पिण्ड

विकिशब्दकोशः तः
नेविगेशन पर जाएँ खोज पर जाएँ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्डम्, क्ली, पुं, (पिण्डते संहतो भवतीति । पिडि संहतौ + अच् । पिण्ड्यते राशोक्रियते इति । कर्म्मणि घञ् वा ।) आजीवनम् । अयः । इति मेदिनी । डे, १९ ॥ श्राद्धशेषद्रव्यनिर्म्मित- बिल्वफलाकारपित्र्युदेश्यकदेयान्नम् । यजुर्व्वेदिनां पिण्डशब्दो नपुंसकलिङ्गेन प्रयुज्यते । यथा, -- “अवनिक्तं पिण्डं दद्यादसावेतत्त इति श्राद्ध- विवेकधृतपिण्डपितृयज्ञीयकात्यायनवचने पिण्ड- विशेषणे एतदिति नपुंसकनिर्द्देशात् भाषेतैतच्च वै पिण्डं यज्ञदत्तस्य पूरकमिति ऋष्यशृङ्गवचने- ऽपि तथा दर्शनाच्च । छन्दोगानां पिण्डशब्दः पुंलिङ्गेन प्रयुज्यते । दर्भेषु मधु मधु मध्वित्यक्ष- न्नमी मदन्त इति जपित्वा त्रींस्त्रीन् पिण्डान् दद्यादिति गोभिलसूत्रे पिण्डानिति पुंलिङ्ग- निर्द्देशात् ।” इति श्राद्धतत्त्वम् ॥ * ॥ गयादा- वात्मपिण्डदानविधिर्यथा, -- “गयान्तं पिण्डदानञ्च गयान्तं तीर्थमेव च । पञ्चकान्तं कामरूपं पिच्छिलान्तं सरित् शुभे ॥ जनार्द्दनस्य हस्ते तु पिण्डं दद्यात् स्वकं नरः । विरजे च तथा चाश्वकर्णे रामे च सोमके ॥ जीवत्पिण्डप्रदानेन अल्पायुर्जायते नरः । यत्रागम्ये महाक्षेत्र स्वकं पिण्डं ददेत्तु यः । मासद्वयाधिकं वर्षमायुषो वर्द्धते क्रमात् ॥” इति योगिनीयन्त्रे प्रथमतमे २ भागे ५ पटलः ॥ अन्यत् गयाशब्दे द्रष्टव्यम् ॥

पिण्डः, पुं, (पिडि संहतौ + अच् ।) वोलः । (अस्य पर्य्यायो यथा, वद्यकरत्नमालायाम् । “विद्वान् गोलः पिण्डकश्च पिण्डो वोलो रसोरसः ॥) बलम् । सान्द्रम् । देहैकदेशः । (यथा, महा- भारते । ३ । ११२ । ३ । ततोऽवनेजनन्दद्यात् संस्मरन् गोत्रनामनी ॥ तिलसर्पिर्मधुक्षीरैः सञ्चितं तप्तमेव हि । दद्यात् प्रेताय पिण्डन्तु दक्षिणाभिमुखस्थितः ॥ फलमूलगुडक्षीरतिलमिश्रन्तु कुत्रचित् । अर्घ्यैः पुष्पैस्तथा दीपैर्धूपैस्तोयैः सुशीतलैः ॥ ऊर्णातन्तुमयैः शुद्धैर्वासोभिः पिण्डमर्च्चयेत् । प्रयाति यावदाकाशं पिण्डाद्वास्पमयी शिखा ॥ तावत्तु संमुखस्तिष्ठेत् सर्व्वं तोये ततः क्षिपेत् । दिवसे दिवसे देयः पिण्ड एवं क्रमेण तु ॥ सद्यःशौचेऽपि दातव्याः सर्व्वेऽपि युगपत्तथा । त्र्यहाशौचे प्रदातव्याः प्रथमे त्वेक एव हि ॥ द्वितीयेऽहनि चत्वारस्तृतीये पञ्च चैव हि । एकस्तोयाञ्जलिस्त्वेवं पात्रमेकञ्च दीयते ॥ द्वितीये द्वौ तृतीये त्रीन् चतुर्थे चतुरस्तथा । पञ्चमे पञ्च षष्ठे षट् सप्तमे सप्त एव च ॥ अष्टमेऽष्टौ च नवमे नवैव दशमे दश । येन स्युः पञ्चपञ्चाशत्तोयस्याञ्जलयः क्रमात् ॥ तोयपात्राणि तावन्ति संयुक्तानि जलादिभिः ॥” इति शुद्धितत्त्वम् ॥ * ॥ गयायामात्मपिण्डदानप्रमाणं यथा, -- “स्वकर्म्मधर्म्मयोगेन धनमुच्चावचं बहु । उपार्जयित्वा प्रययौ गयातीर्थमनुत्तमम् ॥ पिण्डनिर्व्वपणं तत्र प्रेतानामनुपूर्ब्बशः । चकार स्वपितॄणाञ्च दायादानामनन्तरम् ॥ आत्मनश्च महाबुद्धिर्महावेद्यां तिलैर्विना । पिण्डनिर्व्वपणं चक्रे तथान्येषाञ्च गोत्रिणाम् ॥ एवं प्रदत्तेष्वथ वै पिण्डेषुं प्रेतभावतः । विमुक्तास्ते द्विज प्रेता ब्रह्मलोकं ततो गताः ॥” इति वामने ७६ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्ड पुं।

गजमस्तकौ

समानार्थक:कुम्भ,पिण्ड,शिरस्

2।8।37।2।2

गण्डः कटो मदो दानं वमथुः करशीकरः। कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्.।

अवयव : गजमस्तकमध्यभागः

पदार्थ-विभागः : अवयवः

पिण्ड नपुं।

लोहः

समानार्थक:लोह,शस्त्रक,तीक्ष्ण,पिण्ड,कालायस,अयस्,अश्मसार,शस्त्र

2।9।98।1।4

लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी। अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले॥

अवयव : लोहमलम्,अयोविकारः

वृत्तिवान् : लोहकारकः

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

पिण्ड पुं।

गन्धरसः

समानार्थक:बोल,गन्धरस,प्राण,पिण्ड,गोप,रस

2।9।104।2।4

गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु। वोलगन्धरसप्राणपिण्डगोपरसाः समाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्ड¦ त्रि॰ पिडि--अच्।

१ संहते

२ घने च ततः गौरा॰ स्त्रियांङीष्। तस्या अपत्यं कुर्वा॰ ण्य। पैण्ड्य संहतायाः स्त्रियाअपत्ये पुंस्त्री॰।

३ वोले

४ बले

५ देहैकदेशे

६ गृहैकदेशे

७ देहमात्रे

८ अन्नादिमये पितृभ्यो देये गोलाकारे

९ पदार्थे

१० गोले

११ सिह्लके

१२ जवापुष्पे च पु॰ मेदि॰

१३ वृन्दे (अव्दिपिण्डम्)

१४ कवले पु॰ हेमच॰

१५ गजकुम्भे

१६ अमरः

१७ मदनवृक्षे पु॰ राजनि॰।

१८ आजीवने

१९ अयसि न॰ मेदि॰। तत्र श्राद्धशेषद्रव्यान्नादिनिर्मिते पदार्थेसामगानां पुंस्त्वेन प्रयोगः
“पिण्डानोद्वाहनात्तेषाम्” [Page4328-b+ 38] छन्दोगपरिशिष्टे पुंस्त्वेन प्रयोगात्। यजुर्वेदिभिः
“असा-वेतत्ते पिण्डंस्यधेति” यजुःश्राद्धप्रयोगात् क्लीवत्वम्।
“तेभ्यःपिण्डं मया दत्तमक्षय्यमुपतिष्ठताम्” वा युपु॰ प्रयोगःयजुर्वेदिविषयः। तत्र देयद्रव्यादि श्रा॰ त॰ निरूपितं यथा
“यावदन्नमुपादाय हविषोऽर्भकमर्भकम्। चरुणा सहसन्नीय पिण्डदानमुपक्रमेत्”। श्राद्धार्थाद्धविषोऽन्नादेःसकाशाद् यावत् भक्ष्यमोदनव्यञ्जनादि ततोऽल्पाल्पं गृ-हीत्वा अग्नौकरणचरुशेषेण सह मिश्रीकृत्य पिण्ड-दानमारभेदित्यर्थः। एकस्मिन् पात्रेऽन्नं मध्वादिद्रव्येणमिश्रयेत्।
“मध्वाज्यतिलसंयुक्तं सर्वव्यञ्जनसंयुतम्। उष्णमादाय पिण्डन्तु कृत्वा बिल्वफलोपमम्। दद्यात्पितामहादिभ्यो दर्भमूले यथाक्रमम्” इति ब्रह्मपुराणवचनात्। अत्र पितामहपदं पितृपरं वचनान्तरैकवा-क्यत्वात्।
“स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ। पितामहाय चैवाथ तत्पित्रे च ततःपरम्। दर्भमूलेलेपभाजस्तर्पयेल्लेपघर्षणैः”। ( अत्र पिण्डमात्रस्य विल्वफलोपमत्वश्रुतेः छन्दोगप-रिशिष्टे च पित्रादीन् मातामहादीनुपक्रम्य
“अवनेज-नवत् पिण्डान्कृत्वा बिल्वप्रमाणकानिति” श्रुतेश्च सामगयजुर्वेदिनोर्विल्वप्रमाणकत्वम्
“पृथङ्मातामहानाञ्च के-चिदिच्छन्ति सत्तमा। त्रीन् पिण्डानानुपूर्व्येण साङ्गुष्ठमुष्टिवन्धनात्” इति वायुपुराणीयं शाख्यान्तरीयं श्रा॰ त॰। वायवीये
“मधुसर्पिस्तिलयुतांस्त्रीन् पिण्डान्निर्वपेद्बुधः। त्रिस्थली सेतौ
“तिलमन्नं च पानीयं धूपं दीषं पयस्तथा। मधु सर्पिः खण्डयुक्तं पिण्डमष्टाङ्गमुच्यते”। याज्ञवल्क्यः
“सर्वमन्नमुपादाय सतिलं दक्षिणामुखः। उच्छिष्ट स-न्निधौ पिण्डान् दद्याद्वै पितृयज्ञवत्”। केचित्तु पिण्डेषुमाषान् वर्जयन्ति
“माषाः श्राद्धेषु वै ग्राह्या वज्यांश्चैवा-ग्निपिण्डयोः। व्राह्मणेषु यथा मद्यं तथा माषोऽग्निपिण्डयोः” इति। स्मृतिसारात्
“माषान् सर्वत्र वै दद्यात्पिण्डेऽग्नौ च विवर्जयेत्” इति स्मृतेश्च। अथ पिण्डप्र-माणभेदः हेमाद्रावङ्गिराः
“कपित्थविल्वमात्रान् वा पि-ण्डान् दद्याद् विधानतः। कुक्कुटाण्डप्रमाणान् वाम-लकैर्बदरैः पुमान्” इति। तत्रैव धूम्रः
“कपित्थस्य प्रमा-णेन पिण्डान् दद्यात् समाहितः। तत्समं विकिरंदद्यात् पिण्डान्ते तु षडङ्गुलैः”। अन्त्येष्टिपद्धतौ भ-ट्टास्तु
“एकोद्दिष्ट सपिण्डे तु कपित्थन्तु विधीयते। नारिकेलप्रमाणन्तु प्रत्यव्द मासिके तथा। तीर्थे दर्शे[Page4329-a+ 38] च सप्राप्ते कुक्कुटाण्डप्रमाणतः। महालये गयाश्राद्धेकुर्य्यादामलकोपमम्” इत्याहुः कलिकायामाचार्य्यः
“यत्र स्युर्वहवः पिण्डास्तत्र विल्वफलोपमाः। यत्रचैको भवेत् पिण्डस्तत्र लाङ्गलिसन्निभः”। प्रेतपिण्डस्तुदैर्घ्येण द्वादशाङ्गुल उच्यते” इति। वायवीये
“पत्नीपिण्डांस्तु मृद्गीयात् त्रिवर्गस्य सहायिनी”। हेमाद्रौ लौ-गाक्षिः
“महालये गयायां च प्रेतश्राद्धे दशाहिके। पिण्डशब्दप्रयोगः स्यादन्नमन्यत्र कीर्त्तयेत्” नि॰ सि॰पिण्डदानद्रव्यभेदाः आग्नेये उक्ता यथा
“पायसेनाज्ययुक्तेन सक्तुना चरुणा तथा। पिण्डदानं तण्डुलैश्चगोधूमैस्तिलमिश्रितैः” इति। देवीपुराणे च
“सक्तुभिःपिण्डदानञ्च संयावैः पायसेन च। कर्त्तव्यमृषिभिःप्रोक्तं पिण्याकेन गुडेन वा” अथ प्रेतपिण्डसंख्यायद्यपि हेमाद्रौ पारस्करेण
“ब्राह्मणे दश पिण्डास्तु क्षत्रिये द्वादश स्मृताः। वैश्येपञ्चदश प्रोक्ताः शूद्रे त्रिंशत् प्रकीर्त्तिता” इत्युक्तं तथापि
“प्रेतेभ्यः सर्ववर्णेभ्यः पिण्डान् दद्याद्दशैव तु” इति। तेनैवोक्तेः सर्वेषां दशैव ज्ञेयाः। भदरत्नेऽप्येवम् तथा चहेमाद्रौ ब्राह्मपाद्मयोः
“जात्युक्ताशौचतुल्यांस्तु वर्णानांक्वचिदेव हि। देशधर्मान् पुरस्कृ{??} प्रेतपिण्डान् वप-न्त्यपि” इत्युक्त्वा विप्राद्येषु दशमपिण्डोत्कर्षः उक्तः
“दे-यस्तु दशमः पिण्डो राज्ञां बै द्वादशेऽहनि। वैश्यानांवै पञ्चदशे देयस्तु दशमस्तथा। शूद्रस्य दशमः पिण्डोमासे पूर्णेऽह्नि दीयते”। प्रेतपिण्डदानस्थानम्
“असं-स्कृतानां भूमौ पिण्डं दद्यात् संस्कृतानां कुशेषु” इतिपाचेतसोक्तम् मिताक्षरायां
“स्मृत्यन्तरे भूमौ माल्यंपिण्डं पानीयमुपले वा दद्युः” पिण्डं प्रेतपिण्डम्। ( शुनःपुच्छः
“फलमूलैश्च पयसा शाकेन च गुडेन च। तिलमिश्रन्तु दर्भेषु पिण्डं दक्षिणती हरेत्। तूष्णींप्रसेकं पुष्पं च धूपं दीपं तथैव च। शालिनासक्तुभि-र्वापि शाकैर्वाप्यथ निर्वपेत्। प्रथमे नियतं द्रव्यं तदेवस्याद्दशाहिकम्”। पिण्डशब्दस्य देहतदैकदेशपरता तुअसपिण्डशब्दे उक्ता। दायभागमते तु निर्वाप्यषिण्डप-रतेति। भावे अच्।

२० संघाते पिण्डारकशब्दे दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्ड¦ mn. (-ण्डः-ण्डं) A lump, a heap, a cluster, a quantity or collec- tion. mf. (-ण्डः-ण्डी) An oblation to deceased ancestors as a ball or lump of meat, or rice, mixed up with milk, curds, flowers, &c. and offered to the manes at the several Shra4dd'has. by the nearest surviving relations. m. (-ण्डः)
1. A ball, a globe.
2. A mouthful, or roundish lump of food, considered as equivalent to a mouthful.
3. Presenting water or cake to a deceased relation.
4. The body.
5. The side immediately below the armpit.
6. A part of a house; a sort of portico or shed, in front of the door.
7. Coarse, gross, thick, solid.
8. Strength, power.
9. Myrrh.
10. Franki- [Page450-a+ 60] ncense.
11. The China rose.
12. Food.
13. Flesh, meat.
14. The projection of an elephant's frontal sinus.
15. The embryo or fetus in an early stage of gestation.
16. A sum, (in arith- metic.)
17. Thickness, (In geometry.)
18. (In astronomy,) The twenty-fourth part of the quadrant of a circle, or 30-45’. n. (-ण्डं)
1. Livelihood, means, means of living.
2. Iron.
3. Fresh butter.
4. Power, strength.
5. An army. f. (-ण्डी)
1. A long gourd, (Cucurbita lagenaria.)
2. A sort of palm, (Phœnix dactyli- fera.)
3. A flowering shrub, (Tabernæmontana coronaria flor. plen.)
4. Performance of certain gesticulations, accompanying the silent repetition of prayers, &c. in meditation on real or divine knowledge.
5. The nave of a wheel.
6. A house.
7. Solid, compact, close.
8. The calf of the leg.
9. A round mass. E. पिडि to heap, to gather, to collect, &c. aff. अच् fem. aff. ङीप् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्ड [piṇḍa], a. (-ण्डी f.) [पिण्ड्-अच्]

Solid (घन).

Compact, dense, close.

ण्डः, ण्डम् A round mass, ball, globe; as in अयःपिण्डः, नेत्रपिण्डः &c.

A lump, clod (of earth &c.).

A round lump of food, morsel, mouthful; स न्यस्तशस्त्रो हरये स्वदेहमुपानयत् पिण्डमिवामिषस्य R. 2.59.

A ball or lump of rice offered to the Manes at obsequial ceremonies or Śrāddhas; नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः । R.1.66; 8.26; Ms.3.216;9.132,136,14; Y.1.159.

Food in general; सफलीकृतभर्तृपिण्डः M.5. 'who was true to his master's salt'.

Livelihood, sustenance, subsistence; पिण्डार्थमायस्यतः Mu.3.14.

Alms; पिण्डपातवेला Māl.2.

Flesh, meat.

The fœtus or embryo in an early stage of gestation.

The body, corporeal frame; एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु R.2.57.

A heap, collection, multitude.

The calf of the leg; Māl.5.16.

A round button.

Anything round, thick, gross or solid.

An object in general.

A particular part of a house.

(In astr.) A sine expressed in numbers.

The twenty-fourth part of the quadrant of a circle.

The frontal sinus of an elephant or its projection.

A portico or shed in front of the door.

Incense, frank-incense.

(In arith.) Sum, total, amount.

(In geom.) Thickness.

The flower of a China rose.

ण्डम् Power, strength, might.

Iron.

Fresh butter.

An army.

Water; L. D. B. -Comp -अक्षर a. containing a conjunct consonant. -अन्वाहार्यa. to be eaten after the funeral rice-ball has been offered to the manes; पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् Ms.3.122. -अन्वाहार्यकम् a meal in honour of the manes. -अभ्रम् hail. -अयसम् steel. -अलक्तकः a red dye. -अशनः, -आशः, -आशकः, -आशिन् m. a beggar.-उदकक्रिया an oblation of obsequial rice-balls and water to the deceased. -उद्धरणम् participating in funeral offerings. -गोसः gum myrrh. -तैलम्, -तैलकः incense. -द a.

one who gives food, one who supplies with bread or with any other means of subsistence; श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते Bh.2.31.

one who is qualified to give the funeral rice-balls to deceased ancestors; Y.2.132.

(दः) the nearest male relation who offers the funeral rice-ball.

a master, patron. -दा a mother

दानम् presentation of the obsequial rice-balls.

the funeral oblation made to deceased ancestors on the day of new-moon. -निर्वपणम् presenting obsequial riceballs to the manes; अनयैवावृता कार्यं पिण्डनिर्वपणं सुतैः Ms.3. 248,261. -निवृत्तिः cessation of relationship (by श्राद्ध oblation). -पदम् a particular अङ्कभेद in Astronomy; Śabda Chi. -पातः giving alms; Māl.1. -पातिकः one who lives on alms. -पादः, -पाद्यः an elephant. -पितृयज्ञः the oblation to deceased ancestors on the evening of new moon.

पुष्पः the Aśoka tree.

the China rose.

the pomegranate.

(पुष्पम्) the blossom of the Asoka tree.

the flower of Chinarose.

a lotus.-भाज् a. receiving or entitled to a share in the funeral rice-ball. -m. (pl.) the deceased ancestors or manes; अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः Ś.6. -भृतिः f. livelihood, means of subsistence. -मूलम्, -मूलकम् a carrot.-यज्ञः the presentation of the obsequial rice-balls to the deceased ancestors; पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् Y.3.16. -लेपः fragments of the obsequial rice-balls which cling to the hand; (these are presented to the three ancestors immediately preceding the great-grand father).

लोपः interruption in offering the funeral rice-balls (as the failure of issue).

neglect in offering the funeral rice-balls (to the deceased ancestors). -विषमः one of the ways of embezzlement namely inconsistency in dealing with fixed items; Kau. A.2. 8.26. -शर्करा sugar prepared from Yavanāla. -संबन्धः relationship between a living person and one deceased such as is sufficiently near to qualify the former to offer the obsequial rice-ball to the latter. -स्वेदः a hot poultice.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्ड m. (rarely n. )any round or roundish mass or heap , a ball , globe , knob , button , clod , lump , piece(See. अयः-. , मांस-etc. ) RV. (only i , 162 , 19 and here applied to lumps of flesh) TS. S3Br. etc.

पिण्ड m. a roundish lump of food , a bite , morsel , mouthful

पिण्ड m. ( esp. ) a ball of rice or flour etc. offered to the पितृs or deceased ancestors , a श्राद्धoblation( RTL. 293 ; 298-310 ) Gr2S3rS. Mn. MBh. etc.

पिण्ड m. food , daily bread , livelihood , subsistence MBh. Ka1v. etc.

पिण्ड m. any solid mass or material object , the body , bodily frame Ragh. S3am2k. Vajracch.

पिण्ड m. the calf of the leg Ma1lati1m. v , 16

पिण्ड m. the flower of a China rose L.

पिण्ड m. a portico or partic. part of a house L.

पिण्ड m. power , force , an army L.

पिण्ड m. ( du. )the fleshy parts of the shoulder situated above the collar-bone MBh.

पिण्ड m. ( du. )the two projections of an elephant's frontal sinus L.

पिण्ड m. the embryo in an early stage of gestation L.

पिण्ड m. a partic. kind of incense Var. (" myrrh " or " olibanum " L. )

पिण्ड m. meat , flesh L.

पिण्ड m. alms Ma1lati1m. (See. -पातbelow)

पिण्ड m. Vangueriya Spinosa L.

पिण्ड m. quantity , collection L.

पिण्ड m. (in arithm. ) sum , total amount

पिण्ड m. (in astron. ) a sine expressed in numbers

पिण्ड m. (in music) a sound , tone

पिण्ड m. N. of a man g. नडा-दि

पिण्ड n. ( L. )iron

पिण्ड n. steel

पिण्ड n. fresh butter

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piṇḍa, denoting specifically a ball of flour offered to the Manes, especially on the evening of new moon, occurs in the Nirukta,[१] and repeatedly in the Sūtras.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिण्ड पु.
रुक्म नाम के स्वर्णाभरण का मनके सदृश उभरा या उकेरा हुआ भाग, का.श्रौ.सू. 16.5.1, धूलि अथवा मिट्टी का ढेला, का.श्रौ.सू. 16.2.11 (अगिन्षु ज्वलत्सु पिण्डं गच्छन्त्यगिन्ं पुरीष्यमिति) (चयन)।

  1. iii. 4.
  2. Lāṭyāyana Śrauta Sūtra, ii. 10, 4, etc.
"https://sa.wiktionary.org/w/index.php?title=पिण्ड&oldid=500933" इत्यस्माद् प्रतिप्राप्तम्