पक्षिन्

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षी, [न्] पुं, (पक्षाः कङ्कादीनां पत्राणि सन्त्यस्य । “अत इनिठनौ” । ५ । २ । ११५ । इति इनिः ।) वाणः । इति धरणिः ॥

पक्षी, [न्] पुं स्त्री, पक्षौ विद्येते यस्य । (पक्ष + इनिः ।) विहङ्गमः ॥ पाखी इति चिडिया इति च भाषा ॥ तत्पर्य्यायः । खगः २ विहङ्गः ३ विहगः ४ विहङ्गमः ५ विहायाः ६ शकुन्तिः ७ शकुनिः ८ शकुन्तः ९ शकुनः १० द्विजः ११ पतत्री १२ पत्री १३ पतगः १४ पतन् १५ पत्र- रथः १६ अण्डजः १७ नगौकाः १८ वाजी १९ विकिरः २० विः २१ विष्किरः २२ पतित्रिः २३ नीडोद्भवः २४ गरुत्मान् २५ पिच्छन् २६ नभ- सङ्गमः २७ । इत्यमरः । २ । ५ । ३४ ॥ नाडीचरणः २८ कण्डाग्निः २९ पतङ्गः ३० अगौकाः ३१ चञ्चु- भृत् ३२ छुरण्डः ३३ सरण्डः ३४ । इति शब्द- रत्नावली ॥ पिपतिषुः ३५ पत्रवाहः ३६ द्युगः ३७ । इति राजनिर्घण्टः ॥ * ॥ गुरुभक्षबहुभक्ष- स्थूलकायपक्षिणां पूर्ब्बार्द्धस्य श्रेष्ठत्वं यथा, -- “गुरुभक्षा बहुभुजो ये चोपचितमेदसः । एकदेहेऽपि पूर्ब्बार्द्धं मृगाणां पक्षिणां परम्” ॥ * ॥ पक्षिणामङ्गादीनामुत्तरोत्तरं गुरुत्वं यथा, -- “सर्व्वेषाञ्च शिरःस्कन्धप्लीहचर्म्मयकृद्गुदम् । पादपुच्छान्त्रमस्तिष्कमुष्कक्रोडाः समेहनाः । धातवः शोणिताद्याश्च गुरवःस्युः परस्परम्” ॥ अस्याण्डगुणाः । “मत्स्यकूर्म्मखगाण्डानि स्वादुवाजीकराणि च । कटुपाकानि रुच्यानि वातश्लेष्महराणि च” ॥ इति राजवल्लभः ॥ * ॥ तेषामुत्पत्तिर्यथा, -- “अरुणस्य भार्य्या श्येनी वीर्य्यवन्तौ महाबलौ । सम्पातिश्च जटायुश्च प्रसूतौ पक्षिसत्तमौ ॥ सम्पातिर्जनयन् गृध्रान् काकाः पुत्त्रा जटायुषः । भार्य्या गरुत्मतश्चापि भासी क्रौञ्ची शुनी शुकी ॥ धृतराष्ट्री गरुत्मांस्तु शुन्यां जज्ञे च षट् सुतान । त्रिशिखञ्च सुनेत्रञ्च सुमुखं सुनसन्तथा ॥ सुरूपन्तु सुपर्व्वाणं तेषां पुत्त्रा अनन्तकाः । चतुर्द्दशसहस्राणि क्रूराणां पन्नगाशिनाम् ॥ सप्तद्वीपेष्विमे सन्ति गारुडास्ते महाबलाः । भासीपुत्त्रास्तथा भासा उलूकाः काककुक्कुटाः ॥ मयूराः कलविङ्काश्च कपोती चैव तित्तिरी । क्रौञ्च्यां वाध्रीणसा आसन् कुरराः सारसा वकाः ॥ धृतराष्ट्री कलहंसान् धार्त्तराष्ट्रांश्च भामिनी । चक्रवाकांश्च विहगान् सश्येनानौदकान् द्बिजान् ॥ अन्यानपि द्विजान् जज्ञे पुत्त्रपौत्त्राननन्तकान” ॥ इत्यग्निपुराणे काश्यपीयवंशः ॥ (महादेवः । यथा, महाभारते १३ । शिवनामकीर्त्तने । १७ । ६९ । “पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः” ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिन् पुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

2।5।32।2।2

खगे विहङ्गविहगविहङ्गमविहायसः। शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

: गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिन्¦ पु॰ पक्ष + अस्त्यर्थे इनि।

१ खगे तेषामुत्पत्तिर्यथा
“अरुणस्य भार्य्या श्येनी वीर्य्यवन्तौ महावलौ। सम्पा-तिञ्च जटायुञ्च प्रासोष्ट पक्षिसत्तनौ। सम्पातिर्जनयन्गृध्रान् काकाः पुत्रा जटायुषः। भार्य्या गरुत्मतश्चापिभासी क्रौञ्ची शुनी शुकी। धृतराष्ट्री गरुत्मांस्तु शुन्यांजज्ञे च षट् सुतान्। त्रिशिखञ्च सुनेत्रञ्च सुमुखं सुन-सन्तथा। सुरूपन्तु सुपर्वाणं तेषां पुत्रा अनन्तकाः। चतुर्द्दश सहस्राणि क्रूराणां पन्नगाशिनाम्। सप्तद्वीपे-ष्विमे सन्ति गारुडास्ते महाबलाः। भासीपुत्रास्तथाभासा उलूकाः काककुक्कुठाः। मयूराः कलविङ्काश्चकपोती चैव तित्तिरी। क्रौञ्च्यां वाध्रीणसा आसन्कुरराः सारसारकाः। धृतराष्ट्री कलहंसान् धार्त्त-[Page4179-a+ 38] राष्ट्रांश्च भामिनी। चक्रवाकांश्च विहगान् सश्येनानौद-कान् द्विजान्। अन्यानपि द्विजान् जज्ञे पुत्रपौत्रानन-न्तकान्” अग्निपु॰। गुरुभक्षबहुभक्षस्थूलकायपक्षिणांपूर्वार्द्धस्य श्रेष्ठत्वं यथा
“गुरुभक्षा बहुभुजो ये चोपचि-तमेदसः। एकदेहेऽपि पूर्वार्द्धं भृगाणां पक्षिणां वरम्” पक्षिणामङ्गभेदानामुत्तरोत्तरं गुरुत्वं यथा
“सर्वेषाञ्चशिरःस्कन्धप्लीहचर्मयकृद्गुदम्। पादपुच्छान्त्रमस्तिष्कमुष्कक्रोडाः समेहनाः। धातवः शोणिताद्याश्चगुरवः स्युः परस्परम्”। तन्मांसगुणाः।
“मत्स्यकूर्म-खगाण्डानि स्वादुवाजीकराणि च। कटुपाकानि तानिस्युर्वातश्लेष्महराणि च” राजवल्लभः। तद्भेदमांसगुणाः सुश्रुतोक्ता यथा
“लावतित्तिरिकपिञ्जलवर्त्तीरबर्त्तिकावर्त्तकनप्तृकावातीकचकोरकलविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रककुतिंत्तिरिकुररबाहुकयवलकप्रभृतयस्त्र्याहणा विष्किरालघवः शीतमधुरा कषाया दोषशमनाश्च।
“संग्राहीदीपनश्चैव कषायमधुरो लघुः। लावः कटुविपाकश्चसन्निपाते च पूजितः। ईषद्गुरूष्णमधुरो वृष्यो मेधाग्नि-बर्द्धनः। तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः। हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः। रक्तपित्त-हरः शीतो लथुश्चापि कपिञ्जलः। कफोत्थेषु चरोतेषु मन्दवाते च शस्यते। वातपित्तहरा वृष्या मेधा-ग्निबलवर्द्धनाः। लघवः क्रकरा हृद्यास्तथा चैवोपच-क्रकाः। कषायः स्वादुलवणस्त्वच्यः केश्यो रुचिप्रदः। मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्द्रियदार्ढ्यकृत्। स्निग्धोष्णो-ऽनिलहा वृष्यः स्वेदस्वरवलावहः। वृंहणः कुक्कुटोवन्यस्तद्वद्ग्राम्यो गुरुस्तु सः। वातरोगक्षयवमीविषम-ज्वरनाशनः”।
“कपोतपारावतभृङ्गराजपरभृतकोयष्टिक-कुलिङ्गगृहकुलिङ्गगोक्षोडकडिडिमाणकशतपत्रकमातृनि-न्दकभेदाशिशुकसारिकावल्कुलीगिरिशालह्वालदूषकसुगृ-हीखञ्जरीटकहारीतदात्यूहप्रभृतयः प्रतुदाः। कषाय-मधुरा रूक्षाः फलाहारा मरुत्कराः। पित्तश्लेष्म-हराः शीता बद्धमूत्राल्पवर्चसः। सर्वदोषकरस्तेषां भेदाशीमलदूषकः। कषायस्वादुलवणो गुरुः काणकपोतकः। रक्तपित्तप्रशमनः कषायविशदोऽपि च। विपाके मधुर-श्चापि गुरुः पारावतः स्मृतः। कुलिङ्गो मधुरःस्निग्धःकफशुक्रविवर्द्धनः। रक्तपित्तहरो वेश्मकुलिकस्त्वति-शुक्रलः”। [Page4179-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिन्¦ mf. (-क्षी-क्षिणी) A bird. m. (-क्षी)
1. An arrow.
2. An epithet of Si4va. f. (-णी)
1. A night and two days.
2. Day of full moon.
3. A female fiend, also called Pu4tan4a. E. पक्ष a wing, and इनि poss. aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिन् [pakṣin], a. (-णी f.) [पक्ष अस्त्यर्थे इनि]

Winged; यें पक्षिणः प्रथममम्बुनिधिं गतास्ते Śi.5.31.

Furnished with wings.

Siding with, adhering to the party of. -m.

A bird.

An arrow.

An epithet of Śiva. -Comp. -इन्द्रः, -प्रवरः, -राज् m., -राजः, -सिंहः, -स्वामिन् m., epithets of Garuḍa. -कीटः an insignificant bird.-तीर्थम् N. of a sacred place in South India. -पतिः an epithet of Sampāti. -पानीयशालिका a trough or reservoir for watering birds. -पुङ्गवः an epithet of Jatāyu.

N. of Garuḍa. -बालकः, -शावकः a young bird. -मार्गः the air. -शार्दूलः (in music) a kind of dance.

शाला a nest.

an aviary.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिन् mfn. winged( lit. and fig. ) RV. etc. etc.

पक्षिन् mfn. ( ifc. )taking the side of. siding with Hariv.

पक्षिन् m. a bird or any winged animal RV. etc.

पक्षिन् m. the bird गरुडas one of the 18 attendants of the Sun L.

पक्षिन् m. N. of शिवMBh.

पक्षिन् m. a day with the 2 nights enclosing it L.

पक्षिन् m. an arrow L.

पक्षिन् m. a partic. sacrificial act Ta1n2d2Br.

पक्षिन् m. (with or sc. रात्रि)a night with the 2 days enclosing it Gobh. Gaut.

पक्षिन् m. the day of full moon L.

पक्षिन् m. N. of a शाकिनीL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pakṣin in the Rigveda[१] and later[२] denotes a ‘winged’ creature, more particularly a ‘bird.’

  1. i. 48. 5;
    182, 5;
    x. 127, 5, etc.
  2. Av. iv. 34, 4;
    xi. 5, 21;
    xii. 1, 51;
    xiii. 2, 33;
    Kāṭhaka Saṃhitā, xxxiv. 8;
    Aitareya Brāhmaṇa, iv. 23;
    Bṛhadāraṇyaka Upaniṣad, ii. 5, 18, etc.
"https://sa.wiktionary.org/w/index.php?title=पक्षिन्&oldid=473820" इत्यस्माद् प्रतिप्राप्तम्