्तंभवतः कम्बलस्य च। यथा नान्यस्य भूर्लोके पातालेवापि गन्नग!। प्रणेतारौ भवन्तौ च सर्वस्यास्य भवि-ष्यतः। पाताले देवलोके च भूर्लोके चैव पन्नगौ। इत्युक्त्वा सा तदा देवी सर्वजिह्वा सरस्वती। जगामा-दर्शनं सद्यो नागस्य कमलेक्षणा” मार्कण्डेयपुराणम्।
“नार्गरिवालूनशटं मृगेन्द्रम्” किरा॰
“अधिनागं प्रज-विनोविकशत्पिच्छचारवः”
“नागं पूनर्मृदुसलीलनि-मीलिताक्षम्” माथः।

१६ अश्लेषानक्षत्रे

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाग¦ m. (-गः) Na4ga or demi-god so called, having a human face, with the tail of a serpent, and the expanded neck of the Koluber Na4ga; the race of these beings is said to have sprung from KADRU, the the wife of KA4SYAPA, in order to people Pa4ta4la or the regions below the earth.
2. A serpent in general or especially the specta- cle snake, or cobra capella, (Coluber Na4ga.)
3. An elephant.
4. A cruel or tyrannical person.
5. A cloud.
6. (In composition,) Pre- eminent.
7. A pin or nail projecting from a wall to hang any thing upon.
8. A small tree, (Mesua ferrea.)
9. A sort of grass, (Cyperus pertenuis.)
10. A tree used in dying, (Rottleria tinctoria.)
11. One of the airs of the body, that which is expelled by belching.
12. Betel or Pa4n.
13. The name of a country.
14. A shark. n. (-गं)
1. Tin.
2. Lead.
3. One of the stronomical periods called Karan4as; it is one of those termed invariable, and always corresponds to the last half of A4mavasya or new moon.
4. The effects of that period on any thing done or happening during it. E. नग a moun- tain, and अण् affix; living or produced in mountainous regions, &c. नगे पर्वते भवः अण् न गच्छति अगः न अगो वा |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाग [nāga], a. (-गी f.) Serpentine, formed of snakes, snaky.

Elephantine. -गः [न गच्छति इत्यगः न अगो नागः]

A snake in general, particularly the cobra; नासुरो$यं न वा नागः Ki.15.12.

A fabulous serpentdemon or semi-divine being, having the face of a man and the tail of a serpent, and said to inhabit the Pātāla; अनन्तश्चास्मि नागानाम् Bg.1.29; R.15.83.

An elephant; दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् Me.14,36; Si.4.63; V.4.25.

A shark.

A cruel or tyrannical person.

(At the end of comp.) Any pre-eminent or distinguished person, e. g. पुरुषनागः .

A cloud.

A peg projecting from a wall to hang anything upon.

N. of several plants as Mesua Roxburghii, Rottlera Tictoria, Piper betel; (Mar. नागचाफा, नागकेशर, पानवेल, नागरमोथा etc.); Bhāg.8.2.18; Rām.7. 42.4.

One of the five vital airs of the body, that which is expelled by eructation.

The number 'seven'.

A trumpet (see नागवेला).

गम् Tin.

Lead.

One of the astronomical periods (Karaṇas) called ध्रुव

The effects of that period on anything done during it.

The asterism called आश्लेषा.

A captivating act of females (स्त्रीबन्धः), gesticulation; L. D. B.

A kind of coitus; Nm.

गी A female Nāga.

A female elephant; -Comp. -अङ्गम् Hastināpura.

अङ्गना a female elephant.

the proboscis of an elephant. -अञ्चला, -अञ्जना = नागयष्टि q. v. -अञ्जना a female elephant. -अधिपः an epithet of Śeṣa.

अन्तकः, अरातिः, अरिः an epithet of Garuḍa.

a lion.

अशनः a peacock; Pt.1.159.

a lion. -आख्यः = नागकेसर q. v. -आननः an epithet of Ganeśa.-आनन्दम् a drama by Śrīharṣa. -आरूढ a. Riding upon an elephant. -आह्वः Hastināpura. -इन्द्रः 1 a lordly or superior elephant; नागेन्द्रहस्तास्त्वचि कर्कशत्वात... कदलीविशेषाः Ku.

36.

Airāvata, Indra's elephant; कुथेन नागेन्द्रमिवेन्द्रवाहनम् Śi.

an epithet of Śeṣa.

ईशः an epithet of Śeṣa.

N. of the author of Paribhāṣenduśekhara and several other works.

N. of Patañjali.

उदम्, उदरम् a breast-plate.

a peculiar disease of pregnancy (गर्भोपद्रवभेद). -कन्यका, -कन्या a serpent-virgin. -कर्णः the castor-oil plant.-किंजल्कः = नागकेसर q. v. -कुमारी Rubia Munjiṣṭā (Mar. मंजिष्ठ). -केतुः An epithet of Karṇa (?); समरमधि- गतार्थः प्रस्थितो नागकेतुः Karṇabhāra 1.3. -केसरः N. of a tree with fragrant flowers, Mesua Roxburghii; कतकं नक्रनखरं नलदं नागकेसरम् Śiva B.3.14. -रम् a kind of steel. -गर्भम् red lead. -चूडः an epithet of Śiva.

जम् red lead.

tin. -जिह्विका red arsenic.-जीवनम् tin. (-नः) orpiment.

दन्तः, दन्तकः ivory.

a peg or bracket projecting from a wall and used to hang things upon; N.18.15.

दन्ती a kind of sun-flower.

a harlot. -द्वीपम् N. of a द्वीप in Bharatavarṣa. -नक्षत्रम्, -नायकम् the constellation called Āśleṣā. (-कः) the lord of serpents; अनन्तो वासुकिः पद्मो महापद्मो$पि नक्षकः । कर्कोटः कुलिकः शङ्ख इत्यष्टौ नागनायकाः ॥ Trikāṇdaśeṣa. -नामकम् Tin. -नामन् m. holy basil (तुलसी). -नासा the proboscis of an elephant. -निर्यूहः a large pin or bracket projecting from a wall.

पञ्चमी N. of a festival on the fifth day in the bright half of Śrāvaṇa.

the fifth day in the dark half of Āsāḍha. -पतिः an epithet of (1) Airāvata. (2) Śesa.-पदः a mode of sexual enjoyment (रतिबन्ध). पादौ स्कन्धे तथा हस्ते क्षिपेल्लिङ्गं भगे लघु । कामयेत् कामुको नारीं बन्धो नागपदो मतः ॥ Ratimañjarī. -पर्णी the betel plant.

पाशः a sort of magical noose used in battle to entangle an enemy.

N. of the noose or weapon of Varuṇa.-पाशकः a kind of coitus (रतिबन्ध). स्वजङ्घाद्वयमध्यस्थां हस्ताभ्यां धारयन् कुचौ । रमेन्निःशङ्कितो नारीं बन्धो$यं नागपाशकः ॥ Ratimañjarī.

पुरम् Hastināpura.

N. of a city in Pātāla.

पुष्पः the Champaka tree.

the Punnāga tree.

बन्धः a snake as a chain.

N. of a metre, resembling the coilings of a snake. -बन्धकः an elephant-catcher. -बन्धुः the holy fig-tree. -बलः an epithet of Bhīma. -भूषणः an epithet of Śiva.

मण्डलिकः a snake-keeper.

a snake-catcher. -मल्लः an epithet of Airāvata. -मारः a species of pot-herb (Mar. माका). -यष्टिः f.,

यष्टिका a graduated pole or post for showing the depth of water in a newly-dug pond.

a boring-rod driven into the earth. -रक्तम्, -रेणुः red lead. -रङ्गः the orange.

राजः an epithet of Śeṣa.

a large elephant; अधस्तान्नागराजाय सोमायोर्ध्वं दिशं ददौ Hariv. -रिपुः (see नागान्तकः) Garuḍa; शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः Mb.13.147.15. -रुकः the orange tree.

लता the penis.

the piper betel. -वल्लरी, -वल्ली piper betel. -वेला the hour when a serpent-like instrument is blown; नागवेलायामागन्तव्य...... । यस्मिन् ग्रामे न नागाः...... तस्मिन्नपि स एव कालः । तत्र हि आगमनं क्रियते । ŚB. on MS.1.8.69. -लोकः the world of serpents, the race of serpents collectively, one of the regions below the earth called Pātāla.

वारिकः a royal elephant.

an elephant-driver.

the chief of a herd of elephants.

the chief person in an assembly. -वीथी that part of the moon's path which contains the asterisms अश्विनी, भरणी and कृत्तिका; अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता V. P.-संभवम्, -संभूतम् red lead. ...... मञ्जिष्ठां नागसंभवम् Śiva. B.3.19. -साह्वयम् Hastināpura.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाग m. (prob. neither fr. न-गnor fr. नग्न)a snake , ( esp. ) Coluber Naga S3Br. MBh. etc.

नाग m. ( f. ईSuparn2. )a नागor serpent-demon (the race of कद्रुor सु-रसाinhabiting the waters or the city भोग-वतीunder the earth ; they are supposed to have a human face with serpent-like lower extremities [see esp. Na1g. v , 17 RTL. 233 etc. ] ; their kings are शेष, वासुकि, and तक्षकib. 323 ; 7 or 8 of the नागs are particularly mentioned MBh. Ka1v. etc. ; with Buddhists they are also represented as ordinary men MWB. 220 )

नाग m. N. of the numbers 7( Su1ryas. )or 8( Hcat. )

नाग m. a cruel man L.

नाग m. one of the 5 airs of the human body (which is expelled by eructation) Veda7ntas.

नाग m. (sg. also collect.)an elephant( f( ई). , ifc. f( आ). ) Ka1v. BhP. etc.

नाग m. the best or most excellent of any kind( ifc. ) L. (See. ऋषभ, व्याघ्रetc. )

नाग m. shark L.

नाग m. cloud L.

नाग m. N. of sev. plants (Mesua Roxburghii , Rottlera Tinctoria etc. ) L.

नाग m. N. of a serpent-demon VP.

नाग m. of a साध्यHariv.

नाग m. of a teacher Buddh.

नाग m. of a dynasty of 9 or 10 princes VP.

नाग m. of sev. authors (also -शर्मन्and -भट्ट) Col.

नाग m. of sev. other men Ra1jat.

नाग m. of a mountain Pur.

नाग m. of a district L.

नाग m. = -दन्त(below) L.

नाग f( आand ई). N. of sev. women Ra1jat.

नाग n. ( m. L. )tin , lead Bhpr.

नाग n. a kind of talc ib.

नाग n. a kind of coitus L.

नाग n. N. of the 3rd invariable करण(See. s.v. ) Su1ryas. Var.

नाग n. of the effects of that period on anything happening during it W.

नाग n. of a district of भारत-वर्षGol.

नाग mf( आ, or ई)n. formed of snakes , relating to serpents or -sserpents-demons , snaky , serpentine , serpent-like MBh. etc. (with आसनn. a partic. attitude in sitting Cat. ; आf. [ scil. वीथी] = नाग-व्, below Var. )

नाग mf( आ, or ई)n. belonging to an elephant , elephantine (as urine) Sus3r.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Mt. north of the महाभद्र lake; फलकम्:F1:  भा. V. १६. २६; वा. ३६. ३१.फलकम्:/F on the north of Meru. फलकम्:F2:  Vi. II. 2. ३०.फलकम्:/F [page२-218+ ४०]
(II)--as the यज्ञोपवीत of शिव, as a source of मूर्छन (Music). Br. III. ३२. १९; ६१. ५३.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NĀGA I : An asura (demon). (See under Nāgāstra).


_______________________________
*2nd word in left half of page 514 (+offset) in original book.

NĀGA II : A class of serpents. It is stated in Vālmīki Rāmāyaṇa, Araṇya Kāṇḍa, Sarga 14, that of the ten daughters of Kaśyapa, from Surasā, the nāgas and from Kadrū, the Uragas (both are serpents) came into the world.


_______________________________
*3rd word in left half of page 514 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नाग&oldid=431693" इत्यस्माद् पुनः प्राप्तिः