भोगः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-पुल्लिङ्गम्[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगः, पुं, (भुज्यतेऽसौ इति । भुज + घञ् ।) सुखम् । स्त्र्यादिभृतिः । पण्यस्त्रीणां भृति- र्भाडिः । आदिना हस्त्यश्वादिकर्म्मकराणाञ्च भृतिः । सर्पस्य फटा । सर्पशरीरम् । इत्यमर- भरतौ । ३ । ३ । २३ ॥ (यथा, रघौ । ११ । ५९ । “लक्ष्यते स्म तदनन्तरं रविः बद्धभीमपरिवेशमण्डलः । वैनतेयशमितस्य भोगिनः भोगवेष्टित इव च्युतो मणिः ॥”) धनम् । (यथा, ऋग्वेदे । ३ । ३४ । ९ । “हिरण्ययमुतभोगं ससान हत्वी दस्यून् प्रार्य्यं वर्णमावत् ॥” “हिरण्ययं सुवर्णमयं भोगं धनम् ॥” इति तद्भाष्ये सायनः ॥) गृहम् । (यथामुस्मिन्नेव मन्त्रे । “भोगशब्दव्याख्याने भुज्यतेऽस्मिन्निति भोगो गृहं वा ससान अर्थिभ्यो ददौ ।” इति सायनः ॥) पालनम् । अभ्यवहारः । इति मेदिनी । गे, १६ ॥ सर्पः । देहः । मानम् । इति शब्दरत्नावली ॥ * ॥ पुण्यपापजननयोग्य- कालः । यथा, -- “अतीतानामतो भोगो नाड्यः पञ्चदश स्मृतः ॥” इति तिथ्यादितत्त्वे संक्रान्तिप्रकरणम् ॥ (पुरम् । यथा, ऋग्वेदे । ५ । २९ । ६ । “नव यदस्य नवतिञ्च भोगान् साकं वज्रेण मघवा विवृश्वत् ।” भोगान् पुराणि । इति तद्भाष्ये सायनः ।) भूम्यादीनां भोगो यथा । त्रिपुरुषभोगमाह व्यासः । “प्रपितामहेन यद्भुक्तं तत्पुत्त्रेण विना च तत् । तौ विना यस्य पित्रा च तस्य भागस्त्रिपौरुषः ॥ पिता पितामहो यस्य जीवेच्च प्रपतामहः । त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपूरुषः ॥ नारदः । तथारूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्त्रेण सोऽर्थः संशोध्यो न तं भोगो निवर्त्तयेत् ॥” इति व्यवहारतत्त्वम् ॥ विभवभेदः । यथा, -- “कर्त्ता च देही भोक्ता च आत्मा भोजयिता सदा । भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ (व्यूहभेदः । यथा, कामन्दकीयनीतिसारे । १९ । अध्याये । ४१ । ४८ । ५४ । श्लोकेषु ॥ “यदि स्याद्दण्डबाक्षुल्यं तदा चापः प्रकीर्त्तितः । मण्डलोऽसंहतो भोगो दण्डश्चेति मनीषिभिः ॥ गोमूत्रिका हि सञ्चारी शकटो मकरस्तथा । भोगभेदाः समाख्यातास्तथा परिपतन्तकः ॥ असंहतास्तु षड्व्यूहा भोगव्यूहाश्च पञ्चधा ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगः [bhōgḥ], [भुज्-घञ्]

Eating, consuming.

Enjoyment, fruition.

Possession.

Utility, advantage.

Ruling, governing, government.

Use, application (as of a deposit).

Suffering, enduring, experiencing.

Feeling, perception.

Enjoyment of women, sexual enjoyment, carnal pleasure.

An enjoyment, an object of enjoyment or pleasure; भोगे रोगभयम् Bh.3.35; भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः Bh.3.54; भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च Brav. P.; Bg.1.32.

A repast, feast, banquet.

Food.

Food offered to an idol.

Profit, gain.

Income, revenue.

Wealth; भोगान् भोगानिवाहेयानध्यास्यापन्न दुर्लभा Ki.11.23.

The wages of prostitutes.

A curve, coil, winding.

The (expanded) hood of a snake; श्वसदसितभुजङ्गभोगाङ्गदग्रन्थि &c. Māl.5.23; R.1.7;11.59.

A snake.

The body.

An army in column.

The passing (of an asterism).

The part of the ecliptic occupied by each of the 27 Nakṣatras.-Comp. -अर्ह a. fit to be enjoyed. (-र्हम्) property, wealth. -अर्ह्यम् corn, grain. -आधिः a pledge which may be used until redeemed. -आवली the panegyric of a professional encomiast; नग्नः स्तुतिव्रतस्तस्य ग्रन्थो भोगावली भवेत्; Abh. Ch.795; भोगावलीः कलगिरो$वसरेषु पेठुः Śi.5.67. -आवासः the apartments of women, harem. -करः a. affording enjoyment or pleasure.-गुच्छम् wages paid to prostitutes. -गृहम् the women's apartments, harem, zenana.

तृष्णा desire of worldly enjoyments; तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया R.8.2; selfish enjoyment; Māl.2. -देहः 'the body of suffering', the subtle body which a dead person is supposed to carry with him, and with which he experiences happiness or misery according to his good or bad actions. -धरः a serpent. -नाथः a nourisher, supporter. -पतिः the governor or ruler of a district or province. -पत्रम् an Inām deed; Śukra. 2.295. -पालः a groom. -पिशाचिका hunger. -भुज् a. enjoying pleasures. -m a wealthy man. -भूमिः f. 'the land of enjoyment', heaven, paradise (where persons are said to enjoy the fruit of their actions). -भृतकः a servant who works only for livelihood.

लाभः acquisition of enjoyment or profit.

well-being, welfare.-वस्तु n. an object of enjoyment. -सद्मन् n. = भोगावास q. v.

स्थानम् the body, as the seat of enjoyment.

women's apartments.

"https://sa.wiktionary.org/w/index.php?title=भोगः&oldid=506877" इत्यस्माद् प्रतिप्राप्तम्