सामग्री पर जाएँ

पताका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताका, स्त्री, पत्यते ज्ञायते कस्यचित् भेदोऽनया । (पत् + “वलाकादयश्च ।” उणां ४ । १४ । इति आक प्रत्ययेन साधुः ।) ध्वजम् । निशान् इति भाषा । (यथा, महाभारते । ६ । १७ । १५ । “श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः । तान्यनीकान्यशोभन्त राजन्रथपदातिभिः ॥”) तत्पर्य्यायः । वैजयन्ती २ केतनम् ३ ध्वजम् ४ । इत्यमरः । २ । ८ । ९९ ॥ पटाका ५ जयन्ती ६ वैज- यन्तिका ७ कदली ८ कन्दुली ९ केतुः १० कद- लिका ११ व्योममण्डलम् १२ । इति शब्दरत्नावली ॥ चिह्नम् १३ । इति जटाधरः ॥ केतनं ध्वजं एतद्दयं पताकादण्डे । इति भरतः ॥ सौभाग्यम् । नाट- काङ्गम् । इति मेदिनी ॥ (यथा, साहित्य- दर्पणे । ६ । २७ । “पताकास्थानकं योज्यं सुविचार्य्येह वस्तुनि ॥” इह नाट्टे ॥ तल्लक्षणं यथा तत्रैव । ६ । २८ । “यत्रार्थे चिन्तितेऽन्यस्मिंस्तल्लिङ्गोऽन्यः प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकन्तु तत् ॥” तद्भेदानाह तत्रैव । ६ । २९ -- ३२ । “सहसैवार्थसम्पत्तिर्गुणवत्युपचारतः । पताकास्थानकमिदं प्रथमं परिकीर्त्तितम् ॥ यथा, रत्नावल्यां ‘वासवदत्तेयमिति’ राजा यदा तत्कण्ठपाशं मोत्तयति तदा तदुक्त्या ‘सागरि- केयमिति’ प्रत्यभिज्ञाय ‘कथं प्रिया मे साग- रिका अलमलमतिमात्रम्’ इत्यादि फलरूपार्थ- सम्पत्तिः पूर्ब्बापेक्षया उपचारातिशयात् गुण- वती उत्कृष्टा । १ । वचः सातिशयश्लिष्टं नानाबन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीयं परिकीर्त्तितम् ॥ यथा, वेणीसंहारे सूत्रधारः । ‘रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः । अत्र रक्तादीनां रुधिरशरीरार्थहेतुकश्लेषवशेन बीजार्थप्रतिपादनात् नेतृमङ्गलप्रतिपत्तौ सत्यां द्वितीयं पताकास्थानम् । २ । अर्थोपक्षेपकं यत्तु लीनं सविनयं भवेत् । श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते ॥ लीनं अव्यक्तार्थं श्लेष्टेन सम्वन्धयोग्येनाभिप्राया- न्तरप्रयुक्तेन प्रत्युत्तरेणोपेतं सविनयं विशेष- निश्चयप्राप्त्या सहितं सम्पद्यते यत् तत् तृतीयं पताकास्थानम् । यथा, वेणीसंहारे २ अङ्के । कञ्चुकी । ‘देव ! भग्नं भग्नम् ।’ राजा । ‘केन ।’ कञ्चुकी । ‘भीमेन ।’ राजा । ‘कस्य ।’ कञ्चुकी । ‘भवतः ।’ राजा । ‘आः ! किं प्रलपसि ?’ कञ्चुकी । (सभयम्) ‘देव ! ननु ब्रवीमि । भग्नं भीमेन भवतः ।’ राजा । ‘धिक् वृद्धापसद ! कोऽयमद्य ते व्यामोहः ।’ कञ्चुकी । ‘देव ! न व्यामोहः सत्यमेव । भग्नं भीमेन भवतो मरुता रथकेतनम् । पतितं किङ्किणीक्वाणबद्धाक्रन्दमिवक्षितौ ॥’ अत्र दुर्य्योधनोरुभग्नरूपप्रस्तुतसङ्क्रान्तमर्थोप- क्षेपणम् । ३ । द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः । प्रधानार्थान्तरापेक्षी पताकास्थानकं परम् ॥” ४ ॥) अङ्कः । केतुः । इति हेमचन्द्रः ॥ अस्य विवरणं ध्वजशब्दे द्रष्टव्यम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताका स्त्री।

पताका

समानार्थक:पताका,वैजयन्ती,केतन,ध्वज,केतु,केतन,ललाम

2।8।99।2।1

चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले। पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्.।

वृत्तिवान् : ध्वजधारिः

वैशिष्ट्य : ध्वजधारिः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताका¦ स्त्री पत्यते ज्ञायते योधोऽनया पत--नि॰ आक। त्रिकोणाकारे

१ पटादिनिर्मिते वस्त्रखण्डभेदे। मण्डपेदेयपताकालक्षणं हेमा॰ दा॰ गरुडपु॰ उक्तं यथा
“सप्त-हस्ताः पताकाः स्युर्विंशत्यङ्गुलविस्तृताः। दशहस्ताःपताकानां दण्डाः पञ्चांशवेशिताः। सिन्दूरा कर्वूरा धूम्राघूसरा मेघसन्निभा। हरिता पाण्डुवर्णा च शुभ्रापूर्वादितः क्रमात्। एवं वर्णाः शुभाः कार्य्याः षताकाःपाकशासन!”।
“लोकेशवर्णास्त्रयुताः पताकाः शैलेन्दुर्दर्घ्या-यतिकाश्च मध्ये। चित्रं ध्वजं दिक्करदैर्घ्यवंशं त्रिदी-स्ततप्रान्तगकिङ्किणीकम्। श्वेताञ्च नवमीं पूर्वेशान-योर्मध्यती बुधः। विन्यसेत्तु पताकाञ्च ध्वाजांस्ता अपिपूर्वतः” कुण्डोद्घोतः।
“लोकेशानां लोकपालानां येवर्णाः पीतादयः पूर्वश्लोकोक्ताः, गैरिकादिलिखतवज्रश-क्तिदण्डखड्गपाशाङ्कुशगदात्रिशूलानि (तेषामस्त्राणि)तैर्युताः सप्तहस्तदीर्घा एकहस्तविस्तृताः पताका दश-हस्तवंशशीर्षगाः चित्रं ध्वजं त्रिहस्तविस्तृतं प्रान्तेवर्त्तमानकिङ्किणीकं शीर्षे सचामरं दशहस्तदैर्घ्यवंशञ्चतादृशं तं मध्ये विन्यसेत् पूर्वादितः पताकाश्च विन्यसेदि-त्युत्तरश्लोकेनान्वयः नवमीं पताकां पूर्वेशानयोर्मध्येश्वेतां तादृशीमेवाचार्यकुण्डे विन्यसेत् ध्वजांस्ता अपिपताकाश्च पूर्वादिक्रमेण भूमौ पञ्चांशरोपणेन विन्यसे-दिति”। अस्याः
“त्रिकोणा वै पताकाः स्युश्चतुष्कोणा-ध्वजाः स्मृताः” विधा॰ उक्तेः त्रिकोणाकारता वीध्या।

२ सौभाग्ये

३ नाटकाङ्गभेदे पताकास्थानकशब्दे दृश्यम्पिङ्गलोक्ते वक्ष्यमाणमेरुपङ्क्तिस्थतत्तत्कोष्ठस्थाङ्क-निर्धारितस्वरूपभेदानां प्रथमत्वद्वितीयत्वादिना

४ प्राति-स्विकरूपनिर्द्धारणे

५ निर्द्धारणाङ्कसमूहे वा यथोक्तंपिङ्गलतट्टीकयोः(
“अमुकवर्णमात्रापस्तारयोरेतावद्गुरुलघुयुक्तो भेदएतावत्संख्याक इति मेरुपङ्क्तिवर्त्तितत्तत्कोष्ठस्थाङ्क-निर्द्धारितस्वरूपसंख्यानां भेदानां प्रथमत्वद्वितीयत्वादि-प्रातिस्विकरूपस्य निर्द्धारणं निर्द्धारकाङ्कसमूहो वा प-ताका सा च द्विधा वर्णमात्राभेदात्। तत्र प्रथमंवर्णपताकानिर्माणप्रकारमाह उद्दिट्टेति” टी॰।
“उद्दिट्टासरि अङ्का दिज्जसु पुब्बङ्के प्रर भरण कविज्जसु। पा-ओण अङ्क पडिहल पत्थरसक्ख प्रताआ करिज्जसु” पि॰ मू॰
“उहि{??}मष्टसद्बशानङ्कान् देहि पूर्वाङ्कस्य परस्मिन् भ-रणं कुरुष्व। प्रथमप्राप्तमङ्कं परित्यज प्रस्तारसंख्यं पता{??}आं[Page4212-b+ 38] कुर्विति” संस्कृतम्।
“उद्दिष्टाङ्कसदृशानङ्कान् देहीत्यर्थः षू॰र्वमेकमङ्कं दत्त्वा उत्तरोत्तरं द्विगुणितान् द्विचतुरष्टादि-कानङ्कान् यथाप्रस्तारसख्यं स्थापयेत्यर्थः। ततःपूर्वाङ्कस्य परस्मिन्युत्तरवर्त्तिन्यङ्के प्रस्तारसंख्यं प्रस्तारस्यसंख्या यस्यां क्रियायां तद्यथा स्यात्तथा भरणं योजनंकुरुष्वेत्यर्थः। प्रस्तारसंख्यमित्यस्य योजनकरणविशेषण-त्वेन यदि कुत्रचित् पूर्वाङ्कस्य पराङ्कयोजने प्रस्तार-संख्यातोऽधिका संख्या भवेत् तत्र तन्न ग्राह्यमित्याया-तम्। एवं कृते प्रथमप्राप्तमङ्कं परित्यज तेन यत्र प्रथम-प्राप्ताङ्क एव कुत्रचित् पूर्वाङ्कस्य योजननिष्पन्नाङ्कस्तत्र सन ग्राह्य इत्यप्यायातम्। एवं प्रकारेण वर्णानां पताकांकुरुष्वेत्यर्थः। अत्र यः पूर्वाङ्कः यत्र पराङ्के प्रथमंयोज्यते तेन योजननिष्पन्ना अङ्काः तत्पराङ्कादयीऽधोधः-स्थाप्या इति नियमो गुरूपदेशतो बोध्यः। पूर्वपरश-ब्दादेरपेक्षाबोधजनकत्वात् क्रमशोऽपेक्षाकृतं पूर्वापरस्त्रंभवतीत्यपि। एतद्दर्शनं वक्ष्यमाणमेरुप्रस्तारे चतुर-क्षरवृत्तस्य प्रथमकोष्ठस्यितिकाङ्कसूचितः चतुर्गुरुकएको भेदो द्वितीयकोष्ठस्थितचतुरङ्कसूचितः त्रिगुरु-काश्चत्वारो भेदास्तृतीयकोष्ठस्थषडङ्कसूचिता द्विगुरुकाःषड्भेदाश्चतुर्थकोष्ठस्थचतुरङ्कसूचिता एकगुरुकाश्चत्वारोभेदाः पञ्चमकोष्ठस्थाकाङ्कसूचितः सर्वलघुक एकोभेदः। पञ्चकोष्ठस्थाङ्कयोजननिष्पन्नाङ्को वृत्तसंख्याइति। तत्र तत्तत्संख्यपुरुलघुकाः भेदा यथानिर्दि-ष्टप्रस्तारकरणे कतमे कतमे इति प्रश्ने प्रथमम् एर्ककोष्ठं कर्त्तव्यं ततस्तत्संलग्नमेकं कोष्ठं कृत्वा तदधः-कोष्ठत्रयं कार्य्यं ततो द्वितीयपङ्क्तिवत् तृतीयप-ङ्क्तौ कोष्ठचतुष्टयं कृत्वा तदधः कोष्ठद्वयं ततस्तृतीय-पङ्क्तिस्थितकोष्ठषट्कमध्यादुत्सारितकोष्ठचतुष्टयसंलग्नंकोष्ठचतुष्टयं कार्य्यं ततः चतुर्थपङ्क्तिस्थितकोष्ठ-चतुष्टयमध्योपरितनैकसंलग्नमेकं कोष्ठं कार्य्यमेवंषोडश कोष्ठानि सम्पद्यन्ते चतुरक्षरवृत्ते तेषामेवापेक्ष-णात् ननु कथमेतैनैव क्रमेण कर्त्तव्यम् अन्यक्रमस्यापिसम्भवादिति चेन्न मेरुस्थितानां चतुरक्षरवृत्ते पञ्चानांकोष्ठानां कीष्ठस्थाङ्कसूचितानाम् एकचतुःषट् चतुरेकको-ष्ठानां क्रमशः पङ्क्तिरूपेण विहित्वेन तथास्थापनौचित्यात् ततः प्रथमकोष्ठादिक्रसेण एकद्विचतुरष्ट-षोडशाङ्कान् स्थापयेत्। ततः प्रथमकोष्ठस्यैकाङ्कस्यसर्वेभ्यः पूर्ववर्त्तित्वात् तेन सह तदुत्तरवर्त्तिद्व्यङ्के-[Page4213-a+ 38] न योजितस्त्र्यङ्को द्व्यङ्कस्याधः स्थाप्यः ततः तेन सहचतुरष्टाङ्कयोजननिष्पन्नपञ्चाङ्कनवाङ्कौ त्र्यङ्कादधोऽधः-स्थाप्यौ। तेन सह षोडशाङ्कस्य योजने प्रस्तारसंख्या-धिक्यान्न तत्कर्त्तव्यम्। तथा च तेन सह कस्यचित्पराङ्कस्य योजने प्रथमप्राप्ताङ्क एवायातीति प्रथम-कोष्ठस्थमङ्कं त्यक्त्वा द्वितीयकोष्ठस्थं द्व्यङ्कं तदानीं सर्वेभ्यःपूर्वत्वेन गृह्णीयात्। तथाच तेन पूर्वाङ्केन द्व्यङ्केनतदुत्तरवर्त्तितृतीयकोष्ठस्थचतुरङ्कस्य योजननिष्पन्नषडङ्क-श्चतुरङ्कादधो बिन्यास्यः ततो द्वितीयकोष्ठपङ्क्तिस्थद्व्य-ङ्काधःस्थितत्र्यङ्केन पूर्वेण चतुरङ्कस्य योजननिष्पन्नःसप्ताङ्कः तृतीयकोष्ठस्थषडङ्कादधः स्थाप्यस्ततः द्वितीय-पङ्क्तितृतीयकोष्ठस्थपञ्चाङ्केन सह चतुरङ्कस्य योजनेपूर्वप्राप्रनवाङ्कलाभात् तत्परित्यागेन तदधोनिष्ठनवाङ्केनचतुरङ्कस्य योजननिष्पन्नस्त्रयोदशाङ्कस्तृतीयपङ्क्तारधः-कोष्ठे स्थाप्यः। ततो द्वितीयपङ्क्तिस्थकोष्ठचतुष्टयस्थ-द्व्यादिनवान्तचतुरङ्कानामन्यतमेन सह चतुरङ्कस्य योजनेकृते पूर्वप्राप्ताङ्कलाभापत्तेस्तत्त्यागः। ततः तृतीयपङ्क्तितउत्तरवर्त्तिचतुर्थपङ्क्तिप्रथमकोष्ठस्थाष्टाङ्कस्य योजन-निष्पन्नो दशाङ्कः तृतीयपङ्क्तौ पञ्चमकोष्ठे स्थाप्यः द्विती-यपङ्क्तिद्वितीयकोष्ठस्थत्र्यङ्केनाष्टाङ्कस्य योजननिष्पन्नैका-दशाङ्कस्तृतीयपङ्क्तौ षष्ठकोष्ठे स्थाप्यः। प्रथमप्राप्ताङ्क-लाभापत्त्या द्वितीयपङ्क्तित्यागः। ततस्तृतीयपङ्क्तिस्थचतुःषट् सप्ताङ्कैरुत्तरवर्त्त्यष्टाङ्कस्य क्रमशः योजननि-ष्पन्नद्वादशचतुर्दशपञ्चदशाङ्काः क्रमशश्चतुर्थपङ्क्तिद्वि-तीयादिकोष्ठेष्वधोऽधोलेख्याः”। चतुरक्षरप्रस्तारे अस्याः स्वरूपदर्शनम्।{??}र्तुगुरुः

१३ गुरुः

४२ गुरुः

६१ गुरुः

४ चतुर्लघुः

११









६ तत्रत्य प्रस्तारः







२ ऽ

१ मः







४ । 

२ यः









५ ऽ। 

३ यः

१० । । 

४ र्थ

११ । ऽ

५ मःअत्रत्याङ्कास्तत्सूचित। ऽ। ऽ

६ ष्ठःसंख्यापुरणार्थाः ऽ। । ऽ

७ मःअस्याश्च पताकाकारत्वात्। । । ऽ

८ मःपताकासंज्ञकत्वमेवं मात्रा ।

९ मःपताकाया अपि। । ।

१० मः[Page4213-b+ 38] ऽ। ऽ।

११ शः। । ऽ।

१२ शः{??} ऽ। ।

१३ शः। ऽ। ।

१४ शःऽ। । ।

१५ शः। । । ।

१६ शःमात्रापताका तु तत्रैवोक्ता यथा
“वक्ष्यमाणमात्रामेरुस्य-तत्तत्संख्याकभेदानां प्रथमत्वद्वितीयत्वादिनिर्णयायमात्रापताकानिर्माणमाह उद्दिट्टेति” टी॰।
“उद्दिट्ट सरिअङ्का ठापअ वामाबत्तेण परहु णैअ लोपहु। एक-लोपे एकगुरु जाणह दुइतिणलोपे दुइतिणगुरुजाणह। मत्तापताआं पिङ्गलो गाअदि जो पडमंपापै स परं बोधऐ” मू॰
“उद्दिष्टसदृशानङ्कान् स्थापयवामावर्त्तेन परस्मिन्नीत्वा लोपय। एकलोपे एकगुरुंजा-नीत द्वित्रिलोषे द्वित्रान् गुरून् जानीत”।
“मात्रापताकांपिङ्गलो गायति यः प्रथमं प्राप्नोति स परं बोधयतीति” सस्क॰।
“उद्दिष्टाङ्कसदृशान् उक्तषकारोद्दिष्टपूर्वाङ्कयुगल-युतपराङ्कान् प्रस्तारसंख्यं तत्सदृशान् एकद्वित्रिपञ्चाष्ट-त्रयोदशैकविंशचतुस्त्रिंशदित्येवंरूपान् स्थापय उत्तरो-त्तरमिति शेषः। वामावर्त्तेन प्रतिलोमविधिना सर्वा-न्तिमाङ्काव्यवहितपूर्वाङ्कमारभ्येति यावत् नीत्वा गृहीत्वापरस्मिन् सर्वान्तिमाङ्के लोपय तन्यूनतां नयत सर्वान्ति-माङ्के तदव्यहितपूर्वाङ्कमारभ्य पूर्वपूर्वाङ्काः क्रमेण लोप्याइत्यर्थः। एकलोपे एकाङ्कलोपे एकगुरुं जानीत द्वि-त्रिलोपे द्वित्रान् गुरून् जानीत। एकैकपूर्वाङ्कलोपे येऽङ्काअवशिष्यन्ते ते एकगुरुयुक्तभेदज्ञापकाः पूर्वाङ्कद्वयलोपेयेऽवशिष्यन्ते ते गुरुद्वययुक्तभेदज्ञापकाः पूर्वाङ्कत्रयलोपे ये-ऽवशिष्यन्ते ते गुरुत्रययुक्तभेदज्ञापका इत्यर्थः। एवंप्रका-रेण मात्रापताकां पिङ्गलो गायति कथयति यः प्रथमंप्राप्नोति गुरूपदेशाज्जानाति स परं बोधयतीत्यर्थः। अत्रच एकत्वद्वित्वसंख्याविशिष्टः प्रथमं सर्वान्तिमे लोप्यतेतदव्यवहितपूर्वाङ्कमारभ्यावशिष्टाङ्काःक्रमेणाधोधः स्थाप्याइति यदङ्कद्वयलोपे शून्यमवशिष्यते पूर्वप्राप्ताङ्को वा लभ्यतेतदङ्कटयलोपो न कार्य्य इति नियमत्रयं गुरू-पदेशाद्बोध्यम्। अथ तन्निर्माणं षट्कलपताकास्वरूपम्वामदक्षिणयोरङ्गुलपञ्चकपरिमाणमूर्द्ध्वाधोरेखाद्वयमृजुअर्द्धाङ्गुलान्तरितं कर्त्तव्यं तत ऋजुरेखया पार्श्वयोर्मेलन” विधेयमेवमेकं दीर्घकोष्ठं तत्रैकाङ्गुलपरिमितमन्तरं[Page4214-a+ 38] त्थक्त्वोर्द्धरेखामारभ्याऽन्यरेस्यापर्य्यन्तं ऋजुरेखाः क्रमेणदत्त्वा कोष्ठषट्कमुत्तरोत्तरपरस्परसंश्लिष्टं विधेयं तत्रो-द्दिष्टाङ्कसदृशाः षट्कलप्रस्तारे एकद्वित्रिपञ्चाष्टत्रयोदशेतिपूर्वोक्ताः पूर्वयुगलैक्यक्रियानिष्पन्नोत्तरोत्तराः षडङ्काःक्रमेण स्याप्यास्तदधः षट्कलमेरुस्थितकोष्ठचतुष्टयमु-त्तरोत्तरसंश्लिष्टं कार्य्यं ततो मेरुद्वितीयकोष्ठस्थितषडङ्कसूचितष्ड्मेदानां द्वितीयकोष्ठमेकं तदघ ऊर्द्ध्वाधःसंश्लिष्टं कोष्ठपञ्चकमिति कोष्ठषट्कमेवं मेरुतृतीय-कोष्ठे पञ्चाङ्कसत्वात् तृतीयकोष्ठमेकं तदधः ऊर्द्धाधःसंश्लिष्टकोष्ठचतुष्टयमितिकोष्ठपञ्चकमवशिष्टकोष्ठद्वयस्याधोमेरौ एकाङ्कसद्भावात् न कोष्ठान्तरं कार्य्यम्। ततः सर्वान्तिमस्यीद्दिष्टशेषाङ्कस्यान्तिमकोष्ठे स्यापनंततः सर्वान्तिमत्रयोदशाङ्कमध्ये तदव्यवहिताष्टाङ्कलोपेउर्वरितं पञ्चाङ्कं वामावर्त्तेनोपान्तिमोपरिकोष्ठे स्थापयेत्ततोऽष्टाङ्कलोपे पूर्वप्राप्ताङ्कलाभापातान्न लोपः कार्य्यः। किन्तु अष्टाङ्कपूर्वस्थितपञ्चाङ्कस्य त्रयोदशाङ्के लोपं कृत्वाउपान्तिमकोष्ठोपरितनकोष्ठाधःकोष्ठे उर्वरितमष्टाङ्कंस्थापयेत् ततस्त्र्यङ्कस्य त्रयोदशाङ्के लोपं कृत्वा उर्वरितंदशाङ्कं तदधःकोष्ठे स्थापयेत् ततो द्व्यङ्कलोपे उर्वरित-मेकादशाङ्कं तदधःकोष्ठे संस्थाप्य एकाङ्कलोपे उर्वरितद्वादशाङ्कं तदधःस्थापयेत् ततस्त्रयोदशाङ्के लोपकरणेपूर्वाङ्कलाभापातात् न तत् कार्य्यम्। ततः अष्ट-पञ्चेत्यङ्कद्वयलोपे शून्यावशेयात् न तत्कार्य्यम्। अष्टत्रीत्यङ्कद्वयलोपे उर्परितं द्व्यङ्कं द्वितीयकोष्ठोपरितन-कोष्ठे स्थापयेत् ततो द्व्यष्टेत्यङ्कद्वयलोमे उर्वरितत्र्यङ्क-स्तदधःस्थाप्यस्तत एकाष्टेत्यङ्कद्वयलोपे उर्वरितचतुरङ्क-स्तदधःकोष्ठे स्थाप्यः। ततः अष्टाङ्कघटितद्व्यङ्कलोपास-म्भवात् पञ्चाङ्कधटितद्व्यङ्कलोपः कार्य्यस्तत्र पञ्चत्रीत्यङ्क-द्वयलोपे पूर्वप्राप्तपञ्चाङ्क एवोर्वरितः स्यात् अतः द्विपञ्चेतिद्व्यङ्कलोपे उर्वरित षडङ्ल तदधःकोष्ठे स्थापयेत्। एक-पञ्चेत्यङ्कद्वयलोपे उर्वरित सप्ताङ्कस्तदधःकोष्ठे स्थाप्य-स्ततः पञ्चाङ्कघटितद्व्यङ्कलोपे पूर्वप्राप्ताङ्कापातात् नतत्कार्य्यं किन्तु त्रिघटिमाङ्कद्वयलोपस्तत्र त्रिद्वीति द्व्यङ्कलोपे पूर्वप्राप्ताङ्कापातात् न तत्कार्य्यं तत एकत्रीत्यङ्कद्वयलोपे उर्वरितनवाङ्कं तदधःकोष्ठे स्थापयेत्। ततःकोष्ठाभावात् एकद्वीत्यङ्कद्वयलोपे उर्वरितदशाङ्कस्व प्राप्त-त्वाच्च न द्व्यङ्कलोपः। तत एकत्र्यष्टेत्यङ्कत्रयलोपे उर्व-रितमेकाङ्कं प्रथमे कोष्ठे स्थापयेदिति। तत्र मेरु-[Page4214-b+ 38] प्रथमकोष्ठस्यैकाङ्कसृचितषट् कलसर्वगुरुकभेदस्यात्रत्यप्रथम-कोष्ठस्यैकाङ्के न प्रथमत्वं सूचितं त्र्यङ्कलोपे त्रिगुरुक-त्वाभिधानात्। एवं मेरुद्वितीयकोष्ठस्थषडङ्कसूचितानांषट्कक्षप्रस्तारस्य द्विगुरुकभेदानां षणां द्वितीयतृतीय-त्वादिनिर्णयपताकाद्वितीयकोष्ठस्थाङ्कषकेन सूचित-द्व्यङ्कलोपे द्विगुरुकत्वामिधानात्। एवं मेरुपञ्चाङ्खसूचि-तानां पञ्चानां षट् कलैकगुरुकभेदानां पताकांतृतीय-कोष्ठस्थाङ्कपञ्चकेन पञ्चमत्वाष्टमत्वेत्थादि निर्णीतम्एकाङ्कलोपे एकगुरुकत्वाभिधानात्। सर्वान्तिमे त्रयोद-शाङ्के अङ्कलोपपूर्वकयोजनासम्भवात् मेरुशेषकोस्थैका-ङ्कसूचितषट् कलस्यैकस्य सर्वसथुकभेदस्य पताकान्त्यसप्तम-कोष्ठस्थत्रयोदशाङ्केन त्रयोदशत्वं निर्णीतमेवमन्यत्रापि। षट्कलप्रस्तारे तत्स्वरूपदर्शनम्।











१३ षट्कलप्रस्तारःत्रिगुरुः

१ द्विगुरुः

६ एकगुरुः

५ सर्वलघुः

१ 

१ मः







१३ ॥ 

२ यः



८ । ऽ। ऽ

३ यः



१० ऽ। । ऽ

४ र्थः



११ । । । । ऽ

५ मः



१३ । ।

६ ष्ठः

९ ऽ। ऽ।

७ मःअत्रत्याङ्कास्तत्सूचित। । । ऽ।

८ मःसंख्यापूरणार्थाः। । ।

९ मः। । ऽ। ।

१० मः। ऽ। । ।

११ शःऽ। । । ।

१२ शः। । । । । ।

१२ शः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताका¦ f. (-का)
1. A flag or banner.
2. A flagstaff.
3. An emblem carried as an ensign or banner, a symbol, a sign.
4. A mark.
5. An episode, or episodical incident in a drama.
6. Good fortune, auspiciousness. E. पत् to go, अकन् Una4di aff. पत्यते ज्ञायते योधो अनया पत-णि-आक |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताका [patākā], 1 A flag, banner (fig. also); पताकाभिर्वरार्हाभि- र्ध्वजैश्च समलंकृताम् Rām.2.7.3; यं काममञ्जरी कामयते स हरतु सुभगपताकाम् Dk.47. 'let him carry the palm of beauty or good fortune'.

A flag-staff.

A sign, emblem, mark, symbol.

An episode or episodical ineident in a drama; see पताकास्थानक below.

Auspiciousness, good fortune or luck.

Celebrity, publicity; रम्या इति प्राप्तवतीः पताकाः Śi.3.53. (com. 'अन्यत्र रम्या इत्येवं पताकाः प्राप्तवतीः । प्रसिद्धिं गता इत्यर्थः ।').

A particular high number; तत्र शङ्कुपताके द्वे युगान्तं कल्पमेव च Mb.13.17.63. -Comp. -अंशुकम् a flag. -दण्डः a flag-staff. -स्थानकम् (in dramaturgy) intimation of an episodical incident, when instead of the thing thought of or expected, another of the same character is brought in by some unexpected circumstance (यत्रार्थे चिन्तिते$न्यस्मिंस्तल्लिङ्गो$न्यः प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ S. D.299; for its different kins, see 3-34).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताका f. See. next.

पताका f. ( ifc. f( आ). )a flag , pennon , banner , sign , emblem Br. MBh. Ka1v. etc. ( कां-लभ्or हृ, " to win the palm " Das3. Vcar. )

पताका f. a flag-staff L.

पताका f. a partic. high number MBh. (= महा-पद्मNi1lak. )

पताका f. (in dram. ) an episode or episodical incident Das3ar.

पताका f. good fortune , auspiciousness L.

पताका f. N. of wk.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. of the Bhadra continent. वा. ४३. ३०.

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Patākā, ‘banner,’ is not found until the Adbhuta Brāhmaṇa.[] Its Vedic equivalent is Dhvaja.

  1. Indische Studien, 1, 39, 41 (here erroneously mentioned as patāka, masculine).
"https://sa.wiktionary.org/w/index.php?title=पताका&oldid=473838" इत्यस्माद् प्रतिप्राप्तम्